श्रीनारायण उवाच
इत्येवं प्रत्यहं लक्ष्मि! हाटकाङ्गदभूपतिः ॥
कथाः श्वेतव्यासमुखाच्छृणोति श्रोतृभिः सह ॥ १ ॥
ऋषेर्बालकृताच्छापात्प्रेरितः कुहकः फणी ।
समागच्छति दंशार्थं पश्चिमाशाविभागतः ॥ २ ॥
विप्ररूपं स वै धृत्वा व्रतदाख्यसरित्तटे।
विश्रान्तो वटच्छायायां यावत्तिष्ठति सर्पराट् ॥३ ॥
तदा तत्र समायातो वैद्यवेषाऽपरो द्विजः ॥
सोऽयं धन्वन्तरिर्वैद्यो विषनाशकमौषधम् ॥४॥
आदाय गच्छति यत्र त्वस्याः पारायणं वृतम् ॥
राज्ञो विषं हरिष्येऽहं लप्स्ये स्वर्णमयं बहु ॥५ ॥
पारितोषिकमित्येवं कृत्वा तं हाटकाङ्गदम् ॥
रक्षितुं याति सोऽप्यत्र महावटतरोरधः ॥ ६॥
छायां सुशीतलां प्राप्य (व्रतदा) कन्कलासलिलं शुभम् ॥
पातुं विश्रमितुं तत्र निषसाद वटस्थले ॥ ७ ॥
कुहकेन परिपृष्ठः प्राह धन्वन्तरिस्तदा ।
हाटकाङ्गदराजर्षेर्विप्रशापकृताद्भयात् II ८ II
कुहकदंशजन्याद्व गरलात्मकविघ्नतः ।
तं गच्छामि मोचयितुं पारितोषिकवाञ्च्छया ॥९ ॥
कुहकेन तु तच्छ्रुत्वा कथितं शृणु भो द्विज ॥
कुहकस्य गरं तीव्रं कथं त्वं वारयिष्यसि ॥1.60.१०॥
कुर्वत्रैव वटे तस्य परीक्षां याहि भो ततः ॥
दशाम्येनं वट त्वं तं कुरु पल्लवितं पुनः ॥११॥
उक्त्वैवमदशद्वृक्षं न्यग्रोधं यावदेव हि ॥
तावदामूलतो वृक्षः शुष्कोऽभूद् विषयोगतः ॥१२॥
धन्वन्तरिस्तदा नद्या जलमादाय चौषधम् ॥
आप्लाव्य तस्य मूले तु यावत्करोति सेचनम् ॥१३॥
तावद्वटोऽप्यङ्कुरितः पत्ररसभरो यथा ।
पूर्वमासीत्तथैव द्राग्जातो हरित इत्यपि ॥१४॥
आश्चर्यमिदमालोक्य कुहकः प्राह तं द्विजम् ।
मा याहि भो द्विजश्रेष्ठ कस्त्वं मां सन्निवेदय ॥१५॥
द्रव्यं स्वर्णं परार्धं ते ददामि तत्र याहि मा ।
द्विजो धन्वन्तरिः प्राह नारायणांशजोऽस्म्यहम् ॥१६॥
हाटकाङ्गदभक्तं मे रक्षितुं यामि मानद ।
कुहकः प्राह ते दिष्ट्या ब्रह्मशापो बभूव ह ॥१७॥
भवानेव कथं तद्वै व्यलीकं कर्तुमिच्छति ।
आयुषस्तस्य सान्तत्वात्सुकृतस्य क्षयादपि ॥१८॥
तव सङ्केतकार्यत्वान्नाशं यातु धरापतिः ॥
गृहाणेदं परार्धं वै स्वर्णमणिमयं धनम् ॥१९॥
परागच्छ महाराज याम्यहं दंशनाय तम् ।
कुहकस्त्वेवमाभाष्य मणिं स्वमूर्ध्न आददौ ॥1.60.२०॥
