०४४

श्रीनारायण उवाच –
शृणु लक्ष्मि! ततः पश्चाद् यद्भूतं तद् ब्रवीमि ते ॥ पिता दक्षस्तदाकर्ण्य पर खेदमवाप ह ॥१ ॥ शनैः श्वासं परामुच्य कन्याः प्राह दयावशः ।
समागच्छन्तु चन्द्रं तु शिक्षयामि पुनः स हि ॥ २ ॥
नैवं कुर्यात् प्रकुर्यात्तु सर्वासु समकामनाम् ।
इति कृत्वा गताः सर्वे चन्द्रभवनमादरात् ॥३ ॥ दक्षः प्राह शशिन्देव! त्वं मे शिष्योऽसि सुव्रत! ।
सुज्ञोऽसि किन्नु बहुना वक्तव्यं ते प्रशिक्षणम् ॥४ ॥ सर्वाः समाना मे कन्या युवत्यस्तेऽर्पिता मया ।
तव पत्न्यश्च ताः सर्वास्त्वयि रक्ता विलोक्य तु ॥५ ॥ सर्वा भज समाना वै पक्षपातं जहीति च ।
सर्वा नारीर्भजस्व त्वं समकामसुखेप्सया ॥६ ॥ नैकस्यामनुरक्तोऽभूः सर्वास्वेव रतो भव ।
सर्वाश्च कामय चन्द्र! तास्तृप्ताः स्युर्यथा यथा ॥७ ॥ नारीणां कामदाहस्य यः पतिः शान्ततां नयेत् ।
स्मृद्धिः स्वर्गं च तस्यैव विविधाश्च विभूतयः ॥ ८ ॥
भवन्त्यक्षतकुशला विवर्धन्ते दिने दिने ।
पत्नीनां प्राणदात्रीणां रञ्जनाद् रञ्जनं सदा ॥९ ॥ तासां हृत्कल्पकाद् दुःखान्नरो नरकमाप्नुयात् ।
नरस्यैव तु सद्धर्मो नारीणां कामशान्तनम् ॥1.44.१०॥ तन्न कुर्यात्तदा लग्नं कृतं केवलमृत्यवे ।
वरं नार्या समं नार्या लग्नं कामधुरोज्झितम् ॥११॥ यदि लग्नफलं न स्यान्नार्याः पुंसः समागमे ।
तदा नार्याश्च वा पुंसो लग्नं भाराय केवलम् ॥१२॥|
यदि लग्ने कृतेऽनङ्गाऽऽनन्दं नाप्नोति मानवः ।
द्वन्द्वार्थं तत्कृतं लग्नं नाऽभूद् रत्यर्थमित्यथ ॥१३॥ नार्योः पुंसोश्च वा द्वन्द्वो लग्नतः स्यात् कथं नहि ॥ कथङ्कारं नरं नारीं रचयेद् भगवान् हरिः ॥१४॥
कथं वा चाऽर्प्यते नारी नराय न नरः पुनः ।
कथं वा तत्र गृह्णाति नरो नारीं नरं तु न ॥१५॥
इति चन्द्र विचार्य्यैव सर्वाः सौभाग्यसम्पदः ॥ तव पत्न्यः सदा सेव्यास्त्वया सौख्यप्रदापने ॥१६॥
चन्द्र ओमिति सम्मत्वा दक्षं सम्पूज्य भावतः ।
पत्नीः सर्वाः समागृह्य बहुधाऽरमयच्च सः॥१७॥ पुनः सर्वाः समागृह्य बहुधाऽरमयच्च सः ॥१७॥
काले बहुतिथे जाते रोहिण्यामेव सर्वथा ।
पूर्ववत् स्नेहबाहुल्यमन्यास्वल्पं पुनर्व्यधात् ॥१८॥
तदा पुनः पुनस्ताभिर्दक्षः सम्यङ्निवेदितः ॥ भूत्वा दक्षस्तदा क्रुद्धः प्राह चन्द्रमसं हितम् ॥१९॥
चन्द्र! त्वं शिक्षितः सम्यङ् शिक्ष्यते च पुनर्मया ।
