०४६

श्रीनारायण उवाच
अथ लक्ष्मि! प्रवक्ष्यामि देवसृष्टं तु मानसीम् ।
तत्राऽभिमानिनो देवान्मानसानसृजत् त्वजः ॥ १ ॥
आभूतसम्प्लवावस्थान् नामतस्तान्निबोध मे।
आपोऽग्निः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥ २ ॥
स्वर्गॆ दिवः समुद्राश्च नदाः शैला द्रुमा लताः ॥ ओषधीनां तथाऽऽत्मानो ह्यात्मानो वृक्षवीरुधाम् ॥३ ॥ लवः काष्ठा कला सन्धिर्मुहूर्तॆ च दिवानिशम् ॥ मासार्धमयनं मासश्चाब्दं युगश्च साधिका ॥ ४ ॥
स्थानाभिमानिनो देवा इत्येतानसृजत् त्वजः ॥ नक्षत्रग्रहताराणामभिमन्त्रीश्च देवताः ॥५॥ अष्टाविंशतिकोटींश्च ससर्ज सुकृतात्मनाम् ।
वैमानिकास्तु ताः प्रोक्ता देवलोके दिवौकसः ॥ ६ ॥
देवाश्च पितरश्चैव मुनयो मनवस्तथा ॥ तेषामनुचरा ये च मनुपुत्रास्तथैव च ॥७ ॥ प्रसङ्ख्यया त्रीण्यब्जानि कोट्यो द्विनवतिस्तथा ।
सप्तलक्षाणि च तथा सहस्राण्यष्ट सन्ति हि ॥ ८ ॥
देवा ह्येतेऽभिमन्तारस्तत्तद्गोलकदेवताः ।
आधिपत्यं विना ते वै ऐश्वर्येणाऽजसन्निभाः ॥ ९ ॥
जङ्गमाः स्थावराश्चैते ब्रह्मणो मानसीप्रजाः ।
तुषितान्मरुतः साध्यान् विश्वेदेवाँश्च विद्युतः ॥1.46.१०॥
स्तनयित्नूँश्च भानूँश्च वसूनष्टौ तथैव च । १
द्रोणप्राणध्रुवाऽऽग्निदोषवसुविभावसून् ॥११॥
सिद्धान् यक्षाँश्च गन्धर्वानसुरान् राक्षसाँस्तथा ॥ अप्सरसश्चारणाँश्च पिशाचप्रेतभूतकान् ॥१२॥
विद्याधरान् किम्पुरुषानश्वमुखाँश्च किन्नरान् ।
वेतालान् डाकिनीं चैव शाकिनीं योगिनीस्तथा ॥१३॥
विनायकॉश्च कूष्माण्डान् वेतालाँश्च ग्रहानपि ।
यातुधानाँस्तथोन्मादान्मातॄर्गुह्यकचारणान् ॥१४॥
प्रजापतीनृषींश्चैव नागान्सर्पांस्तथोरगान् ।
खगान्मृगान्पशून्वृक्षान् गिरीन्मर्त्यान्सरीसृपान् ॥१५॥ सूतमागधबन्दींश्च भाट्टमिन्द्रं यमं तथा ।
वरुणं च कुबेरं च हीशानं निऋतिं तथा ॥१६॥ अष्टसिद्धीर्नवनिधीन् रुद्रानेकादशाऽपि च ।
दैत्याश्च दानवॉश्चैव मानसानसृजत् त्वजः ॥१७॥ यज्ञान्पुण्यजनान् देववाहनानि पशूनपि ।
गौरजो महिषः कृष्णः सूकरो गवयो रुरुः ॥१८॥
अविरुष्ट्रादयश्चैते द्विशफाः पशवस्तथा ।
खरोऽश्वः शरभो गौरश्चमर्येकशफा इमे ॥१९॥
