३९

एकोनचत्वारिंशो ऽध्यायः

विष्वक्सेनः—
अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं परम् ।
पूजनादिषु सर्वासु क्रियासु मुनिसत्तम ॥ ३९।१ ॥

प्रातः सन्ध्यार्चनाहीने मध्याह्ने द्विगुणं चरेत् ।
प्रातर्मध्याह्नयोर्हीने सायाह्ने त्रिगुणं चरेत् ॥ ३९।२ ॥

एकाहमर्चनाहीने उपवासव्रतं चरेत् ।
कलशैर्नवभिः स्नाप्य पूर्वोक्तेन विधानतः ॥ ३९।३ ॥

पुण्याहं वाचयेत्तत्र भोज्या वै ब्राह्मणास्त्रयः ।
अर्चयित्वा यथान्यायं पूर्वोक्तेन विधानतः ॥ ३९।४ ॥

द्वितीये द्विगुणं चैव तृतीये त्रिगुणं चरेत् ।
एवमेव तु कर्तव्यं द्वादशाहान्तमेव च ॥ ३९।५ ॥

पक्षहीनं भवेत्तस्मिन् स्नापयेदधमोत्तमम् ।
ब्राह्मणान् भोजयेत्तत्र विप्रान् द्वादशं पायसैः ॥ ३९।६ ॥

मासहीनं भवेत्तत्र वास्तुहोमेन संयुतम् ।
अधमोत्तममार्गेण स्नपनं कारयेद्धरेः ॥ ३९।७ ॥

पुण्याहं वाचयेत्तत्र पूजयेत् पूर्ववत् क्रमात् ।
ब्राह्मणान् भोजयेत्तत्र शिष्टान् पञ्चदशाधिकान् ॥ ३९।८ ॥

एतत् क्रमेण कृत्वा तु त्रिमासान्तं विशेषतः ।
त्रिमासादीनि षण्मासादर्वाक् पूजाविलोपने ॥ ३९।९ ॥

सम्मार्ज्यान्तर्बहिर्गेहं प्रक्षाल्य विधिवत्तदा ।
धूपयित्वागरुधूपेन पुण्याहं तत्र कारयेत् ॥ ३९।१० ॥

उत्तमोत्तममार्गं वा ह्येकाशीतिक्रमेण वा ।
स्नापयेद्देवदेवेशं यथावित्तानुसारतः(!) ॥ ३९।११ ॥

ब्राह्मणान् भोजपेत्तत्र पूर्ववद्धोममाचरेत् ।
महाहविर्निवेद्याथ पूजयेत् पुरुषोत्तमम् ॥ ३९।१२ ॥

ततः परं त्रिवर्षात् प्राक् स्नपम्न चोत्तमोत्तमम् ।
स्नापयेन्मुनिशार्दूल पूर्वोक्तेन विधानतः ॥ ३९।१३ ॥

ब्राह्मणान् भोजयेत्तत्र यथावित्तानुसारतः(!) ।
तदूर्ध्वं द्वादशादर्वाक् प्रायश्चित्तं विधीयते ॥ ३९।१४ ॥

प्रणवेन निरीक्ष्याथ गर्भगेहं तु साधकः ।
पञ्चगव्यं क्रमात् कृत्वा गर्भागारं विधोधयेत् ॥ ३९।१५ ॥

उत्तमोत्तममार्गं वाप्यथवा मध्यमं तु वा ।
स्नापयेद्देवदेवेशं यथाविभवविस्तरम् ॥ ३९।१६ ॥

ब्राह्मणान् भोजयेत्तत्र यथावित्तानुसारतः(!) ।
शान्तिहोमं क्रामत् कृत्वा पूर्ववत् पूजयेतद्धरिम् ॥ ३९।१७ ॥

अत ऊर्ध्वं मुनिश्रेष्ठ प्रायश्चितं विधीयते ।
जलसम्प्रोक्षणं कुर्यात् पुण्याहोक्तिपुरःसरम् ॥ ३९।१८ ॥

ब्राह्मणान् भोजयेत्तत्र तेन शान्तिर्भविष्यति ।
पूजाङ्गद्रव्यहीनं चेत् अर्घ्यादिहविरन्तकम् ॥ ३९।१९ ॥

हीनैर्द्रव्यैस्तु देवेशमर्चयेद्द्विगुणं पुनः ।
अष्टाक्षरेण मन्त्रेण देवाग्रे तु शतं जपेत् ॥ ३९।२० ॥

तद्दोषपरिहारार्थं प्रायश्चित्तमिदं भवेत् ।
प्रायश्चित्तं क्रमात् कुर्यात् तद्द्रव्येण दिने दिने ॥ ३९।२१ ॥

एतत् सङ्क्षेपतः प्रोक्तं पूजालोपे तु नारद ।
आलये पतिते तत्र बालस्थानं तु कारयेत् ॥ ३९।२२ ॥

देवेशं विधिवत् स्थाप्य पूजयेत्तु दिने दिने ।
आलयं पूर्ववत् कृत्वा प्रोक्षणं कारयेत्ततः ॥ ३९।२३ ॥

भिन्नालये तु तत्स्थाने शैलं वा दारु योजयेत् ।
इष्टकासुधयायुक्तं नवकर्माणि कारयेत् ॥ ३९।२४ ॥

चित्राभासालये तत्र चित्रकर्म समाचरेत् ।
स्नपनं तत्र कुर्वीत मूर्तिहोमं च कारयेत् ॥ ३९।२५ ॥

ब्राह्मणान् विष्णुभक्ताश्चं भोजनं कारयेत्ततः ।
महाहविर्निवेद्याथ पूजयेत् पुरुषोत्तमम् ॥ ३९।२६ ॥

दहने तु प्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् ।
प्रासादं मण्डपं वाथ प्राकारं गोपुरं तथा ॥ ३९।२७ ॥

प्रासादाभ्यन्तरं वापि पचनालयमेव वा ।
विनोदमण्डपं चैव यागमण्डपमेव वा ॥ ३९।२८ ॥

पुष्पस्थाने जलस्थाने चान्यस्मिन्नितरेषु च ।
प्रमादादग्निदग्धं चेत् सम्यगुत्पाद्य पूर्ववत् ॥ ३९।२९ ॥

स्नपनं तु त्रिरात्रात् प्राक् कारयेदधमोत्तमम् ।
ब्राह्मणान् भोजयेत्तत्र पुण्याहं चैव कारयेत् ॥ ३९।३० ॥

नारायणोपनिषदं पठेत्तन्त्रोत्तरक्रमात्(?) ।
अष्टाक्षरेण जुहुयादाज्येन शतमाहुतीः ॥ ३९।३१ ॥

यदि दग्धं विमानं चेत् केवलं(-ला?)प्रतिमा पुनः ।
दग्धस्य चैकदेशं चेत् सम्यगुत्पाद्य पूर्ववत् ॥ ३९।३२ ॥

स्नपनं चोत्तमं कुर्यात् अधमोत्तममेव वा ।
स्नापयेद्देवदेवेशं पूजयेत् पूर्ववत् क्रमात् ॥ ३९।३३ ॥

विमानं बहुदग्धं चेत् बालस्थानं प्रकल्पयेत् ।
नवगेहं क्रमात् कृत्वा शेषकर्माणि कारयेत् ॥ ३९।३४ ॥

नारदः—
उक्तो मे भवता दोषः स्थानस्य तु विशेषतः ।
अत्यद्भुतानां सर्वेषां दोषान्मे ब्रूह्यशेषतः ॥ ३९।३५ ॥

आलये देवदेवस्य ये दोषाः प्रभवन्ति वै ।
हविषां चैव ये दोषाः तथोपकरणेषु च ॥ ३९।३६ ॥

विष्वक्सेनः—
साधु पृष्टं त्वया देव वक्तव्यं च मयाधुना ।
आलये देवदेवस्य ये दोषास्तान् ब्रवीमि ते ॥ ३९।३७ ॥

वल्मीकदर्शने चैव तथा सर्पस्य दर्शने ।
अन्येषां चैव जन्तूनां सविषाणां मुनीश्वर ॥ ३९।३८ ॥

मधुप्रलम्बने चैव बुद्धिपूर्वाग्निपातने ।
वैद्युदशनिपाते च उल्कापाते तथैव च ॥ ३९।३९ ॥

प्रमादात् प्रतिमा वापि द्विधा चैव भेवद्यदि ।
उलूकवासने चैव वृक्षाणां च समुद्भवे ॥ ३९।४० ॥

विमानस्य च भेदे च सर्वेषां च विनाशकृत्(?) ।
केशकीटादिपाते च जलजानां निपातने ॥ ३९।४१ ॥

अन्येषां चैव जन्तूनां विनिपाते हविःषु च ।
गर्भागारे तथा विष्णोः उपहारे तथैव च ॥ ३९।४२ ॥

मण्डपे देवदेवस्य प्रथमावरणे ऽथवा ।
द्वितीये वा तृतीये वा बलिपीठेषु सर्वशः ॥ ३९।४३ ॥

अग्निस्थाने जलस्थाने पुष्पस्थाने तथैव च ।
आस्थानमण्डपे चैव तथालङ्कारमण्डपे ॥ ३९।४४ ॥

लीलास्थानेषु चान्येषु गवां स्थाने तथैव च ।
शिथिलीनां समुद्भावे दोषान् वक्ष्ये मुनीश्वर ॥ ३९।४५ ॥

