श्रीलक्ष्मीरुवाच—
नारायण पते विश्वम्भर देव महाप्रभो!।
तव गीतादयः सर्वा मूर्तयो मोक्षदा इति ॥ १ ॥
यदुक्तं तत्तथैवास्ति परं यत्नमयं हि तत् ॥
अयत्नसाध्यं सरलं कृतमेव फलेद् द्रुतम् ॥ २ ॥
नाऽन्याऽपेक्षं परं श्रेष्ठं साधनं यद्धि सम्भवेत् ॥
तन्मे ब्रूहि महाराज! सर्वेषां हितकृद् भवेत् ॥ ३ ॥
बालैश्च वृद्धैर्युवभिः स्त्रिया वा नरेण मूर्खण सुपण्डितेन ।
स्मृद्धेन दारिद्यसुदुःखितेन येनापि केनापि विधापितेन ॥ ४ ॥
साधनेन परो देवो भगवान् पुरुषोत्तमः ॥
प्राप्यते तत्तथा स्त्रीभिः समाश्रोयं तदुच्यताम् ॥ ५ ॥
श्रीनारायण उवाच –
गीतादयोऽपि साध्व्योऽपि यस्या आश्रयणाद् द्रुतम् ।
परां मुक्तिं सुसंयान्ति तां देवीं कथयाम्यहम् ॥ ६ ॥
सर्वासु साध्वीषु शिरःस्वरूपा ह्ययत्नसाध्या हरिवल्लभा या ॥
आरम्भिता द्राक्सुखमुक्तिदात्री भक्तिस्तु माता बहुसम्मता मे ॥
ईशसृष्टिसमारम्भे वासुदेवादयो हि माम् ॥
प्रार्थयामासुरनुजाः प्रेमपूरितभावतः ॥ ८ ॥
नारायण जगद्धातर्जगच्छ्रेयोविधायक ।
अस्माकं मूलरूपो यः श्रीहरिर्धाम्नि राजते ॥ ९ ॥
तन्मूर्तेर्दिव्यसामर्थ्याऽनन्तकल्याणशक्तयः।
प्राविर्भवन्ति साध्व्यस्ताः कल्याणाय तु देहिनाम् ॥1.25.१०॥
तासां चैव तथाऽस्माकं श्रीहरावैक्यसाधनम् ।
समाश्रितं भवेच्छेष्ठं परं किञ्चिद्भवेन्न वा ॥११॥
इति जिज्ञासितश्चाहं न किञ्चिदवदं तदा ।
हृदि प्रस्फुरितं सम्यग् गच्छामः सन्निधौ हरेः ॥१२॥
वासुदेवादयः सर्वे भगवन्तस्तथेश्वराः ॥
जग्मुर्यत्र हरिः साक्षात्परं ब्रह्म विराजते ॥१३॥
परमेऽक्षरलोके तन्निकषोपस्थिता वयम् ।
नत्वा स्तुत्वा दण्डवच्च कृत्वोपाविविशुस्तले ॥१४॥
स्वागतं तेन सम्पृष्ठमातिथ्यं च कृतं मुदा ।
अस्माभिः कुशलं पृष्ठं कृपा जिज्ञासिता परा ॥१५॥
पित्राऽस्माकं तु हार्दं तद्विज्ञाय विनिवेदितम् ॥
यूयं सर्वे यदर्थं वै चायाताः सन्ति तद्धययम् ॥१६॥
विमृशामि परां साध्वीं मम मूर्तिमयीं जनुम् ।
रामकृष्णवासुदेवनारायणपरात्मनाम् ॥१७॥
तत्पत्नीनां तथा पूज्यां तनुं सृजामि मन्मयीम् ॥
मूर्तां तथा ह्यमूर्तां च मूर्तां तु मत्तनुं शुभाम् ॥१८॥
अमूर्तां तु तत्तदात्मनिवासार्हाँ जनिप्रथाम् ।
सङ्कल्प्यैवं स्वयं साक्षात् श्रीहरिः पुरुषोत्तमः ॥१९॥
स्वीयं विवृत्य पुंरूपं भक्तिरूपो बभूव ह ।
सा च देवी महादिव्या परब्रह्ममयी शुभा ॥1.25.२०॥
सौम्या रम्या सुरूपा च सर्वसद्गुणभूषणा ।
सर्वैश्वर्यसुसम्पन्ना माता सर्वसुखान्विता ॥२१॥
परम्ब्रह्म स्वयं चापि भक्तिरूपो व्यवर्तत ॥
तत्र का न्यूनता वा स्यात् किं किं न सम्भवेत् ततः ॥२२॥
यावत्तद्रससम्पूर्णा यावत्सौभाग्यशालिनी ।
सर्वैश्वर्यसमापूरा परब्रह्ममयी तनुः ॥२३॥
प्रेमपूर्वकसेवाया रूपं श्रीहरिणा धृतम् ॥
सर्वस्वं निहितं तत्र नाऽण्वपि न्यूनता ततः ॥२४॥
सा च माताऽवताराणां तथा भगवतामपि ।
ईशानां च सदा माता भक्तिर्मोक्षकरी मता ॥२५॥
अयत्नसाध्या सर्वत्र भक्तिर्माता तु वर्तते ।
मानसी भावनारूपा प्रेमरूपा तु चेतने ॥२६॥
क्रियारूपा शरीरे सा दिव्या स्नेहमयी स्मृता ।
