२६

षड्विंशो ऽध्यायः

विष्वक्सेनः—
अतः परं प्रवक्ष्यामि ध्वजोत्थापनमुत्तमम् ।
येनोपसर्गा(?)नश्यन्ति सर्वसम्पत्सुखावहम् ॥ २६।१ ॥

अध्वजो विष्णुयागस्तु निष्फलः स्यान्न संशयः ।
तीर्थस्नानदिनात् पूर्वं सप्तविंशतिके ऽहनि ॥ २६।२ ॥

एकविंशतिके वा स्यात्(वापि?) ध्वजोत्थापनमाचरेत् ।
अथवारम्भदिवसे सद्यः कालोद्भवो भवेत् ॥ २६।३ ॥

आरोहणं दिवा कुर्यात् केतोर्निश्यङ्कुरार्पणम् ।
एकत्र दिवसे यागे न ध्वजोद्धार इष्यते ॥ २६।४ ॥

अङ्कुरार्पणपूर्वं तु द्वितीयं परिकीर्तितम् ।
गोपुर(-रा?) स्थानयार्मध्ये ध्वजपीठं प्रकल्पयेत् ॥ २६।५ ॥

अथवा बलिपीठस्य वैनतेयस्य वा पुनः ।
हस्तमात्रं परित्यज्य बलिपीठस्य चान्तरे ॥ २६।६ ॥

कल्पयेद्ध्वजपीठं तु मानं तस्य प्रचक्षते(?) ।
तस्यार्धं वाप्यपोह्यैव ध्वजपीठं प्रकल्पयेत् ॥ २६।७ ॥

चतुर्हस्तं तदर्धं वा विस्तारायामतः समम् ।
हस्तोच्छ्रायं द्विहस्तं वा स्थाप्य स्तम्भस्य मध्यतः ॥ २६।८ ॥

एकहस्तं तथा भूमौ गर्तं पीठादधः शुभम् ।
स्तम्भस्य परितः कुर्यात् मेखलात्रितयं बुधः ॥ २६।९ ॥

वृत्तं वा चतुरश्रं वा षोडशाष्टाश्रमेव वा ।
अन्तरादि तदुत्सेधमङ्गुलीनां यथाक्रमम् ॥ २६।१० ॥

मेखलोच्छ्रायमायाममेकैकं चतुरङ्गुलम् ।
तालमात्रं विसृज्यैव वेदिकायां समन्ततः ॥ २६।११ ॥

पश्चात्तु मेखलाः सम्यक् कारयेन्मन्त्रवित्तमः ।
मेखलानामथोर्ध्वे तु वृत्तवेदिं समाचरेत् ॥ २६।१२ ॥

चतुरङ्गुलमुत्सेधं तदूर्ध्वे ऽब्जदलं(पद्मकं?)लिखेत् ।
षोडशद्वादशं वापि चाष्टपत्रमथापि वा ॥ २६।१३ ॥

द्व्यङ्गुलं तु घनं ज्ञेयं कर्णिकासहितं मुने ।
त्र्यङ्गुलं तु तदुत्सेधं द्व्यङ्गुलं तद्घनं भवेत् ॥ २६।१४ ॥

इति पद्मदलं (-विधिः?) प्रोक्त उत्तमाधममध्यतः ।
स्तम्भस्य परितः कुर्यात् सर्वालङ्कारसंयुतम् ॥ २६।१५ ॥

एवमुक्तप्रकारेण ध्वजपीठं प्रकल्पयेत् ।
पूर्वं वाप्यथवा पश्चात् कल्पयेत् पीठमुत्तमम् ॥ २६।१६ ॥

अन्यथा यदि चेद्वेदिमनर्थमशुभावहम् ।
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ॥ २६।१७ ॥

ध्वजस्तम्भं प्रवक्ष्यामि विविक्तेन महामुने ।
चन्दनं चम्पकं वापि बिल्वमर्जुनमेव च ॥ २६।१८ ॥

तेकवृक्षं च खदिरं सालं तिन्दुकमेव च ।
चम्पकं चाष्टकं चैव क्रमुकं नालिकेरकम् ॥ २६।१९ ॥

तालं वेणुं तथैवात्र सम्भवेन तु कारयेत् ।
शततालार्धमर्धं च मुख्यमध्याधमं क्रमात् ॥ २६।२० ॥

अशीतितालमिच्छन्ति केचित्तस्यार्धमेव वा ।
गोपुराकृतितुल्यं स्यात् स्तम्भमध्यर्धमेव वा ॥ २६।२१ ॥

स्तम्भप्रमाणमथवा तुल्यमध्यर्धमेव वा ।
प्रासादेन समुच्छ्रायं सुषिरादिविवर्जितम् ॥ २६।२२ ॥

त्रिंशदङ्गुलनाहं तु मूलदण्डस्य नारद ।
मध्यमं चाष्टविंशत्(?)तदग्रं षड्विंशकं भवेत् ॥ २६।२३ ॥

सच्छिद्रयन्त्रत्रियते ह्यधस्ताद्गरुडालयम् ।
लोहं दारुमयं वापि गरुडं तत्र योजयेत् ॥ २६।२४ ॥

देवाभिमुखमासीनमल्पकायं कृताञ्जलिम् ।
षोडशाङ्गुलकं वापि द्वादशाङ्गुलकं तथा ॥ २६।२५ ॥

अष्टाङ्गुलमथ ज्ञात्वा कल्पयेद्गरुडं मुने ।
तथा वा फलकं (-कां?)कृत्वा यथाकामं मुनीश्वर ॥ २६।२६ ॥

तन्मध्ये गरुडं लिख्य स्वस्थाने विनतासुतम् ।
योजयित्वा ततः खेशं स्थापयेत् स्वस्वमन्त्रतः ॥ २६।२७ ॥