श्वा शृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ ॥ सिंह कपिर्गजः कूर्मो गोधा च मकरादयः ॥1.46.२०॥
कङ्कग्रध्रवटश्येनभासभल्लुकबर्हिणः ।
हंससारसचक्राह्वकाकोलूकसकुक्कुटाः ॥२१॥
एवमादीन् नामतस्तान्मानसानसृजत् त्वजः ।
आद्यं सर्गं महत्तत्त्वं गुणवैषम्यमसृजत् ॥२२॥
द्रव्यज्ञानक्रियाकृदहमं द्वितीयमसृजत् ।
तन्मात्राणि तृतीयं तु द्रव्यशक्तं समसृजत् ॥२३॥
इन्द्रियाणि चतुर्थं तु ज्ञानकर्मात्म चाऽसृजत् ॥ पञ्चमं तु मनोदेवान् षष्ठमाविद्यमसृजत् ॥२४॥
सप्तमं स्थावरं सर्गं वानस्पत्यमवासृजत् ।
अष्टमं तु गवादीन्वै तिर्यञ्चः समवासृजत् ॥२५॥
मर्त्यं तु नवमं देवसर्गं दशममसृजत् ।
तत्र तत्राऽपेक्षितं च गौणसर्गमथाऽसृजत् ॥२६॥
द्रव्यं कर्म स्वभावं च सह ओजो बलं तथा ।
प्राणं दशविधं चक्रे मानसान् स पितामहः ॥२७॥
अशनापिपासे तालूं जिह्वां वाचं हुताशनम् ।
घ्राणं च नासिकां नेत्रे श्रोत्रे चैव दिशो दश ॥२८॥
रोमाणीन्द्रं करं पादौ गतिमानन्दशिश्नकम् ॥ रजो योनिं च वायुं च मित्रं यज्ञं सहव्यकम् ॥२९॥
पायूं च मित्रकं चैव बीजं वीर्यं च रक्तकम् ॥ नाभिमपानं मृत्युं च कुक्षिमन्त्राणि नाडिकाः ॥1.46.३०॥ तुष्टिं नदीः समुद्राँश्च पुष्टिं हृदयमित्यपि ॥ मनश्चन्द्रं च सङ्कल्पं कामं त्वचं च चर्म च ॥३१॥ मांसं रक्तं च मेदं च मजामस्थि तु भूतजान् ।
इत्येतान्मानसाँश्चक्रे प्राक् सृष्टौ तत्र विश्वसृक् ॥३२॥ तत्र तत्र तदावासे देवाँस्ताँस्तानतिष्ठिपत् ॥ आस्ये त्वग्निं लोकपालं वाण्यादेवमतिष्ठिपतु ॥३३॥ तालौ तत्र वरुणं तु जिह्वादेवमतिष्ठिपत् ॥ नस्यश्विनीकुमारौ तु घ्राणदेवावतिष्ठिपत् ॥३४॥ महत्तत्त्वे तु वागीशं बुद्धिदेवमतिष्ठिपत् ॥ चरणयोस्तथा विष्णु पाददेवमतिष्ठिपत् ॥३५॥ अक्ष्णि त्वष्टारमादित्यं चक्षुर्देवमतिष्ठिपत् ॥ करयोरिन्द्रं वार्तार्थं हस्तदेवमतिष्ठिपत् ॥३६॥ चर्मण्यनिलं प्राणाय त्वचो देवमतिष्ठिपत् ॥ कर्णयोर्दिक् यथायोग्यं श्रोत्रदेवमतिष्ठिपत् ॥३७॥
गुदे मित्रं विसर्गाणं पायुदेवमतिष्ठिपत् ॥ त्वचि कण्डूकृते यावदोषधीन् समतिष्ठिपत् ॥३८॥
गुह्ये मेढ्रं महानन्दं ब्रह्मदेवमतिष्ठिपत् ॥ हृदि मनो विकाराय चन्द्रमसमतिष्ठिपत् ॥३९॥
