सन्न्यासनिर्णयः
विश्वास-प्रस्तुतिः
पश्चात्तापनिवृत्त्यर्थं परित्यागो विचार्यते ।
स मार्गद्वितये प्रोक्तो भक्तौ ज्ञाने विशेषतः ॥ १॥
मूलम्

कर्ममार्गे न कर्त्तव्यः सुतरां कलिकालतः ।
अत आदौ भक्तिमार्गे कर्तव्यत्वाद्विचारणा ॥ २॥

श्रवणादिप्रवृत्त्यर्थं कर्तव्यत्वेन नेष्यते ।
सहायसङ्गसाध्यत्वात्साधनानां च रक्षणात् ॥ ३॥

अभिमानान्नियोगाच्च तद्धर्मैश्च विरोधतः ।
गृहादेर्बाधकत्वेन साधनार्थं तथा यदि ॥ ४॥

अग्रेऽपि तादृशैरेव सङ्गो भवति नान्यथा ॥
स्वयं च विषयाक्रान्तपाषण्डी स्यात्तु कालतः ॥ ५॥
विश्वास-प्रस्तुतिः
विषयाक्रान्तदेहानां नावेशः सर्वथा हरेः ।
अतोऽत्र साधने भक्तौ नैव त्यागः सुखावहः ॥ ६॥

विरहानुभवार्थं तु परित्यागः प्रशस्यते ।
स्वीयबन्धनिवृत्त्यर्थं वेशः सोऽत्र न चान्यथा ॥ ७॥

कौण्डिन्यो गोपिकाः प्रोक्ता गुरवः साधनं च तत् ।
भावो भावनया सिद्धः साधनं नान्यदिष्यते ॥ ८॥

विकलत्वं तथाऽस्वास्थ्यं प्रकृतिः प्राकृतं न हि ।
ज्ञाने गुणाश्च तस्यैव वर्तमानस्य बाधकाः ॥ ९॥

सत्यलोके स्थितिर्ज्ञानात्सन्न्यासेन विशेषितात् ।
भावना साधनं यत्र फलं चापि तथा भवेत् ॥ १०॥

तादृशाः सत्यलोकादौ सिध्यन्त्येव न संशयः ।
बहिश्चेत्प्रकटः स्वात्मा वह्निवत्प्रविशेद्यदि ॥ ११॥

तदैव सकलो बन्धो नाशमेति न चान्यथा ।
गुणास्तु सङ्गराहित्याज्जीवनार्थं भवन्ति हि ॥ १२॥

भगवान् फलरूपत्वान्नात्र बाधक इष्यते ।
स्वास्थ्यवाक्यं न कर्तव्यं दयालुर्न विरुध्यते ॥ १३॥

दुर्लभोऽयं परित्यागः प्रेम्णा सिद्ध्यति नान्यथा ।
ज्ञानमार्गे तु सन्यासो द्विविधोऽपि विचारितः ॥ १४॥

ज्ञानार्थमुत्तराङ्गं च सिद्धिर्जन्मशतैः परम् ।
ज्ञानं च साधनापेक्षं यज्ञादि श्रवणान्मतम् ॥ १५॥

अतः कलौ स सन्न्यासः पश्चात्तापाय नान्यथा ।
पाषण्डित्त्वं भवेच्चापि तस्माज्ज्ञाने न सन्न्यसेत् ॥ १६॥

सुतरां कलिदोषाणां प्रबलत्वादिति स्थितिः ।
भक्तिमार्गोऽपि चेद्दोषस्तदा किं कार्यमुच्यते ॥ १७॥

अत्रारम्भेन नाशः स्याद्दृष्टान्तस्याप्यभावतः ।
स्वास्थ्यहेतोः परित्यागाद्बाधः केनास्य सम्भवेत् ॥ १८॥

हरिरत्र न शक्नोति कर्तुं बाधां कुतोऽपरे ।
अन्यथा मातरो बालान्न स्तन्यैः पुपुषुः क्वचित् ॥ १९॥

ज्ञानिनामपि वाक्येन न भक्तं मोहयिष्यति ।
आत्मप्रदः प्रियश्चापि किमर्थं मोहयिष्यति ॥ २०॥

तस्मादुक्तप्रकारेण परित्यागो विधीयताम् ।
अन्यथा भ्रश्यते स्वार्थादिति मे निश्चिता मतिः ॥ २१॥

इति कृष्णप्रसादेन वल्लभेन विनिश्चितम् ।
सन्न्यासवरणं भक्तावन्यथा पतितो भवेत् ॥ २२॥

इति श्रीवल्लभाचार्यकृतः सन्न्यासनिर्णयः समाप्तः ।