वेदिकोपरि मन्त्रज्ञः सुप्रपां परिकल्पयेत् ।
दर्भमालासमायुक्तं मुक्तादामसमन्वितम् ॥ २६।२८ ॥

प्रपायां पूर्वभागादि पताकास्तत्र योजयेत् ।
दशहस्तं सप्तहस्तं पञ्चहस्तमथापि वा ॥ २६।२९ ॥

अन्यामष्टकरां यष्टिं स्तम्भे यन्त्रेषु योजयेत् ।
पटस्य लक्षणं तस्मिन् विशेषं कथय मि ते ॥ २६।३० ॥

शृणुष्वावहितो भूत्वा सर्वसम्पत्सुखावहम् ।
द्वादशं(!)दशहस्तं वा नवसप्तपटं भवेत् ॥ २६।३१ ॥

आयाममिति सम्प्रोक्तं विस्तारमधुनोच्यते ।
षट्सप्ततालविस्तारं द्वा[र]विस्तारमुच्यते ॥ २६।३२ ॥

पुच्छायामं द्वितालं स्यात्तत्समं शिर उच्यते ।
शिरसा तु समौ ज्ञेयौ भूजौ तस्यार्धमेव वा ॥ २६।३३ ॥

भुजद्वयविहीनं वा पटमेतद्विशिष्यते ।
क्षुद्रप्रासादरूपं चेत् नवसप्तपटं भवेत् ॥ २६।३४ ॥

नवहस्ताच्च नू(न्यू?)नं वै महागेहे तु नेष्यते ।
यो मोहात् कुरुते तस्मिन् क्रिया भवति निष्फला ॥ २६।३५ ॥

आलिखेद्गरुडं तत्र सुवर्णाभं सुवर्चसम् ।
ध्रुवदृग्गलनाभ्यन्तं गरुडेत्सेधमिष्यते ॥ २६।३६ ॥

नवतालपरिच्छिन्नं मानोन्मानप्रमाणतः ।
किञ्चिदायतवृत्ताक्षं रक्ताक्षं नीलनासिकम् ॥ २६।३७ ॥

उत्कुञ्चितं वामपादं दक्षिणं पृष्ठतः स्थितम् ।
गगने गमनारम्भं पक्षविक्षेपणान्वितम् ॥ २६।३८ ॥

पुष्पाञ्जलिपुटोपेतं रौद्रं च विनतासुतम् ।
नागाभरणसंवीतं स्मितास्यं कनकाङ्गदम् ॥ २६।३९ ॥

करण्डमकुटं नीलवाससं प्रियदर्शनम् ।
सुरक्तपाण्यङ्घ्रितलं दंष्ट्राभ्यामुज्ज्वलाननम् ॥ २६।४० ॥

अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः ।
तक्षकः कटिसूत्रं तु हारः कर्कोटकस्तथा ॥ २६।४१ ॥

पद्मो दक्षिणकर्णे तु महापद्मस्तु वामतः ।
शङ्खः शिरः प्रदेशे तु गुलिकस्तु भुजान्तरे ॥ २६।४२ ॥

एतैरष्टोरगैराद्यैर्भूषितं भुजगोत्तमैः ।
अनन्तगुलिकौ विप्रौ रक्तौ वह्निसमुद्भवौ ॥ २६।४३ ॥

वासुकिः शङ्खपालश्च पीतौ चन्द्रोद्भवौ नृपौ ।
महाक्ष(-ब्ज?) तक्षकौ वेश्यौ शुक्लौ वारिसमुद्भवौ ॥ २६।४४ ॥

पद्मकर्कोटकौ शूद्रौ कृष्णौ वायुसमुद्भवौ ।
लिखित्वा गरुडं तत्र छत्रं चोपरि कल्पयेत् ॥ २६।४५ ॥

अथो ऽमृतस्य कलशं पद्मं चैवात्र संलिखेत् ।
ताभ्यामुभयतः कुर्यात् दीपौ द्वौ शुभदर्शनौ ॥ २६।४६ ॥

चित्राभासप्रतिष्ठां तु कारयेन्मन्त्रवित्तमः ।
छायाधिवासनं कुर्यात् जलं संहृत्य देशिकः ॥ २६।४७ ॥

शाययित्वा ततो वेद्यां संहृत्योत्पाद्य तत्त्वतः ।
धान्यराशिं विनिक्षिप्य वेदिमध्ये समन्ततः ॥ २६।४८ ॥

वेदिकाकलशेष्वष्टावनन्तादीन् प्रपूजयेत् ।
शङ्खादिमङ्गलानां तु विन्यसेत् परितः क्रमात् ॥ २६।४९ ॥

पूर्वे शङ्खं नियुञ्जीत आग्नेये चक्रमेव च ।
याम्ये तु विन्यसेत् केतुं श्रियं वै नैरृते तथा ॥ २६।५० ॥

दर्पणं वारुणे भागे वृषभं वायुगोचरे ।
सोमे तु मत्स्ययुग्मं तु कुम्भमीशानगोचरे ॥ २६।५१ ॥

एवं तु मङ्गलान्(?)न्यस्य पूर्वादिक्रमयोगतः ।
पूजयेत् कलशेष्वष्टमङ्गलानि यथाक्रमम् ॥ २६।५२ ॥

वासोभिर्वेष्टितेष्वेषु निक्षिप्तकनकेषु च ।
वासांसि मध्ये संस्तीर्य गरुडं तत्र शाययेत् ॥ २६।५३ ॥

प्रत्यग्ग्रीवं ततो वस्त्रैः सञ्च्छाद्य पतगेश्वरम् ।
तस्य दक्षिणतः कुम्भं विन्यसेत्तण्डुलोपरि ॥ २६।५४ ॥

वारिपूर्णं सुसंवीतं सदशेनाहतेन तु ।
शुक्लेनाम्बरयुग्मेन मृदुना सुशुभेन च ॥ २६।५५ ॥