महत्तत्त्वे महत्सत्त्वमहङ्कारेऽभिमानकम् ॥ चित्ते विज्ञानमाधत्त मानसान् तानकल्पयत् ॥1.46.४०॥ मुखात्तु ब्राह्मणं ब्रह्म बाह्वोस्त्राणं तु राजकम् ॥ उर्वोर्वृत्तिं विशं पद्धयां सेवां शूद्रानकल्पयत् ॥४१॥ ब्रह्मा स्वस्य शरीरे वै सृष्टिं सस्मार मानसीम् ॥ इन्द्रादयो बाहवो मे दिशः कर्णौ ध्वनिः श्रुतिः ॥४२॥
नासत्यदस्रौ नासे चाऽक्षिणी द्यौश्चक्षुरर्यमा ॥ पक्ष्माण्यहनी चोभे भूविजृम्भो ह्यजधिष्ण्यकम् ॥४३॥ अपस्तालू रसो जिह्वा छन्दः शिर्ष्णस्तथैव च ॥ यमो दंष्ट्रा द्विजाः स्नेहकलोन्मादस्तु हास्यकम् ॥४४॥ अपाङ्गमोक्षः सर्गोऽयं व्रीडा चोत्तर ओष्ठकः ॥ लोभस्त्वधर ओष्ठः स्यात् स्तनौ धर्मो मतस्तथा ॥४५॥ पृष्ठमधर्मः को मेढ्रं वृषणौ मित्रकाविति ॥ कुक्षिः समुद्रा गिरयोऽस्थिसङ्घाः श्वसितं जगत् ॥४६॥ नद्यो नाड्यस्तनुरुहाणि भूरुहा गतिर्वयः ॥ गुणप्रवाहः कर्म स्यात् केशा मेघा मनः शशी ॥४७॥
अव्यक्तं हृदयं वासः सन्ध्या ज्ञानं महत्त्वकम्!
गिरित्रमन्तःकरणं नखान्यश्वोष्ट्रहस्तिनः ॥४८॥
श्रोणिर्मृगा वयांसि तु शष्फाणि मनीषा मनुः ।
मर्त्यो निवासो गन्धर्वविद्याध्राऽप्सरसः स्वरः ॥४९॥
स्मृतिवीर्यं ब्राह्मणास्तु मुखं क्षत्रा भुजास्तथा ॥ विडूरुरङ्घ्रिः शूद्रो वै नानाद्रव्याणि कर्म च ॥1.46.५०॥
हव्यकव्याऽमृतान्नादिरसो जिह्वा मनस्तु हृत् ॥ विक्रमो भूर्भुवः स्वश्च छन्दांसि सप्तधातवः ॥५१॥
तीर्थानि नाड्यः कामाप्तिश्चरणं ह्युदरं मृतिः ॥ कोशश्मश्रुनख्यानेव शिलालोहाऽभ्रविद्युतः ॥५२॥
शिश्न आनन्दपर्जन्यजलवीर्यस्रवा इति ।
पायुर्यमपरिमोक्षमित्र इत्यपि मानसीम् ॥५३॥
हिंसा निऋतिर्निरयो मृत्युर्गुदमिति प्रधीः ।
तमोऽधर्मपराभूतिः पृष्ठोऽस्थीनि तु पर्वताः ॥५४॥
रक्तेऽव्यक्तरसाः सर्वे प्राक् ध्याता मानसा इमे ।
स्वात्मन्येवं परं ध्यात्वा मानसीं सृष्टिमित्यतः ॥५५॥
योग्यस्थानानि तेषां वै कृत्वा दत्वा च तान्यपि ।
तेभ्यो ह्यवासयत्सर्गे देवान् ताराग्रहादिकान् ॥५६॥
भूवरी यक्षरक्षःप्रभूतप्रेतपिशाचकान् ।
रुद्रान् रुद्रगणाँश्चापि गणिकाः समवासयत् ।
भुवि मर्त्यान्पशून्पक्षिगणान् जन्तूननेकशः ॥५७॥
पर्वतादौ महारण्ये गन्धर्वाश्चारणाँस्तथा ।
किन्नरान् किम्पुरुषाँश्च विद्याधरविहङ्गमान् ॥५८॥