वर्तितव्यं त्वया सर्वदारेषु समभावतः ॥1.44.२०॥
तदा त्वं सर्वदा स्मृद्धो योगीव भव शक्तिमान् ।
अक्षय्यवीर्यतेजस्कः सर्वासां समतृप्तिकृत् ॥२१॥ इति तेऽनुग्रहं कुर्वे पुत्रीणां स्नेहतस्तव ।
यदि शापं सृजामि त्वां पुत्रीणां दुःखदो भवेत् ॥२२॥
तस्मात्त्वामनुशिक्ष्यामि सर्वासु समभाग्भव ।
सर्वाः सम्यक् सम्भजस्व यथेष्टं सुखदो भव ॥२३॥
यदि प्रवर्त्स्यसेनैवं तदा क्षयमवाप्स्यसि ॥ शक्तेश्च तेजसश्चैव क्षयं दुःखमवाप्स्यसि ॥२४॥
एकया कलया त्वं वै जीविष्यसि न संशयः ।
एवं मे वचने याहि कलापूर्णः सदा भव ॥२५॥
इति दक्षकथितं तदभिध्याय पुनः पुनः ॥ रमते सर्वपत्नीभिः सर्वदा स मुहुः समः ॥२६॥
रोहिणी तु हठात्तं वै निरोधयति कामिनी ।
स्वगृहे एव बहुधा कामनाऽतृप्तमानसा ॥२७॥
पत्न्यश्चान्याः प्रतीक्षन्ते मार्गं चन्द्रस्य चाङ्गणे ।
न चायाति यदा नाथः शपन्त्यस्तास्तदाऽरुदन् ॥२८॥
नाथे सति वयं पत्न्यो नाप्नुमः कामदानताम् ॥ अन्यथा तु तदा कन्या नाथे सत्यप्यनाथवत् ॥२९॥
अस्माकं यदि नाथो न रोहिण्या अपि मा भवेत् ॥ इत्याक्रुश्य च ताः सर्वाः शेपुर्नाथं पुनः पुनः ॥1.44.३०॥
क्षयं याहि सदा चन्द्र! तेजोवीर्यक्षयस्तव ।
सवीर्ये वा ह्यवीर्ये वा त्वयि सत्त्वेऽपि पक्षग! ॥३१॥
नाऽस्माकं ऋतुलाभोऽपि तस्माद् वीर्यक्षयस्तव ।
रूपक्षयोऽपि भवतु पक्षपातिन्! करोषि किम्! ॥३२॥

अतिभोगकरी चेयं रोहिणी रोगिणी भवेत् ।
रक्तस्रावा प्रदरार्ता रोहिणि! भव रोगिणी ॥३३॥
इतीदं तस्य पत्नीनामुल्बणं शापवाचनम् ।
दक्षस्यापि वचोभङ्गकृताप्तदोषमुल्बणम् ॥३४॥
चन्द्रस्य तु तदैव द्राक् क्षीणं तेजः सवीर्यकम् ।
षण्ढश्चैककलामात्रजीवनः समवर्तत ॥३५॥
सदा दुःखी सदा त्याज्यो नारीभिः समजायत ।
रोहिण्यपि रक्तस्रावा प्रदरार्ता बभूव ह ॥३६॥
चन्द्रो गृहं परित्यज्य पत्नीः सर्वाश्च तत्क्षणम् ।
प्राप्तस्तपः समाकर्तुं सौराष्ट्रे वारिधेस्तटे ॥३७॥
तत्र वर्षशतं तेपे तपः परमदारुणम् ।
स्वस्य रोगविनाशाय रोगो नैव न्यवर्तत ॥३८॥
शोकं जगाम बहुलं विमनाइव सोऽभवत् ॥ रोहिण्यपि सदा रक्तस्रावाऽद्यापि च वर्तते ॥३९॥ अथाऽत्र समये लोके शतवर्षेषु भूतले ।
चन्द्रामृतं विना सर्वा ओषधयः क्षयं गताः ॥1.44.४०॥
कणा नैव तु जायन्ते तुषेषु पुष्पकेषु च ॥ पृथ्व्या रसश्च कन्देषु मूलेषु न च रोहति ॥४१॥
