३७

सप्तत्रिंशो ऽध्यायः

नारदः—
नमस्ते ऽस्तु जगन्नाथ विष्णुपारिषदेश्वर ।
विष्वक्सेन नमस्ते ऽस्तु नमस्ते विश्वकर्मणे ॥ ३७।१ ॥

त्वत्तो ऽधीतं मया तन्त्रं पञ्चरात्रार्णवामृतम् ।
दीक्षाशकुनविस्तारो न त्वया किञ्चिदीरितः ॥ ३७।२ ॥

तत्सर्वं श्रोतुमिच्छामि प्रब्रूहि भगवन् मम ।
इति विज्ञापितो देवो विष्वक्सेनो महात्मना ॥ ३७।३ ॥

प्रत्युवाच महजेजाः प्रणम्य गरुडध्वजम् ।

विष्वक्सेनः—
श्रुणु नारद तत्त्वेन महाविद्यां पुरातनीम् ॥ ३७।४ ॥

मया पृष्टः पुरा प्राह महाविष्णुर्जगन्मयः ।
साधकानां हितार्थाय चतुःषष्टिप्रभेदतः ॥ ३७।५ ॥

शकुनानि जगन्नाथः तान् सर्वान् प्रब्रवीमि ते ।
विघ्नेशः प्रथमः प्रोक्तो गाङ्गेयो मूषिकाध्वजः ॥ ३७।६ ॥

तं पूजयित्वा विधिवत् प्रणम्य प्रार्थयेन् मुने ।
तस्मिन् प्रसन्ने विघ्नेशे सर्वदेवनमस्कृते ॥ ३७।७ ॥

सर्वार्थसिद्धिर्भवति नात्र कार्या विचारणा ।
स एव नायकस्तेषां शकुनानां गणेश्वरः ॥ ३७।८ ॥

तस्मात् सर्वप्रयत्नेन पूजयेद्विघ्ननायकम् ।
पूजाक्रमं प्रवक्ष्यामि सङ्क्षेपेण महामुने ॥ ३७।९ ॥

आवाहयेच्छुचौ देशे सुलिप्ते सुविचित्रिते ।
स्वासने दर्भसङ्कीर्णे कुसुमैरुपशोभिते ॥ ३७।१० ॥

गायत्र्या चासनं दद्यात् प्रणम्य गणनायकम् ।
अर्घ्यं पाद्यं तथाचामं मधुपर्कं तथैव च ॥ ३७।११ ॥

स्नानं वस्त्रोपवीतं च भूषणं गन्धपुष्पकम् ।
धूपदीपं (-पौ?) निवेद्यादि स्तोत्रं रजमुखं स्मरन् ॥ ३७।१२ ॥

कृत्वा पूजां गणेशस्य प्रणम्य प्रार्थयेत् प्रभुम् ।
गायत्र्या चैव तत्सर्वं कुर्यात्तन्त्रविचक्षणः ॥ ३७।१३ ॥

एवं पूज्य ततः पश्चात् गन्धपुष्पादिभिः पुनः ।
पुस्तकं पूजजित्वा तु यथावद्विजितेन्द्रियः ॥ ३७।१४ ॥

आलिखेत् पुस्तकं सर्वं शकुनानि यथाक्रमम् ।

नारदः–
कथं देव निमित्तानि लिख्यते पुस्तके नरैः ॥ ३७।१५ ॥

एतदाचक्ष्व भगवन् संशयो मे महानसौ ।

विष्वक्सेनः—
एवमेव मया पृष्टः प्रोवाच भगवान् यथा ॥ ३७।१६ ॥

तथैवात्र प्रवक्ष्यामि शृणुष्व मुनिपुङ्गव ।
विघ्नराज (-जो?) महारातिः महिषः शुकपीतकः ॥ ३७।१७ ॥

कबन्धं न नदी चैव बृहज्जाली तथैव च ।
पुरुषश्च मृगश्चैव मार्जारो देवगौस्तथा ॥ ३७।१८ ॥

