श्रीनारायण उवाच –
मया सृष्टेः सभारम्भे दिवसे प्रथमे प्रिये! ।
सृष्टिस्तु मानसी प्रोक्ता सत्ययुगमयी हि सा ॥१ ॥
स्थानाभिमानिनश्चैव स्थानानि च पृथक पृथक् ।
स्थानात्मनः स सृष्ट्वा वै युगावस्थां विनिर्ममे ॥ २ ॥
कृतं त्रेतां द्वापरं च कलिं चैव तथा युगम् ॥
कल्पस्यादौ सत्ययुगेऽसृजत्स मानसीं प्रजाम् ॥ ३ ॥
चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ।
सन्ध्यांशौ तस्य दिव्यानि शतान्यष्टौ च सङ्ख्यया ॥४॥
अब्दानां त्रिसहस्राणि तथा त्रेतायुगं मतम् ।
सन्ध्यांशौ तस्य दिव्यानि षट्शतानि तु सङ्ख्यया ॥५॥
वर्षाणां द्विसहस्राणि युगं द्वापरमुच्यते ॥
सन्ध्यांशौ तस्य दिव्यानि चतुःशतानि सङ्ख्यया ॥६ ॥
वर्षाणामेकसाहस्रं युगं कलिमथोच्यते ।
सन्ध्यांशौ तस्य दिव्यानि द्विशतानि तु सङ्ख्यया ॥७ ॥
द्वादशाब्दसहस्राणि चतुर्युगं व्यधादजः ।
तत्र कृतयुगे लक्ष्मि! प्रजा मानससिद्धयः ॥८॥
धर्माऽधर्मौ न तास्वास्तां निर्विशेषाः प्रजास्तु ताः ।
तुल्यमायुः सुखं रूपं तासां तस्मिन्कृते युगे ॥ ९ ॥
सरित्सरःसमुद्राँश्च सेवन्ते पर्वतानपि ।
तदानात्यम्बुशीतोष्णा युगे तस्मिंश्चरन्ति वै ॥1.47.१०॥
मनःसिद्ध्युद्भवं मिष्टमाहारमाहरन्ति ताः ॥
सर्वशः कामचारिण्यो मानसीं सिद्धिमास्थिताः ॥११॥
न तासां प्रतिघातोऽस्ति न द्वन्द्वं नापि च क्रमः ॥
विशोकाः सत्वबहुला एकान्तसुखिताः सदा ॥१२॥
पशवः पक्षिणश्चैव नित्यं मुदितमानसाः ॥
सर्वकामसुखः कालो मनोऽभिलषितप्रदः ॥१३॥
उत्तिष्ठन्ति पृथिव्यां वै ताभिर्ध्याता रसादयः ॥
बलरूपप्रदास्तासां सिद्धिः सा रोगनाशिनी ॥१४॥
दृढपुष्टशरीरास्ताः प्रजाः सुस्थिरयौवनाः ॥
तदा सत्यमलोभश्च क्षमा तुष्टिः सुखं दमः ॥१५॥
निर्विशेषास्तु ताः सर्वा रूपाऽऽयुःशीलचेष्टितैः ।
सत्याधारो व्यवहारः प्रजानां जायते स्वयम् ॥१६॥
अप्रवृत्तिः प्रजानां तु कर्मणोः शुभपापयोः ।
वर्णाश्रमव्यवस्थाश्च न तदाऽऽसन् न सङ्करः ॥१७॥
रागद्वेषविहीनास्ता वर्तयन्ति परस्परम् ।
तुल्यसिद्ध्यायुषः सर्वा अधमोत्तमवर्जिताः ॥१८॥
सुखप्राया अशोकाश्च महोत्साहा महोत्सवाः ॥
नित्यप्रहृष्टमनसो महासत्वा महाबलाः ॥१९॥
लाभाऽलाभौ न तास्वास्तां मित्रा मित्रे प्रियाऽप्रिये ॥
मनसा विषयस्तासां निरीहाणां प्रवर्तते ॥1.47.२०॥
अन्योन्यं नैव लिप्सन्ति नानुगृह्णन्ति चैव ताः ॥
अकृष्टपच्यं वै सर्वमवृष्टिसलिलं भुवि ॥२१॥
अप्रयत्नकृतं भोज्यमनायाऽऽप्तसद्रसम् ।
तत्र प्रसवदुःखं न न गर्भधारणं तथा ॥२२॥
नारीणां नाऽऽर्तवं तत्र नॄणां न वीर्यसंस्रवः ॥
सर्वाः कामदुघा गावः सर्वाः सङ्कल्पसिद्धयः ॥२३॥
चतुदर्शसु लोकेषु निर्विशेषास्तु सम्पदः ॥