पुष्टिस्तु सर्वदा नष्टा जीवास्तदा तु दुःखिताः ॥ देवाश्चाऽप्यलब्धरसाः ऋषयश्चाऽमृतक्षयाः ॥४॥
ब्रह्माणमुपसङ्गम्य प्रार्थयन् दुःखनाशनम् ॥ चन्द्रस्तत्र महादेवं शिवं संस्थाप्य यत्नतः ॥४३॥
पुनर्वर्षशतं तप्त्वा शङ्करं चाऽप्रसादयत् ।
प्रसन्नः शङ्करस्तस्मै प्राह किं ते ह्यपेक्षितम् ॥४४॥
वरं वरय भद्रं ते सुखो भव सदा शशिन् ।
चन्द्रस्तदाऽऽह नन्दीशं देव! सोमेश्वरो भव ॥४५॥ मया प्रसादितश्चात्र तपस्तप्त्वा सुदारुणम् ।
सौराष्ट्रे पश्चिमे प्रान्ते वारिधेस्तटसन्निधौ ॥४६॥
मम पूज्यो महादेवः सदा सोमेश्वरो भव ॥ मम दक्षवचोजन्यं क्षयं रोगं विनाशय ॥४७||
तव देव महादेव! प्रतिष्ठा प्रकरोम्यहम् ।
ब्रह्मादींश्चात्र चाऽऽहूय कुर्वे यज्ञमहोत्सवम् ॥४८॥
इति सङ्कल्प्य चन्द्रेण ब्रह्माद्या देवतास्तथा ।
ऋषयो मुनयस्तत्र प्रजानां पतयस्तथा ॥४९॥
मनवो देवगन्धर्वाः सूतमागधनर्तकाः ॥ शङ्करस्य प्रतिष्ठार्थमाकारिताः समागमन् ॥1.44.५०॥
भद्रावत्यास्तु नद्यास्तत्क्षेत्रं दक्षिणदिग्भवम् ॥ आभद्राया आसमुद्रं क्षेत्रं मोक्षकरं नृणाम् ॥५१॥
तत्र कुङ्कुमवाप्याख्यनगरे संवसन् द्विजः ।
पत्नीव्रताख्यविप्रर्षिर्वेदान् नीत्वाऽगमत्तथा ॥५२॥
परब्रहाऽवतारोऽयं श्रीकृष्णः स्वयमेव हि ॥ विधिना सोमनाथस्य प्रतिष्ठानमकारयत् ॥५३॥ प्रतिष्ठानोत्तरं ब्रह्मा तदा प्राह त्रिशूलिने ।
चन्द्रक्षयेण यावत्य ओषधयः क्षयं गताः ॥५४॥
तन्मूलाश्च प्रजाः सर्वाः क्षयं यान्ति मुहुर्मुहुः।
ततश्चन्द्रक्षयो नाश्यो भवता सुकृपालुना ॥५५॥
शम्भुः प्राह तु तान्सर्वान् गच्छामो दक्षमातुरम् ॥ कथयामो हितं कर्तुं यथा स्यात् सुसुखं जगत् ॥५६॥
इत्यामन्त्र्य प्रजग्मुस्ते दक्षस्य भवनं प्रति ॥ स्वागतं कृतवान् दक्षो निषेदुश्च यथास्थलम् ॥५७॥ कुशलं पृष्ठवान्दक्षो जिज्ञासां कृतवानपि ।
मयि प्रयोजनं न स्यान्निस्पृहाणां महात्मनाम् ॥५८॥
तथापि मम लाभाय क्षेमाय च हिताय च ।
भवतामागमो भाव्यो दासः किं करवाणि वः ॥५९॥
इत्यावेद्य नमः कुर्वन्दक्षः प्राञ्जलिरास वै ॥ सोमार्थं च तदा शम्भुः प्राह दक्षमिदं वचः ॥1.44.६०॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दक्षकृतचन्द्रशिक्षणशापरोगसोमनाथप्रतिष्ठापनादिनामा
चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