श्रीनारायण उवाच
मदीयास्तु गुणास्तासु दिव्या वसन्ति सर्वदा ॥
तान्गुणान्सार्थकान् तुभ्यं कथयामि शृणु प्रिये ॥ १ ॥
सर्वभूतहितो भावः सत्यं तत्र प्रकीर्तितम् ॥
हेयप्रतिभटत्वं तु शौचं तत्र प्रकीर्तितम् ॥ २ ॥
परदुःखनिराकारो दया तत्र प्रकीर्तिता ।
अपराधसहिष्णुत्वं क्षमा तत्र प्रकीर्तिता ॥३॥
स्वार्थेऽप्यनादरस्त्यागः सन्तोषः पूर्णकामता ॥
आर्जवं सर्वलोकेषु सारल्यं सम्प्रकीर्तितम् ॥ ४ ॥
शमः क्लेशाऽपरिभवो दम इन्द्रिययन्त्रणम् ॥
तप इच्छानिरोधः स्यात् साम्यं सर्वाऽविशेषता ॥५ ॥
तितिक्षा सहनैश्वर्यं श्रुतं शास्त्रार्थवेत्तृता ॥
विरामस्तु प्रयत्नस्याऽनुद्भवः परिकीर्तितः ॥ ६ ॥
ज्ञानं तत्त्वयथावत्तापरिचय इति स्मृतम् ।
वैराग्यं सर्वथा रागशून्यत्वं परिकीर्तितम् ॥ ७ ॥
ऐश्वर्यं तु नियन्तृत्वं सर्वेशनस्वभावता ।
शौर्यं स्वभावविजयस्तेजोऽप्रधृष्यतामता ॥८॥
बलं देहात्मसामर्थ्यं स्मृतिर्भानं तु शाश्वतम् ॥
स्वातन्त्र्यं चाऽपराधीनमन्याऽनपेक्षमीरितम् ॥९ ॥
कौशलं सर्वकार्येषु नैपुण्यं परिकीर्तितम् ॥
कान्तिः सर्वमनोहारि सौन्दर्यं सहजं मतम् ॥1.28.१०॥
धैर्यं तु क्षिमप्राप्तावव्याकौल्यं सुसम्मतम् ।
मार्दवं तु स्वभावस्याऽकाठिन्यं सर्वथा मतम् ॥११॥
प्रागल्भ्यं प्रतिभोन्मेषा.ऽगाधता परिकीर्तिता ।
प्रश्रयो विनयो बोध्यः शीलं वृत्तेस्तु शुद्धता ॥१२॥
सहस्तु सर्वथा प्रत्यापत्तेर्वै परिपाचनम् ।
ओजः कार्यसमारम्भे तत्सिद्ध्यान्तरतेजनम् ॥१३॥
भगो ज्ञानप्रकाशादेरुत्कर्षः सर्वदा मतः ॥
गाम्भीर्यं तदभिप्रायेऽप्यगाधत्वं प्रकीर्तितम् ॥१४॥
कीर्तिर्लोकजनैर्गीतयशःपात्रत्वमुच्यते
मौनं प्रलापरहित्यं स्थैर्यं चाञ्चल्यशून्यता ॥१५॥
आस्तिक्यं त्वाप्तवाक्यार्थविश्वासः सम्प्रकीर्तितः ।
गुणाभिमानराहित्यमगर्वः खलु सम्मतः ॥१६॥
दूरहङ्कारशून्यत्वममानित्वं तु सम्मतम् ॥
अदम्भित्वं वञ्चकत्वफलाऽबाध्यसुवर्तनम् ॥१७॥
मिताहारो यथापेक्षतृप्तिसाधनगृह्यता ।
दक्षता भग्नकार्याणां पारदर्शित्वमीरितम् ॥१८॥
मैत्री सर्वतनुभृतां विश्वासाधारता मता ॥
उपकारः प्रतिलाभाऽनपेक्षप्रसहायता ॥१९॥
अद्रोहस्तु कथञ्चिद्वै परपीडाविवर्जनम् ।
मानदत्वं यथायोग्यं सर्वसत्कारकारिता ॥1.28.२०॥
षडूर्मिविजयः प्रोक्तः सर्वथा षड्विजेतृता ।
क्षुधा तृषा शोकमोहौ जरामृती षडूर्मयः ॥२१॥
शरणागतपालत्वं शरण्यत्वं प्रकीर्तितम् ।
तृष्णातन्तुरहितत्वमनीहत्वं तु कीर्तितम् ॥२२॥
यथापेक्षाऽधिकाऽग्रहश्चाऽपरिग्रह उच्यते ॥
सेवनं सर्वथा चैव पोषणं प्राणिनां च वै ॥२३॥
गुणा ह्येताः सदा सन्ति श्रीहरौ ते च मोक्षदाः ॥
भक्तैग्राह्या भवेयुस्ते हरेरुपास्तिवेगतः ॥२४॥
तैरेव सद्गुणैर्युक्तः साध्वीषु निवसाम्यहम् ॥
ततः साध्व्यः सदा पूज्याः पवित्राः पङ्क्तिपावनाः ॥२५॥
मपुत्र्यः साङ्ख्ययोगिन्यः सत्यः साधुगुणाश्रयाः ॥
कुमार्यः सत्यसङ्कल्पाः स्वप्रपन्ना स्त्रियस्तु याः ॥२६॥
प्रापयन्ति परं धाम सुखयन्ति च तास्तथा ।