गतयोऽव्याहताः सर्वा वाचः परिचितास्तथा ॥२४॥
वैमानिका अविमाना योगसिद्धितपोबलाः ।
ईश्वरा एव सर्वे ते पूर्णकामा इवेति च ॥२५॥
ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
प्रवृत्तो द्वापरे यज्ञो दानं कलियुगे वरम् ॥२६॥
सत्त्वं कृतं रजस्त्रेता रजस्तमसी द्वापरम् ॥
कलिस्तमस्तु विज्ञेयो युगवृत्तवशेन ते ॥२७॥
पादावशिष्टो भवति युगधर्मस्तु सर्वशः ॥
सत्ये युगे तु निःशेषे सिद्धिस्त्वन्तर्दधे हि सा ॥२८॥
सिद्धिरन्या युगे तस्मिंस्त्रेतायामभवत्पुनः ॥
आपां सौक्ष्म्ये विनष्टे तु तदा मेघात्मना पुनः ॥२९॥
मेघेभ्यः स्तनयित्नुभ्यः प्रवृत्तं वर्षणं सकृत् ।
सकृदेव तया वृष्ट्या प्लाविते पृथिवीतले ॥1.47.३०॥
प्रादुरासँस्तदा ह्यापः कल्पवृक्षा गृहस्थिताः ॥
सर्वप्रत्युपभोगस्तु तेभ्यस्तासां प्रजायते ॥३१॥
कल्पद्रुमैर्वर्तयन्ति त्रेतायुगमुखे प्रजाः ।
तदा राजसभावेन तासामेव विपर्ययात् ॥३२॥
रागलोभात्मको भावस्तदा ह्याकस्मिको भवत् ।
यत्तद्भवति नारीणां जीवितान्ते तदार्तवम् ॥३३॥
सत्ये मानससृष्टानां मिथुनानां सहस्रकम् ।
प्रत्येकं प्राणिनां यत्तदिदानीमार्तवं व्यधात् ॥३४॥
ततो वै हर्षमाप्तास्ते द्वन्द्वीभूतास्तु जन्तवः ।
अन्योन्यहृच्छ्रयाऽऽविष्टा मैथुनायोपचक्रमुः ॥३५॥
ततः प्रभृति त्रेतायां मिथुनोत्पत्तिरुच्यते ।
आयुषोऽन्ते ह्येकवारमार्तवं तत्र योषिताम् ॥३६॥
जायते कामभोगार्थं सुगर्भधारणाय च ।
तत्तदा न सुषुविरे सेवितैरपि मैथुनैः ॥३७॥
आयुषोऽन्ते प्रसूयन्ते मिथुनान्येव ताः सकृत् ।
समं जन्म च रूपं च म्रियन्ते चापि ताः सह ॥३८॥
तस्मिन् क्षीणे कृतांशे तु त्रेतायां कालधर्मतः ॥
क्षीयन्ते मानसीसिद्धितपःश्रुतबलाऽऽयुषः ॥३९॥
क्षीयन्ते च तदा यावत्कृतधर्माः शनैः शनैः ॥
पादन्यूनबलतत्त्वसामर्थ्यसुखवैभवाः ॥1.47.४०॥
अथेन्द्रेण हते वृत्रे ब्रह्महत्यात्मकं मलम् ॥
नारीवृक्षाऽऽबिलास्वेतच्चतुर्भागं प्रसञ्जितम् ॥४१॥
ततः प्रभृति नारीणां जीवितान्तं यदार्तवम् ।
तदेव तासां प्रवृत्तं मासे मासे तदार्तवम् ॥४२॥
ततस्तेनैव योगेन वर्ततां मिथुने तदा ।
तासां तत्कालभावित्वान्मासि मास्युपगच्छताम् ॥४३॥
अकाले ह्यार्तवोत्पत्तिर्गर्भोत्पत्तिरजायत ।
विपर्ययेण कालेन तासां विकलनेन च ॥४४॥
कल्पवृक्षाः प्रणष्टा वै सर्वे सर्वगृहस्थिताः ।
क्वचित्क्वचित् त्ववशिष्टा आश्रयागतसिद्धिदाः ॥४५॥
कल्पवृक्षेषु नष्टेषु विभ्रान्ता व्याकुलेन्द्रियाः ॥
गत्वा क्वाचित्ककल्पद्रून् अभिध्यायन्ति वस्तुकम् ॥४६॥
तदा वस्त्राणि सूयन्ते फलान्याभरणानि च ॥
तेष्वेव जायते तासां गन्धमिष्टरसादिकम् ॥४७॥
अमाक्षिकं महावीर्यं पुटके पुटके मधु ॥
एवं सर्वपरिकराः प्रवर्तन्ते प्रयत्नतः ॥४८॥