वल्मीकदर्शने व्याधिः मृत्युः सर्पस्य दर्शने ।
अनावृष्टिर्मधोश्चैव दुर्भिक्षमितरेष्वपि ॥ ३९।४६ ॥

शिथिली(शिलीन्ध्र?) दर्शने चैव प्रतिमायां हरेर्यदि ।
राजा मृत्युमवाप्नोति राज्यभ्रंशमथापि वा ॥ ३९।४७ ॥

व्याधिं वा महादाप्नोति शत्रुभिर्वा पराभवम् ।
पुत्रदारवियोगं वा लभते नात्र संशयः ॥ ३९।४८ ॥

ग्रामाणां नगराणां च देशस्य च बलस्य च ।
विनाशमाप्नुयात् सम्यक् सद्यो वा स्यादुपल्पवः ॥ ३९।४९ ॥

पीठे गर्भगृहे चैव उपहारे तथैव च ।
अमात्यमन्त्रिणां दोषाः प्रकृतीनां तथैव च ॥ ३९।५० ॥

स्थानान्तरेषु सर्वत्र शिथिलीनां तु दर्शने ।
राष्ट्रे दोषा भविष्यन्ति दुभिक्षव्याधिसम्भवाः ॥ ३९।५१ ॥

शुनै(श्वभिर्?)वा वानरैर्वापि गृध्रैश्च कृमिकीटकैः ।
पिङ्गलैर्वायसैश्चैव पक्षिभिः कुक्कुटादिभिः ॥ ३९।५२ ॥

तथान्यैस्तादृशैर्भूतैः प्रतिमा स्पृश्यते यदि ।
स्थाननाशमवाप्नोति ग्रामस्यानर्थमेव च ॥ ३९।५३ ॥

प्रायश्चित्तं प्रवक्ष्यामि वल्मीकादेश्च दर्शने ।
तदपि प्रतिमायां चेद्यात्रां कृत्वा यथाविधि ॥ ३९।५४ ॥

तद्देशं शोधयित्वा तु यावत्सम्यग्भवेद्दृढम् ।
पूर्ववत् कल्पयित्वा तु पुनःसंस्थापयेत् क्रमात् ॥ ३९।५५ ॥

जलसम्प्रोक्षणं वापि कुर्यान्मन्त्रीं विचक्षणः ।
दूषितं चेतरद्बिम्बं जन्तुभिः स्पर्शने सति ॥ ३९।५६ ॥

मार्जयित्वा कुशैर्दर्भैः पुण्याहं तत्र कारयेत् ।
स्नपनं कारयेत् पश्चात् कर्मार्चायां यथाविधि ॥ ३९।५७ ॥

जुहुयात् पञ्चमन्त्रैस्तु प्रत्येकं शतमाहुतीः ।
ततश्च शिथिलीजाते पीठे गर्भगृहेपि वा ॥ ३९।५८ ॥

शोधयित्वा तु तं देशं दृढीकृत्य प्रयत्नतः ।
स्नपनं विधिवत् कृत्वा चैकाशीतिक्रमेण तु ॥ ३९।५९ ॥
शान्तिहोमं ततः कृत्वा पुण्याहेनैव शुद्ध्यति ।
विमाने मधुनोत्पन्ने प्राकारे ऽभ्यन्तरे ऽपि वा ॥ ३९।६० ॥

प्रक्षाल्य पञ्चगव्येन बहिरन्तः समन्ततः ।
स्नपनं चापि कृत्वा तु पुण्याहेनैव शुद्ध्यति ॥ ३९।६१ ॥

अनुक्तानां तु सर्वेषां प्रायश्चितं विधीयते ।
उत्तमं मध्यमं वापि अधमोत्तममेव वा ॥ ३९।६२ ॥

स्नापयेद्देवदेवेशं पूजयेद्विधिपूर्वकम् ।
शान्तिहोमं ततः कृत्वा पुण्याहेनैव शुद्ध्यति ॥ ३९।६३ ॥

नृत्तगीतं च वाद्यं च कारयेद्देवसन्निधौ ।
तदन्ते पूजयित्वा तु जपेन्मूर्तिं यथाक्रमम् ॥ ३९।६४ ॥

ब्राह्मणान भोजयित्वा तु वैष्णवांश्च विशेषतः ।
अलङ्कारविधिं कृत्वा नैवेद्यं च महाहविः ॥ ३९।६५ ॥

नित्यदीपविनाशे तु प्रायश्चित्तं विधीयते ।
कपिलाज्यं शरावे तु स्थापयित्वास्त्रमन्त्रतः ॥ ३९।६६ ॥

दीपयित्वा मुनिश्रेष्ठ दीपमुद्रां प्रदर्शयेत् ।
नित्याग्नौ समिदाज्येन चरुणा हूयते पृथक् ॥ ३९।६७ ॥

शतं वापि तदर्धं वा तस्यार्धं वाहुतीः क्रमात् ।
कारयेन्मूर्तिमन्त्रेण प्रत्येकं जुहुयात् क्रमात् ॥ ३९।६८ ॥

हविराद्येष सर्वेषु केशकीटादिपातने ।
एवमेव तु कर्तव्यं प्रायश्चित्तं तु नारद ॥ ३९।६९ ॥

शुद्धस्नानं पुरा कृत्वा तद्बिम्बं परमेष्ठिना ।
अधमोत्तममार्गेण स्नपनं कारयेत् क्रमात् ॥ ३९।७० ॥

पञ्चोपनिषदैर्मन्त्रैः प्रत्येकं शतमाहुतीः ।
पुण्याहं वाचयित्वा तु तेन शान्तिर्भविष्यति ॥ ३९।७१ ॥

देवेशं पूजयेत् पश्चात् पूर्वोक्तेन विधानतः ।
आचार्यं पूजयेत् पश्चात् यथा तुष्टो भविष्यति ॥ ३९।७२ ॥

इहोपयुक्तद्रव्याणि आचार्याय निवेदयेत् ।
प्रायश्चित्तं प्रवक्ष्यामि मरणे देवतालये ॥ ३९।७३ ॥

चण्डालपतितादीनां मरणे वर्तिते सति ।
गर्भागारे ऽथवा चार्धमण्डपे वा मुनीश्वर ॥ ३९।७४ ॥

प्रासादस्थितपीठाग्रे तथाभ्यन्तरमण्डपे ।
खात्वा चैव धनुर्मात्रं तं देशमशिला तु चेत् ॥ ३९।७५ ॥

सम्पूर्य सैकतैर्मृद्भिः क्षालयित्वा तु वारिणा ।
आलयं पञ्चगव्येन बहिरन्तश्च शोधयेत् ॥ ३९।७६ ॥

समिदाज्येन चरुणा प्रत्येकं तु सहस्रकम् ।
अष्टदिक्षु यथान्यायं जुहुयान्मूलमन्त्रतः ॥ ३९।७७ ॥

ब्राह्मणान् भोजयेत् पश्चात् प्रासादस्य समन्ततः ।
पुण्याहं वाचयेत्तत्र कारयेदधमोत्तमम् ॥ ३९।७८ ॥

स्नापेयद्विधिवत् सम्यग्यथावित्तानुसारतः(!) ।
एतदर्धं तु शूद्रस्य मरणे कारयेद्बुधः ॥ ३९।७९ ॥

तदर्धं तु द्विजातीनां मरणे देवतालये ।
मण्डपे गोपुरे तेषां मरणे वर्तिते सति ॥ ३९।८० ॥

भूशुद्धिं पूर्ववत् कृत्वा पुण्याहं चैव कारयेत् ।
होममेकं तु कर्तव्यमालयस्योत्तरे बुधः ॥ ३९।८१ ॥

शिलामयं चेत्तद्गेहं गर्भागारादि नारद ।
कपिलागोमयं ग्राह्यं मूलमन्त्रेण मन्त्रवित् ॥ ३९।८२ ॥

गर्भागारादि सर्वत्र वायुमन्त्रेण लेपयेत् ।
सम्प्रोक्ष्य पञ्चगव्येन शेष पूर्ववदाचरेत् ॥ ३९।८३ ॥

भूगुप्ते चाग्निदग्धे च जलाविष्टे निरास्पदे ।
मन्त्रेशं(-शे?)चिरलुप्ते च पुनः स्थापनमाचरेत् ॥ ३९।८४ ॥

तस्मादूर्ध्वं तु विधिवत् बिम्बस्थापनमारभेत् ।
अङ्गहीनस्य बेरस्य अङ्गहीनं (?)भवेद्यदि ॥ ३९।८५ ॥

सुवर्णेन तदङ्गं तु कृत्वा सन्धापयेद्दढम् ।
एवं कृत्वा विधानेन पुनः स्थापनमारभेत् ॥ ३९।८६ ॥

जलवासविधानेन पूर्ववच्छेषमाचरेत् ।
अथवात्र मुनिश्रेष्ठ जलसम्प्रोक्षण तु वा ॥ ३९।८७ ॥

कारयेद्देवदेवस्य तेन शान्तिर्भविष्यति ।
सन्त्याज्यं दारुजं बिम्बं सन्धेयं मृण्मयं भवेत् ॥ ३९।८८ ॥

छिन्ने भिन्ने तथा वक्त्रे मूलार्चायां प्रमादतः ।
कल्पयित्वा तु देवेशे बालस्थानक्रमेण तु ॥ ३९।८९ ॥

युक्त्या युक्तिविशेषेण शिल्पिभिः कारयेद्दृढम् ।
कृत्वा वर्णैरलङ्कारं प्रतिष्ठां पुनरारभेत् ॥ ३९।९० ॥

