०३८

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो ब्रह्मा स्वयम्भूर्भगवान्प्रभुः ।
सिसृक्षुर्जीवसङ्घातानभिध्यानमथाऽकरोत् ॥१ ॥ सत्यलोके मम सृष्टिर्मानसी सात्त्विकी भवेत् ।
इत्येवं ध्यायतस्तत्र ब्राह्मणाः सात्त्विकाश्च ये ॥२ ॥ ऊर्ध्वस्रोतस एवैते परं चोर्ध्वं व्यवस्थिताः ।
व्यवर्तन्त यत ऊर्ध्वमूर्ध्वस्रोतस आमताः ॥३ ॥ ते सुखप्रीतिबहुला अन्तर्बहिश्च सद्व्रताः ।
प्रकाशा बहिरन्तश्च ब्रह्मस्रोतस एव च ॥४ ॥ ऋषयस्ते सदा ऋषेर्ब्रह्मणो ज्ञानसम्भृतेः ।
ऋषेर्वेदस्य विज्ञानादृषयस्ते सदा मताः ॥५ ॥ ऋषीत्येव गतौ धातु श्रुतौ सत्ये तपस्यथ ।
एतत्सन्नियतस्तस्मिन् ब्राह्मणः स ऋषिः स्मृतः ॥६॥ निवृत्तिसमकालन्तु बुद्ध्याऽव्यक्तमृषिः स्वयम् ।
परं हि ऋषते यस्मात्परमर्षिस्ततः स्मृतः ॥७॥ गत्यर्थाद् ऋषतेर्धातोर्नामनिर्वृत्तिरादितः ।
यस्मादेषः स्वयम्भूतस्तस्माच्च ऋषिता मता ॥८ ॥ ईश्वराः स्वयमुद्भूता मानसा ब्रह्मणः सुताः ।
यस्मान्न हन्यते मानैर्महान्परिगतः पुरः ॥९ ॥ यस्मादृषन्ति ये धीरा महान्तं सर्वतो गुणैः ।
तस्मान्महर्षयः प्रोक्ता बुद्धेः परमदर्शिनः ॥1.38.१ ०॥ ब्रह्मचारिण एवैते सन्ति वेधःसमायुषः ।
भवन्ति ब्रह्मणा तुल्या रूपेण विषयेण च ॥११ ॥ आनन्दं ब्रह्मणः प्राप्य सन्त्यैश्वर्येण तत्समाः ।
अष्टाशीतिसहस्राणि ऋषयस्तूर्ध्वरेतसः ॥१२॥ ब्रह्मणो मानसाः सर्वे जाताः सत्यनिवासिनः ।
तेषां तु नामधेयानि यथापेक्षं दधात्यजः ॥१ ३॥ अथाऽभिध्यायतः सर्गो ज्ञानस्रोतोऽभ्यवर्तत ।
ऋषयो ज्ञानिनो दिव्या ज्ञानात्मबलपूर्वकाः ॥१४॥ सन्न्यासा ब्रह्मरन्ध्रात्तु ब्रह्मणः समजज्ञिरे ।
वैखानसा बालखिल्या औदुम्बराश्च फेनपाः ॥१५॥ कुटीचकाश्च बह्वोदा हंसाः परमहंसकाः ।
अष्टौ सन्न्यासिनो भेदास्तत्राऽऽद्यास्तु सहस्रशः ॥१६॥ सन्ति षष्टिसहस्राणि बालखिल्या महर्षयः ।
तदन्ये कोटिशो बोध्या औदुम्बरप्रभतियः ॥१७॥ अथाऽभिध्यायतस्तस्य ऋभुरग्निर्बभूवतुः ।
पुनश्च ध्यायतस्तस्य दश पुत्राः प्रजज्ञिरे ॥१८॥ लोकसन्तानकर्तारो ज्ञानविज्ञानविद्वराः ।
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥१९॥ भगुर्वशिष्ठो दक्षश्च दशमस्तत्र नारदः ।
उत्सङ्गान्नारदो जज्ञे दक्षोंऽगुष्ठात्तु वेधसः ॥1.38.२०॥ प्राणाद्वशिष्ठः सञ्जातो भृगुस्त्वचः करात् क्रतुः ।
पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोर्ऋषिः ॥२१॥ अङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत् ।
पुण्यस्तु दक्षिणस्तनात् पापो जातस्तु पृष्ठतः ॥२२॥ छायायाः कर्दमो जज्ञे त्रयस्तेऽपि च मानसाः ।