सरत्नं हेमसंयुक्तं सापिधानं सकूर्चकम् ।
तस्मिन्नावाहयेद्देवं गरुडं विनतासुतम् ॥ २६।५६ ॥

आवाहनविधिं सम्यक् प्रवक्ष्यामि महामुने ।
सौवर्णं राजतं पात्रं ताम्रं मृण्मयमेव वा ॥ २६।५७ ॥

आढकेन तु सम्पूर्णं पयोभिर्वारिभिस्तु वा ।
तत्पात्रे देवमावाह्य आकाशान्मन्त्रवित्तमः ॥ २६।५८ ॥

एह्येहि खगराजेन्द्र वैनतेय महाबल ।
सान्निध्यं पार्षदैः सार्धं कुरु तुभ्यं नमो नमः ॥ २६।५९ ॥

तत्पात्रपतितं देवमानयेत् कुम्भतोयके ।
मूलमन्त्रेण मन्त्रज्ञस्तन्मन्त्रमधुनोच्यते ॥ २६।६० ॥

ॐ नमो ऽष्टकुलनागभूषणाय वैनतेयाय नागशोणितदिग्धाङ्गाय सुपर्णाय सप्तपातालवासिने पक्षिराजाय भगवद्वाहनाय गरुडाय त्रैलोक्यक्षोभणाय ब्रह्मादिचतुरक्षरानुसाराय(?)युगान्तबीजाय मातुरर्थे(?) शोकनाशाय हनहन(?)विघ्ननाशाय स्वाहा ।

अनेन तु स्वमन्त्रेण स्तुत्वा तु विहगेश्वरम् ।
सान्निध्यं कल्पयेत्तत्र पक्षिराजस्य सर्वदा ॥ २६।६१ ॥

एवमाहूय गरुडं ध्वजमुद्रां प्रदर्शयेत् ।
वामस्योपरि संस्थाप्य दक्षिणं तु करं समम् ॥ २६।६२ ॥

अङ्गुष्ठं चालयेत्तत्र ध्वजमुद्रां प्रदर्शयेत् ।
एवं मुद्रां प्रकुर्वीत गरुडं सर्पभूषणम् ॥ २६।६३ ॥

गन्धादिभिः समभ्यर्च्य धूपदीपान्तमेव हि ।
ततः पटगतं बिम्बं शयानं गरुडस्य तु ॥ २६।६४ ॥

लयमार्गेण संहृत्य पुनरुत्पादयेत् क्रमात् ।
पृथिव्यादिनि तत्त्वानि बीजादीने यथाक्रमम् ॥ २६।६५ ॥

सवाचकानि विन्यस्य मन्त्रदेहं प्रकल्पयेत् ।
सकलीकरणं कृत्वा ध्यानमार्गेण देशिकः ॥ २६।६६ ॥

कुम्भस्थितेन तोयेन प्रोक्षयेत्तं स्वविद्यया ।
पूर्वादिकलशस्थाद्भिरनन्तादीन् स्वनामभिः ॥ २६।६७ ॥

प्रणवादिनमोन्तैश्च कुशैः सम्प्रोक्षयेत् क्रमात् ।
सान्निध्यं प्रार्थयित्वा तु यावद्यागावसानकम् ॥ २६।६८ ॥

ततः सम्पूजयेत् सर्वैरुपचारैः खगेश्वरम् ।
घृताप्लुतं तु मुद्गान्नं नैवेद्यं परिकल्पयेत् ॥ २६।६९ ॥

मुखवासं प्रदायाथ होमकर्म समारभेत् ।
स्थण्डिलं तु चतुर्दिक्षु कृत्वा तत्र विधानतः ॥ २६।७० ॥

वैष्णवाग्निं निधायात्र होमकर्म समारभेत् ।
समिदाज्येन चरुणा प्रत्येकं शतमष्ट च ॥ २६।७१ ॥

आहुतीर्जुहुयुर्विप्राश्चत्वारः सममेव तु ।
दीक्षिता एव जुहुयुः सोत्तरीयाः स्वलङ्कृताः ॥ २६।७२ ॥

चतस्रो मूर्तयः प्रोक्ताः पक्षिराजस्य देशिकैः ।
स्वाहान्तं जुहुयुः सर्वे मूर्तिपाः मूर्तिभाविताः ॥ २६।७३ ॥

एवं समाप्य होमं तु स्पृशेयुस्ते खगेश्वरम् ।
पादयोर्जठरे चास्ये मूर्ध्नि चैव यथाक्रमम् ॥ २६।७४ ॥

अथवा मूलमन्त्रेण होममेकं तु वा मुने ।
प्राचीं दिशं समासाद्य कारयेत्तन्त्रवित्तमः ॥ २६।७५ ॥

विना होमं तु वा कुर्याद्गरुडस्थापनं मुने ।
ध्वजादन्यत्र कर्तव्यं चतुर्हेमं यथाक्रमम् ॥ २६।७६ ॥

एवं समाप्य होमं तु स्थापनं गरुडस्य च ।
अथवास्मिन् मुनिश्रेष्ठ अधिवासनमुत्तमम् ॥ २६।७७ ॥

प्रवक्ष्यामि समासेन सुपुण्याहपुरःसरम् ।
पुण्याहं कारयित्वा तु ब्राह्मणैः सह मन्त्रवित् ॥ २६।७८ ॥

बन्धयेत् कौतुकं पश्चाद्वैनतेयस्य मन्त्रतः ।
वेदिकोपरि धान्यैश्च पूरयेद्भारसम्मितैः ॥ २६।७९ ॥

अष्टपत्रं लिखेत् पद्मं वस्त्रेणाच्छादयेत् पुनः ।
तदर्धं तण्डुलं चैव तस्यार्धं तिलमेव च ॥ २६।८० ॥

