श्रीनारायण उवाच
वृत्रः प्राह प्रभग्नाँस्तान्पलायतो विहस्य वै ॥
हे विप्रचित्ते नमुचे पुलोमन् शम्बरादयः ॥ १॥
ध्रुवो जन्मजुषां मृत्युः शूराणामपि देहिनाम् ॥
आगतस्य स्वभावस्य प्रतीकारो न विद्यते ॥२ ॥
शूराणां रणमध्ये वै शत्रूणां प्रतिवक्षसि ॥
कथं मृत्युर्न वै पूज्यो यशसे श्रेयसे तथा ॥३ ॥
मोक्षदौ तु मतौ मृत्यू द्वावेव नियतौ यथा ।
योगिनां योगरन्ध्रेण शूराणां शस्त्ररन्ध्रतः ॥४ ॥
इत्येवं बोध्यमानाऽपि वृत्रसेना पलायिता ॥
नाऽगृह्णात् तद्धर्मवचः प्राणापत्त्रस्तमानसा ॥ ५ ॥
तदा क्रुद्धः पुनर्वृत्रो व्याजहार सभर्त्सनम् ॥
किं मातृहन्तृभिः क्षुद्रैर्नामधामविनाशिभिः ॥ ६ ॥
पृष्ठमृत्युसमासद्भिर्मातृदुग्धविडम्बिभिः
न वै पलायने कीर्तिर्न लोको न परागतिः ॥ ७ ॥
नाऽयं द्रवद्रणः श्लाघ्यः क्षुल्लकानामिवाऽऽर्तिदः ॥
स्वस्था भवन्तु सम्मुखा जयं यान्तु ममाग्रतः ॥८॥
इति श्रुत्वा बलं प्राप्ताः परावृत्य तदा च ते ॥
भीषयन्तः सुरान् शस्त्रैरर्दयामासुरुल्बणाः ॥ ९ ॥
वृत्रस्त्विन्द्रेभकुम्भे वै गदां चिक्षेप धातवीम् ॥
गजः प्रहारघातेन सप्तधनुरपासरत् ॥1.49.१०॥
इन्द्रो जग्राह वज्रं तद् दैत्यभ्रातृहणं यदा ।
वृत्रः प्राह परं क्रुद्धो दिष्ट्या मे समवस्थितः ॥११॥
ब्रह्महा गुरुहा मे च भ्रातृहा शिष्यहा तथा ।
दिष्ट्याऽनृणो भवाम्येष शूलेन सादितो मया ॥१२॥
श्रोत्रीयं च गुरुं बालं विश्वस्तं दीक्षितं द्विजम् ॥
खड्गेन हत्वा ते नूनं का गतिः सम्भविष्यति ॥१३॥
ह्रीश्रीदयादिहीनं त्वां ग्रध्राः खादन्तु भूतले ।
मम शूलेन निर्भिन्नमस्पृष्टवह्निकं शवम् ॥१४॥
यदि वज्रेण नष्टोऽहं गतिं यास्यामि शूरगाम् ॥
यदि शूलेन नष्टस्त्वं पदमैन्द्रं मम ध्रुवम् ॥१५॥
अथवा किन्नु राज्येन निरयेण मतेन वै ।
रागद्वेषौ न मे स्यातां श्रीहरिर्मे प्रसीदतु ॥१६॥
दासानुदासो भविता तव वज्रेण नाशितः ।
संसारपाशदुःखाब्धेर्मोचितः स्यामहं त्वया ॥१७॥
सेविष्ये भगवत्पादं करिष्ये भक्तसेवनम् ॥
किमनेन विनश्वरकायलोकपदादिना ॥१८॥
मा भूयान्मम चित्तस्य सङ्गो गेहात्मजादिषु ॥
सर्वदा मम सम्भूयाद् वासस्तच्चरणादिषु ॥१९॥
इत्येवं कत्थमानाय वृत्राय प्राहिणोद् गदाम् ॥
गुर्वीं पर्वतसङ्काशामिन्द्रो वज्रधरस्तदा ॥1.49.२०॥
लीलयेव गदां तां तु वृत्रो जग्राह पाणिना ।
तावदिन्द्रः स्वकं वज्रं प्राहिणोद् वृत्रशान्तये ॥२१॥
तं च लोहमयं वज्रमग्रसन्मुखगर्तया ।
वृत्रोऽथेन्द्रविनाशाय त्रिशूलं समवासृजत् ॥२२॥
जगादाऽद्य हतोऽस्यत्र पाप याहि यमालयम् ।
इन्द्रः शताऽरवज्रेणाऽच्छिनत् क्षणात् त्रिशूलकम् ॥२३॥
यावद्वृत्रो द्वितीयं तु शूलं जग्राह पाणिना ।
तावदिन्द्रोऽन्यवज्रेणाऽच्छिनत्सभुजशूलकम् ॥२४॥
एकेन हस्तेन तदा च वृत्रो वेगेन जग्राह च शूलमन्यत् ॥
चिक्षेप चेन्द्राय पुनस्तदानीं सङ्गृह्य चान्यं परिघं तमाह ॥२५॥
मृतोऽसीन्द्र गतोऽसीन्द्र पूर्वजानां गमिस्थले ।
कृत्वा तु गर्जनां घोरां तताडेन्द्रं हनौ प्रघम् ॥२६॥