सौवर्णप्रतिमायां तु छिन्ने भिन्ने च वक्त्रके ।
द्रावयित्वा सकृत् सिक्तं कृत्वा संस्थापयेत् पुनः ॥ ३९।९१ ॥

ततस्तु बहुधा भिन्नं ताम्रं चाप्सु विनिक्षिपेत् ।
एकधा च द्विधा भिन्नं ताम्रेणैव तु योजयेत् ॥ ३९।९२ ॥

तत्सर्वं पूर्ववत् कृत्वा बिम्बं कुर्यान्नवं शुभम् ।
ताम्रबिम्बं तु संस्थाप्य नित्यं पूजा प्रवर्तते ॥ ३९।९३ ॥

बिम्बं सुलक्षणोपेतं राजतं सम्भवेद्यदि ।
जलाधिवासनादीनि तस्मिन् कार्याणि सर्वशः ॥ ३९।९४ ॥

ताम्रबिम्बगतां शक्तिं राजते स्थाप्य यत्नतः ।
ताम्रबिम्बं परित्यज्य राजतं स्थापयेत् क्रमात् ॥ ३९।९५ ॥

तथैव राजतं त्यक्त्वा सौवर्णं स्थापयेत् क्रमात् ।
कदाचिदपि न त्याज्यं सौवर्णं भूतिमिच्छता ॥ ३९।९६ ॥

स्वधर्मयुक्तजातिभ्यो दुर्वृत्ते ऽपि तथा द्विज ।
मुख्य एव सदा विप्र तथैवोत्तमबेरकम् ॥ ३९।९७ ॥

सौवर्णमेव सर्वेषां मुख्यबिम्बं प्रशस्यते ।
संस्थाप्य स्वस्य स्थाने तु पूजयेत्तु दिने दिने ॥ ३९।९८ ॥

ब्रह्मस्थाने स्थितं बिम्बं कर्मार्चां न तु चालयेत् ।
चलनं तु भवेत्तस्मिन् राज्यस्य चलनं भवेत् ॥ ३९।९९ ॥

तत्स्थानं निधनं याति ग्रामस्य निधनं भवेत् ।
तस्मात् सर्वप्रयत्नेन उक्तकाले तु चालयेत् ॥ ३९।१०० ॥

अयने विषुवे चैव सङ्क्रान्त्यां ग्रहणे तथा ।
प्रातःसन्ध्यार्चन(-ने?) स्नानवेलायां मुनिसत्तम ॥ ३९।१०१ ॥

स्नानबिम्बविहीने तु चलनं तु समाचरेत् ।
द्वितीयावरणाद्बाह्ये कर्मार्चां न तु चालयेत् ॥ ३९।१०२ ॥

प्रमादाद्वापि मोहाद्वा चलनं चेन्मुनीश्वर ।
जलसम्प्रोक्षणं कृत्वा सुपुण्याहपुरःसरम् ॥ ३९।१०३ ॥

अधमोत्तममार्गेण स्नापयेद्बेरमुत्तमम् ।
एकबेरविधाने तु प्रायश्चित्तं विधीयते ॥ ३९।१०४ ॥

स्नपनं स्थावरार्चायां कर्तव्यं विधिवत् सदा ।
प्रासादं तु नवं कृत्वा पञ्चगव्येन शोधयेत् ॥ ३९।१०५ ॥

अधमोत्तममार्गेण स्नापयेत् पुरुषोत्तमम् ।
एवमेव तु कर्तव्यं षङ्विंशद्वत्सरान्तकम् ॥ ३९।१०६ ॥

अत ऊर्ध्वं प्रवक्ष्यामि जलसम्प्रोक्षणं क्रमात् (?) ।
तस्मात्तेनैव शुद्धिः स्यात् सर्वशान्तिर्भविष्यति ॥ ३९।१०७ ॥

अङ्गहीनं भवेद्बिम्बं पुनरुत्पाद्य पूर्ववत् ।
संस्थाप्य विधिवत् पूर्वं पुनः स्थापनमाचरेत् ॥ ३९।१०८ ॥

नारदः—
सेनापते महाप्राज्ञ स्नपनस्य प्रसीद मे ।
अशास्त्रीये महादोषान् सर्वान् मे ब्रूह्यशेषतः ॥ ३९।१०९ ॥

यैर्देषैः स्नपनोद्भूतै राजराष्ट्रं विनश्यति ।
पशवश्च प्रजाश्चैव सस्यादिनिधनानि च ॥ ३९।११० ॥

विष्वक्सेनः—
स्नपनस्य प्रवक्ष्यामि महादोषान् मुनीश्वर ।
शलभैर्गन्धदुष्टैस्तु दुष्टाः स्युः सर्वमानवाः ॥ ३९।१११ ॥

साधिते कलशे भिन्ने तद्द्रव्यैः पूरयेत् पुनः ।
ऊनैश्च कलशैरूनविभवाः सर्वमानवाः ॥ ३९।११२ ॥

कृमिकीटपतङ्गादिद्रव्येषु पतने यदि ।
तत्सर्वं वर्जयेन्नित्यं विष्णुयागेषु सर्वशः ॥ ३९।११३ ॥

वर्जितैस्तु सदा द्रव्यैः देवेशस्यार्चनं यदि ।
षष्टिर्वर्षसहस्राणि नरकं प्रतिपद्यते ॥ ३९।११४ ॥

केशयुक्तं तु यद्द्रव्यं निपाते (निपतेद्?) विष्णुमूर्धनि ।
मूर्धाभिषिक्तं राजानं नाशयेन्नात्र संशयः ॥ ३९।११५ ॥

अन्येष्वपि च दुष्टेषु पतितेषु महामुने ।
एतदेव फलं प्राह स्वयं नारायणः प्रभुः ॥ ३९।११६ ॥

पर्युषितैर्न चाम्भाभिः कलशेषु प्रपूरयेत् ।
यदि लोभेन गृह्णीयात् काकयोनिशतं व्रजेत् ॥ ३९।११७ ॥

पुराणसर्पिषा देवं स्नापयेद्यदि लोभतः ।
गृध्रयोनिशतं गच्छेत् तदन्ते सूकरो भवेत् ॥ ३९।११८ ॥

महिषाज्येन देवेशं स्नापयेद्यदि मोहतः ।
गृध्रयोनिशतं गच्छेत् तदन्ते कुक्कुटो भवेत् ॥ ३९।११९ ॥

स्नापयित्वान्यथाज्येन कृकलासशतं व्रजेत् ।
दधियुक्तं तु यत् क्षीरं स्नापयेद्यदि लोभतः ॥ ३९।१२० ॥

दरिद्रो मानुषो लोके जन्मश्चाज(अजजन्म?)शतं व्रजेत् ।
रसद्रव्यं च वन्यैस्तु नियुज्यान्माक्षिकं नरः ॥ ३९।१२१ ॥

यदि तत्पूजितो विप्र वृषजन्मशतं व्रजेत् ।
कृमिकीटपतङ्गानां द्रव्येषु पतिते (पतनं?) यदि ॥ ३९।१२२ ॥

तत्सर्वं वर्जयेन्नित्यं विष्णुयागेषु सर्वशः ।
दृश्यते साधितं चैव तद्द्रव्यं तु परित्यजेत् ॥ ३९।१२३ ॥

तान् सर्वान्न स्पृशेद्यस्तु कलशे साधिते पुनः ।
तथा वै दृश्यते चापि ततो ऽन्यानि च विन्यसेत् ॥ ३९।१२४ ॥

श्वानकुक्कुटचण्डालैः साधिते(?)दृश्यते पुनः ।
परित्यज्य ततो ऽन्यांश्च साधयेत् कलशान् पुनः ॥ ३९।१२५ ॥

उदक्यान्त्यजैर्वापि साधिते(?)दृश्यते पुनः ।
परित्यज्य ततो विद्वान् पुनश्चान्यं तु विन्यसेत् ॥ ३९।१२६ ॥

दुष्टैर्हि वीक्षितं चैव पादस्पृष्टं च यद्भवेत् ।
राजानं राजमात्रं च यजमानमथापि वा ॥ ३९।१२७ ॥

नाशयेत् सपरीवारं सपशुद्रव्यसञ्चयम् ।
सामात्यं सपुरं राष्ट्रं दुष्टद्रव्याभिषेचने ॥ ३९।१२८ ॥

व्याधयश्च भवन्त्युग्रा अनावृष्टिस्तथैव च ।
भूतवेतालरक्षांसि पिशाचोरगदानवाः ॥ ३९।१२९ ॥

बाधन्ते ह्यनिशं ह्येते राजानं राष्ट्रमेव च ।
आढकं वा तदर्धं वा तन्न्यूनं परिवर्जयेत् ॥ ३९।१३० ॥

स्नेहद्रव्याणि सर्वाणि साधको मन्त्रवित्तमः ।
वस्त्रसूत्रविहीने तु तोरणादिभिरेव वा ॥ ३९।१३१ ॥

नृत्तगीतादिभिर्वापि गन्धपुष्पादिभिस्तथा ।
अलङ्कार(-रैः?)विहीनं वा देवदेवस्य शाङ्र्गिणः ॥ ३९।१३२ ॥

यस्मिन् राष्ट्रे मुनिश्रेष्ठ स्नपनं स्यात् कदाचन ।
तद्राष्ट्रं चोरभूयिष्ठं शत्रुभिश्चैव हन्यते ॥ ३९।१३३ ॥