वेदिकायां तु संस्तीर्य वस्त्रैराच्छादयेत् पुनः ।
रक्तपुष्पं तु संस्तीर्य गन्धपुष्पैः समर्चयेत् ॥ २६।८१ ॥

तत्रैव शाययेद्देवं पूर्वोक्तेन विधानतः ।
अर्चयेद्गरुडं तत्र धूपदीपान्तमेव हि ॥ २६।८२ ॥

देवस्य दक्षिणे पार्श्वे स्थापयेत् कुम्भमुत्तमम् ।
तस्मिन्नावाहयेत् कुम्भे वैनतेयं महाबलम् ॥ २६।८३ ॥

आकाशात् पतितं खेशं ध्वजरूपे हि संस्थितम् ।
एहि खेश महाबाहो वैनतेय महाबल ॥ २६।८४ ॥

सान्निध्यं कुरु पक्षीश प्रसीदात्र नमो ऽस्तु ते ।
अनेनावाहयित्वा तु मन्त्रेणैव तु देशिकः ॥ २६।८५ ॥

गन्धपुष्पादिभिर्द्रव्यैः वीशं कुम्भे ततोर्ऽचयेत् ।
ततस्तु कलशानष्टौ कुम्भस्य परितो न्यसेत् ॥ २६।८६ ॥

इन्द्रादीशानपर्यन्तमिन्द्रादींश्च क्रमान्न्यसेत् ।
कलशेष्वर्चयित्वा तु लोकेशान् गन्धपुष्पकैः ॥ २६।८७ ॥

तद्बाह्ये विन्यसेदष्टमङ्गलान्(!) परितस्तथा ।
अर्चयित्वा ततो होमं प्राच्यां च स्थण्डिले क्रमात् ॥ २६।८८ ॥

समिदाज्यचरून् सम्यग् अष्टोत्तरशतं पृथक् ।
जुहुयाद्वैनतेयस्य मूलमन्त्रेण देशिकः ॥ २६।८९ ॥

प्रणवं पूर्वमुच्चार्य नमस्कारं ततः क्रमात् ।
चतुर्विंशतिकं पश्चात् व्यञ्जनं तु तृतीयकम् ॥ २६।९० ॥

स्वरेणाद्येन संयुक्तमूनत्रिंशत्तथैव च ।
षोडशं चोच्चरेत् पश्चात् स्वरेणैकादशेन च ॥ २६।९१ ॥

वैनतेयपदं पश्चात् चतुर्थ्यन्त समन्वितम् ।
स्वाहाकारसमायुक्तं मूलमन्त्रं विदुर्बुधाः ॥ २६।९२ ॥

होमं समाप्य विधिवत् कुम्भादावाहयेत् पटे ।
तं पटं प्रोक्षयित्वा तु हंसः शुचिषदि त्यृचा ॥ २६।९३ ॥

मूलमन्त्रेण चावाह्य गरुडं सर्पभूषणम् ।
तद्रात्रौ विधिवत् प्रोक्ष्य पूजयेद्गन्धपुष्पकैः ॥ २६।९४ ॥

सक्तुखण्डरसोपेतं(-तैः?) मुद्गान्नैश्च गुलौदनैः ।
भक्ष्यैश्च विविधैश्चान्यैः पूजयेत्तं खगेश्वरम् ॥ २६।९५ ॥

मुखवासं ततो दद्यात् स्तुतिमन्त्रेण तोषयेत् ।
पूर्वादीशानपर्यन्तमिन्द्रादींश्चैव पूजयेत् ॥ २६।९६ ॥

नेष्यते ऽस्मिन् मुनिश्रेष्ठ प्रलयादिक्रियाक्रमः ।
द्विप्रकारो मया प्रोक्तो अधिवासविधिक्रमः ॥ २६।९७ ॥

आचार्येच्छानुरूपेण कारयेदेकधात्र तु ।
ततस्तु देवताह्वानं स्वस्वमन्त्रेण तन्निशि ॥ २६।९८ ॥

कारयेन्मुनिशार्दूल जगत्संरक्षणार्थकम् ।
प्रासादस्याग्रभागे तु गरुडाभिमुखं यथा ॥ २६।९९ ॥

द्रोणद्वयेन सम्पूर्णं सतोयं रक्तवर्णकम् ।
त्रिसूत्रं तन्तुनावेष्ट्य पञ्चरत्नैः सपल्लवैः ॥ २६।१०० ॥

कूर्चद्वयसमायुक्तं रक्तमाल्यैरलङ्कृतम् ।
वस्त्रयुग्मेन संवेष्ट्य गन्धपुष्पैस्तु पूरितम् ॥ २६।१०१ ॥

एवं लक्षणसंयुक्ते कुम्भे चावाहयेद्बुधः ।
इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा ॥ २६।१०२ ॥

वायुं सोमं तथेशानं चन्द्रादित्यमरुद्गणान् ।
वसूनष्ट तथा रुद्रानेकादश विनायकम् ॥ २६।१०३ ॥

कार्तिकेयं वीरभद्रं द्वादशादित्यसञ्ज्ञकान् ।
त्र्यक्षं पञ्चमुखं देवं नीलकण्ठमुमापतिम् ॥ २६।१०४ ॥

भूतेशांश्च तथा सर्वान् सगणानाह्वयेत्ततः ।
मातॄश्चैव तथा दुर्गां ज्येष्ठां चैव सरस्वतीम् ॥ २६।१०५ ॥

कान्तिं शान्तिं शुचिं मुद्रामुमां लक्ष्मीं तथैव च ।
सगणैः परिवारैश्च तान् नयेत् कुम्भतोयके ॥ २६।१०६ ॥

ततस्त्वावाहयेद्देवान् कुमुदादींश्च नारद ।
तेषां च परिवाराणि प्रयत्नेनानयेद् घटे ॥ २६।१०७ ॥