तेन ता वर्तयन्ति स्म सुखं त्रेतायुगार्धके ॥
हृष्टपुष्टास्तथा तुष्टाः कल्पवृक्षैर्गतज्वराः ॥४९॥
अथ काले गम्यमाने पुनर्लोभाऽऽवृताः प्रजाः ॥
वृक्षाँस्तान्जगृहुस्तेषां बलान्मधुफलादिकम् ॥1.47.५०॥
तासां तेनाऽपचारेण तथा कालबलेन च ।
प्रणष्टाः कल्पवृक्षास्ते प्रजास्तु निरुपाश्रयाः ॥५१॥
शीतवातातपैस्तीव्रैस्ततस्ता दुःखिता भृशम् ।
द्वन्द्वैश्च पीड्यमानास्तु चक्रुरावरणानि च ॥५२॥
कृत्वा द्वन्द्वप्रतीकारं निकेतानि हि भेजिरे ।
यथायोग्यं निकेतानि सस्यक्षेत्राणि भेजिरे ॥५३॥
मरुत्वत्सु प्रनिम्नेषु पर्वतेषु नदीषु च ॥
संश्रयन्ति स्म दुर्गाणि प्रदेश शाश्वतोदकम् ॥५४॥
यथायोगं यथाकामं समेषु विषमेषु च ॥
आरब्धास्ते निकेता वै कर्तुं शीतोष्णवारणम् ॥५५॥
आरब्धानि च सस्यानां कृषिक्षेत्राणि पार्श्वतः ।
तत्र संस्थापयामासुः खेटानि च पुराणि च ॥५६॥
ग्रामँश्चैवं यथाजोषं तथैवाऽन्तःपुराणि च ॥
सम्प्रमाप्यांऽगुलैः स्वीयैर्ग्रहाद्यं चक्रिरे ततः ॥५७॥
कनिष्ठाङ्गुष्ठवितस्तिर्द्वादशाङ्गुल उच्यते ।
चतुर्विंशतिभिश्चैव हस्तः स्यादङ्गुलैरथ ॥५८॥
चतुर्हस्तं धनुर्दण्डो द्विहस्तो बाण उच्यते ।
धनुःसहस्रे द्वे तत्र गव्यूतिः परिकीर्तिताः ॥५९॥
गव्यूतीनां चतुष्टयं योजनं परिकीर्तितम् ॥
एतेन पृथुना राज्ञा सन्निवेशोऽपि वै कृतः ॥1.47.६०॥
धनूँषि दश विस्तीर्णः श्रीमान् राजपथः कृतः ॥
नृवाजिरथनागानामसम्बाधः सुसञ्चरः ॥६१॥
अमितो दशधानुष्कं गृहं मध्यमवर्गकृत् ॥
शतधनुष्कं नृपतेः सम्राजस्तु सहस्रकम् ॥६२॥
इत्येवं वर्तमानानां गृहप्रासादकेषु च ॥
कल्पवृक्षेषु नष्टेषु वार्तापायो विचिन्तितः ॥६३॥
वृष्टेर्जलानि खातेभ्यो निम्नगानि कृतानि वै ।
अपां भूमेश्च संश्लेषादोषध्यस्तासु चाऽभवन् ॥६४॥
ऋतुपुष्पफलाश्चैव वृक्षा गुल्माः प्रजज्ञिरे ।
कणा अफालकृष्टाश्च प्रसम्पूर्णा प्रजज्ञिरे ॥६५॥
तेनौषधेन वर्तन्ते प्रजास्त्रेतायुगे तदा ।
ततः पुनरभूत्तेषां रागो लोभश्च कालतः ॥६६॥
ततस्ता जगृहुश्चापि नदीक्षेत्राणि पर्वतान् ॥
वृक्षान् गुल्मौषधींश्चैव प्रसह्य तु यथाबलम् ॥६७॥
बलात्प्रसह्य भोक्तारः कृत्वा स्वकीयमेव च ।
हठात्प्रबला गृह्णन्ति चाऽल्पतेजोभ्य एव हि ॥६८॥
बलैश्च प्रबलैश्चैव स्वकीया वै कृता क्षितिः ॥
अल्पबलास्तदा तेषां सेवया निर्वहन्ति वै ॥६९॥
ते तु शूद्रास्तदा जाताः परिचर्यापरायणाः ।
कृषिं कृष्ट्वा तु जीवन्तो वैश्या जातास्तथा परे ॥1.47.७०॥
बलात् पृथ्व्याः प्रशास्तारः क्षत्त्रा जातास्तथा परे ।
शान्तास्तु सात्त्विकास्तत्र भिक्षां याचन्त एव ये ॥७१॥
ब्राह्मणास्ते तथाभूता महात्मानः शुभाशयाः ॥
इत्येवं कर्मतो वर्णा ब्राह्मणेभ्यो विजज्ञिरे ॥७२॥