देवागारो रथश्चैव ज्वरः कल्पद्रुमस्तथा ।
व्याघ्रप्रासादरक्षांसित मृगो ग्राहस्तथैव च ॥ ३७।१९ ॥

मकरो वृश्चिकश्चैव पुष्कला(-रा?)वर्तकस्तथा ।
मत्स्ययुग्मं च श्येनं च श्रीवृक्षे च सरस्वती ॥ ३७।२० ॥

वानरं च (-रश्च?) महाचक्रं वृकशङ्खकपिञ्जलाः ।
अङ्कुशं लोकमातङ्ग ऋक्षाश्वं राजहंसकम् ॥ ३७।२१ ॥

धूमचामरसिंहाश्च पूर्णरिक्तघटौ क्रमात् ।
पद्मिनीकाकचन्द्राश्च ध्वजशूलौ च दर्पणम् ॥ ३७।२२ ॥

नग्नो दीपश्च विधवा मङ्गलापितृभूस्तथा ।
कूर्मः कालीमहादुर्गार्(-गे?)सर्पराजजरद्गवौ ॥ ३७।२३ ॥

नृपब्रह्महरीशान् वै एते शकुनसूचकाः ।
एकैकस्य भवेच्छाखा एक एव प्रकीर्तितः ॥ ३७।२४ ॥

तान् सर्वान् क्रमशो वक्ष्ये यथावत्तान् निबोध मे ।
विघ्नेशमादितस्तत्र ततः श्लोकं प्रवक्ष्यते ॥ ३७।२५ ॥

विघ्नेशो दृश्यते यत्र साधकेन्द्रेण धीमता ।
प्रार्थितस्य तु तां सिद्धिं तच्छिष्यायादिशेद्गुरुः ॥ ३७।२६ ॥

शत्रुनाशं तथैवाग्रं राजपूजा च दृश्यते ।
धनलाभोर्ऽथलाभश्च अभयं च भविष्यति ॥ ३७।२७ ॥

कायक्लेशं तथा रोगं सर्वत्र भयमेव च ।
दृश्यते यत्र महिषं तत्र व्याधिर्भविष्यति ॥ ३७।२८ ॥

विद्यासुखं महाज्योतिर्दृश्यते शुकपीतकम् ।
आयुश्च लभते यस्मात् बन्धूनां च सुखं भवेत् ॥ ३७।२९ ॥

लम्बाननं (कबन्धं तु ?) यथादृष्टं वियोगं बन्धुभिः सह ।
युज्यते भयमन्युपग्रं पिशायेभ्यस्तथैव च ॥ ३७।३० ॥

दृश्यते यत्र कावेरी विपदं च विनश्यति ।
सुखं भवति सर्वत्र बहुव्रीहिर्भविष्यति ॥ ३७।३१ ॥

वृद्धिर्भवति सस्यानां राजा च विजयी भवेत् ।
आयुरारोग्यदं नॄणां रोगनाशो भविष्यति ॥ ३७।३२ ॥

दृश्यते तु बृहज्जाली मुखरोगं विनिर्दिशेत् ।
कृष्णकुष्ठशरीरे(?)तु गृहनाशमथापि वा ॥ ३७।३३ ॥

पुरुषश्च (-षे च ?) मृगे दृष्टे ब्रह्मवर्चस्तपोयुतः(?) ।
अभिप्रेतार्थसिद्धिं च शुभं चैव विनिर्दिशेत् ॥ ३७।३४ ॥

मार्जारा यत्र दृश्यन्ते बन्धुनाशं वियोगिता ।
दधिक्षीरघृतादीनां नाशो भवति नान्यथा ॥ ३७।३५ ॥

देवगौर्दृश्यते यत्र शत्रुभ्यो भयमादिशेत् ।
सहवासं च पुत्राणां मातॄणां च विनाशनम् (?) ॥ ३७।३६ ॥

देवालये ऽथ दृष्टे वै विद्यावृद्धिस्तथा भवेत् ।
पुत्रलाभोर्ऽथलाभश्च भविष्यति न संशयः ॥ ३७।३७ ॥

