०४५

श्रीनारायण उवाच—
शम्भुः प्राह तदा दक्षं चन्द्ररोगं - विनाशय ।
दक्षः प्राह च मे शापं हरिष्यामि तु शङ्कर! ॥ १ ॥
पुत्रीणां सोमतो नैराश्यजं दुःखं पुनः पुनः ।
को हरिष्यति तद्दुःखं नित्यजं शशिनं विना ॥ २ ॥
साध्वीनां तस्य पत्नीनां दुःखदाहकृतं पुनः ॥ शापं को वारयेद् देवो यथेष्टं कुरु शङ्करः ॥ ३ ॥
इत्याश्रुत्य गुरोर्वाक्यं दक्षस्य प्रयतात्मनः ॥ शम्भुः प्राह तदा चन्द्रं दक्षशापो विनश्यतु ॥४ ॥ सवीर्यो भव शीतांशो मैवं पक्षगमो भव ॥ अथ पत्नीकृतशापविनाशायाऽपि शङ्करः ॥५॥ रेवतीप्रभृतिभ्यस्तत्क्षमां याचितवान्प्रभुः ॥ पत्नीभिश्च तदा रोगो नाशं याहीति कीर्तितम् ॥ ६ ॥
रोगो वीर्यक्षयो नष्टो न नष्टस्तु कलाक्षयः ।
पक्षपातित्वदोषस्य विनाशाय क्षमापितम् ॥७ ॥ रोहिण्यामेव पातित्वं परित्यक्तं हिमांशुना ।
वीर्यक्षयप्रपातित्वं शम्भुना सम्विनाशितम् ॥८॥ सर्वासु समगामित्वमङ्गीकृतं हिमांशुना ।
कलानां क्षयगामित्वं न नाशितं तु शम्भुना ॥ ९ ॥
तदा चन्द्रः पुनर्देवं ब्रह्माणं प्रत्यभाषत ॥ पितस्तेजःक्षयो दुःखं सर्वदुःखाद्विशिष्यते ॥1.45.१०॥ तेजस्तेजस्विनामात्मा तेजः सम्मानमुच्यते ।
तेजः कीर्तियशो द्रव्यं महत्ता तेजसि स्थिता ॥११॥
निस्तेजा यो भवेल्लोके गणनातो बहिष्कृतः ॥ तेजस्विनां तु गणने तेजस्वी परिगण्यते ॥१२॥ अन्यगुणैविहीनोऽपि तेजोरूपसमन्वितः ।
चक्षुषां तु प्रियः स्याद्वै पुष्पं किंशुकजं तथा ॥१३॥
नैकगुणैर्युतं चापि रूपतेजोविहीनकम् ।
चक्षुःप्रियतरं न स्यात्कृष्णं व्याप्तं तमो यथा ॥१४॥ शुक्लं नीलं तथा पीतं रक्त च हरितं तथा ।
कपीशं कर्बुरं चेति सप्तरूपाणि तन्वते ॥१५॥
सर्वेभ्यस्तत्र शुक्लं वै श्रेष्ठं रूपं हि कथ्यते ।
ततः पीतं ततो रक्तं कपीशं तदनन्तरम् ॥१६॥
हरितं च ततः प्रोक्तं ततो नीलं तु गण्यते ।
कर्बुरं चित्रसञ्ज्ञं तु ततः प्रियं त्विहोच्यते ॥१७॥ शुक्लं तेजो ब्रह्मणस्तु परब्रह्मण इत्यपि ।
मुक्तानां ब्रह्मसञ्ज्ञानां गोलोकादिस्थलीजुषाम् ॥१८॥ रूपं श्वेतं सदा चक्षुःप्रियताकरमिष्यते ।
मम रूपं सदा शुक्लं तेजआधारकं मतम् ॥१९॥
विनातेजोऽप्यहं कृष्णो लोहमृत्तिकया समः ॥ तस्मात्तेजो मदीयं मे शाश्वतं देहि पद्मज! ॥1.45.२०॥
नाऽहं तेजोविहीनो वै स्थातुमिच्छामि पूर्वज!।
तेजोहीनं च मां सर्वे तिरस्कुर्वन्ति सर्वथा ॥२१॥
नार्यश्चापि मदीया न मानयिष्यन्ति पूर्ववत् ॥ पूर्वं तेजःसमुद्रेकाद् व्यराजं देवसंसदि ॥२२॥ इदानीं तेजसा हीनः कथं यामि सुरगृहे ॥ तेजोहीनो न जीवेयं म्रियेय वच्मि चान्तिकम् ॥२३॥
सोम इत्यभ्यर्थयति यावत्तावत् तु तत्र वै ॥ ओषधयः समायाता विविधा भिन्नलोकजाः ॥२४॥
काश्चिदोषधयस्तत्र कलैकाऽमृतजीवनाः ॥ काश्चिदोषधयस्तत्र द्विकलाऽमृतजीवनाः ॥२५॥
त्रिकलाऽमृतपा कश्चित्काश्चिच्चतुःकलाऽमृताः ।
काश्चित्पञ्चकलाभोक्त्र्यः काश्चिच्छट्कलनाऽमृताः ॥२६॥
काश्चित् सप्तकलाभोक्त्र्यः काश्चिदष्टकलाऽमृताः ॥ काश्चिन्नवकलाभोक्त्र्यः काश्चिद्दशकलाऽमृताः ॥२७॥
