३०

त्रिंशो ऽध्यायः

विष्वक्सेनः—

अथातः सम्प्रवक्ष्यामि कृष्णजन्मदिनोत्सवम् ।
सर्वलोकहितार्थाय सम्भूतं यादवे कुले ॥ ३०।१ ॥

देवक्यां वसुदेवस्य देवानां हितकाम्यया ।
श्रावणे कृष्णपक्षे च रोहिण्यामष्टमे तिथौ ॥ ३०।२ ॥

अङ्कुरार्पणपूर्वं तु सप्तपञ्चदिने ऽथवा ।
मध्यरात्रे तु पूर्वे तु कृष्णबिम्बमनुत्तमम् ॥ ३०।३ ॥

नवनीतनटं वापि सर्पनृत्तमथापि वा ।
चतुर्भुजं वापि तथा पूजयेत्तद्दिने मुने ॥ ३०।४ ॥

प्रासादपूर्वभागे तु मण्डपं चतुरश्रकम् ।
वितानध्वजसंयुक्तं दर्भमालासमावृतम् ॥ ३०।५ ॥

पुष्पमाल्यैरलङ्कृत्य मुक्तादामै(?)रलङ्कृतम् ।
इन्द्रादीशानपर्यन्तं मार्जनं प्रणवेन तु ॥ ३०।६ ॥

प्रोक्षयेद्गन्धतोयेन द्वादशाक्षरविद्यया ।
गोमयेन समालिप्य पूर्वादिक्रमयोगतः ॥ ३०।७ ॥

प्रदीपं च चतुर्दिक्षु दीपयेत् साधकः क्रमात् ।
पालिकाभिरलङ्कृत्य मण्डपस्य समन्ततः ॥ ३०।८ ॥

मण्डपस्य च मध्ये तु चतुष्पादासनं न्यसेत् ।
तत्रोर्ध्वे छादनं कुर्यात् सितपुष्पं विनिक्षिपेत् ॥ ३०।९ ॥

अर्चयेद्गन्धपुष्पैस्तु धर्मादिक्रमयोगतः ।
बिम्बं तु स्थापयेत्तत्र ब्राह्मणैः स्वस्तिवाच्य च ॥ ३०।१० ॥

कौतुकं बन्धयित्वा तु ब्राह्मणनामनुज्ञया ।
अङ्गुष्ठानामिकाभ्यां तु द्वादशाक्षरविद्यया ॥ ३०।११ ॥

मुखवासं ततो दद्यात् तालवृन्तैश्च वीजयेत् ।
छत्रचामरसंयुक्तं नृत्तगीतसमन्वितम् ॥ ३०।१२ ॥

वीणावेणुसमायुक्तं कौतुकं बन्धयेद्धरेः ।
शङ्खदुन्दुभिसंयुक्तं स्वस्तिवाचनपूर्वकम् ॥ ३०।१३ ॥

पादुकाद्वयसंयुक्तं शयने सन्निवेशयेत् ।
पूर्ववच्छयनं कल्प्य तन्मध्ये देवमानयेत् ॥ ३०।१४ ॥

दक्षिणे बलभद्रं च पश्चात्तत्राधिवासयेत् ।
अष्टाक्षरेण दिग्बन्धं कारयेत् साधकोत्तमः ॥ ३०।१५ ॥

तथैव विन्यसेद्देवं विष्णुमन्त्रेण साधकः ।
पाद्यार्घ्याचमनीयं च गन्धपुष्पं तथैव च ॥ ३०।१६ ॥

पुण्याहं वाचयेत्तत्र वैष्णवैर्वेदपारगैः ।
आचार्यः शुक्लवासास्तु शुक्लयज्ञोपवीतवान् ॥ ३०।१७ ॥

ऊर्ध्वपुण्ड्रधरश्चैव सपवित्रकरस्तथा ।
आजानुपादौ प्रक्षाल्य द्विर्द्विराचमनीयकम्(?) ॥ ३०।१८ ॥

देवस्य दक्षिणे पार्श्वे उत्तराभिमुखासने ।
प्राणायामत्रयं कृत्वा सृष्टिन्यासं तथैव च ॥ ३०।१९ ॥