विमानं दृश्यते यत्र राज्यलाभो नृपस्य तु ।
शुद्रब्राह्मणवैश्यानां लाभः सर्वो भविष्यति ॥ ३७।३८ ॥

ज्वरे दृष्टे ज्वरं ब्रूयादङ्गहानिः क्षुधार्तता ।
हृत्ताप अर्थनाशश्च भविष्यति न संशयः ॥ ३७।३९ ॥

कल्पद्रुमे ऽथ दृष्टे वै राज्येन सदृशं सुखम् ।
ब्राह्मणस्य श्रियं ब्रूयादीप्सितार्थं भविष्यति ॥ ३७।४० ॥

व्याघ्रे दृष्टे भयं घोरं गवादीनां विनिर्दिशेत् ।
राजतो भयमत्युग्रं पुरुषस्य न संशयः ॥ ३७।४१ ॥

प्रासादो दृश्यते यत्र पुत्रपौत्रैः सुखी भवेत् ।
धनधान्यसमृद्धिश्च भवेत्तत्र न संशयः ॥ ३७।४२ ॥

निशाचरे च वै दृष्टे घोरं नॄणां भयं भवेत् ।
ब्राह्मणानां गवां चैव वधं ब्रूयुरसंशयः ॥ ३७।४३ ॥

कृश्णे मृगे ऽथ दृष्टे वै यज्ञकल्याणमादिशेत् ।
राष्ट्रशान्ति कुटुम्बस्य कीर्तिं वाथ विनिर्दिशेत् ॥ ३७।४४ ॥

शिंशुमारे ऽथ दृष्टे वै मरणं च भयावहम् ।
अजगोमहिषादीनां व्याधिं चार्तिं विनिर्दिशेत् ॥ ३७।४५ ॥

मकरे दृश्यमाने तु स्त्रीभोगं लभते ध्रुवम् ।
आरोगयमन्नलाभश्च लभते नात्र संशयः ॥ ३७।४६ ॥

वृश्चिको दृश्यते यत्र विषेण मरणं भवेत् ।
हृत्तापमात्मपीडा च भार्याकलहमेव च ॥ ३७।४७ ॥

पुष्कला(-रा?)वर्तके दृष्टे महद्वृद्धिर्भविष्यति ।
वृद्धिर्भवति सस्यानां सुभिक्षं क्षेत्रमेव च ॥ ३७।४८ ॥

कीर्तिं वृद्धिं जयं चैव विन्दते परमं सुखम् ।
बलवृद्धिं सुभिक्षं च मत्स्ययुग्मं विनिर्दिशेत् ॥ ३७।४९ ॥

श्येनस्तु दृश्ते यत्र शस्त्रेण मरणं भवेत् ।
पलायनं कुटुम्बस्य शत्रुभिर्भयमादिशेत् ॥ ३७।५० ॥

निधनं लभते सस्तु (यस्तु ?) सदा लाभविनिर्गगतम् ।
पुष्कलं धनधान्यं च वंशवृद्धिर्भविष्यति ॥ ३७।५१ ॥

कृकलासो भवेद्यत्र ब्राह्मणैश्च विरुद्ध्यते ।
वर्णस्य सङ्करं ब्रूयात् त्वग्दोषं च विनिर्दिशेत् ॥ ३७।५२ ॥

श्रुतलाभं च वा वृद्धिं कीर्तिलाभं च शाश्वतम् ।
व्यवहारे जयं चैव सरस्वत्यां विनिर्दिशेत् ॥ ३७।५३ ॥

कुटुम्बस्य च दौर्बल्यं वर्णसङ्करमेव च ।
वानरो दृश्यते यत्र मृगेभ्यो भयमेव च ॥ ३७।५४ ॥

चक्रे तु विजयं नित्यं राज्यलाभमवाप्स्यति ।
व्याधिदुर्भिक्षनाशं च शत्रुनाशं विनिर्दिशेत् ॥ ३७।५५ ॥

तस्करेभ्यो भयं नित्यं वृके दृष्टे न संशयः ।
क्षुत्पीडां राजपीडां च राष्ट्रस्य च विनिर्दिशेत् ॥ ३७।५६ ॥

