श्रीनारायण उवाच
यदा तु ब्रह्मणा दृष्टं तेजः केवलमुल्बणम् ।
सर्वं दह्येद्विनश्येच्च पुष्येच्छिश्येत नैव च ॥१ ॥
ततस्तच्छान्तिकाराय पुष्ट्यै च प्रार्थयत् प्रभुम् ।
देवं नारायणं तावन्नारायणस्य मानसात् ॥ २ ॥
सङ्कल्पाद्वामचक्षुष्ट उद्भूतं तेज अल्पकम् ।
शीतलं पोषकं तृप्तिकरं चामृतवर्षि यत् ॥ ३ ॥
तस्मादेकात्कणान्नानाकोट्यर्बुदकणाः कृताः ।
गोलकास्ते महान्तो वै जाता वेधस इच्छया ॥ ४ ॥
वेधोभी रक्षितास्ते वै ब्रह्माण्डेषु स्वकेषु च ॥
तत्र जाताश्च ते चन्द्राश्च शैत्यं द्रावयन्त्यतः ॥ ५ ॥
तस्य तेजः प्रपूर्त्यर्थं याचितो भगवान् यदा ।
प्राह सूर्यनिवासेन किरणेन मया सदा ॥६ ॥
पोषणं दास्यते तत्र पूर्तिस्ते तेजसो भवेत् ।
इत्यतः स्वर्णपुरुषस्तेजोऽर्पयत्यहर्निशम् ॥ ७ ॥
शान्तिपुष्टिकरं पेयममृतं सुखसम्भृतम् ।
स्निग्धमानन्दभ्रत्सर्वं तापनिवृत्तिकारणम् ॥८ ॥
उष्णदुःखात्तारकत्वात्तारकं तेज एव तत् ।
चस्य शैत्यस्य सन्दानात् चान्द्रं तेजोऽपि चैव तत् ॥९ ॥
तादृशं तु परं तेजोमयं चन्द्रं विधाय च ॥
ब्रह्मा रक्षितवान् स्वर्गे मिष्टाऽऽनन्दाय देहिनाम् ॥1.43.१०॥
चन्द्रोऽपि सर्वदा पूर्णः सदैकस्थितिको ह्यभूत् ।
पश्चात्कालान्तरे स्त्रीषु पक्षपातात्क्षयं गतः ॥११॥
पुनश्च शङ्करेणापि तद्रोगादर्धतारितः ।
तथैव तस्य योग्यत्वादर्धरक्षा कृता तदा ॥१२॥
श्रीलक्ष्मीरुवाच—
कथा चन्द्रमसः स्त्रीषु पक्षपातितया च या॥
क्षयङ्कराऽभवत्तां मे श्रावयस्व कृपानिधे! ॥१३॥
काश्च तस्य स्त्रियः कति कथं तत्पक्षपातिता ॥
कथं शापः कथं मुक्तिः कथं चार्धक्षयिष्णुता ॥१४॥
एतत्सर्वं समाक्षस्व परमाश्चर्यमत्र मे ॥
देवस्याऽपीदृशी पीडा तव रूपस्य हे विभो! ॥१५॥
श्रीनारायण उवाच –
शृणु साङ्गां कथां तस्य विचित्रां कामवेगजाम् ।
श्रुत्वा सापत्न्यदुःखाऽपि त्वं मां मैवं करिष्यसि ॥१६॥
ब्रह्मणो मानसः पुत्रो दक्षः प्रजापतिः पुरा ।
मनसा कल्पयामास कन्यकाः सृष्टि हेतवे ॥१७॥
सप्तविंशतिकन्यास्तु रोहिणीप्रमुखा इति ।
ददौ चन्द्रमसे यास्तु नक्षत्राणि भवन्ति ताः ॥१८॥
नाम्नाऽश्विनी च भरणी कृत्तिका रोहिणी तथा ॥
मृगशीर्षा तथाऽऽर्द्रा पुनर्वसुश्च पुष्यकम् ॥१९॥
आश्लेषा च मघा पूर्वाफाल्गुन्युत्तरफाल्गुनी ॥
हस्तिश्चित्रा तथा स्वातिर्विशाखा चानुराधिका ॥1.43.२०॥
ज्येष्ठा मूलं तथा पूर्वाषाढा चोत्तरषाढिका ॥
श्रवणं च धनिष्ठा च शततारा तथा च वै ॥२१॥
पूर्वभाद्रपदा चैवोत्तरभाद्रपदा तथा ॥
रेवती चेति चन्द्रस्य पत्न्यस्तु सप्तविंशतिः ॥२२॥
सर्वा दिव्याः काञ्चनाभा रक्ता द्वादशहायनाः ॥
तास्वपि रूपलावण्यसौभाग्यसद्गुणोर्जिता ॥२३॥
रोहिणी सर्वदा कामकुशला प्राणहारिणी ॥
चन्द्रो यथा यथा हीच्छेद् रोहिणी वर्तते तथा ॥२४॥
नेत्रं प्रेमभरं तस्मै दर्शयत्येव चित्तहृत् ॥
मुखं हास्यभरं सौम्यं सर्वश्रृङ्गारतैजसम् ॥२५॥
वक्रनेत्रभ्रुवोर्भङ्गं दर्शयत्यपि चित्तहृत् ॥
रक्तावोष्ठौ फुल्लगण्डौ दर्शयत्येव शान्तिदौ ॥२६॥
पुष्पमालां करे धृत्वा मनोज्ञामर्पयत्यपि ॥
स्तनौ स्वल्पौ सुघटौ च कञ्चुकीदृढतां गतौ ॥२७॥