तस्मात् सर्वप्रयत्नेन यथाशास्त्रं यथाक्रमम् ।
स्नपनं कारयेद्विष्णोः भूतिमिच्छन् परां गतिम् ॥ ३९।१३४ ॥

दोषाणां च प्रशमनं व्याधीनां चैव सर्वशः ।
ग्रहाणां शान्तये चैव शत्रूणां च जयाय च ॥ ३९।१३५ ॥

आयुरारोग्यवृद्ध्यर्थं पुत्रपौत्रविवृद्धये ।
कामानां चैव सर्वेषां वृद्धये सर्ववर्णिनाम् ॥ ३९।१३६ ॥

विधिहीनं क्रियाहीनं द्रव्यहीनं तथैव च ।
मानहीनं तु यद्द्रव्यं पूजाहीनं च यद्गुरोः ॥ ३९।१३७ ॥

कालातीतं प्रजाहीनं कर्तृदेशेषु सर्वशः ।
आभिचारं(रो?) भवेत् सद्यो ग्रामस्य नगरस्य च ॥ ३९।१३८ ॥

एवं यथोक्तस्नपनं कारयेद्यस्तु मानवः ।
मुच्यते पातकैः सर्वेः पद्मपत्रमिवाम्भसा ॥ ३९।१३९ ॥

गोध्नः पितृध्नो मातृध्नो भ्रूणहा गुरुतल्यगः ।
सुरापः स्वर्णहारी च परदाराभिमर्शकः ॥ ३९।१४० ॥

एते चान्ये च मुच्यन्ते पापेभ्यः स्नपनेन वै ।
स्नपने ह्यधिकं पुण्यं विद्यते मुनिसत्तम ॥ ३९।१४१ ॥

अश्वमेधसहस्रं तु यत्कुर्यात् कायशोधनम् ।
स्नपनेन तु तद्विष्णोः लभते नात्र संशयः ॥ ३९।१४२ ॥

ध्वजस्थाने प्रवक्ष्यामि प्रायश्चितं तु नारद ।
अप्रमाणपटं चित्रं वैणवं दण्डमेव वा ॥ ३९।१४३ ॥

अनुक्ताधिकहीनं च प्रयत्नेन विवर्जयेत् ।
वर्जितेन कृतं चेत्तन्निष्फलं स्यान्न संशयः ॥ ३९।१४४ ॥

ध्वजाधिवासने काले कुम्भे चावाह्य वाहने ।
तत्कुम्भपतने चैव चलने भेदने तथा ॥ ३९।१४५ ॥

प्रतिमापरिकुम्भे च तद्ग्रामश्च विनश्यति ।
स्नपनं तत्र कर्तव्यं देवेशस्याधमेत्तमम् ॥ ३९।१४६ ॥

शान्तिहोमं ततः कृत्वा ग्रामदोषनिकृन्तनम् ।
पुनरुत्पादयेत् कुम्भं संस्थाप्य विधिपूर्वकम् ॥ ३९।१४७ ॥

ध्वजे लक्षणहीने तु गरुडे वा विशेषतः ।
कर्तृभर्तृविनाशः स्यात् तत्रस्थो नरकं व्रजेत् ॥ ३९।१४८ ॥

क्षिप्रं त्यक्त्वा ध्वजं तत्र आचार्येण समाहितः ।
ध्वजमुत्थापयेत् सद्यः सर्वलक्षणसंयुतम् ॥ ३९।१४९ ॥

पूर्वोक्तविधिना सम्यक् शेषं कर्म समारभेत् ।
ग्रामप्रदक्षिणे काले पतिते वातकोपिते ॥ ३९।१५० ॥

दुर्भिक्षं वर्तते तत्र कर्तारो व्याधिपीडिताः ।
तद्दोषपरिहाराय स्नपनं चाधमोत्तमम् ॥ ३९।१५१ ॥

पुण्याहं वाचयेत्तत्र ब्राह्मणानां च भोजनम् ।
कारयेन्मुनिशार्दूल शेष पूर्ववदाचरेत् ॥ ३९।१५२ ॥

आचार्यं पूजयेत् पश्चात् यथाशास्त्रोक्तमार्गतः(-कम्?) ।
पतनाद्भेदने चैव ध्वजं त्यक्त्वा तु तत्क्षणात् ॥ ३९।१५३ ॥

स्नपनं चोत्तमं कृत्वा देवदेवस्य चक्रिणः ।
वास्तुहोमं ततः कृत्वा पुण्याहं वाचयेत्ततः ॥ ३९।१५४ ॥

उत्पाद्य चोद्धरेत् सम्यक् ध्वजं लक्षणसंयुतम् ।
ग्रामप्रदक्षिणे काले बलिहीनं भवेद्यदि ॥ ३९।१५५ ॥

स ग्रामो निधनं याति तत्रस्थो नरकं व्रजेत् ।
तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ॥ ३९।१५६ ॥

स्नापयेद्देवदेवेशं पञ्चाशत् कलशैः(?) क्रामत् ।
पूजयित्वा ततो देवं पुनर्ग्रामं परिभ्रमेत् ॥ ३९।१५७ ॥

बलिदानसमायुक्तं पश्चादुत्थापयेत् खगम्(-द्ध्वजम्?) ।
केवलं बलिदानं तु कारयेद्दुन्दुभिर्युतम् ॥ ३९।१५८ ॥

एतस्मिन्नेव काले तु वेलादीनि न वीक्षयेत् ।
विधिवद्ध्वजमुत्थाप्य शेषं पूर्ववदाचरेत् ॥ ३९।१५९ ॥

ध्वजोत्थापनकाले तु चलने गगने ततः ।
कर्तारो व्याधिमृच्छन्ति नैर्धन्यमपि सर्वशः ॥ ३९।१६० ॥

तद्दोषपरिहाराय स्नपनं चाधमोत्तमम् ।
पुण्याहं वाचयित्वा तु तस्य दोषः प्रशाम्यति ॥ ३९।१६१ ॥

पतनाद्भूपतिश्चैव तद्ग्रामं च विनश्यति ।
ध्वजस्य पतने चैव प्रायश्चित्तं प्रवक्ष्यते ॥ ३९।१६२ ॥

स्नपनं देवदेवस्य विधिना चाधमोत्तमम् ।
पुण्याहं वाचयित्वा तु ब्राह्मणानथ भोजयेत् ॥ ३९।१६३ ॥

संस्थाप्य विधिवत् पश्चात् पूजयेद्विधिना ततः ।
पतनोद्भेदने चैव पुनरुत्पादयेद्ध्वजम् ॥ ३९।१६४ ॥

स्थापने निपतेत्तत्र तद्राष्ट्रं च विनश्यति ।
स्नपनं चोत्तमं कुर्यात् उत्सवं च विधानतः ॥ ३९।१६५ ॥

शान्तिं कृत्वा विधानेन पुण्याहं वाचयेत्ततः ।
चोरैरपहृते चैव तद्राष्ट्रं च विनश्यति ॥ ३९।१६६ ॥

स्नपनं चोत्तमं कृत्वा शान्तिहोमपुरःसरम् ।
बलिभ्रमणकाले तु नित्ये वा चोत्सवे तु वा ॥ ३९।१६७ ॥

द्रव्यस्य पतने चैव गन्धपुष्पादिकस्य च ।
शान्ति कृत्वा विधानेन पञ्चोपनिषदैः क्रमात् ॥ ३९।१६८ ॥

पुनरुत्पादयेद्द्रव्यं गन्धाद्यं सकलं क्रमात् ।
द्रव्याभावे तु चरुणा चाक्षतैर्वा बलिं ददेत् ॥ ३९।१६९ ॥

संस्पृष्टे दुर्जनादीनां शूद्राद्यैश्चान्यजातिभिः ।
शान्तिहोमं तु कृत्वैव मङ्गलानि च दर्शयेत् ॥ ३९।१७० ॥

बलिभ्रमधकाले तु प्रायश्चित्तं विधीयते ।
अनालोच्य प्रदाने तु बिम्बहीने तु वा मुने ॥ ३९।१७१ ॥

सबलिग्रामराज्ञोश्च रोगवृद्धिर्भविष्यति ।
तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ॥ ३९।१७२ ॥

अधमोत्तममार्गेण स्नापयेद्बलिकौतुकम् ।
शान्तिहोमं क्रमात् कृत्वा भोज्या वै ब्राहृमणास्त्रयः ॥ ३९।१७३ ॥

बलिबिम्बस्य पतने याने वा भूगते ऽपि वा ।
तद्ग्रामं निधनं याति कर्ता भर्ता तथैव च ॥ ३९।१७४ ॥

आलये तु नयेद्देवं स्नपनं चाधमोत्तमम् ।
शान्तिहोमं च कृत्वा तु महापूजापुरःसरम् ॥ ३९।१७५ ॥

पुण्याहं वाचयेत्तत्र ब्राह्मणांश्चैव तोषयेत् ।
ग्रामे वा नगरे वापि शेषकर्म समाचरेत् ॥ ३९।१७६ ॥

पतनेनाङ्गहीने च राजाराष्ट्रं च नश्यति ।
अन्नबिम्बे ऽथवा पुष्पे शक्तिमुद्वासयेत् क्रमात् ॥ ३९।१७७ ॥

कर्मार्चायां न्यसेच्छक्तिं स्नपनं चोत्तमं भवेत् ।
शान्तिहोमं चतुर्दिक्षु कुर्यात् पञ्चमन्त्रकैः(?) ॥ ३९।१७८ ॥