भयनाशं श्रिनयं चैव पुष्कलार्थं तथैव च ।
स्त्रीलाभं वस्त्रलाभं च पाञ्चजन्ये विनिर्दिशेत् ॥ ३७।५७ ॥

पिङ्गला(?) दृश्यते यत्र शत्रुभिर्मरणं भवेत् ।
राष्ट्रस्य कलहं ब्रूयात् विषं भवति नान्यथा ॥ ३७।५८ ॥

हस्तिलाभस्तथा राज्ञो अङ्कुशे तु विनिर्दिशेत् ।
समरे विजयं तेषां पुष्कलार्थं विनिर्दिशेत् ॥ ३७।५९ ॥

वराहो दृश्यते यत्र सस्यनाशं विनिर्दिशेत् ।
शस्त्रक्षयं पुनः पश्येत् अर्थनाशं भयं तु वा ॥ ३७।६० ॥

पुत्रलाभं श्रियं चैव राज्यलाभं तथैव च ।
स्फुटमैरावते दृष्टे राज्यलाभं तु निर्दिशेत् ॥ ३७।६१ ॥

ऋक्षराजे ऽथ वै दृष्टे क्षेत्रनाशो भवेद्ध्रुवम् ।
स्थाननाशो भवेत्तत्र शत्रुवृद्धिं च निर्दिशेत् ॥ ३७।६२ ॥

ग्रामे शान्तिर्मनस्तुष्टिर्मङ्गलायतनं भवेत् ।
आयुरारोग्यमैश्वर्यमर्थे(-श्वे?)न तु विनिर्दिशेत् ॥ ३७।६३ ॥

राजहंसो (-से?) भवेन्नित्यं राज्यलाभो जयाय तु ।
आयुरैश्वर्यवृद्धिश्च पुष्कलाकीर्तिरेव च ॥ ३७।६४ ॥

धूमे बन्धुविनाशश्च विद्युता मरणं भवेत् ।
निषादेभ्यो भयं चैव वैधव्यं च भविष्यति ॥ ३७।६५ ॥

चामरे चैव दृष्टे तु ग्रामनाशो भविष्यति ।
अनावृष्टिश्च राज्यस्य अतिवृष्टिरथापि वा ॥ ३७।६६ ॥

सिंहे दृष्टे भवेच्चैव अर्थलाभं च निर्दिशेत् ।
सद्वृद्धिं सर्वजन्तूनां पुत्रपौत्रविवर्धनम् ॥ ३७।६७ ॥

पुत्रपौत्रविवृद्धिं च पुष्कलां श्रियमाप्नुयात् ।
पूर्णकुम्भे तु वै दृष्टे पुरुषाणां न संशयः ॥ ३७।६८ ॥

शत्रूणां वृद्धिसंयुक्तं धनधान्यविनाशनम् ।
रिक्तकुम्भे तु वै दृष्टे भवत्येव न संशयः ॥ ३७।६९ ॥

धनलाभं तथावाप्तिः(?) पुत्रलाभस्तथैव च ।
लभते सर्वलाभं च पुष्करिण्याः प्रदर्शने ॥ ३७।७० ॥

चिन्तितार्था विनश्यन्ति आयुरैश्वर्यनाशनम् ।
यस्मिन् काले तु सम्पश्येत् दुष्टकाकं सुदुर्मनाः ॥ ३७।७१ ॥

शत्रुक्षयं धनावाप्तिं समरे विजयं तथा ।
आयुरारोग्यसम्प्राप्तिं पूर्णचन्द्रस्य दर्शनात् ॥ ३७।७२ ॥

विजयं शत्रुनाशश्च धनधान्यसुखावहम् ।
आयुरारोग्यदं नॄणां उत्तमध्वजदर्शनात् ॥ ३७।७३ ॥

शत्रुवृद्धिं धनच्छेदं सरोगं सस्यनाशनम् ।
सम्पश्यन् शूलराजानं नात्र कार्या विचारणा ॥ ३७।७४ ॥

