३३

त्रयस्त्रिंशो ऽध्यायः

विष्वक्सेनः—
अथातः सम्प्रवक्ष्यामि द्रव्यशुद्धिविधिं परम् ।
रत्नानि हेमवस्ताणि भूषणादींश्च ताम्रजान् ॥ ३३।१ ॥

अन्नं तोयं दधिक्षीरे घृतं मधुगुलादयः ।
मधुपर्कश्च पुष्पाणि मुखवासोपहारकम् ॥ ३३।२ ॥

एवमादीनि चान्यानि देवेशोय निवेदयेत् ।
निवेदितानि वस्तूनि शुद्धाशुद्धानि वै शृणु ॥ ३३।३ ॥

अन्नादीनुपहारांस्तान् वर्जयेन्मुनिसत्तम ।
रत्नादिलोहजान्ताश्च शुद्धा एव न संशयः ॥ ३३।४ ॥

रत्नानि हेमवस्त्राणि भूषणानि च (-दींश्च?) लोहजान् ।
निवेदितानि शुद्ध्यन्ते क्षालयेन्मन्त्रपूर्वकम् ॥ ३३।५ ॥

अस्तराजेन मन्त्रेण क्षालयेत्तान् पुनस्त्रिधा ।
तथैव ताम्रकलशान् वस्त्रेण परिवेष्टयेत् ॥ ३३।६ ॥

मन्त्रमाहात्म्यमात्रेण शुद्ध्यन्ते नात्र संशयः ।
अन्नं तोयं दधिक्षीरं घृतं मधु गुलं तथा ॥ ३३।७ ॥

मधुपर्को ऽथ पुष्पं च मुखवासोपहारकम् ।
निर्माल्यमिति विज्ञेयं मम प्रीतिकरं शुभम् ॥ ३३।८ ॥

ताम्बूलं मधुपर्कं च नैवेद्यान्नं तथैव च ।
यद्भुक्तं तद्विना ब्रह्मन् आचार्याय प्रदापयेत् ॥ ३३।९ ॥

तुर्यभाग्र हि सङ्गृह्य ममाग्रे स्थापयेत् क्रमात् ।
गन्धपुष्पादिनाभ्यर्च्य मामुद्दिश्य निवेदयेत् ॥ ३३।१० ॥

तन्निर्माल्यं च तद्भुक्तं वैष्णवानां तु दापयेत् ।
एवं सङ्क्षेपतः प्रोक्तः द्रव्यशुद्धिर्मया मुने ॥ ३३।११ ॥

अथातः सम्प्रवक्ष्यामि स्रुक्स्रुवाद्यधिदैवतम् ।
स्रुक्स्रुवं (-वौ?) चैव दर्वी च पृथिवीदेवता स्मृता ॥ ३३।१२ ॥

उदकुम्भश्चन्द्रदैवत्यः(?) प्रणीता वरुणदेवता ।
जिह्वश्च स्वर्गदैवत्यः(?) अन्तरिक्षं चरुस्तथा ॥ ३३।१३ ॥

गन्धर्वो गन्धदैवत्यः(?) पुष्पं शुक्राधिदैवतम् ।
अक्षता लक्ष्मीदैवत्या(?) धूपं चार्घ्याधिदैवतम् ॥ ३३।१४ ॥

दीपस्य भास्करं विद्यान्मूलं सश्चन्द्रदेवता(?) ।
विहरी वासुदेवत्या(?) समिधो ब्रह्मदेवता ॥ ३३।१५ ॥

आज्यं तु रुद्रदैवत्यं(?) अन्नं रुद्राधिदैवतम् ।
इध्मप्रव्रश्चनं (-ने?) (चैव ?) पितृवर्गा यथाक्रमम् ॥ ३३।१६ ॥

गव्यवस्तूनि सर्वाणि गणेशस्तत्र देवता ।
स्वरे सरस्वती देवी प्रणवे सर्वशक्तयः ॥ ३३।१७ ॥

सर्वेषामेव वस्तूनां रसरूपं तु वैष्णवम् ।
स्मृतं चेदस्मृतं चेत्तु सर्वं नारायणात्मकम् ॥ ३३।१८ ॥

कलशे देवता वक्ष्ये शृणु नारद तत्त्वतः ।
वक्त्रं वागीश्वरी देवी कर्णं लक्ष्मीस्तथैव च ॥ ३३।१९ ॥

पार्श्वयोश्च तथा शान्ती पृष्ठे च पृथिवी स्मृता ।
तथैव पूर्णकुम्भं तु संस्मरेदधिदैवतम् ॥ ३३।२० ॥

एव सङ्क्षेपतः प्रोक्तं स्रुक्स्रुवाद्यविदैवतम् ।
नित्ये नैमित्तिके चास्मिन् विष्णुयागेषु सर्वशः ॥ ३३।२१ ॥

ज्ञात्वा तत्राधिदैवं तु साधकः सम्प्रयोजयेत् ।
कारयेद्विष्णुयागेषु मन्त्राणामधिदैवतम् ॥ ३३।२२ ॥

अज्ञानात् कुरुते मोहात् सा कृताप्यकृता भवेत् ।
तस्मात् सर्वप्रयत्नेन साधकः परमार्थवित् ॥ ३३।२३ ॥

सञ्ज्ञात्वा तेषु कार्येषु कारयेन्मन्त्रवित्तमः ॥

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां (द्रव्यशुद्ध्यादिविधिर्नाम) त्रयस्त्रिंशो ऽध्यायः ॥