अष्टाविंशो ऽध्यायः
विष्वक्सेनः—
अमावास्योत्सवं वक्ष्ये मासि मासि मुनीश्वर ।
देवजन्मर्क्षके वापि प्रतिष्ठार्क्षमथा (-ऋक्षके?)पिवा ॥ २८।१ ॥
यजमानस्य जन्मर्क्षे राजजन्मर्क्षके ऽपि वा ।
अयने विषुकाले वा निश्चयित्वाङ्कुरान् पुरा ॥ २८।२ ॥
नवाहे सप्तपञ्चाहे त्र्यहैकाहमथापि वा ।
अङ्कुरार्पणमेतेषु सर्वसम्पत्सुखावहम् ॥ २८।३ ॥
कारयेद्विधिवत् सम्यक् सायाह्ने मुनिसत्तम ।
अनङ्कुरार्पणं कार्यमनर्थमशुभावहम् ॥ २८।४ ॥
तस्मात् सर्वप्रयत्नेन कारयेदङ्कुरार्पणम् ।
अङ्कुरार्पणकार्ये ऽस्मिन् वेलादीनि न वीक्षयेत् ॥ २८।५ ॥
पालिकाघटिका चैव शरावश्च त्रिधा मुने ।
उक्तमस्मिन् महातन्त्रे चोत्सवे षोडशान् क्रमात् ॥ २८।६ ॥
प्रत्यकं पालिकादीनि लक्षणैः सह नारद ।
कश्चिदस्मिन् विशेषो ऽस्ति तं विशेषं शृणु क्रमात् ॥ २८।७ ॥
प्रत्येकं द्वादशं वापि केवलाः पालिकास्तथा ।
पालिकाषोडशं वापि द्वादशं नवकं तु वा(?) ॥ २८।८ ॥
दूर्वाभिः सशिरीषाभिः पालिकादीन् सुवेष्टयेत् ।
तिलादिदशबीजानि मुद्गमेकमथापि वा ॥ २८।९ ॥
पयोभिः क्षालयेत् पञ्चमन्त्रैर्वारिभिरेव वा ।
एवं बीजानि सङ्क्षाल्य कारयेदङ्कुरार्पणम् ॥ २८।१० ॥
अङ्कुरार्पणकार्ये ऽस्मिन् सूत्रपातं न कारयेत् ।
विशेषमत्र वक्ष्यामि पद्मसूत्रविधिं शृणु ॥ २८।११ ॥
त्रिहस्तपरिमाणं तु चैव गोमयेनानुलेपयेत् ।
तस्योर्ध्वे शालिमास्तीर्य तन्मध्ये ऽब्जमथालिखेत् ॥ २८।१२ ॥
त्र्यहैकाहोत्सवे चैव स्नपने मुनिसत्तम ।
अमावास्यादिकार्ये ऽस्मिन् षोडशं द्वादशं तु(?) वा ॥ २८।१३ ॥
कर्णिकादिदलान् लिख्य प्रत्येकं तत्र विन्यसेत् ।
प्रतिष्ठोत्सवयोश्चैव पवित्रारोहणे मुने ॥ २८।१४ ॥
तथा दीक्षाविधाने तु प्रत्येकं षोडश क्रमात् ।
द्वादशं वाथ निःशेषं पालिकादींश्च कारयेत् ॥ २८।१५ ॥
शेषकर्माणि सर्वाणि लिखेदब्जमनुत्तमम् ।
पद्मस्य दलसङ्ख्यास्तु शृणु चास्मिन् महामुने ॥ २८।१६ ॥
पालिका षोडशं चेत्तु दलं पञ्चदशं लिखेत् ।
द्वादशं पालिका चेत्तु तादृशं पद्ममालिखेत् ॥ २८।१७ ॥
कर्णिकदिदलेष्वेषु कारयेत् प्रथमाक्षरम् ।
अथवा मुनिशार्दूल अष्टपत्राब्जमालिखेत् ॥ २८।१८ ॥
पूर्ववद्विलिखेद्बीजं पूर्वादिष्वक्षरान् वसून् ।
प्रोक्षयेत्तेन मन्त्रेण शाखामूलेन वा मुने ॥ २८।१९ ॥
इन्द्रादीशावसानेषु पालिकान् नवकान् न्यसेत् ।
तेन मन्त्रेण मतिमानन् प्रोक्षयेद्गन्धवारिणा ॥ २८।२० ॥
पुण्याहं वाचयेत्तस्मिन् ब्राह्मणैस्तन्त्रपारगैः ।
तिलादिबीजानभ्यर्च्य तण्डुलोपरि नारद ॥ २८।२१ ॥