आरोग्श्यं बलमैश्वर्यं कीर्तिं विद्याधनागमम् ।
लभते नास्ति सन्देहो दर्पणस्य च दर्शनात् ॥ ३७।७५ ॥

लाभहानिर्यशो हानिरायुर्हानिस्तथैव च ।
सर्वहानिर्भवत्येव नग्नस्यैव च दर्शनात् ॥ ३७।७६ ॥

चित्तार्थं लभते तत्र शुभं वाप्यशुभं तु वा ।
शत्रुक्षयं च भवति प्रदीपं यस्तु पश्यति ॥ ३७।७७ ॥

अर्थहानिर्मनस्तापः गृहे दुश्चरितं भवेत् ।
विधवादर्शनं यस्य भवत्यत्र न संशयः ॥ ३७।७८ ॥

अर्थलाभो मनस्तुष्टिः गृहे सम्पद्भविष्यति ।
चिन्तितार्थं लभेत्तत्र सुमङ्गल्याः प्रदर्शने ॥ ३७।७९ ॥

श्मशानं दृश्यते यत्र ग्रामनाशं धनक्षयम् ।
बन्धुदेववियोगं च सर्वते भयमेव वा ॥ ३७।८० ॥

अभयं सर्वतत्त्वेषु कूर्मरापजप्रदर्शनात् ।
राज्यं श्रियं च सम्प्राप्य क्षेमारोग्ययुतो भवेत् ॥ ३७।८१ ॥

शत्रुवृद्धिर्धनच्छेदः व्याधिर्दुर्भिक्षवर्धनम् ।
चिन्तितं नश्यते(!) तत्र महाकालीप्रदर्शनात् ॥ ३७।८२ ॥

विजयं चार्थलाभं च कीर्तिश्रीवर्धनं तथा ।
पुत्रपौत्रविवृद्धिश्च दुर्गे दृष्टे न संशयः ॥ ३७।८३ ॥

व्याधिं प्रवासं मरणं विपत्स्यति न संशयः ।
पञ्चास्यपन्नगं पश्येत् पापिभिश्चाभिभूयते ॥ ३७।८४ ॥

व्याधिनाशो(?) महद्दुःखं कुटुम्बस्य विनाशनम् ।
आलोकिते महापापे गर्दभे स्यान्न संशयः ॥ ३७।८५ ॥

जरद्गवं प्रपश्येता नराः शोकार्णवं पुनः ।
व्रजन्ति व्याधिना पीडा कलहं च गृहे भवेत् ॥ ३७।८६ ॥

चक्रवर्तिनमायान्तं अवलोक्य जनाधिपम् ।
श्रियं प्राप्नोति पुत्रांश्च पुष्टिं च लभते नरः ॥ ३७।८७ ॥

चतुर्मुखं समालोक्य ब्रह्माणं कमलासनम् ।
सर्वाधिपत्यमाप्ने वंशवृद्धिश्च जायते ॥ ३७।८८ ॥

विष्णुमालोक्य देवेशं शङ्खचक्रगदाधरम् ।
सर्वाधिपत्यमास्थाय स्थितिं च लभते नरः ॥ ३७।८९ ॥

रुद्रमालोक्य भूतेशं शूलपाणिमुमापतिम् ।
शत्रुसैन्यं महज्जित्वा मोदते सह बन्धुभिः ॥ ३७।९० ॥

एते श्लोका मयोद्दिष्टाः शकुनानां विशेषतः ।
एतांस्तु पुस्तके लिख्य विवेकं सुमनोरमम् ॥ ३७।९१ ॥

एकपत्रे तथैकैकं श्लोकं संलिख्य वाग्यतः ।
सूत्रेण सूत्रयित्वा तु पुष्पादिभिरथार्चयेत् ॥ ३७।९२ ॥

अनुज्ञाप्य ततो देवं विघ्नेशं गणनायकम् ।
आनीय तु ततः शिष्यान् बद्धनेत्रान् यथाक्रमम् ॥ ३७।९३ ॥

तेषां हस्ते तु पुष्पाणि निधाय च समाहितः ।
आदाय पुस्तकं पश्चात् प्रणवेन समाहितः ॥ ३७।९४ ॥

