विश्वास-प्रस्तुतिः
इदं गुरुभ्यः पूर्वेभ्यः
क्रियते शिरसा नमः ।
मन्त्र-ज्ञान-प्रदातृभ्यस्
तद्-गुरुभ्योपि साम्प्रतम् ॥
मूलम्
इदं गुरुभ्यः पूर्वेभ्यः क्रियते शिरसा नमः ।
मन्त्रज्ञानप्रदातृभ्यस्तद्गुरुभ्योपि साम्प्रतम् ॥
विश्वास-प्रस्तुतिः
नमस्ते मन्त्रराजाय
नमस्ते ऽष्टाक्षरात्मने ।
नमस्ते चेतनाधार-
परब्रह्माभिधायिने ॥
मूलम्
नमस्ते मन्त्रराजाय नमस्तेऽष्टाक्षरात्मने ।
नमस्ते चेतनाधारपरब्रह्माभिधायिने ॥
विश्वास-प्रस्तुतिः
स्थित्वान्तर् हृदये सर्वान्
आत्मनस् सन्नियच्छते ।
ऋषये ऽष्टाक्षरस्यान्तर्-
यामिणे हरये नमः ॥
मूलम्
स्थित्वान्तर्हृदये सर्वानात्मनस्सन्नियच्छते ।
ऋषयेऽष्टाक्षरस्यान्तर्यामिणे हरये नमः ॥
विश्वास-प्रस्तुतिः
अष्टाक्षर-महामन्त्र-
वर्ण-सङ्ख्याभिधायिनीम् ।
छन्दश् च देवीं गायत्रीं
शिरसा प्रणमाम्यहम् ॥
मूलम्
अष्टाक्षरमहामन्त्रवर्णसङ्ख्याभिधायिनीम् ।
छन्दश्च देवीं गायत्रीं शिरसा प्रणमाम्यहम् ॥
विश्वास-प्रस्तुतिः
मन्त्रस्य दैवतं चापि
परमात्मानम् अव्ययम् ।
नारायणं परं ब्रह्म
नतोऽस्मि शिरसा हरिम् ॥
मूलम्
मन्त्रस्य दैवतं चापि परमात्मानमव्ययम् ।
नारायणं परं ब्रह्म नतोऽस्मि शिरसा हरिम् ॥
विश्वास-प्रस्तुतिः
मन्त्रशक्तिः स्थिता यस्मिन्न्
आश्रितेष्टार्थ-साधिनी ।
पदं “नारायणाये"ति शक्तिं
तां प्रणतोऽस्म्यहम् ॥
मूलम्
मन्त्रशक्तिः स्थिता यस्मिन्नाश्रितेष्टार्थसाधिनी ।
पदं नारायणायेति शक्तिं तां प्रणतोऽस्म्यहम् ॥
विश्वास-प्रस्तुतिः
अकाराद् उत्थिताद् बीजाद्
वासुदेवाभिधायिनः ।
तद् बीजम् अस्य प्रभवं
प्रणवं प्रणतोऽस्म्यहम् ॥
मूलम्
अकारादुत्थिताद्बीजाद्वासुदेवाभिधायिनः ।
तद्बीजमस्य प्रभवं प्रणवं प्रणतोऽस्म्यहम् ॥