००१

परम्ब्रह्माण्डपरम्ब्रह्म श्रियं नारायणं हरिम् ।
सर्वाऽन्तर्यामिणं वन्दे देवं सर्वाऽवतारिणम् ॥१ ॥ श्रीश्च लक्ष्मीश्च यत्पत्न्यौ विप्राग्नी यन्मुखं मतम् ।
सन्तो यद्धृदयं शश्वत् तस्मै चाऽन्वयिने नमः ॥२ ॥ दिविषद्बर्हिषत् त्रिषत् पितृसद्भूतसच्च यः ।
ध्यानलभ्यस्वरूपाय तस्मै शंवर्षिण्णे नमः ॥३ ॥ हिमवच्छिखरे रम्ये स्वाश्रमे पर्वतोत्तमे ।
नारायणेन वै लक्ष्म्यै या प्रोक्ता निजसंहिता ॥४ ॥ बद्रिकाश्रमतीर्थे तां ततो लब्ध्वाऽऽदिरूपधृक् ।
श्वेतव्यासो दिव्यदृष्टिश्चतुःशिष्यानुवाच ह ॥५ ॥ श्वैतिं च सुशिखं चापि श्वेताश्वं श्वेतलोहितम् ।
चत्वारस्ते महात्मानो ब्रह्मिष्ठा ब्रह्मपारगाः ॥६ ॥ भूत्वा धाम हरेः प्रापुः पुनरावृत्तिवर्जितम् ।
अनादिश्रीकृष्णनारायणपत्न्यस्तु ताः कथाः ॥७ ॥ पतिं नारायणं प्रेम्णा पप्रच्छुर्लोमशाऽऽश्रमे ।
सौराष्ट्रे कुङ्कुमवापीक्षेत्रेऽश्वपट्टसारसे ॥८ ॥ नारायणश्च ताभ्यो वै जगादेमां हि संहिताम् ।
लक्ष्मीनारायणसंहिताख्यां सर्वार्थसम्भृताम् ॥९ ॥ पञ्चविंशतिसाहस्राऽधिकलक्षं हि वर्तते ।
श्लोकानां यत्र सङ्ख्यानं मोक्षदं पाठमात्रतः ॥1.1.१० ॥ एकदा नारदः प्रायात् कर्तुं वैकुण्ठिदर्शनम् ।
सभा तेन समासीना दृष्टा श्रीविष्ण्वधिष्ठिता ॥१ १॥ दिव्या मुक्तास्त्वक्षराख्या गोलोकस्थास्तथाऽपरे ।
वैकुण्ठवासिनो मुक्ताः श्वेतद्वीपनिवासिनः ॥१ २॥ अव्याकृताऽमृतवासाः श्रीलक्ष्मीधामवासिनः ।
बद्रीक्षीराऽब्धिमाश्चापि तदन्यद्धामवर्तिनः ॥१३॥ ऋषयः पितरो देवाः सिद्धा गान्धर्वचारणाः ।
लोकपालाश्च मनवस्तापसाः साधवश्च ये ॥१४॥ मुनयो दिव्यगतयो दिव्याऽहतसुविग्रहाः ।
आसन् सर्वे तत्र योगे नारायणपरायणाः ॥१५॥ लक्षयोजनविस्तीर्णाऽऽप्रान्तसङ्कुलिता सभा ।
नारदेन तु सन्दृष्टा ह्यर्धा पुम्भिः प्रकाशिता ॥१६॥ वामभागे यत्र लक्ष्मीस्तत्र देव्यस्तु संस्थिताः ।
मुक्तान्यो वासुदेवान्यो गोप्यः सख्यस्तथा पराः ॥१७॥ ईश्वरिण्यो भगवत्यः पार्षदाण्यश्च सेविकाः ।
ब्रह्माण्यो मातरो देव्यो मानव्यः सिद्धविग्रहाः ॥१८॥ नारदेन सभा दृष्टा ह्यर्धा नारीप्रकाशिता ।
कृष्णनारायणं देवं हरिं विष्णुं सनातनम् ॥१९ ॥ श्रियं लक्ष्मीं महामायां नारदः प्राणमन् मुदा ।
