०१६

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि ततो वै ब्रह्मणा स्वयम् ।
कृतं लोकनिवासार्थ यद्यत् तुष्ट्यर्थमेव च ॥१ ॥ ततस्तु सात्त्विकीं सृष्टिं ब्रह्मा कर्तुं मनो दधे ।
सकल्पं कृतवान् सर्वं सात्त्विकाः सम्भवन्त्विति ॥२ ॥ तावद्रुद्रात्समुत्पन्ना रुद्रा वै सात्त्विकाः शिवाः ।
शुद्धाः शुद्धतमाः सर्वे विद्वांसो घनमूर्तयः ॥३ ॥ सर्वे सूक्ष्मशरीरास्ते स्थिरलोकस्थिताः सदा ।
प्रकाशाः शुद्धबुद्धिस्थाः सिद्धाश्च योगधर्मिणः ॥४ ॥ सर्वे ते ब्रह्मणा सार्धं समैश्वर्यावसायिनः ।
शान्ताः सुखदतनवः सर्वे ते भावनामयम् ॥५ ॥ आनन्दं ब्रह्मणः प्राप्य चाऽमृतत्वाय ते गताः ।
सर्वे वै सुखदात्मानो बुद्धशुद्धतया मताः ॥६ ॥ आनन्दं ब्रह्मणः प्राप्याऽमृताऽऽनन्दं भजन्त्युत ।
द्वन्द्वैस्तैर्नाभिभूयन्ते भावदुःखविवर्जिताः ॥७ ॥ आधिपत्यं विना तुल्या ब्रह्मणस्ते महौजसः ।
प्रभावविजयैश्वर्यस्थितिवैराग्यदर्शनैः ॥८ ॥ ते ब्राह्मलौकिकाः सर्वे ब्राह्मीं प्राप्य गतिं शुभाम् ।
वीतरागा जितक्रोधा निर्मोहाः सत्यवादिनः ॥९ ॥ स्वस्मिन् प्रणिहितात्मानो दयावन्तो जितेन्द्रियाः ।
निःसङ्गा शुचयश्चैव ब्रह्मसायुज्यगाः स्मृताः ॥1.16.१० ॥ अकामयुक्तैर्ये वीरास्तपोभिर्दग्धकिल्बिषाः ।
तेषामभ्रंशिनो लोका अप्रमेयसुखाः स्मृताः ॥११ ॥ एतद्ब्रह्मपदं दिव्यं परमं व्योम्नि भास्वरम् ।
यत्र गत्वा न शोचन्ति ह्यमरा ब्रह्मणा सह ॥१२ ॥ च्यवन्ते न यतो भूयो ब्रह्माणं त उपासते ।
अपुनर्मारकामानां ब्रह्मलोकः स उच्यते ॥१३ ॥ पुरस्ताद् ब्रह्मलोकस्य त्वण्डादर्वाक् च वेधसः ।
मध्ये दिव्यं पुरं रम्यं स्थानं रुद्रमनोमयम् ॥१४॥ तद्विग्रहवतः स्थानमीश्वरस्याऽमितौजसः ।
शिवं नाम पुरं तत्र शरणं ब्रह्मवासिनाम् ॥१ ५॥ सहस्राणां शतं पूर्णं योजनानां सुविस्तरम् ।
आभ्यन्तरे विशालं तद् व्यासमण्डलसंस्थितम् ॥१६ ॥ बहुमध्याह्नसूर्यादिपरतेजोऽतिमर्दिना ।
शातकौम्भेन महता प्राकारेणाऽर्कवर्चसा ॥१७॥ मण्डितं चाथ सौवर्णैर्मुक्तादामविभूषितैः ।
चतुर्द्वारैः शुभैर्गम्यं दिव्यं सुकृतरूपकम् ॥१८ ॥ तच्चाकाशे महद्व्योम्नि सत्ये लोके स्थितं पुरम् ।
न तत्र क्रमते मृत्युर्न तापो न जरा श्रमः ॥१९ ॥ न तच्चान्यैः पुरैः क्वापि रूपमाप्तुं हि शक्यते ।
