सात्त्विक-त्यागः - भगवान् एव

विश्वास-प्रस्तुतिः

भगवान् एव
स्व–नियाम्य–स्वरूप+++(=स्वभाव)+++-स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन
+++(स्व–नियाम्य–स्वरूप-स्थिति-प्रवृत्तिः = स्वेशितता, स्वशेषता = स्वपरार्थता, सैव +एकरसो यस्य सः [आत्मा])+++ +अनेनात्मना / मया [कर्त्रा]
स्वकीयैः चोपकरणैः / देहेन्द्रियान्तःकरणैः / करणैः
परम-पुरुषस् [सर्वेश्वरः] सर्व-शेषी

  • स्व-शेष-भूतम् इदम् ???? कर्म
    ([अखिलपरिजनपरिच्छदान्विताय] स्वस्मै) स्वप्रीतये / स्वाराधनैक-प्रयोजनाय +++(हर्षेण)+++ +++(इति फलत्यागः)+++
    स्वयम् एव
    कारयति‌/ कारयितुम् उपक्रमते +++(इत्य् आदौ)+++ / कारितवान् +++(इत्य् अन्ते)+++ ।

  • अनेन ??? कर्मणा
    स्वयम् एव अखिल-परिजन-परिच्छदान्वितं स्वात्मानं प्रीतं कारयितुम् उपक्रमते/ कारितवान् +++(इत्य् अन्ते)+++ ।

विश्वास-प्रस्तुतिः - अधिक-विवक्षा

(कर्मान्तरारम्भे) अग्रे चेदम् अपरं ???? कर्म कारयितुम् प्रक्रमते।

अखिलपरिजनान्वय-विवक्षायाम् -

स्वकीयेनैव कल्याणतमेन ??? कर्मणा +अखिल-परिजन-परिच्छदान्वितं स्वात्मानं
स्वयम् एव प्रीतं कारयितुम् उपक्रमते

(इज्यायाम् एवैवं वाच्यम् इति चिन्नाण्डवन्)

मूलम् - रामानुजः

नित्यग्रन्थे

भगवान् एव स्वशेषभूतेन मया
स्वकीयैश् च देहेन्द्रियान्तःकरणैः,
स्वकीयैर् एव कल्याणतमैर् औपचारिक-सांस्पर्शिकाभ्यवहारिकैः भोगैः,
अखिल-परिजन-परिच्छदान्वितं स्वात्मानं प्रीतं कारयितुम्
उपक्रमते

स्वनियाम्य–स्वरूप-स्थिति-प्रवृत्ति–स्वशेषतैकरसेन
+अनेन आत्मना कर्त्रा
स्वकीयैश्च देहेन्द्रियान्तःकरणैः
स्वकीयकल्याणतम-द्रव्यमयान् औपचारिक-सांस्पर्शिक-आभ्यवहारिकादि-समस्त-भोगान्
अतिप्रभूतान् अतिप्रियतमान् अतिसमग्रान् अत्यन्त-भक्ति-कृतान्
अखिल-परिजन-परिच्छदान्विताय स्वस्मै
स्वप्रीतये स्वयमेव प्रतिपादितवान्

गीताभाष्ये

स्वकीयेन +आत्मना कर्त्रा,
स्वकीयैः एव करणैः / स्वकीयैश् चोपकरणैः,
स्वाराधनैकप्रयोजनाय,
परमपुरुषः सर्वेश्वरः सर्वशेषी
स्वयम् एव स्वकर्माणि कारयति

श्रीरङ्गगद्ये -

स्वाधीन-त्रिविध-चेतनाचेतन-स्वरूप-स्थिति-प्रवृत्ति-भेद

इति। यामुनेनापि प्रयुक्तम्। वेङ्कटनाथेन व्याख्यातम्।

मूलम् - गोपालदेशिकः

भगवान् एव स्वनियाम्य-स्वरूप-स्थिति-प्रवृत्ति-स्वशेषतैकरसेन मया
स्वकीयैश् चोपकरणैः स्वाराधनैक-प्रयोजनाय
परमपुरुषः सर्वशेषी स्व-शेष-भूतम् इदं … कर्म
स्वस्मै स्वप्रीतये स्वयमेव कारयति ।

वेङ्कटनाथः

स्वशेषभूतेन जीवेन प्रयोज्य-कर्त्रेत्यर्थः

स्वकीयैश् चोपकरणैर् इति -
यदासौ जीवः पर-शेष-भूतः
तदा तस्य स्व-शेषतया
प्राग्-अभिमतं हविर्-आदिकम् अपि पर-शेष-भूतम् इति कैमुतिक-न्याय-सिद्धम् इति भावः ।

स्वाराधनैकप्रयोजनायेति । शेषस्य शेषिण्य् अतिशयाधानम्+++(→अतिशयस्य, न प्रतिकूलस्य)+++ एव प्रयोजनमिति भावः।
आह च वेदार्थसङ्ग्रहे - “परगतातिशयाधानेच्छयोपादेयत्वम् एव यस्य स्वरूपं स शेषः, परः शेषी” इति।

स्वकीयेन +इत्यादौ प्रमाण-सूचनाय सर्वशेषीत्य्-आद्य् उक्तम्।

स्वयम् एवेत्यादि
आराध्य-भूत एवाराधनं कारयतीति भावः।
एव-कारेण प्रवर्तकान्तरं च व्युदस्तम्।

कारयतीति - सर्वेश्वरः सन्,
स्वेष्टं सर्वं स्वयम् एव कर्तुं शक्तोऽपि
स्वशेष-भूत-जीवानां शास्त्र-वश्यत्व–तत्-फल-भोक्तृत्वादि-सिद्ध्यर्थं तान् कर्तॄन् कारयतीति भावः।


स्वरूपं स्वासाधारण-धर्म-निरूप्यं धर्मि।

FX Clooney

“The Lord alone now begins,
by means of me who belongs entirely to Him,9
to please His own self along with His whole retinue and insignia,
by means of His own most auspicious enjoyments
that are honorific, tangible, and pertaining to food, etc.”

śvaśeṣabhūta: literally, “his remnant” or, in the sense operative in the Mīmāṃsāsūtras, “belonging entirely to him”; see Mīmāṃsāsūtras 3.3.1–7.

मूलम् - अन्ये

गोपालदेशिकः -

भगवानेव स्वनियाम्यस्वरूपस्थितिप्रवृत्तिस्वशेषतैकरसेन मया स्वकीयैश्चोपकरणैस्स्वाराधनैकप्रयोजनाय परमपुरुषस्सर्वशेषी स्वशेषभूतमिमं योगं कारितवान् ।