इन्द्रादीशानपर्यन्तमावहेत् कुम्भतोयके ।
कुम्भतोयस्थदेवानामर्चनं गन्धपुष्पकैः ॥ २६।१०८ ॥

धूपदीपैः समाप्येवं घण्टाशब्दसमन्वितम् ।
हविर्निवेदयेत् पश्चात् सर्वदेवप्रियार्थकम् ॥ २६।१०९ ॥

अन्यथाकृततुल्यं स्यात् महान् दोषो भविष्यति ।
तद्ग्रामनाशकृद्वापि तत्रस्थो नरकं व्रजेत् ॥ २६।११० ॥

तस्मात् सर्वप्रयत्नेन तत्कुम्भे पार्षदान् न्यसेत् ।
मण्डपे चैन्द्रभागे तु चतुर्हस्तप्रमाणतः ॥ २६।१११ ॥

गोमयेन समालिप्य शालिना वेदिमाचरेत् ।
अष्टद्रोणं तदर्धं वा तस्यार्धं वार्धमेव वा ॥ २६।११२ ॥

पूरयेत् स्थण्डिले मध्ये चाष्टपत्राब्जमालिखेत् ।
नववस्त्रेण सञ्छाद्य पद्मं प्रणवमुच्चरन् ॥ २६।११३ ॥

दक्षिणादिक्रमेणैव शाययेद्दक्षिणाशिरः ।
तन्मध्ये भेरिकां न्यस्य नवं लक्षणसंयुतम् ॥ २६।११४ ॥

उत्तर्योष्णीषसंयुक्त आचार्यो मन्त्रवित्तमः ।
पश्चिमाभिमुखो भूत्वा तां भेरीं पूजयेत् क्रमात् ॥ २६।११५ ॥

गन्धादिभिः समभ्यर्च्य हरिं स्मृत्वादिमन्त्रतः ।
यावद्रात्र(-त्र्य?)वसानं तु तावत्तन्निशि ताडयेत् ॥ २६।११६ ॥

पश्चात् पञ्चमहाशब्दं नृत्तगीतसमन्वितम् ।
उत्तर्योष्णीषसंयुक्तो यामलाचार्यतः क्रमात् ॥ २६।११७ ॥

कारयेत् सर्वपार्षद्यान् वैनतेयादिकान् क्रमात् ।
एवं सङ्घोषयित्वा तु यामलाचार्यसंयुतम् ॥ २६।११८ ॥

रात्रान्तकं(आरात्र्यन्तं?)विशेषेण सर्वदेवप्रियार्थकम् ।
कुर्यात् पञ्चमहाशब्दं सदा शुभविवर्धनम् ॥ २६।११९ ॥

ग्रामराज्ञोश्च वृद्धिः स्यात् तथैव नगरादिषु ।
तस्मात् सर्वप्रयत्नेन भेरीं तां निशि ताडयेत् ॥ २६।१२० ॥

अन्यथा चेन्महादोषो राष्ट्रभ्रंशो भवेद्ध्रुवम् ।
तद्ग्रामं निधनं यति व्याधिभिः पीडनं ध्रुवम् ॥ २६।१२१ ॥

एवं कृत्वा विधानेन ध्वजोत्सवमथाचरेत् ।
ततः प्रभाते विमले शङ्खभेरीरवाकुलम् ॥ २६।१२२ ॥

सर्वालङ्कारसंयुक्तं कृत्वा ग्रामं परिभ्रमेत् ।
परिभ्रमणवेलायां बलिं कुर्यात् समाहितः ॥ २६।१२३ ॥

सलाजं रजनीचूर्णं क्षीरं दधिसमन्वितम् ।
पूर्वमिन्द्रादिलक्ष्म्यन्तान् देवांस्तत्रैव पूजयेत् ॥ २६।१२४ ॥

नालिकेरफलं चैव पञ्चद्रव्यसमन्वितम् ।
बल्यन्नमेतैः संयोज्य बलिदानं तु चोत्सवे ॥ २६।१२५ ॥

क्रमेण कारयेत् पश्चात् पूर्ववद्धोमपूर्वकम् ।
ध्वजोत्थानं दिवा कुर्याद्रात्रावाहनमेव च ॥ २६।१२६ ॥

स (तद्?)ध्वजे देवताह्वानं मध्याह्ने तु विशेषतः ।
आरोहणं दिवा कुर्यात् केतोर्निश्यङ्कुरार्पणम् ॥ २६।१२७ ॥

हविषा बलिदानं तु कृत्वा द्वाराग्रपीठयोः ।
मध्ये हस्तसमां वेदिं मध्ये देवान् समर्चयेत् ॥ २६।१२८ ॥

आरम्य बलिदानं तु कुर्याद्ग्रामादिवास्तुषु ।
इन्द्रादि ब्रह्मपर्यन्तं दिग्विदिक्षु क्रमान्न्यसेत् ॥ २६।१२९ ॥

तत्कुम्भे देवमावाह्य तत्तोयेन समर्चयेत् ।
पूर्वादिन्द्रादिलक्ष्म्यन्तान् देवांस्तत्र सुपूजयेत् ॥ २६।१३० ॥

ततस्तु गणसंयुक्तं कृत्वा ग्रामादिवास्तुषु ।
कुमुदादींश्च देवांश्च पूजयेत्ताननुक्रमात् ॥ २६।१३१ ॥

आचार्यो धौतवासास्तु उत्तराभिमुखः स्थितः ।
गन्धपुष्पादिनाभ्यर्च्य ऐन्द्राद्यैशान्तकादिषु ॥ २६।१३२ ॥

तेषां नाम समुच्चार्य बलिं दद्याद्विचक्षणः ।
यावद्यागावसानं तु तिष्ठन्ति बलिदेवताः ॥ २६।१३३ ॥