विविधा विविधाकारा विविधार्थनिबन्धिनी ॥२७॥
भक्तिः साध्वी महादेवी बहुधा परितः स्थिता ।
भगवन्तो ह्यवतारा ईशास्तत्प्रमदादयः ॥२८॥
ऋषयः पितरो देवा मानवा यक्षराक्षसाः ।
भूतप्रेतपिशाचाश्च कूष्माण्डाश्च विनायकाः ॥२९॥
वेताला डाकिनी चैव शाकिनी योगिनी तथा ॥
सूताश्च मागधाश्चैव बन्दिनो भाटचारणाः ॥1.25.३०॥
विद्याधराश्च साध्याश्च विश्वेदेवाश्च मारुताः ॥
नागाः सर्पास्तथा दैत्या दानवा उरगाश्च ये ॥३१॥
स्थावरा जङ्गमाश्चैव तिर्यञ्चोऽपि च ये पुनः ॥
सूक्ष्माः स्थूलाश्च मूर्ताश्चाऽमूर्ता दिव्याश्च केचन ॥३२॥
सृष्टौ जीवाः सदेहा वा अदेहा लोकजाश्च ये ॥
अलोके वर्तमानश्च याम्ये धर्मपुरे तथा ॥३३॥
स्वर्गे वा नरके दिव्ये सत्ये वैश्वरभूमिषु ।
ये च केचन सृष्टिस्थाः पापाः पुण्याश्च जीविनः ॥३४॥
मलिनाश्चाऽमलिनाश्च पात्राण्यपात्रजातयः ॥
ज्ञानिनो ज्ञानहीना वा वेद्यावेद्यधुरोज्झिताः ॥३५॥
तेभ्यो भक्तिर्महासाध्वी मुक्तिदा नाऽत्र संशयः ॥
श्रीहरौ प्रेमरूपा सा द्रागेव मोक्षदायिनी ॥३६॥
सर्वैः कार्या सदा पूज्या मान्या सेव्या हृदि प्रिया ॥
सदा धार्या च दृश्या च द्राव्या मुक्तिप्रदायिनी ॥३७॥
नैतादृशी परा देवी क्वापि जाता न जायते ॥
जनिष्यते न चान्या वै भक्तिर्माता परा मता ॥३८॥
सर्वेषां केवला भक्तिर्ब्रह्मसायुज्यकारिणी ॥
इति निश्चित्य सर्वेशो सद्रूपां तां ससर्ज ह ॥३९॥
परमानन्दचिन्मूर्तिः सुन्दरी कृष्णवल्लभा ॥
हरिं पप्रच्छ देवेशी किं करोमीति साञ्जलिः ॥1.25.४०॥
तदा त्वाज्ञापयद् देवो मद्भक्तान् पोषयेति च ॥
अङ्गीकृतं तया तद्वै प्रसन्नोऽभूद्धरिस्तदा ॥४१॥
मुक्तिं दासीं ददौ तस्यै पुत्रौ ज्ञानविरागकौ ।
भक्तिर्गोलोकवैकुण्ठाक्षराव्याकृतधामसु | ॥४२॥
पोषिता भगवद्रूपैः पार्षदैः शाश्वतीकृता ॥
ईश्वराणां तु लोकेषु पोषितेश्वरकोटिभिः ॥४३॥
स्वर्गे भूमौ च पाताले पोषिता नारदादिभिः ॥
मुक्तिज्ञानविरागैश्च सहिता यत्र सङ्गता ॥४४॥
तत्र सर्वत्र सा भक्तिर्महानन्देन संस्थिता ।
सत्याऽसत्यमये काले धर्माधर्ममये युगे ॥४५॥
भक्तिस्तु सर्वथा दिव्या मुक्तिदा प्रबला मता ॥
सृष्टौ सद्भिर्वर्धमाना गेहे गेहे जने जने ॥४६॥
वर्तते मुक्तिमादाय स्वेभ्यो मुक्तिं ददाति हि ।
भक्त्यान्विताश्च ये जीवा भविष्यन्ति युगे युगे ॥४७॥
पापिनोऽपि गमिष्यन्ति निर्भयं हरिधाम यत् ।
येषां चित्ते वसेद् भक्तिः सर्वदा प्रेमरूपिणी ॥४८॥
न ते पश्यन्ति कीनाशं स्वप्नेऽप्यमलमूर्तयः ॥
न प्रेतो न पिशाचो वा राक्षसो वाऽसुरोऽपि वा ॥४९॥
भक्तियुक्तमनस्कानां दर्शनेऽपि प्रभुर्भवेत् ।
ने तपोभिर्न वेदैश्च न ज्ञानेन न कर्मणा ॥1.25.५०॥
हरिस्तु लभ्यते भक्त्या भक्तिरूपो यतो हरिः ।
प्राणिनां सुकृतबलाद् भक्तौ प्रेमा विवर्धते ॥५१॥
हरौ भक्तिर्हरिर्भक्तिर्भक्त्या कृष्णः पुरःस्थितः ॥
भक्तिद्रोहकरा ये स्युस्ते सीदन्ति जगत्त्रये ॥५२॥
अलं व्रतैरलं तीर्थैरलं योगैरलं मखैः ।
अलं ज्ञानकथालापैर्भक्तिरेकैव मुक्तिदा ॥५३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने भक्तिमाहात्म्यकथननामा
पञ्चविंशोऽध्यायः ॥२५॥