अन्यबिम्बे समावाह्य शेषकर्म समाचरेत् ।
सन्धानं पूर्ववत् कृत्वा पूर्वलक्षणसंयुतम् ॥ ३९।१७९ ॥

स्थापितं पूर्ववत् कृत्वा अस्मिन् कालादि नेष्यते ।
तच्छक्तिं योजयेद्बिम्बे शेषकर्म समाचरेत् ॥ ३९।१८० ॥

स्थानके चासने चैव शयने बलिबेरके ।
पतने चाङ्गहीने च प्रायश्चित्तं तु पूर्ववत् ॥ ३९।१८१ ॥

उत्सवारम्भदिवसे कल्पिते ऋत्विजै(?)रपि ।
तैस्तैरेव तु कर्तव्याः क्रियाः सर्वावसानकम् (?) ॥ ३९।१८२ ॥

मध्ये तु योजयेदन्यान् मोहात्तु मुनिसत्तम ।
ताः क्रिया निष्फलायान्ति तस्माच्छान्तिं तु कारयेत् ॥ ३९।१८३ ॥

प्रायश्चित्तं तु कर्तव्यं तस्य दोषापुनत्तये ।
पूर्वेण ऋत्विजेनापि कुर्यात् कर्मावसानकम् ॥ ३९।१८४ ॥

अधमोत्तममार्गं वा पञ्चाशद्वा (?) मुनीश्वर ।
पञ्चविंशतिभिर्वापि कलशैः स्नापयेद्धरिम् ॥ ३९।१८५ ॥

पुण्याहं वाचयेत्तत्र शान्तिहोमं च कारयेत् ।
व्याधिग्रस्ते मृते वापि शास्त्रहीने ऽन्यदूषिते(?) ॥ ३९।१८६ ॥

प्रतिष्ठाकर्मणि तथा चोत्सवे परमार्थिनम् ।
योजयेदन्यमेवं चेदाचार्यं तन्त्रपारगम् ॥ ३९।१८७ ॥

यागाग्नौ चैव विच्छिन्ने उत्सवे वर्तिते सति ।
तद्राष्ट्रं च विनश्यन्ति(?) कर्तारो व्याधिपीडिताः ॥ ३९।१८८ ॥

तद्दोषपरिहाराय स्नपनं चाधमोत्तमम् ।
सम्प्रार्थ्य देवदेवेशं महाहविपुरःसरम् ॥ ३९।१८९ ॥

मथित्वाग्निं समुत्पाद्य लौकिकाग्निमथापि वा ।
वैष्णवीकरणैर्युक्तं सुपुण्याहपुरःसरम् ॥ ३९।१९० ॥

एवं तु कारयेद्विद्वांस्तद्दोषस्य निकृन्तनम् ।
योगेशस्यार्चनाहीने चोत्सवे यागमण्डपे ॥ ३९।१९१ ॥

मध्ये कुम्भगते देवे ह्युत्सवे तु विशेषतः ।
निष्फलः स च यागस्तु कर्तारो व्याधिपीडिताः ॥ ३९।१९२ ॥

तस्मात्तत्फलसिद्ध्यर्थं स्नपनं चाधमोत्तमम् ।
कारयेच्छान्तिहोमं तु जुहुयाच्छतमाहुतीः ॥ ३९।१९३ ॥

पुण्याहं वाचयित्वा तु तस्य दोषः प्रशाम्यति ।
यागेशकुम्भे विचले परिकुम्भे ऽथवा पुनः ॥ ३९।१९४ ॥

भेदने पतने वेद्यां प्रायश्चित्तं तु पूर्ववत् ।
अष्टमङ्गलहीने तु पूजाजीने तु तत्र च ॥ ३९।१९५ ॥

मङ्गलं तु विनश्येत कर्तारो व्याधिपीडिताः ।
मङ्गलात्मानमभ्यर्च्य देवेशं विधिपूर्वकम् ॥ ३९।१९६ ॥

शान्तिहोमं ततः कृत्वा पुण्याहं वाचयेत्ततः ।
उत्सवे नित्यपूजायां विलोपे होमकर्मणि ॥ ३९।१९७ ॥

तत्रस्था नरकं यान्ति तस्माद्वृद्धिर्न जायते ।
तद्दोषपरिहाराय प्रायश्चित्तं तु पूर्ववत् ॥ ३९।१९८ ॥

नित्यपूजावसाने तु होमं कुर्यात्तथोत्सवे ।
होमान्ते तु बलिं कुर्याद्यथाविधिपुरःसरम्(!) ॥ ३९।१९९ ॥

नित्योत्सवस्य हीने वा बलिदानस्य चोभयोः ।
जुहुयान्मूलमन्त्रेण नित्याग्नौ शतमाहुतीः ॥ ३९।२०० ॥

एतद्द्विकालहीने तु तदूर्ध्वं स्नपनं तथा ।
हुत्वाष्टाक्षरमन्त्रेण पश्चान्नित्यं समाचरेत् ॥ ३९।२०१ ॥

नित्योत्सवस्य हीनेन यदि स्यात्तु महोत्सवः ।
स्नापयेत् पञ्चगव्येन बलिबेरमनुत्तमम् ॥ ३९।२०२ ॥

स्नपनं कारयेत् पश्चात् पञ्चविंशतिभिः क्रमात् ।
अलङ्कारं क्रमात् कृत्वा पूजयेद्धविरन्तकम् ॥ ३९।२०३ ॥

नित्योत्सवविधानेन प्रासादे बलिमाचरेत् ।
प्रातर्मध्यप्रदोषेषु बलिभ्रमणमाचरेत् ॥ ३९।२०४ ॥

अथ मध्याह्नहीने च कारयेद्बलिकर्मणि ।
एककालं भवेत्तस्मिन् बलिकर्म तु चेन्मुने ॥ ३९।२०५ ॥

उत्सवो निष्फलस्तत्र ग्रामनाशो भवेद्ध्रुवम् ।
तस्मात्तत्फलसिद्ध्यर्थं द्विकालं बलिमाचरेत् ॥ ३९।२०६ ॥

द्विकालं तु मुनिश्रेष्ठ बलिदानं तु कारयेत् ।
पूर्वकालबलिमध्यकालिका (?) रात्रिकालबलि सप्रदक्षिणम्(?) ॥ ३९।२०७ ॥

भूतराक्षसपिशाचपन्नगानां (?) नाशद (-का?) रणमिदं बलिभ्रमम्(?) ।
यो मोहादेकसन्ध्यायां बलिं निक्षिप्य(?)नारद ॥ ३९।२०८ ॥

तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ।
अधमोत्तममार्गेण स्नपनं कारयेद्धरेः ॥ ३९।२०९ ॥

ब्राह्मणान् भोजयेत् पश्चात् महाहविपुरःसरम् ।
पुण्याहं वाचयेत् पश्चात् पूर्ववद्धोममाचरेत् ॥ ३९।२१० ॥

तत्कालोचिते पश्चात् बलिदानं समाचरेत् ।
अङ्कुरार्पणपात्रं तु नष्टं पतितमेव वा ॥ ३९।२११ ॥

अस्पृश्यैः स्पर्शितं वाति पुनरुत्पादयेत् क्रमात् ।
श्यामे रक्ते प्ररूढे वा दण्डे(?) मूषिकभक्षिते ॥ ३९।२१२ ॥

जुहुयात् पञ्चमन्त्रैस्तु प्रत्येकं समिदादिभिः ।
अष्टोत्तरशतं हुत्वा विष्णुमन्त्रेण मन्त्रवित् ॥ ३९।२१३ ॥

उद्देश्यदिवसे तीर्थमकृतं चेत्तु नारद ।
दैविकैर्मानुषैर्विघ्नैः पुनरुत्सवमारभेत् ॥ ३९।२१४ ॥

व्यत्यासो दिवसैर्द्रव्यैः बलिदाने कृते यदि ।
जुहुयान्मूलमन्त्रेण सर्पिषा शतमाहुतीः ॥ ३९।२१५ ॥

दिग्देवतानां तु व्यत्यासो वर्तते चेन्महोत्सवे ।
क्रमेण कारयेत् पश्चात् पूर्ववद्धोमपूर्वकम् ॥ ३९।२१६ ॥

एकाहमेककालं वा बलिदानं तु चोत्सवे ।
विघ्नितं चेत् प्रवक्ष्यामि प्रायश्चित्तं तु नारद ॥ ३९।२१७ ॥

जुहुयान्मूलमन्त्रेण तद्द्रव्येण शताहुतीः ।
द्विगुणं कारयेत् पश्चाद्विघ्निते ह्येककालिके ॥ ३९।२१८ ॥

पूर्वद्रव्येण पूर्वं तु पूर्वरात्रस्य पूर्ववत् ।
कृत्वा तु विधिवत् सर्वं पश्चात् पश्चात्मकं(?)क्रमात् ॥ ३९।२१९ ॥

विघ्नितं चेदहोरात्रं कारयेदपरे ऽहनि ।
कल्पियित्वातथा रात्रिं (-त्रौ?)तद्बलिं चापि कारयेत् ॥ ३९।२२० ॥

परिभ्रमं तु द्विगुणं होमं चैव तु कारयेत् ।
एकाहादधिकं चैव विघ्नितश्चेन्महोत्सवः ॥ ३९।२२१ ॥

अङ्कुरार्पणपूर्वं तु तत्सर्वं पुनरारभेत् ।
तत्तीर्थं विघ्नितं चेत्तु कुर्यात्तदपरेहनि ॥ ३९।२२२ ॥