तादृशं तत्तु नगरं गोवृषाङ्कस्य तैजसम् ॥1.16.२० ॥ भावेन मानसी भूमिर्विन्यस्ता कनकात्मिका ।
रत्नवालुकया पूर्णा तेजसा व्याप्य वर्तते ॥२१ ॥ शारदेन्दुप्रकाशानि वालसूर्यनिभानि च ।
अर्धश्वेताऽर्धरक्तानि सौवर्णानि तथैव च ॥२२॥ रथचक्रप्रमाणानि नालैर्मरकतप्रभैः ।
सुकुमारेण रूपेण गन्धिनाऽप्रतिमेन च ॥२३ ॥ तत्र दिव्यानि पद्मानि वनेषूपवनेषु च ।
भृङ्गपत्रनिकाशानि तपनीयानि यानि च ॥२४॥ अर्धकृष्णाऽर्धरक्तानि सुकुमारान्तराणि हि ।
आतपत्रप्रमाणानि पङ्कजानि भवन्ति वै ॥२५॥ पुण्याऽमृतप्रवाहाश्च नद्यो दिव्या वहन्ति च ।
पद्मोत्पलदलोन्मिश्रं फेनाद्यवर्त्तविग्रहम् ॥२६॥ जलं मणिदलप्रख्यमावहन्ति सरिद्वराः ।
तद्वै ये ध्यानमव्यग्रा सुयुक्ता विजितेन्द्रियाः ॥२७॥ पश्यन्तीह महात्मानः पुरं तद्गोवृषात्मनः ।
मध्ये पुरवरेन्द्रस्य दिव्यो भद्रश्रिया वृतः ॥२८ ॥ सहस्रपादः प्रासादस्तपनीयमयो महान् ।
अनुपमैश्च रत्नैश्च सर्वतः स विभूषितः ।
स्फटिकैश्चन्द्रसङ्काशैर्वैदूर्यैः सोमसम्प्रभैः ॥२९॥ बालसूर्यप्रभैश्चैव सौवर्णैश्चाग्निसन्निभैः ।
राजतैश्चापि शुशुभे हीन्द्रनीलमयैः शुभैः ॥1.16.३० ॥ दृढैर्वज्रमयैश्चैव निर्मितः सुमहत्तरैः ।
जलैश्च विविधाकारैर्दीप्यद्भिरधिवासितम् ॥३१ ॥ पुरं चन्द्रप्रकाशाभिः पताकाभिरलङ्कृतम् ।
रुक्मघण्टादिनादैश्च नित्यमुत्सवसंश्रितम् ॥३ २॥ रुद्रदासास्तु गान्धर्वाः किन्नराः सुतमागधाः ।
स्तुवन्तीशं महारुद्रं परिवारसमेतकम् ॥३३॥ रुद्रप्रासादराजोऽसौ शतभूमिविराजते ।
वासन्तीप्रतिमा यत्र त्र्यम्बकस्य निवेशने ॥३४॥ रुद्राणी शाम्भवी शक्तिर्देवी रूपगुणान्विता ।
सुगन्धितशरीरा सा रुद्रं देवं हि सेवते ॥३५॥ श्रीश्च लक्ष्मीश्च माया च कीर्तिः शोभा सरस्वती ।
देव्या वै सहिता एता रूपगन्धसमन्विताः ॥३६॥ नित्याश्चाऽपरिसङ्ख्याताः परस्परगुणाधिकाः ।
भूषा वै सर्वरत्नानां देव्यः कान्तिविलासयोः ॥३७॥ कोटीशतं महाभाग्या विभज्याऽऽत्मानमात्मना ।
भगवन्तं महारुद्रं प्रतिमोदन्त्यतन्द्रिताः ॥३८ ॥ तासां सहस्रं चान्यास्तत्पृष्ठतः परिचारिकाः ।
रूपिण्यश्च श्रियायुक्ताः सर्वाः कमललोचनाः ॥३ ९॥ लीलाविलाससंयुक्तभावैरतिमनोहरैः ।
रुद्रैस्ताः सह मोदन्ते युवभिः पावकोत्तमैः ॥1.16.४० ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सात्त्विकरुद्ररुद्राणीभवनादिनिरूपणनामा षोडशोऽध्यायः ॥१६ ॥