ॐ
उग्रं वीरं महाविष्णुं
ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं
मृत्यु-मृत्युं नमाम्य् अहम् ॥
पाठ-भेदाः
-
मृत्यु-मृत्युम् इति पाठः साम्प्रदायिकेषु प्रसिद्धः। इमे विचारिताः-
- पारमात्मिकोपनिषत् (वैखानसानाम् इति कथ्यते), नृसिंहतापिन्युपनिषत्
- २०२३-वर्षे अहोबिल-मठ-यतिः
- अहोबिलमठशिष्यः दक्षिणनैमिषारण्यगुरुकुलचालकः लक्ष्मीनारायणः/ श्रीरामः → अनिरुद्धः।
- काप्रे-नरेन्द्रार्योऽपि
-
मृत्योर् मृत्युम् इति लोके श्रुतम्।
- कश्चिद् अहोबिल-मठ-शिष्यः → रविलोचनः
न्यासः
(परम्परा - … → लक्ष्मीनारायणः/ श्रीरामः → अनिरुद्धः)
“उग्रं वीरं” हृदयाय नमः
“महाविष्णुं” शिरसे स्वाहा
“ज्वलन्तं सर्वतोमुखम्” शिखायै वषट्
“नृसिंहं भीषणं” कवचाय हुम्
“भद्रं मृत्युमृत्युं” नेत्रत्रयाय वौषट्
“नमाम्यहम्” अस्त्राय फट्
“भूर् भुवस् स्वर् ओम्” इति दिग्-बन्धः।