अत्र कश्चिद्विशेषो ऽस्ति देवतानां बलिक्रमे ।
ध्वजारोहणकाले वै चोत्सवेषु विशेषतः ॥ २६।१३४ ॥

यागावसानं यावत्तु तावदैन्द्रादिकान् मुने ।
यावल्लक्ष्म्यवसानं तु मध्याह्ने क्रमयोगतः ॥ २६।१३५ ॥

पूजयेद्गन्धपुष्पाद्यैर्हविषा वेदिमध्यमे ।
बलिं दद्याद्यथालब्धं मध्याह्ने रात्रिषु क्रमात् ॥ २६।१३६ ॥

तेषां तु बलिकार्याणि विष्णोः प्रीतिकरं शुभम् ।
अङ्कुरोत्सवकालान्ते उत्सवार्थं महामुने ॥ २६।१३७ ॥

कारयेद्यागसिद्ध्यर्थं यागमण्डपपूजनम् ।
तत्पूजान्ते मुनिश्रेष्ठ होमं कुर्याद्यथाविधि ॥ २६।१३८ ॥

होमान्ते कुमुदादीनामारभ्य बलिमाचरेत् ।
यावत्तीर्थावसानं तु तावद्ग्रामादिवास्तुषु ॥ २६।१३९ ॥

अन्यथावाहनबलिर्ध्वजयागे कृतो भवेत् ।
ध्वजयागविनाशेन उत्सवो निष्फलो भवेत् ॥ २६।१४० ॥

उत्सवस्य विनाशेन नित्यपूजा च निष्फला ।
नित्यपूजाविनाशस्तु सर्वसंहारकारणम् ॥ २६।१४१ ॥

तस्मात् सर्वप्रयत्नेन आवाहनबलिं कुरु ।
आनीय गरुडं वेश्म कृत्वा चैव प्रदक्षिणम् ॥ २६।१४२ ॥

स्मृत्वा कालविधिं पश्चात् कृत्वा पुण्याहघोषणम् ।
पीठस्य याम्यपार्श्वे तु ध्वजदण्डं तु शाययेत् ॥ २६।१४३ ॥

तदग्रं दक्षिणे स्थाप्य मूलमुत्तरतो न्यसेत् ।
विमाने पश्चिमद्वारे ऽप्युत्तरे शाययेद्गुरुः ॥ २६।१४४ ॥

दक्षिणद्वारमेवं चेत्(-के चेत्तु?)ध्वजस्तम्भं महामुने ।
पीठस्य पूर्वपार्श्वे तु शाययेदैन्द्रशीर्षकम् ॥ २६।१४५ ॥

तन्मूलमवटे न्यस्य मूलमन्त्रमनुस्मरन् ।
उत्तरद्वारमेवं स्यात्(?)तद्ध्वजारोहणं प्रति ॥ २६।१४६ ॥

अन्यथा चेन्महादोषो ग्रामराज्ञोरवृद्धिकृत् ।
दिने दिने मुनिश्रेष्ठ धर्ममार्गो विनश्यति ॥ २६।१४७ ॥

तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ।
महाकुम्भस्थतोयेन स्तम्भं प्रक्षाल्य मन्त्रतः ॥ २६।१४८ ॥

तद्ध्वजं तु समादाय प्रोक्षयेन्मन्त्रवित्तमः ।
मूलमन्त्रेण मतिमान् ध्वजयष्ट्या(-ष्टिं?)तु बन्धयेत् ॥ २६।१४९ ॥

निश्चलं स्थापयित्वा तु ध्वजदण्डेन चोद्धरेत् ।
यन्त्रेण चोद्धरेद्वापि रज्जुना सह देशिकः ॥ २६।१५० ॥

वेदिं कुर्यात्तु पूर्वोक्तां लक्षणेन समन्विताम् ।
वेदिकां तु समालिप्य कृत्वा च स्वस्तिवाचनम् ॥ २६।१५१ ॥

यष्ट्यग्राद्दण्डमूलान्तं दर्भानावेष्ट्य साधकः ।
दर्भमालादिनावेष्ट्य दण्डमूलान्तमेव हि ॥ २६।१५२ ॥

पाद्याचमनगन्धं च पुष्पं धूपं तथैव च ।
दीपं चैव यथायोगं घण्टानादसमन्वितम् ॥ २६।१५३ ॥

अर्चयेद्गरुडं चैव चरुं पश्चान्निवेदयेत् ।
फलसक्तुसमोपेतं मुद्ग्रान्नं च घृताप्लुतम् ॥ २६।१५४ ॥
पृथक् पात्रे तु संस्थाप्य गरुडाय निवेदयेत् ।
पानीयाचमनं दत्वा मुखवासं तथैव च ॥ २६।१५५ ॥

एवमभ्यर्च्य गरुडं सर्वदेवप्रियं शुभम् ।
दिक्पालान्तमनाद्यन्तं परिवारमथार्चयेत् ॥ २६।१५६ ॥

ततस्तु लोकपालांस्तु पूजयेद्वेदिकाधरे ।
पूर्वादिक्रमयोगेन स्वनाम्ना परिपूजयेत् ॥ २६।१५७ ॥

एवं दिने दिने कुर्यात् सन्ध्ययोरुभयोरपि ।
निवेदितं च यद्द्रव्यमन्नं पुष्पं फलं तथा ॥ २६।१५८ ॥

तत्पिण्डमिति विज्ञेयं स्त्रीणां चैव प्रदापयेत् ।
सुमङ्गली च नारी च सती शुद्धा शुभव्रता ॥ २६।१५९ ॥

तत् प्रसादमिति स्मृत्वा स्नात्वोपोष्य शुभानना ।
प्राशयेद्गरुडं ध्यात्वा वन्ध्या पुत्रं प्रसूयते ॥ २६।१६० ॥