अथाऽभिध्यायतो जज्ञे स्वायम्भुवमनुस्तथा ॥२३॥ शतरूपा च तत्पत्नी दम्पती तौ बभूवतुः ।
ताभ्यां मिथुनधर्मेण प्रजा ह्येधाम्बभूविरे ॥२४॥ अथाऽभिध्यायतस्तस्य जज्ञिरे ऋषयस्त्विमे ।
वंशविस्तारयितारो लोकसन्तानहेतवः ॥२५॥ युगे तु प्रथमे सर्व मानसाः सम्भवन्ति हि ।
कल्पान्तरे तु ते केचिज्जायन्ते वंशजा अपि ॥२६॥ योनिजाऽयोनिजत्वे तु विष्णोरिच्छैव कारणम् ।
येषां यत्र यदाऽपेक्षा तदा तान्प्रेरयत्यपि ॥२७॥ दिशः काव्यानि रागाश्च सूक्ष्माणि विषयाणि च ।
इन्द्रियाणि तथा प्राणा ब्रह्मणो मानसानि वै ॥२८॥ रुचिरग्निस्तथा मेधा ब्रह्मणो मानसाश्च ते ।
काव्यो बृहस्पतिश्चैव कश्यपश्चोशनास्तथा ॥२९॥ उतथ्यो वामदेवश्च सयोज्यश्चौशिजस्तथा ।
कर्दमो विश्रवाः शक्तिर्बालखिल्यास्तथाऽधराः ॥1.38.३० ॥ श्वेतश्च ऋषयो ज्ञानान्मानसा ब्रह्मणो मताः ।
वत्सरो नग्रहूश्चैव भारद्वाजोऽनलायनः ॥३ १॥ बृहदुक्थः शरद्वाँश्च ह्यगस्त्यश्चौशिजस्तथा ।
ऋषिर्दीर्घतमाश्चैव बृहद्ग्रन्थः शरद्वतः ॥३२॥ वाजश्रवाः सुवित्तश्च सुवाग् वेषपरायणः ।
दधीचः शङ्खमाँश्चैव राजा वैश्रवणस्तथा ॥३३ ॥ एतेऽपि मानसाः सर्वे सत्येन ऋषयो मताः ।
भृगुः काव्यः प्रचेतास्तु दधीचो ह्यात्मवानपि ॥३४॥ और्वोऽथ जमदग्निश्च विदः सारस्वतस्तथा ।
अद्विषेणो ह्यरूपश्च वीतहव्यः सुमेधसः ॥३५॥ वास्तुः पृथुर्दिवोदासः पश्वास्यो गृत्समान्नभः ।
अत्रिरर्चिसनश्चैव श्यामवाँश्चाथ निष्ठुरः ॥३६॥ वल्गूतको मुनिर्धीमाँस्तथा पूर्वातिथिश्च यः ।
इत्येते मानसाः पूर्वे मन्त्रैस्ते ऋषयो मताः ॥३७॥ अङ्गिरा वैधसश्चैव भारद्वाजोऽथ बाष्कलिः ।
अमृतश्च तथा गार्ग्यः श्येनी संहृतिरित्यपि ॥३८॥ पुरुकुत्सश्च ऋषभः कण्वश्चैवाऽथ मुद्गलः ।
उतथ्यश्च भरद्वाजस्तथा वाजश्रवा अपि ॥३९॥ आप्यायश्च सुवित्तिश्च वामदेवस्तथैव च ।
कक्षिवानौगजो दीर्घतपा व्यासश्च देवलः ॥1.38.४०॥ कश्यपो विभ्रमो रैभ्योऽसितश्चैव पराशरः ।
वशिष्ठो याज्ञवल्क्यश्च मैत्रावरुण एव च ॥४१॥ इन्द्रप्रमीतिः कुण्डिश्च कुशश्च पिप्पलायनः ।
गोपालः कम्भरा चेति दम्पती ब्रह्मणः प्रजाः ॥४२॥ इत्यासन् मानसाः पूर्वे पश्चात्ते योनिजा अपि ।
अन्येऽपि मानसाः पश्चाजाता योनिसमुद्भवाः ॥४३॥ तेषां वंशप्रवंशाश्चाऽभवन् यैः पूरितं जगत् ।
कल्पे कल्पे प्रजायन्तेऽन्येऽन्ये ब्रह्माज्ञया पुनः ॥४४॥ लोकसङ्ग्रहकर्तारस्ततः सत्यं प्रयान्ति ते ।
वेधःसालोक्यसायुष्यसार्ष्टिभाजो भवन्ति च ॥४५॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सत्यलोकीयऋष्यादिमानसीसृष्टिकथनन्नामाऽष्टात्रिंशोऽध्यायः ॥३८॥