यस्मात्स्वर्णमनन्तं वै स्पर्शाद्भवति लोहतः ।
धन्वन्तरिर्धनं नीत्वा गतः स्वस्य निकेतनम् ॥२१॥
कुहकस्तु भावियोगात्कथास्थानमगाद् द्रुतम् ॥
वटोऽमृतौषधिप्राप्तेस्तूर्णं त्वमरतां गतः ॥२२॥
श्वेतहरितपर्णाढ्यो यावत्कल्पं भविष्यति ।
धन्वन्तरिवटख्यातिं लोके वै स गमिष्यति ॥२३॥
रैवतात्पर्वतान्नैर्ऋत्यायां दिशि वटोऽल्पकः ।
योजनत्रितयं दूरे वर्तते सूचयन् स्थितिम् ॥२४॥
महालयक्षितेः पश्चाद् दूरं गव्यूतिरस्ति सः ॥
तीर्थं विषहरं तद्वै स्नानमात्रात्प्रशस्यते ॥२५॥
वटस्पर्शनमात्राच्च विषं नश्यति देहिनाम् ।
मन्त्रो विषहरश्चायं धन्वन्तरिसमीरितः ॥२६॥
‘विषाऽपसर्प भद्रं ते गच्छ विष इतो द्रुतम् ।
हाटकाङ्गदरक्षार्थं धन्वन्तरिबलं स्मर’ ॥२७॥
इति मन्त्रं समुच्चार्याऽवतारयति यो विषम् ॥
द्रागेव प्रलयं याति विषमुल्बणमुल्बणम् ॥२८॥
अथ सः कुहको विप्ररूपधृक् सदसि द्रुतम् ॥
प्रच्छन्नश्च समागम्य कथां शृणोति नित्यशः ॥२९॥
प्राप्ते त्रिंशत्तमे त्वह्नि पूर्वं सायाह्न एव तु ॥
पारायणसमाप्तौ वै व्यासपूजोत्तरं तदा ॥1.60.३०॥
हाटकाङ्गदभूपालं यजमानं यदा गुरुः ॥
व्यासो जगाम सहाशीर्वाददानाय तावता ॥३१॥
रूपान्तरं शलाकेव सूक्ष्मं कृत्वा तु सर्पराट् ॥
हारपुष्पेषु वै लीनः पुष्पवर्ण इवाऽकळः ॥३२॥
हारेण सह नृपतेः कण्ठे तिष्ठति वाञ्छया ।
यावद् राजापि वदति व्यासदेव नमोऽस्तु ते ॥३३॥
तव प्रसादाद् विघ्नो मे गत एवेति लक्षये ।
तावत्स कुहकः कण्ठे सूक्ष्मं दंशं चकार वै ॥३४॥
विषं स्वमुल्बणं तीव्रं दंष्ट्रयाऽसिञ्चदण्वपि ।
राज्ञस्तद्ब्रह्मरन्ध्रे वै गतं नाड्या तु सत्वरम् ॥३५॥
अव्याप्नोत्तावदानखशिखं हाहाध्वनिस्तदा ।
समभूच्च सदस्यानां शोकोद्विग्नधियां महान् ॥३६॥
राजा तु कृष्णसंलग्नमानसात्मेव योगिराट् ।
दिव्यविग्रहवान् भूत्वा ययौ ब्रह्मपुरं परम् ॥३७॥
कुहुकस्तु स्वकं रूपं दर्शयित्वा निगूह्य च ।
सत्वरं परिदुद्राव जगाम निजमालयम् ॥३८॥
अथ राज्ञः सुपुत्रेण स्वर्णाङ्गदेन यज्ञराट् ।
सर्पयज्ञः कृतो यत्र सर्पाणामनले हवः ॥३९॥
स्वपितुः प्रतिकाराय कृतो रोषनिवृत्तये ।
सर्पाणां तु विनाशाय सर्पमन्त्रविदस्तदा ॥1.60.४०॥