रोगार्तो मुच्यते रोगात् बद्धो मुच्येत् बन्धनात् ।
भयान्मुच्येत आपन्नः सम्यग् ज्ञानमवाप्नुयात् ॥ २६।१६१ ॥

आवाहनार्थं देवानां गरुडं तु पटे न्यसेत् ।
तत्पटे सर्वदेवांश्च आह्वयेत्तु दिने दिने ॥ २६।१६२ ॥

लोहं दारुमयं बिम्बं विना वा स्थाप्यते ध्वजम् ।
यदि ध्वजपटे बिम्बं गरुडस्य कृतं भवेत् ॥ २६।१६३ ॥

पताकाध्वजसंयुक्तं कृत्वा चित्रमपि ध्वजम् ।
उपरि प्रतिमां कृत्वा स्थापयेद्देशिकोत्तमः ॥ २६।१६४ ॥

झ्र्समाप्ते वैष्णवे यागे स्नपनान्ते यथाविधि ।
रात्रौ भूतबलिं कृत्वा क्रमादुद्वास्य पार्षदान् ॥ २६।१६५ ॥

कारयेत् पुष्पयागं तु यथाविधिपुरःसरम् ।
(पुष्पयागविधिः प्रोक्तो मया शक्र विधानके ॥ २६।१६६ ॥

तद्वन्मण्डलमालिख्य तद्विधानेन पूजयेत्) ।
पुष्पयागविधिं वक्ष्ये समासान्मुनिपुङ्गव ॥ २६।१६७ ॥

देवेशयजनं यत्तु मण्डले पुष्पपूरिते ।
पुष्पयाग इति प्रोक्त उत्सवान्ते तु कारयेत् ॥ २६।१६८ ॥

प्रासादाग्रे ऽथवा याम्ये वारुणे सौम्यके ऽथवा ।
पूर्वोक्तमण्डपं कृत्वा मण्डपे तु समालिखेत् ॥ २६।१६९ ॥

विनोदमण्डपे वाथ यत्र वा रमते मतिः ।
मण्डलं तु महानन्तं चक्राब्जं च तथैव च ॥ २६।१७० ॥

भद्रकं वाथ विधिवत् सूत्रपातं तथा भवेत् ।
एकहस्तं द्विहस्तं वा गर्भगेहसमं तु वा ॥ २६।१७१ ॥

चतुरश्रं समं कृत्वा सूत्रेणैव तु देशिकः ।
एकविंशतिसूत्राणि प्राक्प्रत्यग्दक्षिणोत्तरम् ॥ २६।१७२ ॥

आस्फालयेद्भवन्त्यत्र कोष्टकानि चतुःशतम् ।
मध्ये षोडशकोष्ठानि पद्मक्षेत्रमुदाहृतम् ॥ २६।१७३ ॥

बहिः पङ्क्तिं विसृज्याथ त्रिपङ्क्तिं ग्राहयेत्ततः ।
पादगात्रकभेदेन विमृजेत् परितः क्रम त् ॥ २६।१७४ ॥

अन्तः षट् च बहिः षट् च मध्ये तु चतुरश्रकम् ।
विसृजेत्तु चतुर्दिक्षु गात्रार्थं तु विचक्षणः ॥ २६।१७५ ॥

अन्तः षट् च बहिः पञ्च कोणपादार्धमाचरेत् ।
पङ्क्तिद्वयं तु तद्बाह्ये वीथ्यर्थं परितो मृजेत् ॥ २६।१७६ ॥

द्वारकण्ठोपकण्ठं च शोभां बाह्यपदद्वये ।
अन्तर्द्वे चतुरो बाह्ये द्वारार्थं तु चतुर्दिशि ॥ २६।१७७ ॥

त्रीण्यन्तर्बहिरेकं स्याद्विपर्यासेन मार्जयेत् ।
अन्तरेको बहिः पञ्च कोणेषु परिमार्जयेत् ॥ २६।१७८ ॥

मण्डलं भ्रामयेत् क्षेत्रं पद्मार्थं तु पुरोदितम् ।
पद्मक्षेत्रार्धमानं तु भागं द्वादशमं (-कं?) बहिः ॥ २६।१७९ ॥

विसृज्य भ्रामयेच्छीर्षं त्वरक्षेत्रं तु वर्तलम् ।
प्रथमं कर्णिकाक्षेत्रं केसराणां द्वितीयकम् ॥ २६।१८० ॥

तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम् ।
आस्फल्य कोणसूत्राणि कोणदिङ्मध्यमं ततः ॥ २६।१८१ ॥

केसराग्रेषु संस्थाप्य दलान्तं भ्रामयेत्ततः ।
दलान्तरालमानं तु सन्धौ सूत्रं तु विन्यसेत् ॥ २६।१८२ ॥

दलाग्रं भ्रमयेत्तत्र तस्याग्रां तदनन्तरम् ।
एतत् साधारणं प्रोक्तं चक्राब्जं तु ततः शृणु ॥ २६।१८३ ॥

द्विषट्काङ्गुलमानेन अक्षक्षेत्रं परिभ्रमेत् ।
अक्षक्षेत्रसमा नाभिः बाह्यरेखाद्वयं लिखेत् ॥ २६।१८४ ॥

एकाङ्गुलप्रमाणेन अरक्षेत्रं ततो बहिः ।
पद्मं पूर्वोक्तवत् कुर्यात् कर्णिकाकेसरैर्युतम् ॥ २६।१८५ ॥

अरक्षेत्रस्य विस्तारं नाभ्यक्षक्षेत्रयोः समम् ।
नेमिक्षेत्रान्तवलयमक्षक्षेत्रार्धकं भवेत् ॥ २६।१८६ ॥