रम्यौ केसररङ्गाढ्यौ युवती दर्शयत्यपि ।
उदरं सुवर्णवर्णं कटिं तन्वीं सुकोमलाम् ॥२८॥
नितम्बौ मध्यकुम्भाभौ वासस्तारल्यदर्शनौ ।
अलोमकं सूक्ष्ममध्यं स्वर्णाभं दर्शयत्यपि ॥२९॥
सक्थ्नोः सुवर्णयोर्मूलं मन्थरं दर्शयत्यपि ।
आगत्य गण्डके तालीं दत्वा गच्छति सत्वरम् ॥1.43.३०॥
परावृत्य पुनः कण्ठे हस्तं कृत्वा च चुम्बनम् ।
स्पृष्ट्वा गुप्तं मुखं दत्वा विलासं भावयत्यपि ॥३१॥
क्वचिद्वासो विना भूत्वा स्वात्मानं दर्शयत्यपि ।
मनो जहार चन्द्रस्य लज्जां सन्त्यज्य सर्वथा ॥३२॥
चन्द्रः षोडशवर्षोऽपि वीर्यस्याऽक्षयशेवधिः ।
रेमे रेमे पुना रेमे तृप्त्या रेमे पुनः पुनः ॥३३॥
सर्वदैव तु रोहिण्यां रेमे रेमे पुनः पुनः ।
रोहिण्यपि नवं सौम्यं रूपं चक्रे पुनः पुनः ॥३४॥
रमित्वाऽपि पुना रेमे नाऽन्याः सस्मार चन्द्रमाः ।
क्वचित्कदाचिदन्याभिः संरेमेऽपि तथापि ताः ॥३५॥
क्वाचित्काद्रमणात्तृप्तिं न यान्ति रोहिणीव हि ।
सर्वासां यौवने पुष्टे सदृशेऽपि तु चन्द्रमाः ॥३६॥
रोहिणीरोधतः सर्वा भेजे समतया नहि ।
ततस्ताभिः प्रार्थितः स्वपतिः सौख्याय भागतः ॥३७॥
तथापि रोहिणी तासां सौख्यार्थं नाऽन्वमन्यत ॥
स्वार्थमात्र पराक्रान्ता पक्षपातमकारयत् ॥३८॥
तदा त्वन्या उदासीना ह्यकुर्वन् शोकमात्मसु ॥
किं नाम कृतलग्नेन यासां पतिसुखं नहि ॥३९॥
वेगारूढयुवत्वाऽऽढ्यकामव्याप्तद्वयोरपि ।
यदि कामसुखो योगो न स्यात् किं तेन लग्निना ॥1.43.४०॥
पूरुषस्य स्त्रियाश्चापि यथेष्टं कामतर्पणम् ॥
न स्याद् यदि कृतं तेन लग्नेन विफलार्थिना ॥४१॥
कामपूर्णशरीरा या नवयौवनशालिनी ॥
पत्युः सुखं लभेच्चेन्न किं लग्नेन कृतेन वै ॥४॥
वैधव्यं वा कुमारीत्वं तस्मात्तु वरमुच्यते ॥
सति पत्यौ न कामस्य सुखं प्राप्नोत्यभागिनी ॥४३॥
वरं तु कूपपतनं वरं दहनमग्निना ॥
वरं तु गरलं भक्ष्यं कामदाहनदुःखतः ॥४४॥
वरं पितृगृहे वासो वरं साध्वीत्वमित्यपि ।
न तु पत्यौ सति कामाग्निना ह्यात्मप्रदाहनम् ॥४५॥
मा वै भवतु कासाञ्चित् पतिर्नपुंसकः क्वचित् ॥
वा मा भवतु दुष्प्रेमा विप्रेमा क्षणिकोऽपि वा ॥४६॥
मा वा भवतु सापत्न्यं शात्रवं दुःखमण्वपि ॥
एवं विलप्य बहुधा सर्वास्ताः स्वपितुगृहे ॥४७॥
गत्वा निवेदयामासुः पत्युर्दुःखं पुनः पुनः ॥
पितः कन्या न दातव्या प्रेमहीनाय शुष्मिणे ॥४८॥
पक्षपातप्रगन्त्रे च रोगिणेऽन्यासु शायिने ॥
अस्माभिर्नैव गन्तव्यं चन्द्रस्य भवने क्वचित् ॥४९॥
अस्मान् समतया चन्द्रो भजते नैव कर्हिचित् ।
पितुगृहं यथा शुष्कं पत्युगृहं ततोऽधिकम् ॥1.43.५०॥
शुष्कं शुष्कायते सर्वं पूर्णं रतिसुखं विना ॥
सत्यं यथानुभूतं वै वदामः सर्वथा पितः! ॥५१॥
जामाता रोहिणीं ते तु सर्वदा भजते मुहुः ॥
नास्मान् क्वचित्क्वचिच्चेद्वै तत्रापि नैव पूर्णता ॥५२॥
ततो वयं न गन्तास्माश्चन्द्रस्य भवने पुनः ॥
मर्तव्यं नैव गन्तव्यं यत्र दुःखं हि केवलम् ॥५३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चन्द्रोत्पत्तिस्ततो रोहिण्यां पक्षपातेनाऽन्यासां पत्नीनां दक्षाय निवेदनादिनामा त्रिचत्वारिंशोऽध्यायः ॥४३॥