००५

श्रीनारायण उवाच-
वासुदेवः समुत्पन्नः स्वप्रयोजनमार्थयत् ।
किं ममाऽत्र विधेयं स्यात् कथमीदृक्स्वरूपवान् ॥१ ॥ इति सञ्चिन्त्य सस्मार परमं मूलरूपिणम् ।
श्रीहरिस्तु तदा तस्मै रूपत्रयमदर्शयत् ॥२ ॥ वासुदेवात् समुत्पन्ना वासुदेवेऽप्ययं गताः ।
अनिरुद्धश्च प्रद्युम्नस्तथा सङ्कर्षणोऽपरः ॥३ ॥ वासुदेवो हरावास्ते वासुदेवे त्विमे त्रयः ।
दृष्ट्वा ज्ञात्वा पुनस्तावद्विचारं कृतवान् हि सः ॥४ ॥ किं ममैभिस्त्रिभी रूपैरनुष्ठेयं भवेदिति ।
श्रीहरिणा ततस्तस्मै ईशसृष्टेस्तु नेतृता ॥५ ॥ दर्शिता भूस्थैर्यभङ्गमयी सा त्र्यधिनीकृता ।
सृष्टिस्तु कीदृशी कार्या कीदृशो लोकविस्तरः ॥६ ॥ इति सञ्चिन्तने तस्मै वासुदेवाय वै हरिः ।
स्वमूर्तौ तत्कृतीः सर्वाः कलाः सर्वा अदर्शयत् ॥७ ॥ अनन्तायाममायायामगाधायां हरेस्तनौ ।
स्वस्वधामान्यपश्यँश्च सर्वे स्वस्वविभूतिभिः ॥८ ॥ महाकालं च प्रकृतिपूरुषं भूमपूरुषम् ।
प्रधानपुरुषं चापि महापूरुषमित्यपि ॥९ ॥ महाविष्णुं तथा तद्वद् वैराजपुरुषं ह्यपि ।
तथा हिरण्यगर्भं च ब्रह्मविष्णुमहेश्वरान् ॥1.5.१ ०॥ गोलोकं चामृतं वैकुण्ठकं श्वेतं च धाम यत् ।
अव्याकृतं तथा धाम श्रिया विष्णोश्च धाम यत् ॥११ ॥ सदाशिवकृतं धाम महामायाप्रमण्डलम् ।
चतुर्विंशतितत्त्वानां धामानि विविधानि च ॥१२॥ सन्निवेशो यथा यस्य यथाशक्तिबलोदयाः ।
यथा व्यवस्थया यत्र यादृशी दिव्यता परा ॥१ ३॥ यादृशानि समाश्चर्यप्रकाराणि भवन्ति च ।
ऐश्वर्याणि चमत्कारा ब्रह्मरससरांसि च ॥१४॥ इष्टमिष्टलता सम्पत् स्विष्टमिष्टविभूतयः ।
ब्रह्मरसप्रवाहार्था अत्याश्चर्याणि यानि वै ॥१५॥ रूपानुरूपघटनाः कल्पाऽनुकल्पवल्लयः ।
मोदप्रमोदतरवो नन्दाऽनुनन्दभूमयः ॥१६॥ तृप्त्यनुतृप्तपानास्वादनसौगन्धिकार्चनम् ।
शैत्याऽनुशैत्यनिवहा ह्रादानुह्रादरञ्जनम् ॥१७॥ ये च यानि यत्र यत्र चित्राश्चर्याणि तानि वै ।
दर्शयामास भगवान् श्रीहरिः स्वतनौ तदा ॥१८॥ वासुदेवस्तु भगवानीशलोकाऽनुसङ्कृतीः ।
दृष्ट्वा दृष्ट्वा तु तत्पारं नाऽऽयान् नेति जगौ तदा ॥१९॥ स्वविभूतेः स्वयमन्तं नेयाय वासुदेवराट् ।
जगाद् हरये तावदनन्तोऽसि नियामकः ॥1.5.२०॥ शशंस बहुधा रूपं वव्रे ज्ञानं च नैत्यकम् ।
तथाऽस्त्विति हरिः प्राह वहेशसृष्टिभावनम् ॥२१॥ प्राविर्भावय पुंसस्त्रीन् ईशभारवहान् स्वकान्।
इत्याज्ञां समभिगृह्य वासुदेवेन चाऽऽत्मतः ॥२२॥ अनिरुद्धश्च प्रद्युम्नः सङ्कर्षण इति त्रयः ।
ईश्वराणान्तु सर्वोषां सृजिपुष्टिविरामकाः ॥२३॥ समाविर्भाविताः स्वस्माद् राजाधिराजराजकाः ।
तेषामंशास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥२४॥ वैराजदेहोत्पन्नानां ब्रह्माण्डानां नियामकाः ।
अवराऽण्डप्रणेतारो जीवसृष्टिप्रशासकाः ॥२५॥ अनिरुद्धादयस्तस्मादीशतुष्टिप्रशासकाः ।
परसृष्टिप्रणेतारः परमात्मस्वरूपकाः ॥२६॥ इत्येवं सृष्टिवैचित्र्यमीश्वराणामनुस्मृतम् ।
तत्तदीश्वरभावत्वं परब्रह्माऽन्वयान्मतम् ॥२७॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुग-सन्ताने वासुदेवस्येशसृष्टिप्रदर्शननामा पञ्चमोऽध्यायः ॥५ ॥