स्नपनं विधिवत् कृत्वा तत्र होमं तु पूर्ववत् ।
कृत्वैवं विधिवत् सर्वं शेषं पूर्ववदाचरेत् ॥ ३९।२२३ ॥

प्रतिष्ठायां प्रवक्ष्यामि प्रायश्चित्तं मुनीश्वर ।
प्रमाणरहितं बिम्बं वस्त्रालङ्कारयोश्च वा ॥ ३९।२२४ ॥

आ(अ?)स्थाने वामुहूर्ते वा स्थापनं तु न कारयेत् ।
स्थापनं चेन्महामोहात् कर्ता भर्ता विनश्यति ॥ ३९।२२५ ॥

तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ।
यात्रां कृत्वा विधानेन पुनः स्थापनमारभेत् ॥ ३९।२२६ ॥

जलाधिवासनादूर्ध्वं स्थापनात् प्राङ्मुनीश्वर ।
विघ्निता चेत्क्रिया मध्ये प्रायश्चित्तं विधीयते ॥ ३९।२२७ ॥

ब्राह्मणानामनुज्ञां तु लब्ध्वा पश्चात् परेहनि ।
पञ्चोपनिषदैर्मन्त्रैः हुत्वाज्येन शतं शतम् ॥ ३९।२२८ ॥

समाप्य विधिवच्छेषं स्थापयेत् पुरुषोत्तमम् ।
तथैव कारयेत् सर्वं रक्षितं चेद्दिनत्रयम् ॥ ३९।२२९ ॥

कलशं पूर्णकुम्भं वा मङ्गलाष्टकमेव वा ।
अस्पृश्यस्पर्शितं वापि भिन्नं वा मन्त्रसादितम् ॥ ३९।२३० ॥

अन्यं पूर्ववदुत्पाद्य स्थापयेत् पूर्ववत् क्रमात् ।
उद्धृतं ब्रह्मकुम्भं तु दूषितं पतितं तु वा ॥ ३९।२३१ ॥

कुम्भमन्यं तथा कृत्वा संस्कृत्य विधिवद्बुधः ।
पञ्चोपनिषदैर्मन्त्रैः प्रणवेन तथैव च ॥ ३९।२३२ ॥

आज्येन जुहुयात्तत्र प्रत्येकं शतमाहुतीः ।
कृत्वा पुण्याहनिर्घोषं स्थापयेत् पूर्ववत् क्रमात् ॥ ३९।२३३ ॥

मन्त्रहीनं क्रियाहीनं द्रव्यहीनं तथालयम् ।
व्यत्यासः कालहीनं च स्फालितं चाद्भुतं तथा ॥ ३९।२३४ ॥

एतेषां चाप्यनुक्तानां प्रायश्चित्तं विधीयते ।
जुहुयान्मूलमन्त्रेण घृतेन शतमाहुतीः ॥ ३९।२३५ ॥

आशौचं वाथवा व्याधिर्मृत्युर्वा विद्यते यदि ।
आचार्यस्य तु तत्काले वक्ष्ये संस्थापनक्रमम् ॥ ३९।२३६ ॥
अदीक्षितं वा विप्रेन्द्र वैष्णवं वेदपारगम् ।
स्नाप्यालङ्कारितं शुद्धं तेनैव स्थापयेद्बुधः ॥ ३९।२३७ ॥

पौरुषेण तु सूक्तेन प्रणवेन ततः परम् ।
ततस्तु मूलमन्त्राभ्यां मुहूर्ते स्थापयेद्बुधः ॥ ३९।२३८ ॥

ततश्चाचार्यमन्वीक्ष्य दशाहात् प्राक् प्रयत्नतः ।
तेनैव कारयेत् सर्वं मन्त्रन्यासादि पूर्ववत् ॥ ३९।२३९ ॥

ततः प्रभृति देवस्य चतुर्थ्या(?)स्नानमेव च ।
आचार्यं पूजयेत् पश्चात् पुष्कलेन धनेन च ॥ ३९।२४० ॥

आचार्यदक्षिणाहीने प्रायश्चित्तेन पूजयेत् ।
देवस्य स्थापनादूर्ध्वं चतुर्थे ऽहनि नारद ॥ ३९।२४१ ॥

स्नपनं चार्चनं तस्मिन्नकृतं चेत्तु नारद ।
तदूर्ध्वं द्वादशाहादर्वाक् प्रायश्चित्तं विधीयते ॥ ३९।२४२ ॥

स्नपनं चोत्तमं वा स्यादधमोत्तममेव वा ।
स्नपनं कारयित्वादौ ब्राह्मणानां च भोजनम् ॥ ३९।२४३ ॥

पञ्चोपनिषदैर्भन्त्रैर्हुत्वाज्येन शतं शतम् ।
यथावित्तानुसारेण(!) स्नपनं वाथ कारयेत् ॥ ३९।२४४ ॥

यथावितं तु देवेशं पूजयेत्तु दिने दिने ।
पूजान्ते दक्षिणां दद्यादहन्यहनि नारद ॥ ३९।२४५ ॥

साधकानां हितार्थाय राजराष्ट्रहिताय च ।
तस्मात्सर्वप्रयत्नेन दक्षिणां दापयेत् सदा ॥ ३९।२४६ ॥

दक्षिणाहीनमेतच्चेत् सर्वं निष्फलमेव च ।
आचार्यदक्षिणाहीने प्रायश्चित्तं विधीयते ॥ ३९।२४७ ॥

अधमोत्तममार्गेण देवेशं स्नापयेत्ततः ।
ब्राह्मणान् भोजयेत् पश्चात् पुण्याहं वाचयेत्ततः ॥ ३९।२४८ ॥

पूर्वोक्तेन विधानेन पूजयेत् पुरुषोत्तमम् ।
आचार्यं पूजयेत् पश्चाद्यथावित्तानुसारतः(!) ॥ ३९।२४९ ॥

तस्मात् सर्वप्रयत्नेन दक्षिणानमुत्तमम् ।
स्रुक्स्रुवं (-वौ?) मण्डपे चैव कुण्डमण्डलतोरणम् ॥ ३९।२५० ॥

वेदिकादि मुनिश्रेष्ठ कुर्याच्चेदप्रमाणतः ।
प्रमादान्मूलमन्त्रेण मूलयुक्शतमाहुतीः ॥ ३९।२५१ ॥

जुहुयाद्वैष्णवाग्नो तु आचार्यो ऽनलमध्यमे ।
प्रत्येकं समिदाज्येन चरुणापि महामुने ॥ ३९।२५२ ॥

वैष्णवीकरणात्तस्मिंस्तेन शान्तिर्भविष्यति ।
हरेरतिप्रियकरं तस्मात् कर्म समाचरेत् ॥ ३९।२५३ ॥

बालस्थानस्य वक्ष्यामि प्रायश्चित्तं तु नारद ।
मूलागारार्चनाबिम्बं बालागारे न पूजयेत् ॥ ३९।२५४ ॥

बालस्थानार्चनाबिम्बं मूलस्थाने तु पूजयेत् ।
पूजयेद्वर्ज्यबिम्बं तु यदि लोभाच्च मन्त्रवित् ॥ ३९।२५५ ॥

तत्पूजा निष्फलं याति कर्ता भर्ता विनश्यति ।
यो मोहादर्चयेद्बिम्बं प्रायश्चित्तं विधीयते ॥ ३९।२५६ ॥

स्नापयेदर्चनाबिम्बमधमोत्तममार्गतः ।
मध्यमं वा मुनिश्रेष्ठ तद्दोषस्य निकृन्तनम् ॥ ३९।२५७ ॥

ब्राह्मणान् भोजयेत् पश्चात् वैष्णवान् वेदपारगान् ।
शान्तिहोमं क्रमात् कृत्वा पुण्याहं वाचयेत्ततः ॥ ३९।२५८ ॥

मूलायामर्चकः सम्यक् बालसद्मनि पूजयेत् ।
बालगेहार्चकस्तस्मिन् मूलस्थाने न पूजयेत् ॥ ३९।२५९ ॥

पूजयेद्यदि सम्मोहात् निष्फलं स्यान्न संशयः ।
तद्ग्रामं निधनं याति धर्ममार्गो विनश्यति ॥ ३९।२६० ॥

तस्मात् सर्वप्रयत्नेन मूलागारे न पूजयेत् ।
लोभान्मोहात्तु देवेशं पूजयेद्यदि नारद ॥ ३९।२६१ ॥

तत्पूजाफलसिद्ध्यर्थं प्रायश्चित्तं विधीयते ।
जलसम्प्रोक्षणं कृत्वा सुपुण्याहपुरःसरम् ॥ ३९।२६२ ॥

मूलाधिवासनं कृत्वा मण्डपे चाधिवासनम् ।
अधमोत्तममार्गं वा कारयेन्मुनिसत्तम ॥ ३९।२६३ ॥

ब्राह्मणान् भोजयेत् पश्चात् यथावित्तानुसारतः (!) ।
पूजयेद्बालगेहे तु यावन्मूलप्रवेशनम् ॥ ३९।२६४ ॥

एवं चापि न कृत्वा तु वर्तते काललङ्घनम् ।
स्नपनं मूर्तिहोमं च मण्डपे चाधिवासनम् ॥ ३९।२६५ ॥

कृत्वा तु विधिवत् सम्यक् स्थापयेद्विधिवत् क्रमात् ।
ऊर्ध्वं तु वत्सरात् कालो गतं चेद्वक्ष्यते ऽधुना ॥ ३९।२६६ ॥

