स्वप्रभुविज्ञप्तिः
विश्वास-प्रस्तुतिः
कृपानाथ कृपाकाले किमित्यस्मानुपेक्षसे ।
पदलग्नानार्तिमग्नान् दुष्टभग्नान् विशेषतः ॥ १॥
मूलम्
कृपानाथ कृपाकाले किमित्यस्मानुपेक्षसे ।
पदलग्नानार्तिमग्नान् दुष्टभग्नान् विशेषतः ॥ १॥
विश्वास-प्रस्तुतिः
त्वदुपेक्षावशादेव कालकर्मादयोऽखिलाः ।
विदित्वा निर्बलानस्मान् पीडयन्ति क्षणे क्षणे ॥ २॥
मूलम्
त्वदुपेक्षावशादेव कालकर्मादयोऽखिलाः ।
विदित्वा निर्बलानस्मान् पीडयन्ति क्षणे क्षणे ॥ २॥
विश्वास-प्रस्तुतिः
येषां विराजते मूर्ध्नि पतिर्युष्मद्विधः सदा ।
भवन्ति तेऽपि चेद्दीना हीनता महती प्रभो ॥ ३॥
मूलम्
येषां विराजते मूर्ध्नि पतिर्युष्मद्विधः सदा ।
भवन्ति तेऽपि चेद्दीना हीनता महती प्रभो ॥ ३॥
विश्वास-प्रस्तुतिः
मा विचारय चित्तेऽस्मद्दोषान् दीनदयानिधे ।
सहजो दीनदोषस्तु निवर्त्यो भवतैव हि ॥ ४॥
मूलम्
मा विचारय चित्तेऽस्मद्दोषान् दीनदयानिधे ।
सहजो दीनदोषस्तु निवर्त्यो भवतैव हि ॥ ४॥
विश्वास-प्रस्तुतिः
न साधनैस्त्वदीयाः स्मः किं त्वनुग्रहतस्तव ।
साधनं वा फलं वापि केवलाचार्यसंश्रयः ॥ ५॥
मूलम्
न साधनैस्त्वदीयाः स्मः किं त्वनुग्रहतस्तव ।
साधनं वा फलं वापि केवलाचार्यसंश्रयः ॥ ५॥
विश्वास-प्रस्तुतिः
गृहदासेषु नैवास्ति गुणदोषविचारणम् ।
प्रभूणामुचितं कर्तुं यतस्तेषां मतिः प्रभुः ॥ ६॥
मूलम्
गृहदासेषु नैवास्ति गुणदोषविचारणम् ।
प्रभूणामुचितं कर्तुं यतस्तेषां मतिः प्रभुः ॥ ६॥
विश्वास-प्रस्तुतिः
कुसेवका भवन्त्येव न हि स्वामी तथाविधः ।
अतो विधेयमखिलं स्वामित्वमवलोकय ॥ ७॥
मूलम्
कुसेवका भवन्त्येव न हि स्वामी तथाविधः ।
अतो विधेयमखिलं स्वामित्वमवलोकय ॥ ७॥
विश्वास-प्रस्तुतिः
कं प्रार्थयेयुः कृपणाः पतिं हित्वाखिलेश्वरम् ।
दासाः स्वदुःखसन्तप्तावनन्यगतयो यतः ॥ ८॥
मूलम्
कं प्रार्थयेयुः कृपणाः पतिं हित्वाखिलेश्वरम् ।
दासाः स्वदुःखसन्तप्तावनन्यगतयो यतः ॥ ८॥
विश्वास-प्रस्तुतिः
यद्यप्यनुचिता कर्तुं प्रार्थना सर्वकर्तरि ।
स्वतस्तथाऽपि कार्पण्यं दर्शयामो निजं हरे ॥ ९॥
मूलम्
यद्यप्यनुचिता कर्तुं प्रार्थना सर्वकर्तरि ।
स्वतस्तथाऽपि कार्पण्यं दर्शयामो निजं हरे ॥ ९॥
विश्वास-प्रस्तुतिः
आचार्यं शरणं यातान् सदारातान् स्वतस्त्वया ।
तद्वंशजातानधुना मोपेक्षाविषयान् कुरु ॥ १०॥
मूलम्
आचार्यं शरणं यातान् सदारातान् स्वतस्त्वया ।
तद्वंशजातानधुना मोपेक्षाविषयान् कुरु ॥ १०॥
इति श्रीहरिदासविरचिता स्वप्रभुविज्ञप्तिः समाप्ता ।