श्रीनारायण उवाच-
विष्णुः सर्वगुणोपेतः सर्वपोषणशक्तिमान् ।
सर्वाश्चर्यनिधिः श्रीमान् कुन्दनाभिमहोज्ज्वलः ॥१ ॥
प्रान्तभुग्नपिशङ्गाभस्निग्धकेशाक्तमस्तकः ।
नैकरत्नमणिप्रोतसौवर्णमुकुटावहः ॥२ ॥
शष्कुल्याकृतिसत्कर्णधृतसौवर्णकुण्डलः ।
विशालोज्ज्वलरेखात्रययुग्भालस्थचन्द्रकः ॥३ ॥
कैसरं तिलकं बिभ्रत् ललाटेऽगुरुचन्दनः ।
कामबाणप्ररोहाऽर्हवक्रभ्रूकुटिभङ्गुरः ॥४ ॥
अरविन्ददलाऽऽशुभ्रप्रान्तरक्ताऽऽभनेत्रकः ।
कज्जलाऽञ्जनसंसिक्ताऽऽकर्णान्ताऽक्षिप्रकोणकः ॥५ ॥
तिलपुष्पप्रफुल्लाभनासिको दीर्घगण्डकः ।
सुवर्तुलसमाकाररक्तद्वयकपोलकः ॥६ ॥
सुगन्धपद्मकेयूरो दिव्यपुष्पावतंसकः ।
शुद्धचामीकरकर्णपूरकर्णटिभूषणः ॥७ ॥
सूक्ष्मनीलहिरण्याग्रोद्भवच्छ्मश्रुप्रसुन्दरः ।
रक्तबिम्बाऽऽभसद्धास्यसमाश्रितसमौष्ठकः ॥८ ॥
कम्बुकण्ठः सुचिबुकस्तेजोमण्डलकन्धरः ।
देदीप्यमानवपुषा हृत्तिमिरप्रणाशकः ॥९ ॥
पौष्पान् हाराँश्च सौवर्णान् गले बिभ्रत्सुकौस्तुभम् ।
सुपुष्टांसः सुप्रलम्बभोगपूवार्धबाहुकः ॥1.9.१० ॥
आजानुलम्बहस्तश्च सुप्रकोष्ठश्चतुर्भुजः ।
विद्योतच्चन्द्रसदृशनखरक्तकरद्वयः ॥११ ॥
स्वर्णाङ्गुलीयसत्तेजोरत्ननद्धसुपद्मकः ।
धनुश्चक्रध्वजस्वस्तिकेनमीनाङ्कहस्तकः ॥१२॥
शङ्खचक्रगदापद्महेतिर्हारधरः प्रभुः ।
श्रीवत्साङ्कः सुरशनः कुन्ददन्तः सुपृष्ठकः ॥१३।
विशालोन्नतसद्वक्षाः पुष्टकटिसुलिङ्गकः ।
करिहस्तोरुयुगलः समवर्तुलजानुकः ॥१४॥
क्रमवृत्ताऽऽपुष्टजघः समनिम्नसुपत्तलः ।
मध्यनिम्नोन्नतरक्तचारुदृश्यपदाम्बुजः ॥१५॥
सर्वतीर्थाश्रयपुण्यप्रपदः पाण्डुरच्छविः ।
अङ्गुल्युपरिसत्सूक्ष्मरोमराजिविराजितः ॥१६ ॥
सूक्ष्मरोमावलिराजत्तत्तद्वीर्यसुकुक्षिकः ।
त्रिगुल्फचरणः श्रीमान् सर्वाभरणभूषणः ॥१७ ॥
अम्लानमधुसत्सौरभाऽऽर्द्रविविधपुष्पया ।
विराजितो वैजयन्त्या दिव्यया वनमालया ॥१८ ॥
पद्मकेत्वङ्कुशवज्रस्वस्तिकजवजम्बवः ।
अष्टकोणोर्ध्वरेखेऽङ्कानि पदे दक्षिणे नव ॥१ ९॥
मीनाऽर्धचन्द्रकलशत्रिकोणव्योमगोष्पदम् ।
धनुश्चेति पदे वामे सप्त चिह्नानि सन्दधत् ॥1.9.२० ॥
आप्रान्तद्वयसंलग्नविस्तीर्णभालरेखया ।
षड्विधं भगमैश्वर्यं व्यञ्जयन् सात्त्विकीं जनिम् ॥२१ ॥
वामे सक्थिनि सत्तेजःपाण्डुरांऽकं तु सुन्दरम् ।
सहजायास्तु लक्ष्म्यास्तच्चन्द्राभं चिह्नमुद्वहन् ॥२२॥