काश्चिदेकादशकलाः काश्चिद्द्वादशसत्कलाः ।
काश्चित् त्रयोदशकलाः काश्चिच्चतुर्दशाऽमृताः ॥२८॥
काश्चित्पञ्चदशकलाऽमृतभोगाऽऽप्ततृप्तयः ।
प्राप्ते तत्तद्दिने तास्ता भक्षयन्त्यमृतं स्वकम् ॥२९॥
एवं विभिन्नसामर्थ्या विभिन्नाऽमृतजीवनाः ॥ विभिन्नकलया पुष्टा ह्यासँस्तत्र समागताः ॥1.45.३०॥
ओषधिभिर्विभिन्नाभिः प्रार्थितं स्वार्थजीवनम् ॥ ह्रासवृद्धिकलायुक्तश्चन्द्रमा यदि पाक्षिकः ॥३१॥
वर्तेत तु तदाऽस्माकं जीवनं चापि पौष्टिकम् ॥ सफलं सरसं स्मृद्धं यथाभक्ष्यसुपोषणम् ॥३२॥
यथावृद्धि यथापोषं यथार्तवं सबीजकम् ॥ यदि पूर्णकलश्चन्द्रः सर्वदा स्यात्तथा तु ताः ॥३३॥
कला असहमानाश्च नश्यामो वयमञ्जसा ॥ सर्वकलाऽमृतस्याऽस्य शैत्याग्निदहनाऽक्षमाः ॥३४॥
कुमार्यः पेशलाः सर्वा नाशमाप्स्यन्त्यहर्निशम् ॥ तस्माच्चन्द्रमसो नित्यशीततासहनाऽक्षमा ॥३५॥
कोमला ह्यङ्कुरादेव मा नाशं यान्तु वल्लयः ।
इति तासां प्रार्थनां तु श्रुत्वा ब्रह्मा च शङ्करः ॥३६॥
चन्द्रमोषधिनाथं तौ प्राहतुः सुखकृद्वचः ।
चन्द्र त्वयाऽवधार्यं वै वल्लीनां प्रार्थितं खलु ॥३७||
स्वीकुर्वे तत्प्रसह्याऽत्र नाऽन्यो मार्गोऽत्र दृश्यते ।
ओषध्यधीनमेवैषां लोकानां जीवनं कृतम् ॥३८॥
ओषधीनां जीवनन्तु कलाः षोडश ते मताः ।
भिन्ना भिन्नाः कलास्तां तां जीवयत्यन्वहं यतः ॥३९॥
कलाधारो भवान्प्रोक्तः स चेत् कृपां न चाचरेत् ॥ सर्वानि नष्टा भवेयुर्वै परस्परतया मुहुः ॥1.45.४०॥
तस्मात्तेजःकलालाभे कथयावस्तथा कुरु ॥ भव पक्षे वर्धमानः पक्षे क्षयमवाप्नुहि ॥४१॥
पक्षपातित्वदोषस्ते कलास्वेव निवेशितः ॥ कलायास्ते क्षयः स्याद्वै वीर्यं ते चाऽक्षयं भवेत् ॥४२॥
पत्नीप्रदत्तशापो वै वज्रः केन हि वार्यते॥ पोष्यवर्गाऽर्थ्यमिष्टं तु पोष्यार्थं त्यज्यते न किम् ॥४३॥
परोपकारशीलास्तु परेषां सुखहेतवे ॥ निजार्थं स्वानुकूलं च त्यजन्ति परमार्थतः ॥४४॥
चन्द्र! सर्वासु पत्नीषु समानं रमणं कुरु ॥ मा निःश्वासं तु तासां वै गृहाण सुखवान् भव ॥४५॥
ओषधीनां जीवनस्य पुण्यं गृहाण पक्षधृक् ।
एवं चन्द्रमसं कृत्वा ब्रह्मा च शङ्करस्तथा ॥४६॥
देवाः कलाह्रासवृद्धी तथैवाऽस्थापयँस्तदा ।
तदारभ्य सदा चन्द्रः पूर्णवीर्यसुसम्भृतः ॥४७॥
रेमे नक्षत्ररूपाभिः पत्नीभिः समभावतः ॥ कलानाशविवृद्धी तु हयोषधिप्रार्थिते स्थिते ॥४८॥
ब्रह्माद्याश्च तथा देवा ह्यगच्छन्स्वनिकेतनम् ॥ अथ शम्भुर्ययाचे तं चन्द्रं ललाटभूषणम् ॥४९॥
ब्रह्मा प्रादादब्धिजं तत्कलाचन्द्रं द्वितीयकम् ।
अत्रेर्जातश्च यश्चन्द्रः स तु राजा तृतीयकः ॥1.45.५०॥
ते ते चन्द्राः प्रभिन्ना वै बोध्या विभिन्नकार्यजाः ।
यावन्तः शम्भवः सन्ति यावन्त्यण्डानि सन्ति च ॥५१॥
तावन्तश्चन्द्रमसः स्युः कल्पभेदात् त्वनन्तकाः ॥ इति ते कथितं लक्ष्मि! चन्द्रेऽपि क्षयकारणम् ॥५२॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चन्द्रस्य तेजःकलाह्रासवृद्धिस्थितिकारणप्रदर्शननामा
पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