हस्तात्तु न्यपतद्वज्रं मघवाऽपि भ्रमिं गतः ॥
देवाः सिद्धाश्च शूराश्च हा हेति चुक्रुशुर्भृशम् ॥२७॥
वृत्रश्चेन्द्रं तदा प्राह वज्रं गृहाण पाणिना ।
रणभूमौ गतानां तु का ह्रीर्बलतुलाऽऽपणे ॥२८॥
आयुः श्रीः कीर्तिरैश्वर्यं गृहदारासुसम्पदः
नैव सन्तीति कृत्वैव विहरस्व रणाङ्गणे । २९॥
सुखं दुःखं मृत्युजीवी मानामाने जयाजयौ ।
सर्वं मायामयं ज्ञात्वा विहरस्व रणाङ्गणे ॥1.49.३०॥
रणासनश्च शस्त्राक्षः प्राणग्लहोऽयमुच्यते ।
अकस्माद्विजयः कस्य याते प्राणे प्रपत्स्यते ॥३१॥
श्रुत्वेदन्तु भागवतं वचनं वृत्रनोदितम् ।
तुतोष परमं तस्मै वज्रमादाय पाणिना ॥३२॥
चिक्षेप यावद् वृत्राय तावत् स दैत्यराट् द्रुतम् ॥
कृत्वाऽधरां हनुं भूमौ वृत्रो दिव्युत्तरां हनुम् ॥३३॥
शीघ्रं सवज्रमिन्द्रन्तु वृत्रो जग्रास तत्क्षणम् ।
हाहाकारो महानासीच्चुक्रुशुश्च महर्षयः ॥३४॥
तावदिन्द्रः स्ववज्रेणोदरं तद्वज्रकर्तितम् ।
भित्त्वा कुक्षिं विनिष्क्रम्य ह्युच्चकर्त शिरस्ततः ॥३५॥
पपात भूमौ यावद्वै वृत्रच्छिन्नमहातनुः ॥
नेदुर्दुन्दुभयो देवमार्गे हृष्टा महर्षयः ॥३६॥
जगुर्गन्धर्वसिद्धाश्चाऽप्सरसो ननृतुर्मुदा ।
पुष्पवृष्टिस्तदा देवैः कृता विजयगीतिका ॥३७॥
वृत्रात्मा पश्यतां तत्र लीनो महसि ब्रह्मणः ।
हते वृत्रे तदा लोका विज्वरा ह्यभवन्नथ ॥३८॥
प्रतिजग्मुः स्वधिष्ण्यानि देवा ब्रह्मादयः पुनः ॥
वृत्रघातसमुत्पन्नहत्ययेन्द्रस्तु दुःखितः ॥३९॥
न च शर्म मनाक् लेभे हत्यां नाशयितुं ततः ।
महर्षीन् प्रार्थयामास हत्यां क्व मार्जयाम्यहम् ॥1.49.४०॥
प्राहुस्तु ऋषयस्तं वै हयमेधेन याजय ॥
इष्ट्वा नारायणं देवं मोक्ष्यसे पापराशितः ॥४१॥
ब्रह्महा पितृहा गोहा मातृहा गुरुहा तथा ।
शुद्ध्यति यजनाद् यस्य नामकीर्तनसेवनात् ॥४२॥
एवं प्रेरित इन्द्रस्तु ब्रह्महत्यापराद्रुतः ।
उदीचिं दिशमाश्रित्य मानसाख्ये सरोवरे ॥४३॥
वर्षमेकं महानाले ह्युवास तापपीडितः ।
चाण्डाली घोरकृष्णा सा रक्तवस्त्राऽऽन्त्रचर्विणी ॥४४॥
दुर्गन्धा परितस्तत्र सरसोऽप्यन्ववर्तत ॥
ऋषयस्तं समाहूय हयमेधेन सर्वशः ॥४५॥
यथावद् दीक्षयाञ्चक्रुः पुरुषाराधनेन च ।
पूर्णेऽश्वमेधे सञ्जाते हत्यानाशं गता तथा ॥४६॥
इन्द्रो विधूतपापः सन् स्वर्गराज्यमगात्पुनः ॥
कथेयं लक्ष्मि! दिव्याऽस्ति सूक्ष्मरूपेण मत्कृता ॥४७॥
स्थूलाख्यानेन ते देवि! दर्शिता सुखसंश्रवा ।
सूर्यादिग्रहगतिदा शक्तिरिन्द्रः समुच्यते ॥४८॥
जलप्रकाशरोधाऽऽढ्या शक्तिर्वृत्रः समुच्यते ॥
जलप्रकाशसामर्थ्याद् ग्रहाः सुगतिकाः सदा ॥४९॥
वृत्रोऽन्धकाररूपः स गतिरोधं करोति वै ॥
तन्नाशाय महानिन्द्रो युद्धं करोति नित्यशः ॥1.49.५०॥
विशेषेण तु शरदि हीन्द्रो हन्त्यसुरं तदा ।
इति ते सर्वमाख्यातं हत्याफलमनिष्टदम् ॥५१॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वृत्रनाशोत्तरब्रह्महत्याविनाशकहयमेधकरणादि निरूपणनामैकोनपञ्चाशत्तमोऽध्यायः ॥४९॥