शिष्यहस्ते निधायाथ नमस्कृत्वा प्रसाद्य च ।
प्रार्थयेच्च स तेनाथ विघ्नराजाग्निसम्भवम् ॥ ३७।९५ ॥

नमस्ते ऽस्तु जगन्नाथ लम्बोदर गजानन ।
संशये ऽस्मिन् महाबाहो सन्त्यं सन्दर्शयस्व नः ॥ ३७।९६ ॥

सत्यं हि भवतामाहुः मनुयस्तत्त्वदर्शिनः ।
इति विज्ञाप्य देवेशं शिष्यं ब्रूयात्ततः परम् ॥ ३७।९७ ॥

विस्रंसयित्वा सूत्रं तु पत्रं गृह्णीष्व पुस्तके ।
इत्युक्तस्तु ततः शिष्यः स्रसयित्वा तु सूत्रकम् ॥ ३७।९८ ॥

गृह्णीयात् पत्रमेकं तु हस्तप्राप्तं यदृच्छया ।
आचार्यस्तु ततो तेत्रबन्धनं प्रविमुच्य च ॥ ३७।९९ ॥

देहि पत्रमिति ब्रुयात् शिष्यं प्रति समाहितः ।
शिष्यस्तु पत्रं दद्याच्च गुरुहस्ते महामुने ॥ ३७।१०० ॥

गुरुस्तु वाचयेत् पत्रमसम्मूढेन चेतसा ।
तदुक्तं विधिवज्ज्ञात्वा शुभं वा यदि वाशुभम् ॥ ३७।१०१ ॥

ततः शिष्यं प्रतिब्रूयाद्यथोक्तं सर्वमेव तु ।
प्रतिशिष्यं तथा कृत्वा ज्ञात्वा कर्म शुभाशुभम् ॥ ३७।१०२ ॥

दीक्षयेच्छिष्यमाचार्यस्तत्परं लक्षणान्वितम् ।
एतत् पुस्तकमादाय सूत्रयित्वा विचक्षणः ॥ ३७।१०३ ॥

अन्येषामपि भक्तानामनेन विधिना पुनः ।
पूजयित्वा गणेशं तु पुस्तकं च यथाक्रमम् ॥ ३७।१०४ ॥

शुभाशुभविधिं प्राज्ञः प्रब्रूयाद्देशिकोत्तमः ।
न नास्तिकानां सम्पश्येत् नाभक्तानां कदाचन ॥ ३७।१०५ ॥

न निन्दकानां सर्वेषां अनाचारजुषामपि ।
दुर्वृत्तानां च सर्वेषां बाह्यदीक्षाजुषामपि ॥ ३७।१०६ ॥

असम्भाष्येण पश्येच्च न विज्ञाते कदाचन ।
शिष्याणां वनितानां तु भक्तानामपि सर्वदा ॥ ३७।१०७ ॥

संशयाविष्टचेतानां कृपणानां गुरौ सदा ।
अजिह्मकानां भक्तानां देयमेतद्यथातथम् ॥ ३७।१०८ ॥

अनुक्तगुणयुक्तानां यदि पश्येत्तु (दद्यात्तु?) देशिकः ।
देवताश्च प्रकुप्यन्ते(!) न तथ्यं च भविष्यति ॥ ३७।१०९ ॥

इति विज्ञाय सर्वं तु प्रपश्येच्छकुनानि तु ।
शकुनान्ते ततो विघ्ननायकं पूजयेत् क्रमात् ॥ ३७।११० ॥

पुस्तकं पूजयेत् पश्चात् गन्धपुष्पादिभिः पुनः ।
आचार्यं पूजयेत् पश्चात् सर्वस्वं वाधर्मेव वा ॥ ३७।१११ ॥

यथावित्तानुसारेण(!) पूजयेद्गुरुपूजनम् ।
उद्वासयेत्ततो देवमाकाशे गणनायकम् ॥ ३७।११२ ॥

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां दीक्षाशकुनविस्तारो नाम सप्तत्रिंशो ऽध्यायः ॥