०४१

श्रीनारायण उवाच
प्रीयन्ते पितरो येन जप्येन नियमेन च ।
स्तोत्रं तेषां प्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥१ ॥ श्राद्धकाले प्रवक्तव्यं पितॄणां तोषणाय तत् ॥ यजमानेन पुत्रेण ब्राह्मणेन सुसाधुना ॥२ ॥ अमूर्तानां समूर्तानां पितॄणां दीप्ततेजसाम् ॥ नमस्यामि सदा ताँस्तु ध्यानिनो योगचक्षुषः ॥३ ॥ इन्द्रादेर्जनयितारो भृगुमारीचयोस्तथा ।
सप्तर्षीणां पितॄणां च तान्नमस्यामि कामदान् ॥४ ॥ मन्वादीनां सुरेशानां सूर्याचन्द्रमसोरपि ।
जनयितॄन्नमस्यामि पितॄन् कुशलदायकान् ॥ ५ ॥
नक्षत्राणां चरादीनां पितॄनथ पितामहान् ॥ द्यावापृथिव्योः पितॄँश्च नमस्यामि कृताञ्जलिः ॥६॥ देवर्षीणां जनयितन् सर्वलोकनमस्कृतान् ॥ अभयस्य सदा दातॄन् नमस्येऽहं कृताञ्जलिः ॥७ ॥ प्रजेशाय कश्यपाय सोमाय वरुणाय च ॥ योगयोगेश्वरेभ्यश्च नमस्यामि कृताञ्जलिः ॥ ८ ॥
पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु ॥ स्वयम्भुवे नमस्तस्मै ब्रह्मणे योगचक्षुषे ॥ ९ ॥
अनेन स्तोत्रवरेण त्रीन्वराल्ँलभते जनः ॥ अन्नमायुः सुताँश्चैव ददते पितरः सुखाः ॥1.41.१०॥
यत् किञ्चित्पच्यते गेहे भक्ष्यं भोज्यादिकं तथा ।
अनिवेद्य न भोक्तव्यं देवपितृभ्य इत्यपि ॥११॥
पितृभ्यो यस्तु माल्यानि सुगन्धीनि च सर्वशः ॥ सदा दद्याच्छ्रिया युक्तः स विभाति दिवाकरः ॥१२॥
गुगुलादींस्तथा धूपान् पितृभ्यो यः प्रयच्छति ॥ संयुक्तान्मधुसर्पिभ्यां सोऽश्वमेधफलं लभेत् ॥१३॥
धूपं गन्धगुणोपेतं कान्तं पितृपरायणम् ।
लभते स्त्रीष्वपत्यानि हीह चामुत्र चोभयोः ॥१४॥ दीपं पितृभ्यः प्रयतः सदा यस्तु प्रयच्छति ॥ स लोकेऽप्रतिमं चक्षुर्लभते दिव्यदृष्टिदम् ॥१५॥
तेजसा यशसा चैव कान्त्या चापि बलेन च ।
स्वयम्प्रकाशो भवति भ्राजते च त्रिविष्टपे ॥१६॥
अप्सरोभिः परिवृतो विमानाग्रे तु मोदिते ॥ गन्धान् पुष्पाणि धूपाँश्च दद्यादाज्याहुतीश्च वै ॥१७॥
फलमूलनमस्कारैः पितॄणां प्रीतिमावहेत् ।
श्राद्धकाले तु सततं वायुभूताः पितामहाः ॥१८॥
आविशन्ति द्विजान्साधून् साध्वीर्दृष्ट्वा च हर्षतः ॥ वस्त्रैरन्नैः प्रदानैश्च भक्ष्यैर्भोज्यैस्तथैव च ॥१९॥
पानैर्गोभिस्तथा ग्रामैः पूजयेत् पात्रसंस्थितान् ।
काशाः पुनर्भवा ये च बर्हिणा उपबर्हिणा ॥1.41.२०॥
त एव पितरो देवा देवाश्च पितरः पुनः ॥ द्विजात्यभिमुखो दद्याद् दर्भान् पिण्डॉश्च यत्नतः ॥२१॥ अथाऽऽहृत्य दक्षिणां च ततो होमो विधीयते ।
अग्नये कव्यवाहाय स्वधा चाङ्गिरसे नमः ॥२२॥ सोमाय वै पितृमते स्वधा चाङ्गिरसे नमः ॥ यमाय चैवाङ्गिरसे स्वधा नम इति ब्रुवन् ॥२३॥ बहुहव्यत्वमेवाऽग्नौ सुसमिद्धे विशेषतः ॥ विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ॥२४॥
