बालबोधः

बालबोधः

विश्वास-प्रस्तुतिः

नत्वा हरिं सदानन्दं सर्वसिद्धान्तसङ्ग्रहम् ।
बालप्रबोधनार्थाय वदामि सुविनिश्चितम् ॥ १॥

मूलम्

धर्मार्थकाममोक्षाख्याश्चत्वारोऽर्था मनीषिणाम् ।
जीवेश्वरविचारेण द्विधा ते हि विचारिताः ॥ २॥

अलौकिकास्तु वेदोक्ता साध्यसाधनसंयुताः ।
लौकिका ऋषिभिः प्रोक्तास्तथैवेश्वरशिक्षया ॥ ३॥

लौकिकांस्तु प्रवक्ष्यामि वेदादाद्या यतः स्थिताः ।
धर्मशास्त्राणि नीतिश्च कामशास्त्राणि च क्रमात् ॥ ४॥

त्रिवर्गसाधकानीति न तन्निर्णय उच्यते ।
मोक्षे चत्वारि शास्त्राणि लौकिके परतः स्वतः ॥ ५॥

द्विधे द्वे द्वे स्वस्ततः साङ्ख्ययोगौ प्रकीर्तितौ ।
त्यागात्यागविभागेन साङ्ख्ये त्यागः प्रकीर्तितः ॥ ६॥

अहन्ताममतानाशे सर्वथा निरहङ्कृतः ।
स्वरूपस्थो यदा जीवः कृतार्थः स निगद्यते ॥ ७॥

तदर्थं प्रक्रिया काचित्पुराणेऽपि निरूपिता ।
ऋषिभिर्बहुधा प्रोक्ता फलमेकमबाह्यतः ॥ ८॥

अत्यागे योगमार्गो हि त्यागोऽपि मनसैव हि ।
यमादयस्तु कर्तव्याः सिद्धे योगे कृतार्थता ॥ ९॥

पराश्रयेण मोक्षस्तु द्विधा सोऽपि निरूप्यते ।
ब्रह्मा ब्राह्मणतां यातस्तद्रूपेण च सेव्यते ॥ १०॥

ते सर्वार्था न चाद्येन शास्त्रं किञ्चिदुदीरितम् ।
अतः शिवश्च विष्णुश्च जगतो हितकारकौ ॥ ११॥

वस्तुनः स्थितिसंहारौ कार्यौ शास्त्रप्रवर्तकौ ।
ब्रह्मैव तादृशं यस्मात्सर्वात्मकतयोदितौ ॥ १२॥

निर्दोषपूर्णगुणता तत्तच्छास्त्रे तयोः कृता ।
भोगमोक्षफले दातुं शक्तौ द्वावपि यद्यपि ॥ १३॥

भोगः शिवेन मोक्षस्तु विष्णुनेति विनिश्चयः ।
लोकेऽपि यत्प्रभुर्भुङ्क्ते तन्न यच्छति कर्हिचित् ॥ १४॥

अतिप्रियाय तदपि दीयते क्वचिदेव हि ।
नियतार्थप्रदानेन तदीयत्वे तदाश्रयः ॥ १५॥

प्रत्येकं साधनं चैतद्द्वितीयार्थे महान् श्रमः ।
जीवाः स्वभावतो दुष्टा दोषाभावाय सर्वदा ॥ १६॥

श्रवणादि ततः प्रेम्णा सर्वं कार्यं हि सिद्ध्यति ।
मोक्षस्तु सुलभो विष्णोर्भोगश्च शिवतस्तथा ॥ १७॥

समर्पणेनात्मनो हि तदीयत्वं भवेद्ध्रुवम् ।
अतदीयतया चापि केवलश्चेत्समाश्रितः ॥ १८॥

तदाश्रयतदीयत्वबुद्ध्यै किञ्चित्समाचरेत् ।
स्वधर्ममनुतिष्ठन् वै भारद्वैगुण्यमन्यथा ॥
इत्येवं कथितं सर्वं नैतज्ज्ञाने भ्रमः पुनः ॥ १९॥

इति श्रीवल्लभाचार्यविरचितो बालबोधः सम्पूर्णः ।