समाहूय द्विजाँस्तूर्णं सर्पसत्रं समाचरत् ॥
अग्निं प्राज्वाल्य नामानि सर्पाणां परिहृत्य च ॥४१॥
जुहाव सुबहून् सर्पान् पेतुश्चाग्नौ च सङ्घशः ।
कुहकस्तु तदा चेन्द्रशरणं गतवान् किल ॥४॥
प्राह रक्ष सुराधिप मृतेरस्याः दयां कुरु ।
श्रुत्वेति च तदा हीन्द्रो राजा त्रिलोकिरक्षकः ॥४३॥
सर्पं ररक्ष पार्श्वे स्वे न वै पतति सर्पराट् ।
ध्यानेन तु तदा विप्रैर्ज्ञात इन्द्रसुरक्षितः ॥४४
तदा वै ब्राह्मणास्तत्र मन्त्रानुच्चार्य वेगतः ॥
सुपर्णद्विजमुख्यास्ते प्रसह्याहूय भोगिनः ॥४५॥
जुहुवुश्चानले मुख्यान् गौणाँश्चापि समन्ततः ॥
सेन्द्रं च कुहकं मन्त्रमुच्चार्याऽप्यजुहोद् यथा ॥४६॥
‘ओमग्नये स्वाहा कुहकं सेन्द्रं जुहोमि’ मन्त्रम् ।
यावदुच्चार्य सर्षपान् जुहोत्यग्नौ तदा स्वयम् ॥४७॥
इन्द्रः कुहकयुक्तो वै स्वासनात्पतितो भुवि ॥
अग्नौ ससर्पः पतितः प्रजज्ज्वालाऽऽकटि द्रुतम् ॥४८॥
ब्रह्मणा स निरुद्धो वै मैवं देवेऽतिगं कुरु ॥
तदा द्विजः सुपर्णस्तु द्विजाश्चान्ये महाबलाः ॥४९॥
पितामहवचः श्रुत्वा निवृत्ताः कर्मणस्ततः ॥
इन्द्रं धन्वन्तरिरेत्य त्वौषधेनाऽचिकित्सयत् ॥1.60.५०॥
नीरुजं तु चकारैनं जगाम स्वनिकेतनम् ॥
कुहकस्त्वर्धदग्धो वै शेषेणाऽऽगत्य मोचितः ॥५१॥
जीवितः प्राणसन्धिन्या समौषध्या ततः खलु ।
सर्पाः कुहकजातीयाः पृष्ठे देशे समन्ततः ॥५२॥
कृष्णपीतसुधूम्रादिविचित्रचन्द्रकाः सदा ।
दग्धत्वचां दर्शनानि भवन्ति त्वग्निपाशतः ॥५३॥
इत्येवं प्रथमद्वापरस्य जातं कथानकम् ॥
तदानीमिन्द्रदेवस्य त्रासोऽभून्मरणस्य वै ॥५४॥
तद्वत् त्रासो भवत्येव प्राणिनां घातकर्मणि ॥
तस्माद् घातो न कर्तव्यः केनचित्तु दयालुना ॥५५॥
इत्येवं तु कथा दिव्या प्रोक्ता कल्पादिकालजा ।
भक्त्यहिंसादिधर्माढ्या परश्रेयस्करी शुभा ॥५६॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने व्रतदाननदीतटीयवटच्छायायां कुहकधन्वन्तरिबलपरीक्षण- सर्पदंशजहारकाङ्गदनिधन-सर्पसत्राग्निमध्यसेन्द्रकुहकहोमसुपर्णद्विजादिकृतहवनग्रस्तेन्द्रकुहका दिकरुणाकृद्ब्रह्मशेषादिवचनद्वारकरक्षणादिनिरूपणनामा षष्टितमोऽध्यायः ॥६० ॥