अप्रबुद्धे सधूमे च जुहुयाद् यो हुताशने ॥ यजमानो भवेदन्धः सोऽपुत्रो भवतीत्यपि ॥२५॥
अल्पेन्धनो वा रूक्षो वा विस्फुल्लिङ्गश्च सर्वशः ॥ ज्वालाधूमोऽपसव्यश्च स तु वह्निर्न सिद्धये ॥२६॥
दुर्गन्धश्चैव नीलश्च कृष्णश्चैव विशेषतः ॥ भूमिं विगाहते यत्र तत्र विद्यात्पराभवम् ॥२७॥
अर्चिष्मान् पिण्डितशिखः सर्पिष्काञ्चनसम्भवः ॥ स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्यसिद्धये ॥२८॥
अनुज्ञातः कुरुष्वेति तथैव द्विजसत्तमैः ॥ पत्नीमादाय पुत्राँश्च जुहुयाद्धव्यवाहनम् ॥२९॥
समानप्लक्षीन्यग्रोधप्लक्षाऽश्वत्थविकङ्कताः।
उदुम्बरास्तथा बिल्वचन्दना यज्ञगा समिध् ॥1.41.३०॥
सरलो देवदारुश्च शालश्च खदिरस्तथा ॥ समिदर्थं प्रशस्ताः स्युरेते वृक्षा विशेषतः ॥३१॥ विश्वेदेवाश्च ये प्रोक्ता ह्येतेऽपि पितरो ह्युत ॥ तेषामाज्यं च पिण्डं च वह्नौ दद्यात्प्रयत्नतः ॥३॥ पुष्पाणां च फलानां च भक्ष्यान्नानां तथैव च ॥ अग्रमुद्धृत्य सर्वेषां जुहुयाज्जातवेदसि ॥३३॥
तीर्थे होमश्च पिण्डाश्च श्राद्धं कर्तव्यमादरात् ।
देवालयो गुरोर्वासः पर्वताः सरितस्तथा ॥३४॥ पुण्यवृक्षास्तडागानि यत्र वा ब्राह्मणो भवेत् ॥ ते ते श्राद्धार्हदेशाः स्युस्तत्र पुण्यमसङ्ख्यकम् ॥३५॥
पृथ्वीं सागरवेलान्तां दिव्याः सत्पुरुषाः सदा ॥ नानारूपैश्चरन्त्यत्र तेषां योगात्तु मोक्षणम् ॥३६॥
सिद्धाः सन्तश्च साध्व्यश्च तीर्थानां तीर्थमुत्तमम् ।
लक्ष्मीर्नारायणश्चात्र तद्रूपेषु वसत्यरम् ॥३७॥
पिपासिताय श्रान्ताय क्षुधिताय विवस्त्रिणे ।
सत्कृत्य किञ्चिद् दातव्यं यज्ञस्य फलमाप्नुयात् ॥३८॥
श्राद्धे स्थूलः स्थूलमत्ति पितरोऽदन्ति सुकृतम् ।
तृप्तिमात्मा स्वयं भुङ्क्तेऽन्वितब्रह्मसमर्पणात् ॥३९॥
कर्मलोके तु कृत्वैव दत्वैव च मुहुर्मुहुः ।
परे लोके ह्यवाप्यन्ते तस्माद् देयं विशेषतः ॥1.41.४०॥
येषां दास्यन्ति पिण्डाँस्त्रीन् बान्धवा नामगोत्रतः ॥ भूमौ कुशोत्तरायां च ब्राह्मणोक्तविधानतः ॥४१॥ सर्वत्र वर्तमानाँस्ते पिण्डाः प्रीणन्ति वै पितॄन् ।
यदाहारो भवेजन्तुराहारः सोऽस्य जायते ॥४२॥
या गोष्ठे प्रनष्टां वै वत्सो विन्दति मातरम् ।
तथा तं नयते मन्त्रो जन्तुर्यत्राऽवतिष्ठते ॥४३॥
नाम गोत्रं च मन्त्रश्च दत्तमन्नं नयन्ति तम् ॥ अपि योनिशतं प्राप्ताँस्तृप्तिस्ताननुगच्छति ॥४४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने स्तोत्रहोमाग्निवृक्षस्थानादिनिरूपणनामा एकचत्वारिंशोऽध्यायः ॥४१॥