तथैव देवं विन्यस्य मन्त्रमष्टाक्षरं मुने ।
सौवर्णादिघटं गृह्य शुद्धतोयेन मन्त्रवित् ॥ ३०।२० ॥

तत्पात्रं क्षालयेत् पश्चात् विष्णुगायत्रिया मुने ।
तोयपूर्णं सुगन्धं च सूत्रवस्त्रसमन्वितम् ॥ ३०।२१ ॥

धान्यराशौ विनिक्षिप्य तस्य मध्ये महामुने ।
मूलबेरात्ततो देवं ध्यायन्नारायाणं प्रभुम् ॥ ३०।२२ ॥

श्यामलं बालवपुषं कृष्णबेरमुनस्मरन् ।
तत्तोयं प्रतिमामूर्ध्नि सेचयेन्मूलविद्यया ॥ ३०।२३ ॥

कृताञ्जलिपुटो भूत्वा नमस्कृत्य पुनः पुनः ।
शयने शाययित्वा तु तं देवं मूलविद्यया ॥ ३०।२४ ॥

तथैव बलभद्रं च शाययेत्तस्य मन्त्रतः ।
वस्त्रैराच्छादयेद्देवं सितपुष्पैः समर्चयेत् ॥ ३०।२५ ॥

ततो नारायणं सूक्तमुच्चरेत् साधकोत्तमः ।
शङ्खदुन्दुभिसंयुक्तं वेदाध्ययनसंयुतम् ॥ ३०।२६ ॥

वीणावेणुसमायुक्तं झल्लरीमद्दलैर्युतम् ।
वारसैरन्ध्रिसंयुक्तमाचार्यो मन्त्रमुच्चरन् ॥ ३०।२७ ॥

शङ्खादिघोषसंयुक्तं ततो देवं समुद्धरेत् ।
गन्धपुष्पं विनिक्षिप्य नमस्कृत्य पुनः पुनः ॥ ३०।२८ ॥

श्रीरमाज्येन संयुक्तं भलभद्राय दापयेत् ।
वैष्णवेभ्यः सदस्यानां सर्वेषां च प्रदापयेत् ॥ ३०।२९ ॥

क्षीरं दधिघृतं चैव प्रदद्याद्बलकृष्णयो ।
कदलीपनसं चैव जम्ब्वादिफलमेव च ॥ ३०।३० ॥

तदन्ते देवदेवस्य दापयेन्मूलविद्यया ।
तैलं च रजनीचूर्णं तावुभौ मूर्ध्नि सेचयेत् ॥ ३०।३१ ॥

शेषं च वैष्णवेभ्यस्तु दद्यात् सर्वमथापि वा ।
शङ्खदुन्दुभिनिर्घोषैः तूर्यवेणुसमन्वितैः ॥ ३०।३२ ॥

नृत्तगीतसमायुक्तं ब्राह्मणैः स्वस्तिवाचनम् ।
रामकृष्णो तु संस्थाप्य चासने पुष्पसंयुते ॥ ३०।३३ ॥

अर्घ्यपाद्यादिनाभ्यर्च्य होमकर्म समाचरेत् ।
नित्याग्नौ वाथ पूर्वस्मिन् कारयेद्वा महामुने ॥ ३०।३४ ॥

वैष्णवाग्नौ तु जुहुयात् समिदाज्यचरूणि च ।
मूलमन्त्रेण मन्त्रज्ञः पञ्चविंशतिसङ्ख्यया ॥ ३०।३५ ॥

प्रत्येकं तु मुनिश्रेष्ठ पश्चाच्छान्तिं समाचरेत् ।
मधुना पयसा दध्ना हूयतेन(?) घृतेन च ॥ ३०।३६ ॥

तथैव जुहुयान्मन्त्रैः पूर्णाहुतिमथाचरेत् ।
होमान्ते देवदेवेशं स्नापयेद्विधिचोदितम् ॥ ३०।३७ ॥

कृष्णगन्धेन काष्ठने उशीरैश्चन्दनेन च ।
रजनीद्वयचूर्णेन पुनः कृष्णतिलैस्तथा ॥ ३०।३८ ॥