एवं विप्रतिपन्नेषु मानवेषु परस्परम् ।
तेन दोषेण तेषां ता ओषध्यो मिषतां तदा ॥७३॥
प्रणष्टा ह्रियमाणाश्च नीरसा ह्यभवन् पुनः ॥
पत्रपुष्पफलैर्हीना शुष्कायन्ते समग्रतः ॥७४॥
प्रजा भोज्यविहीनास्तु विभ्रान्ताश्च समन्ततः ॥
स्वायम्भुवं प्रभुं जग्मुः क्षुधाऽऽविष्टाः प्रजापतिम् ॥७५॥
वृत्त्यर्थमर्थितं ज्ञात्वा ब्रह्मा सम्यग् विचार्य च ।
कृत्वा वत्सं सुमेरुं च दुदोह पृथिवीमिमाम् ॥७६॥
तदा प्रजज्ञिरे ग्राम्याऽऽरण्या ओषधयः पुनः ।
व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः ॥७७॥
प्रियङ्गवो ह्युदाराश्च कारुषाश्च सतीनकाः ।
माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः॥७८॥
आढक्यश्चणकाश्चैव श्यामाकाः सगवेधुकाः ।
कुरुविन्दा वेणुयवा निवारा जर्तिलास्तथा ॥७९॥
मर्कटकाश्चेत्यफालकृष्टाः सर्वा मताः शुभाः ॥
वृक्षा गुल्मलतावल्लीविरुधस्तृणजातयः ॥1.47.८०॥
ऋतुपुष्पफलाः सर्वा ओषध्यो जज्ञिरे त्विह ।
यदा प्रसृष्टा ओषध्यो न प्ररोहन्ति ताः पुनः ॥८१॥
तदा ब्रह्मा प्ररोहार्थं वार्तोपायं चकार ह ॥
कृष्या तु वार्तया तास्तु कृष्टपच्या हि जज्ञिरे ॥८२॥
कर्षुकास्तत्र वैश्याश्च रक्षकाः क्षत्रियास्तथा ।
परिचरन्तः शूद्राश्च ब्रह्मार्पणास्तु ब्राह्मणाः ॥८३॥
गुरुत्वं तु कृतं स्थानं ब्राह्मणानां क्रियावताम् ।
राज्यं स्थानं क्षत्रियाणां सङ्ग्रामेष्वपलायिनाम् ॥८४॥
वैश्यानां भूमिजं स्थानं कृयादियत्नजीविनाम् ।
ग्रामान्तकं कृतं स्थानं शूद्राणां सेवया धृतम् ॥८५॥
ततः स्थितेषु वर्णेषु स्थापयामास चाश्रमान् ।
गृहस्थो ब्रह्मचारी च वानप्रस्थश्च भिक्षुकः ॥८६॥
चातुर्वर्ण्यात्मकः पूर्वो गृहस्थश्चाश्रमो महान् ।
त्रयाणामाश्रमाणां स प्रतिष्ठा योनिरेव च ॥८७॥
स्वस्वधर्मे स्थितानान्तु स्थानानि ब्रह्मणा स्वयम् ।
कल्पितानि च तान्येव कथयामि निबोध मे ||८८॥
गृहस्थानां ब्राह्मणानां प्राजापत्यं मतं परम् ॥
क्षत्रियाणां भवेदैन्द्रं न्यासिनां ब्रह्मणो गृहम् ॥८९॥
सत्यं तु ब्रह्मचाराणां वानप्रस्थगतायुषाम् ॥
वैश्यानां मारुतस्थानं गान्धर्वं शूद्रसत्कृते ॥1.47.९०॥
पन्थानो देवयानाय तेषां द्वारं रविः स्मृतः ॥
तथैव पितृयानानां चन्द्रमा द्वारमुच्यते ॥९१॥
इत्येषाऽऽदौ तु त्रेतायां सृष्टिः सर्वाऽभ्यवर्तत ॥
त्रेतान्ते द्विपादह्रासबलवीर्यसुजीवनाः ॥९२॥
द्वापरे त्रिपादह्रासबलवीर्यादिजीवनाः ॥
कलौ यथाकथञ्चिज्जीवना वै सकलाः प्रजाः ॥९३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने युगवर्षसङ्ख्याकृतयुगसिद्धिपादह्रासमिथुनसृष्टिनगरादिमानभक्ष्यौषधिवर्णाश्रमस्थापनादिनामा सप्तचत्वारिंशोऽध्यायः ॥४७॥