जितन्त इति मन्त्रेण सर्वबीजानि वापयेत् ।
गन्धपुष्पादिनाभ्यर्च्य सुगुप्ते स्थापयेत् क्रमात् ॥ २८।२२ ॥
विशेषश्चात्र सम्प्रोक्तः शेषं साधारणं भवेत् ।
सायाह्ने वाथ पूर्वाह्णे बलिमस्मिन् समाचरेत् ॥ २८।२३ ॥
हविषा चाक्षतैर्वापि पुष्पैर्वाथ बलिं क्षिपेत् ।
अमावास्योत्सवाद्येषु सम्प्रोक्तं चाङ्कुरार्पणम् ॥ २८।२४ ॥
उत्सवप्रतिमां वापि स्नपनार्चामथापि वा ।
बलिबिम्बं तु वा चक्रबिम्बमेकमथापि वा ॥ २८।२५ ॥
तद्गृहीत्वा तु मन्त्रज्ञः शुद्धस्नानं तु कारयेत् ।
पूर्वरात्रौ तु कर्तव्यः सूत्रबन्धो यथाविधि ॥ २८।२६ ॥
वासाधिवासवत् कृत्वा मण्डपालङ्कृतिर्मुने ।
चतुरङ्गुलमुत्सेधं चतुर्हस्तप्रमाणतः ॥ २८।२७ ॥
शालिभिर्वेदिकां सम्यक् कृत्वा मण्डपमध्यमे ।
तदर्धं तण्डुलैर्वेदिं तन्मध्ये तु समाचरेत् ॥ २८।२८ ॥
धान्याभावे यथावेदिर्यथालाभं प्रशस्यते ।
यजमानेच्छया वेदिं कुर्यात्तन्त्रविचक्षणः ॥ २८।२९ ॥
पूर्ववत् पद्ममालिख्य तन्मध्ये ऽष्टाक्षरं न्यसेत् ।
अष्टाक्षरस्य मध्ये तु चतुष्पादासनं न्यसेत् ॥ २८।३० ॥
प्रोक्षयेन्मूलमन्त्रेण धर्मज्ञानादिकान् न्यसेत् ।
गन्धपुष्पादिनाभ्यर्च्य तन्मध्ये हरिमानयेत् ॥ २८।३१ ॥
पाद्यादिदीपपर्यन्तमर्चयेत् पुरुषोत्तमम् ।
कौतुकं बन्धयेत् पश्चात् पुण्डरीकाक्षविद्यया ॥ २८।३२ ॥
आढकत्रयसम्पूर्णं शालितण्डुलमुत्तमम् ।
सौवर्णादिषु पात्रेषु ह्येकं गृह्य विचक्षणः ॥ २८।३३ ॥
पूरयेत्तण्डुलं शुद्धं कुन्देन्दुधवलप्रभम् ।
तण्डुलोर्ध्वे ऽब्जमालिख्य चाष्टपत्रं सकर्णिकम् ॥ २८।३४ ॥
सौवर्णं राजतं वापि क्षौमसूत्रमथापि वा ।
कार्पाससूत्रकं वापि त्रिगुणीकृत्य नारद ॥ २८।३५ ॥
त्रिगुणं त्रिगुणीकृत्य कर्णिकायां न्यसेत् क्रमात् ।
प्राच्यादि पश्चिमान्तेन विन्यसेत् सूत्रमुत्तमम् ॥ २८।३६ ॥
गन्धादिदीपपर्यन्तमर्चयेत् कौतुकं क्रमात् ।
बन्धयेत् कौतुकं पश्चात् दक्षिणे भगवत्करे ॥ २८।३७ ॥
अङ्गुष्ठानामिकाभ्यां तु आचार्यो मन्त्रमुच्चरन् ।
धूपात् भस्मं(?)समादाय रक्षां कृत्वा समन्त्रतः ॥ २८।३८ ॥
ललाटे चाष्टदिग्बन्धं देवस्य परितः क्रमात् ।
हविर्निवेदयेत् पश्चात् साधकः परमेष्ठिना ॥ २८।३९ ॥
अपूपादीनि सर्वाणि उपहाराणि दापयेत् ।
पानीयं च ततो दद्यात् मुखवासं निवेदयेत् ॥ २८।४० ॥
छत्रं चामरमादर्शं देवेशाय निवेदयेत् ।
दिग्बन्धं कारयेत्तस्मिन् चक्रमन्त्रेण साधकः ॥ २८।४१ ॥
निवेदितं तु तत्सर्वमाचार्याय निवेदयेत् ।