एतादृशोऽभवद्विष्णुर्बहुरूपगुणाश्रयः ।
दृष्ट्वा ब्रह्मा स्वयम्भूस्तं सृष्टिनेत्रभिमानवान् ॥२३ ॥
कोऽयमन्योऽभवद्रूपगुणवीर्यबलाधिकः ।
इतिकृत्वाऽपृच्छदेनं विष्णुं लोकप्रपोषकम् ॥२४॥
कस्त्वमेतादृशो विद्वन् मत्प्रतिद्वन्द्वरूपकः ।
सृष्टेः कर्ताऽहमेकोऽस्मि सर्वैश्वर्यविभूतिमान् ॥२५॥
सर्वधाता सर्वपोष्टा सर्वनेतृत्वमावहन् ।
मत्तो नाऽन्योऽस्ति कश्चिद्वै सृष्टेः संहारपोषकः ॥२६॥
को वै हेतुस्तवोत्पत्तौ किङ्कर्ता किंविधायकः ।
मद्विरोधं प्रकुर्वन् वै न कश्चित्सुखभाग्भवेत् ॥२७॥
भूत्वा प्रहस्य विष्णुस्तं ब्रह्माणं प्रत्युवाच ह ।
सृष्टिर्मयि त्वह सृष्टौ चाहं सृष्टिमयो विभुः ॥२८ ॥
त्वादृशाः पद्मजा नैके मयि लीनाः समासते ।
अहमनादिनिधनो धाताऽहं विश्वतोमुखः ॥२९॥
व्याप्यव्यापकभावेन विश्वमावृत्य यः स्थितः ।
सर्वसृष्टिमयो देवोऽनन्तब्रह्मादिसंस्तुतः ॥1.9.३० ॥
सोऽहं नारायणो विष्णुर्नाऽन्यः कश्चित्परः समः ।
गच्छ दूरमितो नो चेद्विनाशं यास्यसि ध्रुवम् ॥३१ ॥
इति विष्णुवचः श्रुत्वा ब्रह्मा लोकपितामहः ।
प्राह विष्णुं च मा गर्व कुरु दर्शनबालिशः ॥३२॥
माऽवमंस्थाश्च मां देव एष त्वां नाशयाम्यहम् ।
इत्युच्चार्य तु संरब्धौ परस्परजिघांसया ॥३३ ॥
अहमेव वरो नत्वमहमेकः परः प्रभुः ।
इतिब्रुवौ हन्तुकामौ चक्रतुर्युद्धरम्भणम् ॥३४॥
युयुधाते परौ वीरौ मानव्याजौ महायुधौ ।
अहङ्कारनिवेशाद्वै युद्धं तयोर्बभूव ह ॥२५ ॥
ईश्वरास्तत्समकक्षाः समाजग्मुर्दिदृक्षवः ।
क्षिपन्तः पुष्पवर्षाणि पश्यन्तो युद्धवर्तिनौ ॥३६॥
तावत् क्रुद्धो हरिस्तत्र बाणान्मुमोच दुःसहान् ।
अस्त्राणि विविधान् क्षेपान् ब्रह्मवक्षसि पारगान् ॥३७॥
अथ ब्रह्मा परं क्रुद्धौ विष्णोर्वक्षसि दुःसहान् ।
बाणान् विद्युत्सतेजस्कानस्त्राणि विविधानि च ॥३८॥
मुमोचेति तयोर्युद्धं द्रागाश्चर्यकरं ह्यभूत् ।
प्रसमीक्ष्येश्वराः सर्वे प्रशशंसुः समाकुलाः ॥३ ९ ॥
विष्णुर्वेगवशो भूत्वाऽग्न्यस्त्रं मुमोच वेधसे ।
पर्जन्यास्त्रेण विधिना तदस्त्रं सन्निवारितम् ॥1.9.४०॥
विष्णुना प्रेरितं तत्र विद्युदस्त्रं समेघकम् ।
ब्रह्मणा नाशितं तद्वै वाय्वस्त्रेण महाम्बरे ॥४१ ॥
विष्णुर्युयोज गिर्यस्त्रं को वज्रास्त्रं मुमोच ह ।
हरिर्नागास्त्रमसृजद् ब्रह्मा चिक्षेप गारुडम् ॥४२॥
