३१

एकत्रिंशो ऽध्यायः

नारदः—
पवित्रारोपणे पुष्पयागे प्रति- ष्ठाद्युत्सवे दीक्षाविधानादिकाले ।
यदुक्तं पुरा देवास (देवसे?) नेश वर्णैः कथं मण्डलं वर्तिते तत्र काले ॥ ३१।१ ॥

विष्वक्सेनः—

मुने देशकालोक्तवर्णादिहीने यथा कर्तृरिच्छानुरूपं तु कार्या ।
क्रिया साधकैस्ते प्रवक्ष्याम्युपायं मुने तत्त्वतस्तच्छृणुष्वादिगुप्तम् ॥ ३१।२ ॥

सरोजं त्वनामिकया साधकः संविलिप्ते स्वहस्तविस्तारदीर्घे ।
शुचौ भूतले द्रोणशाल्यक्षतसम्- कीर्णे सकर्णिकाष्टपत्रं यथेच्छतम् ॥ ३१।३ ॥
नारदः—

श्रुत्वानन्दनभेदादनन्तार्चनादि- क्रिया वाहिनीनाथ युष्मत्प्रसादात् ।
गुरो मूलमन्त्रप्रभावं मनीषा मम श्रोतुमासीज्जगत्कारणस्य ॥ ३१।४ ॥

विष्वक्सेनः—
शृणुष्व प्रभावो ऽस्य पद्मासने- नाप्यचिन्त्यश्रुतौ बन्धमूलस्य ।
अष्टाक्षरस्येयमीदृक् तथा येनाभिभाषितुः शक्तिर्मुने भो ॥ ३१।५ ॥

तथा प्रसादाद्यथा देवदेवः स्वयं भ्रान्तिनाशाय भक्तार्तिहारी ।
यदाज्ञप्तवान् मूलविद्याप्रभावं मुने वैष्णवत्वात्तवाहं ब्रवीमि ॥ ३१।६ ॥

स्वार्थे परार्थेर्ऽचकस्त्वर्चनायै सुप्ततद्द्वयं पूतदेशे निषण्णः ।
ततोपायतया भक्तितत्त्वार्णबीज- च्छन्दोमुनिक्षेत्रदेवे च मानवाः ॥ ३१।७ ॥

स्वयं वा यथाशक्तिजप्त्वाङ्गुलीभिः समस्ताभिरामृष्टदृग्देशदेहः ।
भवेद्धूतपापः कृतार्थेर्थाधी स्वयं देववत् पूजितश्चैव भक्तैः ॥ ३१।८ ॥

आवाहनाद्यर्चनाङ्गेन युक्ता वियुक्तपापा मूलमन्त्रप्रभावात् ।
विरिञ्चात्मजार्चा कृता प्रीतिकारि- ण्यनन्तस्य विष्णोरशेषाण्डयोनेः ॥ ३१।९ ॥

नारदः—

आवाहनं नाम मन्त्रेण लक्ष्मी- धरस्याभिमुखस्य क्रियासङ्गस्य ।
मन्त्रात्मनो मन्त्रकर्तुः प्रतीते- ष्वनेनैव संस्थापनादि प्रियास्य ॥ ३१।१० ॥

हरिर्जङ्गमेश्वरतस्तानि काले स्थितो नित्यमाहूतये यत्तदा किम् ।
कथं मूलबेरस्थितो वासुदेवो नरेण तु काचोत्सवादिप्रतीतेः ॥ ३१।११ ॥

वदानीकिनीनाथ गुह्यं परिष्ठं गुरो संशयं भक्तिमानित्यमुष्मिन् ।

विष्वक्सनेः—
प्रश्नं त्वदन्यः कथं प्रष्टुमीष्टे मुने ऽनेन तुष्टः प्रवक्ष्यामि तुभ्यम् ॥ ३१।१२ ॥

हरेः पूजनाङ्गोपचारे यत्त- त्वावाहनं त्वत्सद्भावहेतोः ।
मुने यौगपद्येन सान्निध्यमस्मिन् क्रमेणेति वा संशयः प्रादुरासीत् ॥ ३१।१३ ॥

एकप्रदीपोत्थिता दीपमाला दापे यथा यौगपद्येन देवः ।
तथा वासुदेवो लिखेत्तु प्रतीके मुने सन्निधिं दास्यतीति प्रतीतिः ॥ ३१।१४ ॥

अथान्यो महाभोगयोगप्रदायी प्रजानां तथा वृद्धिदो मुक्तिदश्च ।
परं मूलमन्त्रेण संस्मृत्य पञ्चा- ङ्गुलं हृदि स्पृश्य बिम्बस्य मुद्राम् ॥ ३१।१५ ॥

प्रदृश्याङ्गुलिसञ्ज्ञितां पादमूले प्रणम्याक्षतं वापि पुष्पं प्रकीर्य ।
मुने विद्ययाष्टार्णयैवाथ चार्घ्यं पुनः पाद्याचमनं गन्धपुष्पम् ॥ ३१।१६ ॥

ततो धूपदीपं प्रदायाथ भूतान्नं निवेद्यान्तरावरणं कल्प्य सम्यक् ।
तथावरणानां यथापूर्वमर्घ्या- द्यनेनैव मन्त्रेण पुष्पं प्रदाय ॥ ३१।१७ ॥

निवेद्याथ ताम्बूलिकामच्युताय प्रदीप्यो बलिं होममन्ते विधाय ।
समस्ताधिकः सर्वसिद्धिप्रदायी नृपादिप्रियो योगसिद्धिं लभेत ॥ ३१।१८ ॥

नारदः—

एकः प्रधानः कथं पूज्यते स्वे- पदे चावृतासने वासुदेवः ।
गुरो विष्णुसेनापते वक्तुमर्ह- स्यशेषेण मे संशयच्छेदनाय ॥ ३१।१९ ॥

विष्वक्सेनः—

यथा पावकस्थानभेदात् क्रियैको मखेष्विज्यते वासुदवो द्विजेन्द्रैः ।
तथा विष्टरे स्वे पदे च वृताव- प्यनन्तोच्यते स्थानभेदेन भेदः ॥ ३१।२० ॥

इति श्रीपञ्चरात्रे विष्वक्सेनसंहितायां [मण्डलादिविधिर्नाम] एकत्रिंशो ऽध्यायः ॥