तस्मिनन्निवेदितं सर्वं पुरोडाशसमं मुने ॥ २८।४२ ॥
तस्मात् सर्वप्रयत्नेन सङ्ग्रहेद्देवसन्निधौ ।
ग्रामायतनवृद्ध्यर्थं पूर्वादि परितोर्ऽचयेत् ॥ २८।४३ ॥
कुमुदाद्याः प्रगृह्णन्तु सर्वे बलिमनुत्तमम् ।
घण्टाशब्दसमोपेतं धूपदीपसमन्वितम् ॥ २८।४४ ॥
स्वस्तिवाचनसंयुक्तं नृततगीतसमन्वितम् ।
कारयेद्बलिदानं तु पुष्पाक्षतकुशोदकैः ॥ २८।४५ ॥
यदिदं देवदेवस्य तोषणार्थमिहोच्यते ।
रात्रिं(रात्रौ?)विसर्जयेत् पश्चात् पूर्वोक्तैर्द्रव्यविस्तरैः ॥ २८।४६ ॥
देवेशं चार्चयेत् सम्यक् सूक्तेन पुरुषेण च ।
वस्त्राभरणपुष्पाद्यैरलङ्कृत्य प्रयत्नतः ॥ २८।४७ ॥
हविर्निवेदयेत् पश्चात् ताम्बूलं च तथैव च ।
आचार्यः समलङ्कृत्य होमकर्म समारभेत् ॥ २८।४८ ॥
नित्याग्नौ चोत्सवाग्नौ वा करयेद्विधिचोदितम् ।
समिदाज्यचरून् लाजान् पञ्चविंशतिसङ्ख्यया ॥ २८।४९ ॥
कारयेत् स्वस्वजिह्वायां समिदादि यथाक्रमम् ।
समिधो मूलमन्त्रेण छन्दोमूलेन वै घृतम् ॥ २८।५० ॥
ततस्तु विष्णुगायत्र्या यरुं हुत्वाक्षमात्रतः ।
लाजान् वेदादिमन्त्रेण जुहुयात्तन्त्रवित्तमः ॥ २८।५१ ॥
बलिद्रव्यं च जुहुयात् चतुर्थ्यन्तादिना मुने ।
प्रायश्चित्ताहुतिं हूयात् पञ्चोपनिषदैः क्रमात् ॥ २८।५२ ॥
पूर्णाहुतिं ततो हुत्वा द्वादशाक्षरविद्यया ।
नित्ये महोत्सवे चैव अमावास्योत्सवादिषु ॥ २८।५३ ॥
ब्रह्मप्रणीतमिध्मौ च नेष्यते मुनिसत्तम ।
एतत्ते कथितो होम अमावास्योत्सवादिषु ॥ २८।५४ ॥
होमान्ते बलिदानं तु कारयेत्तन्त्रवित्तमः ।
पूर्ववद्बलिदानं तु प्रासादे तु यथाक्रमम् ॥ २८।५५ ॥
कारयेन्मुनिशार्दूल सर्वदेवप्रियार्थकम् ।
ग्रामे वा नगरे वापि पत्तने वालये ऽपि वा ॥ २८।५६ ॥
एवमादिषु देशेषु कारयेद्बलिमुत्तमम् ।
मार्गशुद्धिं पुरा कृत्वा पूर्वाह्णे बलिमाचरेत् ॥ २८।५७ ॥
मध्याह्ने यत्कृतं ब्रह्मन् बलिकर्माधमं भवेत् ।
पूर्वाह्णे ग्रामवृद्धिः स्यात् सर्वसम्पत्सुखावहम् ॥ २८।५८ ॥
मध्याह्ने त्वघनाशं तन्नगरादिषु वृद्धिकृत् ।
तस्मात् सर्वप्रयत्नेन पूर्वाह्णे बलिमाचरेत् ॥ २८।५९ ॥
पूर्ववद्देवदेवेशमलङ्कृत्य प्रयत्नतः ।
वासिताद्यैश्च मात्राभिस्तोषितं सुमनोरमम् ॥ २८।६० ॥
तद्बिम्बं शिबिकाद्येषु समारोप्य समाहितः ।
रथं तु शिबिकां वापि गजं वाश्ववरं तु वा ॥ २८।६१ ॥
प्रोक्षयेद्गारुडेनैव भूषयेद्गरुडं स्मरन् ।
छत्रध्वजवितानादीन् नृत्तगेयसमन्वितम् ॥ २८।६२ ॥
शङ्खभेर्यादिनिर्घोषं महाजनसमन्वितम् ।
ग्रामादिवीथिकायां तु मध्ये ग्रामं परिभ्रमेत् ॥ २८।६३ ॥