हरिणा प्रहितं भारं लघिम्ना ब्राह्मणा हृतम् ।
वियोगशक्तिमुद्यम्य विष्णुर्जघान कोरसि ॥४३ ॥
ब्रह्मा शूलेन तां छित्वा जृम्भणास्त्रं मुमोच ह ।
विष्णुर्निद्राप्रमन्त्रेण जृम्भणं प्रविलय्य च ॥४४॥
जग्राह यावद्ब्रह्मास्त्रं ब्रह्मा चापि च तद् दधे ।
द्वयोर्ब्रह्मास्त्रयोर्युद्धं प्रघोरं चाऽम्बरेऽभवन् ॥४५॥
महानलास्ततो जाता ईशसृष्टिप्रदाहकाः ।
विष्णुस्त्वावत् स्वकं चक्रं सञ्जग्राह सुदर्शनम् ॥४६॥
कोटिसूर्यसमानोग्रं तीक्ष्णधारं विनाशकम् ।
ईशास्तावत्तु सन्त्रस्ता हाहाकारं प्रचक्रिरे ॥४७॥
ब्रह्मणस्तु विनाशाय यावत्प्रेरयति प्रभुः ।
तावद् ब्रह्मा विष्णुनामभक्त्याख्यं कवचं दधौ ॥४८॥
विष्णुर्नारायणो देवो मय्यावसतु दुःखहाः ।
परम्ब्रह्म शिरः पातु ब्रह्म पातु गलं मम ॥४९॥
वासुदेव उरः पातु कटिं पात्वनिरुद्धकः ।
प्रद्युम्न उदरं पातु सङ्कर्षणस्तु पृष्ठकम् ॥1.9.५०॥
भूमा शिश्नं तु मे पातु महाविष्णुस्तु सक्थिनी ।
हिरण्यगर्भो मे जानू जङ्घे वैराजपूरुषः ॥५ १ ॥
गुल्फौ प्रधानपुरुषः पादौ प्रकृतिपूरुषः ।
कृष्णः पूर्वं हरिः पश्चाद् वैकुण्ठश्चोत्तरेऽवतु ॥५२॥
नारायणस्तु पश्चान्मेऽन्तर्यामी सर्वतोऽवतु ।
विष्णुस्त्वं मयि सर्वाङ्गे प्रविश्याऽवतु मां विभो ॥५३॥
सत्त्वाश्रयस्तु मे सत्त्वं पातु नारायणः स्वयम् ।
रक्ताश्रयस्तु मे रक्तं पातु श्रीभगवान् स्वयम् ॥५४॥
भयाश्रयं तु मां पातु चक्री चाऽभयदानदः ।
नालस्थितं तु मां पातु नालोद्भवकरः प्रभुः ॥५५॥
आकस्मिकमहादुःखात्पाहि मां शरणागतम् ।
ब्रह्मास्त्रे शान्तय चक्रं संहराऽद्य द्यां कुरु ॥५६ ॥
स्तुत्वेत्थं परमं देवं ब्रह्मा तूष्णीं बभूव ह ।
ब्रह्मभक्तिं समज्ञाय विष्णुश्चक्रं मुमोच न ॥५७॥
परं ब्रह्मास्त्रयोस्तेजः संहारार्थं मनो दधे ।
सङ्कर्षणस्वरूपो यः परम्ब्रह्म जनार्दनः ॥५८ ॥
महाज्योतिर्मयस्तम्भो द्वयोर्मध्ये बभूव सः ।
ब्रह्मास्त्रे चापि ते तावत्सर्वसंहारसक्षमे ॥९९ ॥
निलिल्याते क्षणेनैव महाज्योतिर्मयेऽनले ।
अस्त्रशान्तिकरं तेजः परं दृष्ट्वा तदद्भुतम् ॥1.9.६ ० ॥
ब्रह्मा विष्णुस्तथेशा ये तत्र सन्ति समागताः ।
लेभिरे विस्मयं मुग्धाः किमेतज्ज्योतिरित्यहो ॥६ १ ॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्मविष्ण्वोर्विवादभक्तिकवचादिनिरूपणनामा नवमोऽध्यायः ॥९॥