विना जलाधिवासं च सर्वं पूर्ववदाचरेत् ।
प्रतिष्ठायाः क्रियाः कृत्वा ॥॥॥प्रार्थयेद्धरिम् ॥ ३९।२६७ ॥

चोरैरपहृतःस (-हृता चेत्?) तु प्रतिमा तरुणालये ।
बिम्बमन्यं समुत्पाद्य लोहजं सुमनोहरम् ॥ ३९।२६८ ॥

जलाधिवासनं कृत्वा मण्डपे चाधिवासनम् ।
मूर्तिहोमं तथा शान्तिं स्नपनं चाधमोत्तमम् ॥ ३९।२६९ ॥

कृत्वा पुण्याहघोषं च स्थापयेद्बालसद्मनि ।
पूर्वसंस्कृतबिम्बं चेज्जलवासं विना भवेत् ॥ ३९।२७० ॥

बालस्थानं समाप्यैवं तन्त्रसङ्करणं शृणु ।
वास्तुसाङ्कर्यमेवं वै वक्ष्यामि क्रमयोगतः ॥ ३९।२७१ ॥

पञ्चरात्रं तथा शैवं वैखानसमिति त्रिधा ।
तत्तच्छास्त्रोक्तमार्गेण वास्तुसङ्ग्रहणादयः ॥ ३९।२७२ ॥

तथा तथैव कर्तव्याः प्रासादप्रतिमादयः ।
कृत्वा तु विधिवत् सम्यक् स्थापनादिक्रमेण हि ॥ ३९।२७३ ॥

तेषां वास्तौ तु साङ्कर्याद्राष्ट्रनाशो धनक्षयः ।
तस्मात्सर्वप्रयत्नेन वर्जयेद्वास्तुसङ्करम् ॥ ३९।२७४ ॥

अत्र किञ्चि (कश्चि?) द्विशेषो ऽस्ति वक्ष्यामि शृणु सुव्रत ।
कर्षणादिकृतं पूर्वं वैखानसविधानतः ॥ ३९।२७५ ॥

पञ्चरात्रेण शास्त्रेण स्थापयेत् पुरुषोत्तमम् ।
शैववैखानसाभ्यां तु विधिना वास्तुसङ्ग्रहम् ॥ ३९।२७६ ॥

तद्देशे स्थापयेद्देवं सात्त्वतेन विधानतः ।
ग्रामराजानुसारेण ब्राह्मणानामनुज्ञया ॥ ३९।२७७ ॥

विद्यते यदि वाञ्छा चेत् पञ्चरात्रेण वार्चनम् ।
तच्छास्त्रेणोक्तमार्गेण स्थापितं पूजितं पुरा ॥ ३९।२७८ ॥

शैववैखानसाभ्यां च अर्चयेन्न कदाचन ।
वैखानसस्य शैवस्यावैदिकत्वान्मुनीश्वर ॥ ३९।२७९ ॥

शैवं वेखानसं चापि असौम्यं तदुदाहृतम् ।
सौम्यं तु सात्त्वतं चैव तस्मात्सौम्यं विशिष्यते ॥ ३९।२८० ॥

तत्र सात्त्वतमार्गेण पूजयेत् पुरुषोत्तमम् ।
शैववैखानसाभ्यां तु रोद्रपूजाग्निरोगकृत् ॥ ३९।२८१ ॥

सौम्यं तु सात्त्वतं तन्त्रं तच्छास्त्रविधिमाचरेत् ।
दैवाद्वा मानुषाद्वापि लोभान्मोहात् प्रमादतः ॥ ३९।२८२ ॥

स्थापिते रौद्रमार्गेण पूज्यमाने दिने दिने ।
हित्वा रौद्रविधानं तु सर्वेषां हितकाम्यया ॥ ३९।२८३ ॥

ग्रामवृद्धिकरं पुण्यं राजभूसुरवर्धनम् ।
तस्मात् सर्वप्रयत्नेन हित्वा रौद्रं तु तत्क्षणात् ॥ ३९।२८४ ॥

स्थापयेत् सात्त्वतेनाथ विधिना पूजयेद्धरिम् ।
तस्मात् सर्वप्रयत्नेन न कुर्यात्तन्त्रसङ्करम् ॥ ३९।२८५ ॥

सात्त्वन्तं पञ्चरात्राख्यं साक्षद्विष्णुमुखाच्छ्रुतम् ।
अनुष्ठेयं द्विजश्रेष्ठैर्वैष्णवैर्वेदपारगैः ॥ ३९।२८६ ॥

पञ्चरात्रं महाज्ञानं धर्मकामार्थमोक्षदम् ।
शैवं च शम्भुना प्रोक्तं शुद्धं लैङ्गमिति द्विधा ॥ ३९।२८७ ॥

नानुष्ठेयं द्विजश्रेष्ठैः परार्थे मुनिसत्तम ।
आत्मार्थे मुनि(द्विज?)वर्यस्तु पूजयेच्छुद्धमुत्तमम् ॥ ३९।२८८ ॥

दिने दिने मुनिश्रेष्ठ लैङ्गिकं न स्मरेद्बुधः ।
वैखानसहितार्थाय शास्त्रं भार्गवनिर्मितम् ॥ ३९।२८९ ॥

नानुष्ठेयं द्विजश्रेष्ठैरात्मनोर्ऽथे परस्य च ।
प्रतिलोमहितार्थाय पूजयेत् पुरुषोत्तमम् ॥ ३९।२९० ॥

सा पूजा शूद्रवृद्ध्यर्था द्विजानां शक्तिहानिकृत् ।
दिने दिने मुनिश्रेष्ठ नात्र कार्या विचारणा ॥ ३९।२९१ ॥

तत्पूजावैदिकत्वाच्च नानुष्ठेया द्विजोत्तमैः ।

नारदः—
वैखानसा इति प्रोक्ताः के ते चात्र विवक्षिताः ॥ ३९।२९२ ॥

वानप्रस्था द्विधा किं ते सूता वा किं विवक्षिताः ।

विष्वक्सेनः—
ब्रह्मण्यां क्षत्रियाज्याताः सूता वैखानसास्तथा ॥ ३९।२९३ ॥

सूतकाश्च रथकाराश्च तथा पौराणिका इति ।
पर्यायवाचकाः शब्दाः प्रतिलोमेषु पूजिताः ॥ ३९।२९४ ॥

एते वैखानसा प्रोक्ताः भार्गवागमपूजकाः ।
प्रतिलोमहितार्थाय भृगुणा तन्त्रमीरितम् ॥ ३९।२९५ ॥

मन्वादिधर्मशास्त्रेषु वानप्रस्थाश्रमः क्रमात् ।
सम्प्रोक्तस्तु मुनिश्रेष्ठ इति शास्त्रस्य निश्चयः ॥ ३९।२९६ ॥

एतेषां सङ्करं तत्र वर्ज्यमाहुर्मनीषिणः ।
तन्त्रसङ्करदोषेण सर्वं नश्यत्यसंशयः ॥ ३९।२९७ ॥

राज्ञा सर्वप्रयत्नेन जगद्रक्षणकाङ्क्षिणा ।
सङ्करः परिहर्तव्यो राजराष्ट्रसुखाय च ॥ ३९।२९८ ॥

यद्दैवत्यं कृतं क्षेत्रं विधिना कर्षणादिना ।
तदन्यदैवतं विप्र मनसापि न कल्पयेत् ॥ ३९।२९९ ॥

यदि वा स्थाप्यते मोहाद्दण्ड्यो वध्यःस पापभाक् ।
स कर्ता सङ्करस्यापि राज्ञो राष्ट्रस्य तस्य हि ॥ ३९।३०० ॥

पञ्चरात्रं तु शैवं वै वैखानसविधानकम् ।
तेषां वास्त्वादिसाङ्कर्यात् किञ्चिदेव विशेषकम् ॥ ३९।३०१ ॥

सात्त्वतं सर्ववृद्ध्यर्थं शैवं सर्वविनाशकृत् ।
वैखानसमनर्थार्थं तस्मात्तत्परिवर्जयेत् ॥ ३९।३०२ ॥

अस्थानस्थापिताः केचित् स्वस्थान [परि?]वर्जिताः ।
देवताद्वयकोपेन सर्वं नश्यत्यसंशयः ॥ ३९।३०३ ॥

सङ्करो द्विविधः प्रोक्तः सर्वप्राणिविनाशनः ।
जातिसङ्करणं चैव तन्त्रसङ्करणं तथा ॥ ३९।३०४ ॥

जातिसङ्करणेनैव जगच्चण्डालतां व्रजेत् ।
तन्त्रसङ्करणेनैव राजाराष्ट्रं विनश्यति ॥ ३९।३०५ ॥

राष्ट्रं शरीरं राजस्तु राजा जीवः स उच्यते ।
राष्ट्रक्षये क्षयो राज्ञः तस्माद्रक्ष्यं द्वयं बुधैः ॥ ३९।३०६ ॥

चण्डालत्वं गते लोके वेदाः सर्वे तिरोहिताः ।
तिरोहितेषु वेदेषु यज्ञादिक्रतवस्तथा ॥ ३९।३०७ ॥

एकवर्णं जगत्सर्वं वस्तु निश्चेष्टकं भवेत् (?) ।
जातिसङ्करदोषेण द्विजानां मरणं भवेत् ॥ ३९।३०८ ॥

तस्मात् सर्वप्रयत्नेन साङ्कर्यं परिवर्जयेत् ।
देवदेवात्परं नान्यत्तदायत्ता हि सिद्धयः ॥ ३९।३०९ ॥

