द्वात्रिंशो ऽध्यायः
विष्वक्सेनः—
अथातः सम्प्रवक्ष्यामि हेतिराजस्य लक्षणम् ।
शृणु नारद गुह्येन(?) उत्तमादि क्रमेण तु ॥ ३२।१ ॥
सहस्रारं महाचक्रं शतारं वार्धमेव वा ।
षोडशारं तु वा चक्रं द्वादशारमथापि वा ॥ ३२।२ ॥
कारयेन्मुनिशार्दूल सौवर्णादिक्रमेण तु ।
स्वर्णेन रजतेनापि ताम्रलोहेन वा मुने ॥ ३२।३ ॥
कारयेद्धेतिराजानमुत्तमाधममध्यतः ।
उत्तमं हेतिराजस्य लक्षणं प्रथमं शृणु ॥ ३२।४ ॥
अङ्गुष्ठाङ्गुलमानेन द्वादशाङ्गुलमायतम् ।
भ्रामयेच्चक्ररूपेण विस्तारायामतादृशम् ॥ ३२।५ ॥
अथवात्र मुनिश्रेष्ठ मानमार्गं विधीयते ।
ग्रामराजानुकूलेन नक्षत्रेणैव कारयेत् ॥ ३२।६ ॥
शिल्पशास्तानुरूपेण कारयेच्छिल्पवित्तमैः ।
षड्दिग्वाथ चतुर्दिग्वा लिखेज्ज्वालाग्निरूपिणाम् ॥ ३२।७ ॥
चक्रेण द्विगुणीकृत्य दण्डाकारायतं भेवत् ।
षडङ्गुलं तु तन्नाहं पद्ममष्टाङ्गुलोच्छ्रयम् ॥ ३२।८ ॥
विंशत्यङ्गुलमानं तत् पादायतं क्रमात् सदा ।
कर्णिकां द्वादशाङ्गुल्या कारयेत् सुमनोरमाम् ॥ ३२।९ ॥
कारयेच्चक्रमध्ये तु शक्तिं तद्वैष्णवं महत् ।
सुवृत्तान्तर्गतं ध्यात्वा तत्तन्मूर्त्यनुसारतः ॥ ३२।१० ॥
रविरग्निश्च रुद्रश्च ब्रह्माविष्णुस्तथैव च ।
कालश्च बडबाग्निस्तु शिखायामग्निरेव च ॥ ३२।११ ॥
कालरूपस्तु दण्डे च ज्योतिश्चक्रं तु तत्प्रभा(?) ।
अष्टशक्तिसमोपेतं चक्रं तं देवमाकृतिम् ॥ ३२।१२ ॥
एवं तु हेतिराजस्य लक्षणं कथितं मया ।
मध्यमं हेतिराजस्य लक्षणं शृणु सुव्रत ॥ ३२।१३ ॥
दशाङ्गुलसमोपेतं भ्रामयेच्चक्रवत् क्रमात् ।
चक्रदण्डायतं सम्यक् अष्टाङ्गुलमुदाहृतम् ॥ ३२।१४ ॥
चतुरङ्गुलनाहं तत्पद्मं पञ्चाङ्गुलोच्छ्रयम् ।
पद्मस्य पादविस्तारं ततः पञ्चदशाङ्गुलम् ॥ ३२।१५ ॥
पादानुरूपतः कृत्वा कर्णिकां मुनिसत्तम ।
एवं तु मध्यमं प्रोक्तं शेषं पूर्ववदाचरेत् ॥ ३२।१६ ॥
अष्टाङ्गुलस्य विस्तारं भ्रामयेच्चक्ररूपकम् ।
चतुरङ्गुलमायामं गदारूपं तु कारयेत् ॥ ३२।१७ ॥
त्रियङ्गुलं तु नाहं तत्पादोत्सेधं तथा भवेत् ।
चतुर्दशाङ्गुलं पद्मं पादविस्तारमेव च ॥ ३२।१८ ॥
कर्णिकापरिमाणं यत् कारयेदनुरूपतः ।
पूर्ववत् कारयेद्वापि दण्डाकारस्य लक्षणम् ॥ ३२।१९ ॥
मध्यमाधमचक्रे ऽस्मिन् नालं कर्तृवशात् कुरु ।
उत्तमादिक्रमं प्रोक्तं शेषं साधारणं भवेत् ॥ ३२।२० ॥
भक्तनां दर्शनार्थं यत् चक्रं तु सुमनोरमम् ।
तथैव कारयेद्विद्वान् हेतिराजस्य लक्षणम् ॥ ३२।२१ ॥
सौवर्णं राजतं चेत्तु कर्मार्चादि महामुने ।
बल्यर्थं हेतिराजानं ताम्रैर्वाप्यथ कारयेत् ॥ ३२।२२ ॥
मिश्रलोहेन वा कुर्यात् शास्त्रदृष्टेन नारद ।
बल्युत्सवं तथार्थर्ं(-चा?) तु स्नपनार्थं महामुने ॥ ३२।२३ ॥
चक्रमूर्तिरिह प्रोक्ता सर्वसम्पत्सुखावहा ।
अथवा बलिबेरेण कारयेत्तन्त्रवित्तमः ॥ ३२।२४ ॥
दिवा बिम्बेन कर्तव्यं रात्रौ चक्रेण कारयेत्(?) ।
चक्राभावे द्विसन्ध्यायां बलिबेरेण कारयेत् ॥ ३२।२५ ॥
एवं सङ्क्षेपतः प्रोक्तं सर्वं वक्तुं न शक्यते ।
पवित्रारोहणे चैव पुष्पयागे समन्ततः ॥ ३२।२६ ॥
तथा दीक्षावसाने तु सुप्रतिष्ठात्मपूजने ।
एवमेव तु कर्तव्यं चक्रं भूमौ तु मण्डलम् ॥ ३२।२७ ॥
दण्डाकारं विना तस्मिन् निशि चूर्णेन पूज(-र?)येत् ।
प्रथमं चक्रमध्ये तु द्वितीयं चारु(-र?) मध्यमे ॥ ३२।२८ ॥
तृतीयं तु न्यसेद्धीमान् बहिर्वलयमेव तु ।
एवं चूर्णैरलङ्कृत्य चक्रमण्डलमुत्तमम् ॥ ३२।२९ ॥
नेष्यते ऽस्मिन् महाविष्णुर्मध्यमान्तर्गतो हरिम् ।
ततस्तु परितोष धीं कारयेत्तालमात्रतः ॥ ३२।३० ॥
कुन्देन्दुधवलाकारं तण्डुलैरुभयत्र तु ।
द्वाराणि तालमात्रेण कारयेच्चतुरो दिशि ॥ ३२।३१ ॥
द्वारे द्वारे मुनिश्रेष्ठ पूर्णैरेव तु भूषयेत् ।
॥॥॥ ॥॥॥ ॥॥॥ ॥॥॥
॥॥॥ ॥॥॥ ॥॥॥ ॥॥॥
॥॥॥ ॥॥॥ गेनैव शुद्ध्यति ।
एवं सङ्क्षेपतः प्रोक्तं हेतिराजस्य लक्षणम् ।
प्रतिष्ठायाः क्रमं चैव राजराष्ट्रसुखावहम् ।
धन्यं यशस्यमायुष्यं समरे विजयं(?)तथा ।
यः कारयेत्तु मतिमान् सर्वान् कामानवाप्नुयात् ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंह्रितायां[हेतिराजलक्षणविधिर्नाम] द्वात्रिशो ऽध्यायः ॥