ह्लादयन्ति हरेर्मूर्तावर्पयन्ति च ता मयि ॥२७॥
मम कार्यस्य करणान्मम साधुनिषेवणात् ।
मदंशुकस्य धरणान्मत्तो न्यूना न ता मताः ॥२८॥
अक्षरे परमे धाम्नि योगैश्वर्याणि यानि मे ॥
तानि मया पृथक्कृत्वा योगिन्यः प्रकटीकृताः ॥२९॥
तास्त्वनन्ताः सदा दास्यो मत्स्वरूपा भवन्ति वै ॥
सर्वलोकेषु दिव्यास्ता विचरन्ति मदाज्ञया ॥1.28.३०॥
दिव्या दिव्यचमत्काराः सदा द्वादशहायनाः ॥
अयोनिजाः सदा सत्ये ब्रह्मलोके वसन्ति ताः ॥३१॥
आतिवाहिक्य एतास्तु देवताः परिकीर्तिताः ।
ता एव मुक्तिमार्गं तु नयन्ति मुक्तिभागिनम् ॥३॥
असङ्ख्यातास्तु विज्ञेया देशकालार्हशक्तयः ॥
यत्र यादृग् भवेत् कार्यं तत्र कुर्वन्ति तादृशम् ॥३३॥
मन्मूतौं यस्तु सन्न्यास्तो गुणो भवति सर्वथा ॥
तद्गुणं तु पृथक्कृत्य सन्न्यासिन्यस्ततः कृताः ॥३४॥
ता अपि दिव्यरूपास्तु सृष्टौ चरन्ति नित्यशः ॥
दिव्या द्वादशवार्षिक्यो मुक्तिं नयन्ति देहिनः ॥३५॥
मन्मूतौ यस्तु वैराग्यः पृथक्कृत्वा च तद्गुणम् ।
तस्मान्मदिच्छया वीतरागिण्यः प्रकटीकृताः ॥३६॥
बाला द्वादशवार्षिक्यो दिव्यामुक्तिप्रदापिकाः ॥
यथाऽहं शाश्वतो वर्ते तथा शाश्वत्य एव ताः ॥३७॥
तथा तत्राऽक्षरे धाम्नि मन्मूर्तौ साङ्ख्यवेदनम् ।
तद्वद्योगसु सामर्थ्यं वर्तते ह्युभयं तु तत् ॥३८॥
पृथककृत्वा ततो दिव्याः कन्यका द्वादशाब्दिकाः ।
सौम्या उत्पादिता रम्या मत्सारूप्यसमन्विताः ॥३९॥
सर्वात्मरससम्पूर्णाः सर्वानन्दपरिप्लुताः ।
अप्राप्तयौवनोद्भेदाः सर्वपुष्टिमयाऽङ्गनाः ॥1.28.४०॥
एतास्तु साङ्ख्ययोगिन्यः सर्वथा ब्रह्मभावनाः ॥
सर्वदा ब्रह्मदेहास्ता सर्वब्रह्म मया यतः ॥४१॥
तास्तु दिव्यस्वरूपेण चरन्ति सर्वसृष्टिषु ।
मोचयन्ति सदा जीवानीश्वरान्वा तमोऽन्तरात् ॥४२॥
यदा तु क्वापि नारीणां गर्भात्प्रादुर्भवन्ति ताः ।
तदा चिह्नानि तासां तु भवन्ति करपादयोः ॥४३॥
दैवीचिह्नैस्तु विज्ञेया आश्रेयाश्च मुमुक्षुभिः ॥
चिह्नानि तानि संवक्ष्ये शृणु लक्ष्मि! ममाग्रतः ॥४४॥
मध्ये तु स्तनयोर्यासां हृदि नारायणस्य वै ॥
चरणोर्ध्वतिलकाख्यपुड्ररेखा भवन्ननु ॥४५॥
नाभ्यधोजघने भागे भवेत्स्वर्णसुपिङ्गला ।
बाणाकृतिसमारेखा ललाटे मुकुटाकृतिः ॥४६॥
गण्डे तु दक्षिणे चाथ ललाटे मध्यदेशके ।
शोणबिन्दुर्भवेच्चापि सुदर्शनसमस्तथा ॥४७॥
उरसि यच्चतुर्हस्तविष्णुरेखा तु सम्भवेत् ।
यस्या वामे भुजबन्धे गदाचिह्नं तु सम्भवेत् ॥४८॥
वामसक्थ्नि तु यस्याः स्यात्पदुकाचिह्नमग्रतः ।
हृदये वैजयन्त्याश्च रेखा यस्यास्तु पौरटी ॥४९॥
कमलं तु करे धृत्वा हस्तिर्यस्याः करे भवेत् ॥
लक्ष्मीः स्वयं तु विज्ञेया कन्या मानुषरूपिणी ॥1.28.५०॥
अथान्यान्यपि चिह्नानि स्वाभाविकानि वर्णये ।
यासां पदे करे वा ता ज्ञेया नारायणाङ्गनाः ॥ ५१ ॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुग सन्ताने भगवद्गुणात्मकदिव्यसाध्वीनां दैवीचिह्नप्रदर्शननामाऽष्टाविंशोऽध्यायः ॥२८॥