इति चिन्त्यैव भूतानां वयं देवमुपास्महे ।
सर्वदेवमयो विष्णुर्भगवान् भूतभावनः ॥ ३९।३१० ॥

सर्वप्राणिहितार्थाय नान्यैवैको ऽपि दृश्यते ।
ब्रह्मा रुद्रश्च शक्रश्च वसवो वरुणस्तथा ॥ ३९।३११ ॥

यक्षगन्धर्वसिद्धश्च भूतवेतालराक्षसाः ।
शक्तयश्च तथा चान्याः सर्वाः विष्णुविभूतयः ॥ ३९।३१२ ॥

ताश्च सर्वाः प्रसीदन्ति पुरा चार्थार्थिनां नृणाम् ।
पूज्यमाने तु सततं तत्तत्पूजाविधानतः ॥ ३९।३१३ ॥

सर्वप्राणिहितार्थाय मुनिभिः करुणात्मभिः ।
कृतानि तत्तद्योग्यानि शास्त्राणि मुनिपुङ्गव ॥ ३९।३१४ ॥

वैदिकं तान्त्रिकं चैव तथा वैदिकतान्त्रिकम् ।
त्रिविधं कर्म सम्प्रोक्तं पञ्चरात्रार्णवामृतम् (?) ॥ ३९।३१५ ॥

वैदिकं ब्राह्मणानां तु राज्ञां वैदिकतान्त्रिकम् ।
तान्त्रिकं वैश्यशूद्राणां सर्वेषां तान्त्रिकं तु वा ॥ ३९।३१६ ॥

भार्गवेणोक्तधर्मेण प्रतिलोमादि कारयेत् ।
अश्रीकरमसौम्यं तदब्राह्मणपरिग्रहम् ॥ ३९।३१७ ॥

अवैदिकत्वात्तत्तन्त्रं वैखानसमथाधमम् ।
सङ्करः परिहर्तव्यो ब्राह्मणैश्च जगद्धितैः ॥ ३९।३१८ ॥

वास्तौ बिम्बस्य पूजायां पूजकस्य च सङ्करः ।
सर्वथा परिहर्तव्यो प्रायश्चित्तैः पृथग्विधौ(-धैः?) ॥ ३९।३१९ ॥

नारदः—
प्रायश्चित्तं समाचक्ष्व बिम्बसङ्करणादिषु ।
यत्कृत्वा सर्वदोषाश्च नश्यन्त्यशुभहेतवः ॥ ३९।३२० ॥

विष्वक्सेनः—
न तिथिर्न च नक्षत्रं कालवेला न विद्यते ।
सङ्करं तयज्यते क्षिप्रं सर्वप्राणिहिताय वै ॥ ३९।३२१ ॥

सद्य एव तु कर्तव्या सङ्करस्य तु निष्कृतिः ।
निष्कृत्याहरहः(?)पश्चात् राजराष्ट्रसुवृद्धिकृत् ॥ ३९।३२२ ॥

ग्रामस्य नगरस्यापि सर्वसम्पत्सुखावहम् ।
तस्मात् सर्वप्रयत्नेन क्षिप्रं शान्तिं समाचरेत् ॥ ३९।३२३ ॥
यत्तन्त्रेण समारब्धं तत्तन्त्रेणैव कारयेत् ।
अन्यथा चेन्महादोषो राजराष्ट्रविनाशकृत् ॥ ३९।३२४ ॥

तस्मात् सर्वप्रयत्नेन न कुर्यात्तन्त्रसङ्करम् ।
एकाहमर्चनाहीने स्वकल्पोक्तविधानतः ॥ ३९।३२५ ॥

एकाशीतिक्रमात् कृत्वा स्नपनं साधकोत्तमः ।
शान्तिहोमं क्रमात् कृत्वा स्नपनं साधकोत्तमः ॥ ३९।३२६ ॥

शान्तिहोमं क्रमात् कृत्वा वास्तुहोमं तथैव च ।
ब्राह्मणान् भोजयेत् पश्चादष्टोत्तरशतं क्रमात् ॥ ३९।३२७ ॥

तस्यार्धं वा तदर्धं वा यथावित्तानुसारतः(!) ।
चतुर्मूर्तिविधिं स्मृत्वा पञ्चमूर्तिविधि त्यजेत्(?) ॥ ३९।३२८ ॥

परिवाराणि सर्वाणि पूर्ववत् स्थापयेत् क्रमात् ।
तत्त्वन्यासं क्रमात् कृत्वा सृष्टिन्यासं तथैव च ॥ ३९।३२९ ॥

मूलमन्त्रेण मतिमान् मूलमूर्तिमनुस्मरन् ।
पूजयेत् सततं पश्चात् पूर्वोक्तेन विधानतः ॥ ३९।३३० ॥

महाहविर्निवेद्याथ कारयेद्गुरुपूजनम् ।
पूजालोपे ऽपि चेत्तत्र पुनस्तेनैव पूजयेत् ॥ ३९।३३१ ॥

तत्र सात्त्वतमार्गेण पूज्यमाने दिने दिने ।
तन्त्रान्तरेण देवेशं कदाचिन्न तु पूजयेत् ॥ ३९।३३२ ॥

पूजयेद्यदि सम्मोहान्निष्फलं स्यान्नं संशयः ।
तत्पूजाहरहः पश्चात्तद्ग्रामस्य विनाशकृत् ॥ ३९।३३३ ॥

तस्मात् सर्वप्रयत्नेन पूजयेत्तद्द्विजोत्तम ।
पूर्वं कर्मार्चनादीनां शुद्धस्नानं तु कारयेत् ॥ ३९।३३४ ॥

जलसम्प्रोक्षणादीनि मूलार्चायां नियोजयेत् ।
स्नपनादीनि कर्माणि कर्मार्चायां नियोजयेत् ॥ ३९।३३५ ॥

उत्सवं कारयेत्तस्मिन् बलिहोमपुरःसरम् ।
एकाहं वा त्र्यहं वाथ सप्ताहं वा मुनीश्वर ॥ ३९।३३६ ॥

कारयेदुत्सवं तत्र यथाशक्त्यानुरूपतः (!) ।
एतत् क्रमेण कर्तव्यं द्वादशाब्दान्तमेव च ॥ ३९।३३७ ॥

एकाब्दे रक्षसां स्थानं (वासः?) तस्माच्छान्तिं तु कारेयत् ।
द्व्यब्दे च यक्षवासस्तु त्र्यब्दे भूतसङ्कुलम् ॥ ३९।३३८ ॥

चतुरब्दे पिशाचानां पञ्चाब्दे दानवालयम् ।
पञ्चवर्षमतीते तु निवासो ब्रह्मरक्षसाम् ॥ ३९।३३९ ॥

तस्मात् सर्वप्रयत्नेन क्षिप्रं शान्तिं तु कारयेत् ।
द्वादशाब्दात् पुरा कुर्यात् जलसम्प्रोक्षणेन तु ॥ ३९।३४० ॥

एवमेव तु कर्तव्यं विंशद्वर्षान्तमेव तु ।
अतः परं प्रवक्ष्यामि प्रायश्चित्तं तु नारद ॥ ३९।३४१ ॥

जलसम्प्रोक्षणं कुर्याज्जलवासपुरःसरम् ।
ब्राह्मणान् भोजयेत् पश्चान्महाहविपुरःसरम् ॥ ३९।३४२ ॥

षट्त्रिंशद्वत्सरादर्वाक् तावत्तेनैव कारयेत् ।
षट्त्रिंशद्वत्सरादूर्ध्वं प्रायश्चित्तं विधीयते ॥ ३९।३४३ ॥

पञ्चगव्यं क्रमात् कृत्वा गर्भागारं विशोधयेत् ।
पुण्याहं वाचयित्वा तु ब्राह्मणानामनुज्ञया ॥ ३९।३४४ ॥

जलाधिवासनादीनि पूर्वोक्तेनैव कारयेत् ।
गोदानं भूमिदानं च हिरण्यं वस्त्रमेव च ॥ ३९।३४५ ॥

सर्वदानं ततः कुर्यात् ब्राह्मणेभ्यो यथाक्रमम् ।
एवं तद्वर्धयित्वा तु पञ्चाशद्वत्सरान्तकम् ॥ ३९।३४६ ॥

पञ्चाशद्वत्सरादूर्ध्वां प्रायश्चित्तं विधीयते ।
जलाधिवासनादीनि पुनः स्थापनमारभेत् ॥ ३९।३४७ ॥

ब्राह्मणान् भोजयेत्तत्र शेषं पूर्ववदाचरेत् ।
एतत् क्रमेण कर्तव्यं शतवर्षान्तमेव च ॥ ३९।३४८ ॥

संवत्सरशतादूर्ध्वं शून्यस्थानं भवेद्ध्रुवम् ।
तद्ग्रामं निधनं याति तत्रस्था नरकं व्रजेत्(?) ॥ ३९।३४९ ॥

तद्ग्रामं निधनं याति तस्माच्छान्तिं तु कारयेत् ।
शान्तिं कृत्वा विधानेन पञ्चरात्रेण पूजयेत् ॥ ३९।३५० ॥

पूजालोपे ऽपि चेत्तस्मिन् पुनस्तेनैव पूजयेत् ।
तस्मात् सर्वप्रयत्नेन क्षिप्रं शान्तिं समाचरेत् ॥ ३९।३५१ ॥

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां प्रायश्चित्तविधिर्नाम एकोनचत्वारिंशो ऽध्यायः ॥