अराणि कारयेत्तत्र द्वौ द्वौ कुर्याद्दलं प्रति ।
अरक्षेत्रं त्रिधा कृत्वा गुणत्रयविधानतः ॥ २६।१८७ ॥

प्रथमं सात्त्विकं चैव द्वितीयं राजसं भवेत् ।
तृतीयं तामसं चैव समं कुर्याद्द्विजोत्तम ॥ २६।१८८ ॥

सात्त्विकं कलशाकारं दूर्वाकारं तु राजसम् ।
तामसं को(कूर्?)पराकारं पीठाकारं तथोपरि ॥ २६।१८९ ॥

प(पी?)ठस्य पृष्ठतश्चापि मणिबन्धवदाचरेत् ।
अधोवक्त्रं तु कलशं नाभिक्षेत्रं तु मध्यमम् ॥ २६।१९० ॥

शिखाकारमरान्तं स्याच्छेषमिच्छानुरूपतः ।
एवमेव प्रकारेण चक्रब्जं परिभाषितम् ॥ २६।१९१ ॥

मण्डलं पूरयेत् पुष्पैः कर्णिकादि यथाक्रमम् ।
पञ्चवर्णानि पुष्पाणि पुष्पयागे शुभानि तु ॥ २६।१९२ ॥

श्वेतं रक्तं च पीतं च कृष्णं हरितमेव च ।
शुद्धवर्णानि चैतानि मिश्रितान्यपराणि च ॥ २६।१९३ ॥

पुष्पेषु पुष्पवर्गेषु छेदयित्वा विचक्षणः ।
पीतेषु कर्णिकां पूर्य रक्तं वै केसराणि च ॥ २६।१९४ ॥

कर्णिकावलयं रक्तं हरितं वा द्विजोत्तम ।
केसरान्ते च वलयं श्वेतपुष्पेण पूरयेत् ॥ २६।१९५ ॥

दलेषु मूलभागेषु श्वेतरक्तविमिश्रितैः ।
दलाग्रान् रक्तपुष्पेण पूरयेद्देशिकोत्तमः ॥ २६।१९६ ॥

दलानां सन्धिदेशे तु श्यामपुष्पेण पूरयेत् ।
दलान्तरेखां विप्रेन्द्र कुसुमैर्हरितेन च ॥ २६।१९७ ॥

पूरयेन्नाभिरेखां च सितैः पुष्पैर्मनोरमैः ।
मध्यरेखां मुनिश्रेष्ठ पीतपुष्पेण पूरयेत् ॥ २६।१९८ ॥

अन्ता रेखास्तु मन्त्रज्ञः कुसुमै रक्तकैसतथा ।
अरं चोत्तररेखां वै हरितै रक्तकैस्तथा ॥ २६।१९९ ॥

नेम्यादिरेखां कृष्णेन नेम्यन्तं(न्तां?)सितपुष्पकैः ।
नेमिं रक्तेन पूर्याथ पीतपुष्पेण वा द्विज ॥ २६।२०० ॥

पुष्पमण्डलमुद्दिष्टं पुष्पयागे विशेषतः ।
एवं लक्षणसंयुक्तं चक्राब्जं कारयेत् सुधीः ॥ २६।२०१ ॥

ध्वजारोहादिजीर्थान्तं प्रायश्चित्तं तु यद्भवेत् ।
तस्य दोषविघातार्थं पुष्पयागं च कारयेत् ॥ २६।२०२ ॥

प्रासादस्याग्रतः कुर्याद्दक्षिणे पश्चिमे ऽपि वा ।
उत्तरे वा द्विजश्रेष्ठ मण्डपं पूर्ववत् क्रमात् ॥ २६।२०३ ॥

तस्य मध्ये लिखेद्विद्वान् चक्राब्जं लक्षणान्वितम् ।
द्वारे द्वारे तु घटिका द्वे द्वे चैव तु विन्यसेत् ॥ २६।२०४ ॥

शरावं विन्यसेत्तद्वत् पूर्वादिषु यथाक्रमम् ।
ऐन्द्राद्यैशानपर्यन्तं पालिका विन्यसेत् क्रमात् ॥ २६।२०५ ॥

तत्पार्श्वे मङ्गलान् न्यस्य(?)शङ्खादींश्च यथाक्रमम् ।
मण्डलं पूरयेत् पुष्पैः कर्णिकादि यथाक्रमम् ॥ २६।०६ ॥

प्राच्यादिदिक्चतुष्केषु वासुदेवादिकान् यजेत् ।
श्रियादीन् कोणदेशेषु न्यसेत् पद्मोपरि क्रमात् ॥ २६।२०७ ॥

इन्द्रादिपरिवारांश्च दिक्षु चैव यथाक्रमम् ।
विष्वक्सेनं गरुत्मन्तं यजेत्तत्रैव सन्निधौ ॥ २६।२०८ ॥

इत्येवं योगयेद्विद्वान् पुष्पविन्यासमण्डले ।
स याति विष्णुसालोक्यं ज्ञानयज्ञेन संयजेत् ॥ २६।१०९ ॥

पुष्पयागविधिः प्रोक्तो मया शक्र विधानके ।
तन्मण्डलं समालिख्य तद्विधानेन पूजयेत् ॥ २६।२१० ॥

ट भूतक्रूरबलिं कृत्वा क्रमादुद्वास्य पार्षदान् ।
स्नात्वाचम्य शुचिर्भूत्वा समभ्यर्च्य खगेश्वरम् ॥ २६।२११ ॥

उद्वसयेद्यथापूर्वमाहूतास्तत्र देवताः ।
नित्ये नैमित्तिके काम्ये ध्वजसंस्थानं मतम् ॥ २६।२१२ ॥

आचार्यं पूजयेत् पश्चात् यथाशक्ति समाहितः ॥

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां झ्र्ध्वजारोहणादिविधर्नामट षङ्विशो ऽध्यायः ॥