अतलादिपञ्चलोकेऽसुरदानवदैत्यकान् ।
महातले काद्रवेयान् सर्पांश्च पन्नगाँस्तथा ॥५९॥
पाताले तु महानागान् ब्रह्मा वासमदापयत् ।
एषा सर्वा महासृष्टिर्मानसी प्रथमे युगे ॥1.46.६०॥
यद्यथाऽपेक्ष्यते कार्यं तथा सृष्टिस्तु कल्प्यते ॥ ब्रह्मा विकल्प्य सर्वं तन्मानसाद् व्याकरोत्तदा ॥६१॥
ऐश्वर्यस्रोतसश्चाऽत्र ईश्वराः सत्यलोकजाः ॥ सम्प्रज्ञास्रोतसश्चात्र ऋषयो ज्ञानिनोऽमलाः ॥६२ ॥ सन्तृप्तिस्रोतसश्चात्र पितरः श्राद्धतृप्तिजाः ॥ सम्पुण्यस्रोतसश्चात्र देवाः पुण्यादिसम्पदः ॥६३ ॥ सध्यानस्स्रोतसश्चात्र प्रेता वासनध्यानजाः ॥ समूर्ध्वस्रोतसश्चापि राक्षसा दैत्यदानवाः ॥६४॥ अर्वाक्प्रस्रोतसः पृथ्व्यां मनुष्या राजसाः सदा ।
तिर्यस्रोतस एवाऽत्र पशुकीटप्रपक्षिणः ॥६५॥
तमःस्रोतस एवाऽत्र नागसर्पादयो मताः ।
अविद्यस्रोतसश्चाऽत्र पर्वतास्तरुगुल्मकाः ॥६६॥
इत्येवं दशस्रोतस्कान्सर्गान् ध्यानकृतान्पुनः ॥ तत्र तत्र स्थले लोके ब्रह्मा सम्यगतिष्ठिपत् ॥६७॥ तेषां तु भोजनं स्वस्माच्छरीरात्समकल्पयत् ।
ऋषीणां तु पयः छन्दोमयं भोज्यमकल्पयत् ॥६८॥
पितॄणां भोजनं कव्यं सिद्धानां सिद्धयोऽदनम् ॥ दैतेयानां सुरा प्रोक्ता दानवानामथाऽऽसवम् ॥६९॥
गन्धर्वाणां तु सङ्गीतमप्सरसां तु सौभगम् ॥ विद्याध्राणां नभोविद्यां मायिनामप्यदर्शनम् ॥1.46.७०॥
यक्षराक्षसभूतादिप्रेतानां मांसरक्तकम् ।
सर्पोदीनां तु गरलं पशूनां यवसं तथा ॥७१॥
दंष्ट्रिणां पललं वृक्षवल्लीनां विविधं रसम् ॥ गिरीणां भिन्नधातूँश्च देवानाममृतं तथा ॥७२॥
मनुष्याणां गोधूमादि पक्षिणां च वनस्पतीन् ।
जलजानां जलजन्तून् सर्वेषां पाञ्चभौतिकम् ॥७३॥ ब्रह्मैव कल्पयामास यस्य यादृगपेक्षितम् ।
तेनेयं लोकयात्रा चाऽ निर्वहत्भूतसम्प्लवम् ॥७४॥
एवं युगे तु प्रथमे साङ्गोपाङ्गं तु सर्जनम् ।
सर्व तु मानसं कृत्वा विरराम पितामहः ॥७५॥
सृष्टिर्विवर्धते नैव नवीना जायते नहि ।
यथा यादृक् तथा तावत् तावदेव हि वर्तते ॥७६॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने देवयक्षमानुषपशुपक्षिदैत्यदानवनागसर्पस्थावरादिसृष्टितदभिमानिदेवादिप्रदर्शननामा
षट्चत्वारिंशोऽध्यायः ॥४६॥