सर्वां सभां प्रणम्याऽथ विष्णुदत्ते सुविष्टरे ॥1.1.२० ॥ न्यषीदन्नारटस्तत्र तैः सर्वेः सत्कृतः ऋषिः ।
व्यासोऽहं श्वेतसञ्ज्ञो वै सूतः सुशिखनामकः ॥२१ ॥ व्याख्यातारस्तथा चान्ये बृहस्पतिपुरोगमाः ।
दिव्यरूपास्तु ते सर्वै नारायणसमीहया ॥२२॥ कथास्तु विविधास्तत्र चक्रुर्भक्तिविवर्धनाः ।
तत्र नारायणेनोक्तं नारदोऽयं महामुनिः ॥२ ३ ॥ बहुश्रुतो बहुज्ञाता समाख्याननिधिर्महान् ।
लोकवृत्तान्तकुशलः प्रष्टव्यो वृत्तवित्तये ॥२४॥ लक्ष्मीरुवाच-
भो तपस्विन् महायोगिन् विष्णोरंश महामुने ।
कुतस्तादागम्यते किं वर्तते विष्णुसृष्टिषु ॥२५ ॥ कथंव्रता जना भूमौ समयश्चापि कीदृशः ।
तीर्थानां सुसतां पृथ्व्यां भूसुराणां गवां तथा ॥२६ ॥ दीनानां सुकृतस्यापि साध्वीनां न्यासिनां स्थितिः ।
कीदृशी साम्प्रतं चास्ति मोक्षाध्वा कच्चिदक्षतः ॥२७॥ ज्ञानं विज्ञानसहकृत् कच्चिद्विप्रेषु राजते ।
नारायणस्य सद्भक्तिर्लोकषु वर्तते न्विति? ॥२८ ॥ श्रीनारद उवाच-
पितरौ सर्वदा वन्दे कृपालू मुक्तिदायकौ ।
स्वल्पं नाऽविदितं चापि पित्रोः सर्वज्ञयोः किल ॥२९ ॥ तथापि शिष्यधर्मत्वात् कथयामि यथाक्रमम् ।
पर्यटन् सुबहून् लोकान् दृष्ट्वा कृतयुगस्थितिम् ॥1.1.३ ० ॥ विलोक्य विष्णुसृष्टौ वै विष्णुभक्तियुतान् जनान् ।
हृष्यामि च मुहुर्मातः पातिव्रत्यपराः प्रजाः ॥३१ ॥ धन्योऽयं भगवान् विप्णुर्धन्या मा परमेश्वरी ।
यत्प्रतापाद् ध्रुवा मुक्तिर्लभ्यते मानवैः किल ॥३ २॥ श्रवणात्कीर्तनाद्विष्णोः स्मरणात्पादसेवनात् ।
अर्चनाद्वन्दनात् सख्याद्दास्याद्वाऽऽत्मानिवेदनात् ॥३३ ॥ ज्ञानाऽज्ञानकृताद्वापि संसारमलवर्जनात् ।
सद्यः सम्प्राप्यते मोक्षस्तस्माद्भाग्यं नु किं परम् ॥३४॥ सकृज्जपन्ति ये जाप्यं गृणन्ति नाम वा हरेः ।
दिव्यभावनया मातर्मुक्तिं यान्ति तु ते ध्रुवाम् ॥३५॥ सामान्यामथवा मुख्यां विष्णोर्दीक्षां हि ये जनाः ।
गृह्णन्त्याबालवृद्धाद्यास्ते स्युर्वैकुण्ठवासिनः ॥३६ ॥ आनुकूल्यं सदा विष्णोः प्रातिकूल्यविवर्जनम् ।
विष्णौ पूर्णो हि विश्वासस्तवाऽस्मीतिवरेषणा ॥३७॥ देहेन्द्रियमनः प्राणाऽभिमतिधीषणात्मनाम् ।
न्यासो विष्णौ तथा दीनाऽधीनता च हरेः सदा ॥३८ ॥ सर्वस्वं मे हरिः साक्षान्नान्यश्चेति मतिः स्थिरा ।