ग्रामादिवास्तुदेशेषु कुमुदादीन् समर्चयेत् ।
देवागारेषु सर्वेषु महाशास्तालयेषु च ॥ २८।६४ ॥
कूपे चैव (कूपेषु च?) तटाकेषु सङ्गमेषु च वीथितः ।
तत्तद्देशे मुनिश्रेष्ठ सर्वभूतगणान् न्यसेत् ॥ २८।६५ ॥
देवस्य सन्निधौ तस्मिन् बलिदानं समाचरेत् ।
पायसान्नं गुलोपेतं तुलसीपत्रसंयुतम् ॥ २८।६६ ॥
करवीरसमायुक्तं श्वेतरक्ताक्षतैर्युतम् ।
तिलोदकसमोपेतं बलिद्रव्यैश्च संयुतम् ॥ २८।६७ ॥
कृमिकीटपतङ्गाद्यैः स्पर्शिते ऽस्मिन् प्रमादतः ।
बलिद्रव्ये मुनिश्रेष्ठ सन्त्याज्यं देवतार्चने ॥ २८।६८ ॥
अक्षतैर्वाथ पुष्पैर्वा यथासम्भवमर्चयेत् ।
कारयेद्वास्तुदेशेषु तत्तन्मन्त्रमनुस्मरन् ॥ २८।६९ ॥
उत्तर्यीष्णीषसंयुक्तः आचार्यो बलिमाचरेत् ।
बल्यन्ते परमात्मानमर्घ्यपाद्यादिनार्चयेत् ॥ २८।७० ॥
सर्वमङ्गलकार्ये ऽस्मिन् मङ्गलालापनं कुरु ।
तृतीयसवने गत्वा देवागारे मुनीश्वर ॥ २८।७१ ॥
पाद्यादिसप्तकं दत्वा ततः स्नपनमारभेत् ।
मण्डपं समलङ्कृत्य शालिना वेदिमाचरेत् ॥ २८।७२ ॥
तत्र मध्ये तु मतिमान् कलशान् विनिवेशयेत् ।
शाल्मलीकिंशुकापुष्पसङ्काशान् सूत्रवेष्टितान् ॥ २८।७३ ॥
वेदिकोपरि संस्थाप्य चतुर्वेदादिमन्त्रतः ।
तेषां मध्ये मुनिश्रेष्ठ द्रव्याणि विनिवेशयेत् ॥ २८।७४ ॥
पाद्यं तु मध्यमे भागे पूर्वभागेर्ऽघ्यमेव च ।
याम्ये त्वाचमनीयं स्याद्गन्धं वारुणगोचरे ॥ २८।७५ ॥
पुष्पतोयं न्यसेत् सोमे कृशानौ तण्डुलोदकम् ।
नैरृते दधि विन्यस्य वायव्ये क्षीरमेव च ॥ २८।७६ ॥
ऐशान्ये विन्यसेदाज्यं गन्धयुक्तं शुभं मुने ।
एवं तु नवकं स्थाप्य कूर्चांस्तेषु विनिक्षिपेत् ॥ २८।७७ ॥
चक्रिकां स्थापयेत्तेषु गन्धपुष्पं विनिक्षिपेत् ।
ततस्तु रजनीचूर्णं पूर्वे वा चोत्तरे ऽथ वा ॥ २८।७८ ॥
स्थापयित्वार्चयेत्तस्मिन् गन्धपुष्पाक्षतैः क्रमात् ।
कलशान् नववस्त्रैस्तु वेष्टयेत् प्रणवेन तु ॥ २८।७९ ॥
पुण्याहं वाचयेत् सम्यग्याथातथ्येन नारद ।
गन्धपुषपादिनाभ्यर्च्य तोरणे ऽष्टघटान् न्यसेत् ॥ २८।८० ॥
पूर्वादि चोत्तरान्तेषु द्वौ द्वौ तु कलशौ न्यसेत् ।
गन्धतोयेन सम्पूर्य गन्धपुष्पादिनार्चयेत् ॥ २८।८१ ॥
स्वनाम्ना चैव सर्वेषां मन्त्रं तु मुनिपुङ्गव ।
षडक्षरमनुस्मृत्य साधकः परमार्थवित् ॥ २८।८२ ॥
पाद्याद्यैः कलशैः सर्वैः देवेशमभिषेचयेत् ।
स्नपनान्ते तु मन्त्रज्ञो रजनीमभिषेचयेत् ॥ २८।८३ ॥
शुद्धस्नानं ततः कृत्वा अलङ्कृत्य जनार्दनम् ।
स्नानोदकं तो गृह्य वैष्णवान् प्रोक्षयेद्बुधः ॥ २८।८४ ॥