सिद्धार्थसर्षपैश्चैव सर्वधान्यानि साधकः ।
चूर्णोकृत्य मुनिश्रेष्ठ स्नपनान्ते ऽभिषेचयेत् ॥ ३०।३९ ॥

ततस्तु रजनीचूर्णं स्नापयेद्देवमूर्धनि ।
पुष्पं दत्वा नमस्कृत्य मङ्गलालापनं कुरु ॥ ३०।४० ॥

शुद्धस्नानं ततः कृत्वा गन्धतोयेन साधकः ।
वस्त्राभरणमाल्यैश्च कृत्वा गन्धानुलेपनम् ॥ ३०।४१ ॥

अर्चयेद्विधिवद्देवं गन्धपुष्पादिभिस्तथा ।
अलङ्कृत्य ततो देवं नीराजनसमन्वितम् ॥ ३०।४२ ॥

गोदानं भूमिदानं च हिरण्यं वस्त्रभूषणम् ।
सर्वदानं ततो दद्यात् ब्राह्मणेभ्यो यथाक्रमम् ॥ ३०।४३ ॥

तदन्ते वैष्णवान् पूज्य भोजनाच्छादनादिभिः ।
ताम्बूलं वाथ सर्वेषां यथावित्तानुसारतः(?) ॥ ३०।४४ ॥

हिरण्यं वाथ वस्त्रं वा गावो वा धान्यमेव वा ।
आचार्याय प्रदातव्यमतिसम्पत्तिकारणम् ॥ ३०।४५ ॥

दानस्यानन्तरं देवमर्घ्यपाद्यादिनार्चयेत् ।
पायसं कृसरं गौल्यं शुद्धान्नं च पृथक् पृथक् ॥ ३०।४६ ॥

कदलीपनसैर्युक्तं देवेशाय निवेदयेत् ।
पानीयाचमनीयं च दद्याद्देवाय भक्तितः ॥ ३०।४७ ॥

भोज्यासनं व्यपोह्याशु देवं भोगासने नयेत् ।
देवस्याचमनं दद्यान्मुखवासं प्रदापयेत् ॥ ३०।४८ ॥

पूर्वमालां विसृज्याथ चान्मालां तु दापयेत् ।
देवदेवमलङ्कृत्य मुखवासं पुनर्ददेत् ॥ ३०।४९ ॥

नृत्तगीतसमायुक्तं वीणावेणुसमन्वितम् ।
देवागारं परिभ्रम्य गर्भगेहे नयेद्धरिम् ॥ ३०।५० ॥

प्रभातायां तु शर्वर्यामुत्सवं कारयेत्ततः ।
ग्रामे वा नगरे वापि मार्गशुद्धिं च कारयेत् ॥ ३०।५१ ॥

शिबिकां वा रथं वापि कुञ्जरं वा हयं तु वा ।
वस्त्रपुष्पैरलङ्कृत्य माल्यैश्च विविधैरपि ॥ ३०।५२ ॥

एवं देवमलङ्कृत्य स्थापयेद्यानमध्यमे ।
ग्रामप्रदक्षिणं कृत्वा गेयनृत्तादिसंयुतम् ॥ ३०।५३ ॥

पटहैस्तालसंयुक्तं कृत्वा ग्रामं परिभ्रमेत् ।
तैलैश्चन्द्रनसंयुक्तं रजनीचूर्णमेव च ॥ ३०।५४ ॥

दापयेद्वैष्णवानां तु सदस्यानां विशेषतः ।
पुनः प्रदक्षिणं कृत्वा देवालयमनुत्तमम् ॥ ३०।५५ ॥

विधिवत् स्नपनं कृत्वा देवदेवं सनातनम् ।
महाहविर्निवेद्याथ गर्भागारे नयेद्धरिम् ॥ ३०।५६ ॥

इति सङ्क्षेपतः प्रोक्तः कृष्णजन्मदिनोत्सवः ।
सर्वपापक्षयकरः सर्वयज्ञफलप्रदः ॥ ३०।५७ ॥

सायुज्यफलमाप्नोति सत्यमेतन्न संशयः ॥

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां जयन्त्युत्सवविधानं नाम त्रिंशो ऽध्यायः ॥