Source: TW
श्रीमते रामानुजाय नमः॥
ऋष्यादि-न्यासः
अस्य श्रीसुदर्शन-षडक्षरी-महामंत्रस्य
अहिर्बुध्न्यो भगवान् ऋषिः
अनुष्टुप् छन्दः
श्री-सुदर्शन-नृसिंह-परमात्मा देवता
“क्ष्रौं” बीजं
“सहस्रार” इति शक्तिः
“हुं फट्” इति कीलकम्
सङ्कल्पः
मम स-भूत-प्रेत-पिशाचोच्चाटन-निवारणार्थं
पर-मन्त्र–पर-यन्त्र–पर-तन्त्र-निवारण-पूर्वक–
पर-कृत-मारण-मोहन-स्तम्भन- आकर्षण-उच्चाटन-निवारण-पूर्वक–
स्व-मन्त्र–स्व-यन्त्र–स्व-तन्त्र-जपानुष्ठान-सिद्ध्य्-अर्थे अस्य श्रीसुदर्शन-षडक्षरी-महामंत्र-जपे विनियोगः ॥१॥
करन्यासः
ॐ आ+++(अ)+++-चक्राय अङ्गुष्ठाभ्यां नमः
ॐ वि-चक्राय तर्जनीभ्यां नमः
ॐ सु-चक्राय मध्यमाभ्यां नमः
ॐ ज्वाला-चक्राय +अनामिकाभ्यां नमः
ॐ असुरान्तक-चक्राय कनिष्ठिकाभ्यां नमः
ॐ सर्व-लोक-रक्षण-चक्राय करतल-करपृष्ठाभ्यां नमः ॥
अङ्गन्यासः
ॐ आ+++(अ)+++-चक्राय ज्ञानाय हृदयाय नमः
ॐ वि-चक्राय +ऐश्वर्याय शिरसे स्वाहा
ॐ सु-चक्राय शक्त्यै शिखायै वौषट् ॥
ॐ ज्वाला-चक्राय कवचाय हुम्
ॐ असुरान्तक-चक्राय तेजसे नेत्राभ्यां वषट्
ॐ सर्व-लोक-रक्षण-चक्राय वीर्याय +अस्त्राय फट् ॥
ॐ सन् नम इति शिरसि
ॐ हन् नम इति नयनयोः
ॐ स्राय नम इति वदने
ॐ रन् नम इति हृदये
ॐ हुन् नम इति गुह्ये
ॐ फण् नमः इति पद-सन्धिषु
भूर् भुवस् स्वर् ओम् इति दिग्बन्धः ॥
परिधि-कल्पनादि
परितः - अग्नि-प्राकारतया सकल-परित्राणार्थं ध्यायेत् ॥
ॐ लं पृथिव्यात्मने सुदर्शनाय हेतिराजाय नमः ॥ गन्धान् धारयामि ॥
ॐ हं आकाशात्मने सुदर्शनाय हेतिराजाय नमः ॥ पुष्पैः समर्पयामि ॥
ॐ यं वाय्वात्मने श्रीसुदर्शनाय हेतिराजाय नमः ॥ धूपं दर्शयामि ॥
ॐ रं ज्योतिरात्मने श्रीसुदर्शनाय हेतिराजाय नमः ॥ दीपं दर्शयामि ॥
ॐ वं अमृतात्मने श्रीसुदर्शनाय हेतिराजाय नमः ॥ अमृतनैवेद्यं निवेदयामि ॥
ॐ सं सर्वात्मने सर्वोपचार-पूजां समर्पयामि ॥
ध्यानम्
ॐ अथ ध्यानम्—
चक्राम्बुजे समासीनं
चक्रायुध-भूषणम्।
चक्र-मात्रादिदैवं च
चक्र-मन्त्रं +++(णि)+++ विचिन्तयेत्॥
सर्वात्मभावसम्पूर्णम्
अष्टबाहुं सुदर्शनम्।
दंष्ट्रा-कराल-वदनं
भयस्यापि भयं-करम्॥
ऊर्ध्वपिङ्गलकेशं तं
ज्वलज्-ज्वालासमाननम्।
अप्रधर्ष्यम् अनिर्देश्यं
ब्रह्माण्ड-व्याप्त-विग्रहम्॥
अष्टायुधपरीवारं
अष्ट-चक्र??-समन्वितम्,
अष्टारं चक्रम् अत्युग्रं
मुसलं चाङ्कुशं तथा
पद्मं च दक्षिणे पार्श्वे
चतुर्भिर् बाहुभिर् वृतम्।
वामतः शङ्ख-सशर-
चाप-पाश-गदा-धरम्,
रत्नवस्त्रधरं देवं
रक्तमाल्योपशोभितम्,
रक्तचन्दनलिप्ताङ्गं
रक्तवर्णम् इवाम्बुदम्,
दिव्य??-रत्न-विचित्रेण
मुकुटेन विराजितम्,
श्रीवत्स-कौस्तुभोरस्कं
दीप्त-कुण्डल-धारिणम्,
हार-नूपुर-केयूर-
मुकुटादि-विभूषितम्,
दुष्ट-निग्रह-कर्तारं
भक्तानुग्रहकारिणं,
सुदर्शनाभिधानं तं
देवम् आत्मनि चिन्तयेत्।
मन्त्रः
ॐ क्ष्रौं सहस्रार हुं फट् वषट्
इति सुदर्शनमन्त्रः।