तं गृहीत्वा तु भक्तानां सर्वेषां मूर्ध्नि निक्षिपेत् ।
गङ्गास्नानफलं पुण्यं सर्वपापप्रणाशनम् ॥ २८।८५ ॥
सर्वसम्पत्समृद्धिः स्यादिति शास्त्रस्य निश्चयः ।
पूर्ववद्यानमध्ये तु देवमारोप्य मन्त्रवित् ॥ २८।८६ ॥
पुराणोक्ततटाके वा नदीतीरे ऽथवा मुने ।
देवदेवं समानीय मूलमन्त्रेण साधकः ॥ २८।८७ ॥
स्नापयेत्तेयमध्ये तु पूर्ववन्मुनिपुङ्गव ।
महाजनान् समाहूय दद्यात्तीर्थमनुत्तमम् ॥ २८।८८ ॥
स्वस्तिवाचनसंयुक्तं शङ्खदुन्दुभिसंयुतम् ।
देवालयं क्रमाद्गत्वा द्वारमाश्रित्य नारद ॥ २८।८९ ॥
अर्घ्यपाद्यादिनाभ्यर्च्य रक्षां कुर्वीत मन्त्रवित् ।
अन्नेन वाथ पुष्पैर्वा अष्टदिग्बलिमाचरेत् ॥ २८।९० ॥
सुदर्शनेन मन्त्रेण पूर्वादिषु यथाक्रमम् ।
देवागारं समाश्रित्य स्वस्तिवाचनपूर्वकम् ॥ २८।९१ ॥
पूर्ववद्देवमभ्यर्च्य महान्नं च निवेदयेत् ।
आचार्यं पूजयेत् पश्चात् यथाशक्त्यत्र नारद ॥ २८।९२ ॥
अपूपादीनि चान्यानि उपहाराणि दापयेत् ।
ताम्बूलं दापयेत् पश्चात् विधिवत् परमेष्ठिना ॥ २८।९३ ॥
शेषकर्माणि सर्वाणि राजवत् प्रतिकारयेत् ।
यः कारयेत्तु मतिमान् इहलाके श्रियं लभेत् ॥ २८।९४ ॥
स याति विष्णुसालोक्यं विष्णुसारूप्यमेव च ।
अथ वा मुनिशार्दूल तीर्थस्नानविधिं शृणु ॥ २८।९५ ॥
नदीपुलिनतीरे तु मण्डपं कारयेत् क्रमात् ।
अथ वा सुप्रपां कृत्वा चतुर्द्वारसमन्विताम् ॥ २८।९६ ॥
वासाधिवासने प्रोक्तं प्रपालक्षणमुत्तमम् ।
एवं लक्षणसंयुक्तां प्रपां कृत्वा मुनीश्वर ॥ २८।९७ ॥
ऐन्द्रादीशानपर्यन्तं गोमयेनानुलेपयेत् ।
पूर्वोक्तशालीनास्तीर्य वितानाद्यैरलङ्कृतम् ॥ २८।९८ ॥
पुष्पमालादिसंयुक्तं तन्मध्ये कलशान् न्यसेत् ।
पूर्ववन्नवकं स्थाप्य पूर्ववत् स्नानमाचरेत् ॥ २८।९९ ॥
तीर्थस्नानं ततो ब्रह्मन् महाजनसमन्वितम् ।
नद्यां ह्रदे तटाके वा देवेशं स्नानमाचरेत् ॥ २८।१०० ॥
तीरे देवं समानीय शुद्धस्नानं समाचरेत् ।
अर्घ्यादिनार्चयेद्देवमलङ्कृत्य प्रयत्नतः ॥ २८।१०१ ॥
शेषकर्माणि सर्वाणि अस्मिन् पूर्ववदाचरेत् ।
द्विप्रकारं मया प्रोक्तं तीर्थस्नानं मुनीश्वर ॥ २८।१०२ ॥
साधकेच्छानुरूपेण यथायोगं समाचरेत् ।
तीर्थस्नानविधिः प्रोक्तः पूर्वपूर्वा गरीयसी ॥ २८।१०३ ॥
एवं सङ्क्षेपतः प्रोक्तममावास्योत्सवं परम् ।
अन्यथा निष्फलं याति रोगवृद्धिर्धनक्षयः ॥ २८।१०४ ॥
तस्मात् सर्वप्रयत्नेन कारयेद्विधिपूर्वकम् ॥
इति श्रीपञ्चरात्रे विष्वक्सेनसंहितायां अमावास्योत्सवविधिर्नामाष्टाविंशो ऽध्यायः ॥