इत्येवं षड्विधा विष्णौ प्रपन्तिः शरणागतिः ॥३९ ॥ तदेकं वा समासाद्य नारायणपरायणः ।
भावैक्यं वा क्रियैक्यं वा ह्यात्मैक्यं वा प्रसाधयेत् ॥1.1.४० ॥ तथा तु श्रीहरेरैक्यं यथा यावत्प्रजायते ।
तावत्तथा स्वयं नारायणानन्दं समश्नुते ॥४१ ॥ प्रेमतत्त्वं द्रवरूपं चात्मापि द्रवतां भजेत् ।
द्रवद्वयं समासाद्य स्वयं विष्णुर्द्रवो भवेत् ॥४२ ॥ आनन्दघनचिद्घनविज्ञानघनमिष्टताः ।
नित्यतृप्तनित्यशैत्यनित्यसुखसुपुष्टताः ॥४३ ॥ नारायणैक्यमापन्नः सर्वान् कामान् समश्नुते ।
क्वचित्पार्श्वे क्वचिन्मूर्तौ क्वचित्तस्मिन् प्रलीयते ॥४४ ॥ क्वचिन्मुक्तः क्वचिल्लक्ष्मीः क्वचिद्दासः प्रवर्तते ।
शरीरवच्चेन्द्रियवन्मनोवत्तस्य जायते ॥४५॥ अहं तु नारदो मातर्विष्णोर्मन इतीरितः ।
त्वं तु लक्ष्मीस्तस्य चाऽर्धं शरीरात्मेति कथ्यसे ॥४६ ॥ सन्पदार्थं हरिः साक्षाच्चिदर्धस्त्वं नु सम्मता ।
तयोर्द्रवे महानन्दः सच्चिदानन्द उच्यते ॥४७॥ येन केनापि भावेन त्वात्मा वै द्रवतां व्रजेत् ।
तद्भावद्रवमासाद्य मुक्तिं विष्णुमयी व्रजेत् ॥४८ ॥ श्रीश्वेतव्यास उवाच-
इत्युक्त्वा द्रवरूपेण नारदो लीनतां गतः
विष्णौ प्रेमपराकाष्ठासुखानुभववारिधौ ॥४९ ॥ पश्यतां तु सभास्थानां सर्वेषामिदमद्भुतम् ।
चमत्कृतिकरं जातम् अहो भक्तस्य भक्तता ॥1.1.५ ०॥ लक्ष्मीर्जिज्ञासमाना वै नारायणपरायणा ।
पप्रच्छ परमात्मानं लोकोपकारसत्तये ॥५ १ ॥ श्रीलक्ष्मीरुवाच-
अहो भक्तास्तु बहवा दृष्टास्ते परमात्मनः ।
न कश्चिदीदृशो दृष्टो योऽयं त्वयि गतो द्रवम् ॥५२॥ मन्ये तु कारणं तत्र करुणा श्रीमतस्तव ।
यस्योपरि भवेद् देव निःसीमानुग्रहस्तव ॥५३ ॥ तस्यैव नाथ नो भिन्नो भवसीति मतिर्मम ।
एतादृशात्मलाभार्थे यथा यद् भवतो मतम् ॥५४॥ यद्वाऽनुग्रहलब्ध्यर्थं किं कर्तव्यं त्वयेष्यते? ।
श्रीश्वेतव्यास उवाच-
नारायणस्तु तच्छ्रुत्वा सर्वेषां हितकाम्यया ॥५५॥ उवाच परमप्रीत्या स्वल्पमप्यतुलार्थभृत् ।
येन साधारणा जीवा अपि यान्तीदृशीं गतिम् ॥५६॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वैकुण्ठे लक्ष्मीनारायणीयसभायां नारदीयद्रवीभावभक्तिचमत्कृतिनिरूपणात्मकः
प्रथमोऽध्यायः ॥१ ॥