२५

पञ्चविंशो ऽध्यायः

नारदः—
भगवन् विष्णुभूतेश विष्वक्सेन नमो ऽस्तु ते ।
ज्ञातुमिच्छाम्यहं सर्वं मङ्गलाङ्कुररोपणम् ॥ २५।१ ॥

पालिकालक्षणं चैव घटिकालक्षणं तथा ।
शरावस्तु कथं प्रोक्तं सङ्ख्यानां तु कथं भवेत् ॥ २५।२ ॥

तेषां वर्णश्च वै नाम द्रव्याणां च कथं भवेत् ।
तेषां चैवाधिदैवं च अङ्कुराणां शुभाशुभम् ॥ २५।३ ॥

एतत्सर्वं समाचक्ष्व परं कौतूहलं हि मे ।

विष्वक्सेनः—
अतः परं प्रवक्ष्यामि मङ्गलाङ्कुरविस्तरम् ॥ २५।४ ॥

सौवर्णां पालिकां कुर्यात् राजतीं घटिकाकृतिम् ।
ताम्रैरेव शरावं तु सर्वेषां ताम्रमेव वा ॥ २५।५ ॥

मृद्भिर्वाप्यथ सर्वेषां(सर्वाणि?)कारयित्वा विचक्षणः ।
यथावित्तानुसारेण(?)कुर्याद्वा पालिकादिकान् ॥ २५।६ ॥

षट्त्रिंशच्चाङ्गुलोत्सेधं विस्तीर्णं तु तदर्धकम् ।
पादं च द्वादशं(!)ज्ञेयं पालिकानां प्रकीर्तितम् ॥ २५।७ ॥

चतुर्विंशाङ्गुलोत्सेधं विस्तारं द्वादशं(!)भवेत् ।
पञ्चास्या घटिका कार्या पञ्चाङ्गुलसुविस्तरम्(-रा) ॥ २५।८ ॥

पादं चाष्टाङ्गुलं ज्ञेयं घटिकानां प्रकीर्तितम् ।
द्वादशाङ्गुलमुत्सेधं विस्तारं तावदेव तु ॥ २५।९ ॥

पादं षडङ्गुलं ज्ञेयं शरावाणां तु सर्वशः ।
तत्तुद्रूपानुसारेण नालं कर्तृवशान् मुने ॥ २५।१० ॥

कारयेत् क्रमयोगेन सुश्लक्ष्णं सुषिरान्वितम् ।
यथाकामं तु वा कुर्यात् पालिकादीन् क्रमेण तु ॥ २५।११ ॥

एवं ज्ञात्वा मुनिरेष्ठ कारयेदङ्कुरार्पणम् ।
प्रतिष्ठाद्युत्सवे चैव स्नपने यागदर्शने ॥ २५।१२ ॥

विषुवे चैव सङ्क्रान्त्यामयने ग्रहणे तथा ।
शुभनक्षत्रयोगे च नामर्क्षेत्वथवा मुने ॥ २५।१३ ॥

अङ्कुरार्पणकार्यं तु कारयेत् सर्वकर्मणि ।
अनङ्कुरार्पणं कुर्यादनर्थमशुभावहम् ॥ २५।१४ ॥

तस्मात् सर्वप्रयत्नेन कारयेदङ्कुरार्पणम् ।
प्रत्येकं षोडश स्युर्वै मङ्लाङ्कुररोपणैः(-णे?) ॥ २५।१५ ॥

तेषां चैव तु नामानि वक्ष्यामि मुनिसत्तम ।
सुन्दरो ऽसुन्दरश्चैव विक्रमो मुरशासनः ॥ २५।१६ ॥

वीरसेनो विरामश्च सोमदत्तो महाहनुः ।
यज्ञभुक् सर्वभुक् चैव मनुजो मर्दनस्तथा ॥ २५।१७ ॥

अग्निग्रीवो हयग्रीवो वायुग्रीवो महाहनुः(?) ।
इत्येते षोडश प्रोक्ताः पालिकानां तु(अत्र?)नामतः ॥ २५।१८ ॥

घटिकानां तु वक्ष्यामि याथातथ्यं हि नारद ।
वेगो ऽवेगः सुवेगश्च वायुवेगस्तथैव च ॥ २५।१९ ॥

अग्निनाथो वायुनाथो हविर्नाथो हयाम्पतिः ।
सर्वभुक् सर्वधृक् सर्वी सर्वभक्षस्तथैव च ॥ २५।२० ॥

सुभुजो दुर्भुजश्चैव भुजगो वह्निजेश्वरः ।
इत्येते षोडश प्रोक्ता घटिकानां तु (-श्चापि?)नामतः ॥ २५।२१ ॥

शरावाणां तु नामानि तद्वक्ष्यामि यथाक्रमम् ।
राजराजो विराजश्च सुकेतुः कीर्तिवर्धनः ॥ २५।२२ ॥

इन्द्रकर्मा महाकर्मा देवकर्मा मनीषिणः(?) ।
यज्ञनाथो हविर्नाथः सुलग्नः सुरनन्दनः ॥ २५।२३ ॥

मणिप्रियो महामायो देवमायः सुखप्रियः ।
इत्येते षोडश प्रोक्ताः शरावाणां तु(-श्चैव?)नामतः ॥ २५।२४ ॥

वर्णानां तु (वर्णांश्चापि?)प्रवक्ष्यामि यथावदनुपूर्वशः ।
सुन्दराद्यास्तु चत्वारः शुक्लवर्णाः प्रकीर्तिताः ॥ २५।२५ ॥

वीरसेनादयो रक्ताः श्यामा यज्ञभुगादयः ।
शेषास्तु पालिकाः सर्वाः कृष्णवर्णाः प्रकीर्तिताः ॥ २५।२६ ॥

पालिकाः षोडश(अथवा?)सर्वाः शुक्लवर्णापि वा मुने ।
एवमेव तु वर्णानि(-श्च?)घटिकानां तु सर्वशः ॥ २५।२७ ॥

सितरक्तः शरावाणां सर्वेषां तु प्रकीर्तितः ।
शरावाणां तु सर्वेषां रक्तवर्ण अथापि वा ॥ २५।२८ ॥

पालिकाः शुक्लवर्णास्तु घटिकाः कृष्णमेव च (-वर्णकाः?) ।
शरावे षोडशेनैव रक्तवर्णमिति स्मृतम् ॥ २५।२९ ॥

उक्तस्तु वर्णविस्तारो बीजन्यासविधिं शृणु ।
प्रासादे मण्डपे वापि प्राकारे मुनिसत्तम ॥ २५।३० ॥

तत्रोपलिप्य विधिवत् मण्डलं चतुरश्रकम् ।
तत्रस्थं वै पदं कुर्यादष्टचत्वारिकं क्रमात् ॥ २५।३१ ॥

शालिपिष्टं सतोयेन(?) सूत्रं संलिप्य मूलया ।
प्राक् प्रत्यक् नवसूत्रं तु प्रसार्यास्फाल्य भूतले ॥ २५।३२ ॥

तथैव कारयेत् सूत्रं द्वादशं मुनिसत्तम ।
दक्षिणाद्युत्तरान्तेन चास्फाल्यास्त्रेण मन्त्रतः ॥ २५।३३ ॥

विमृजेत्तु पदान् सम्यक् वीथ्यर्थं मुनिसत्तम ।
द्विपदं द्विपदं त्यक्त्वा तृतीयं मार्जयेत् क्रमात् ॥ २५।३४ ॥

सार्धतालप्रमाणं वा तालमानमथापि वा ।
सञ्ज्ञात्वात्र मुनिश्रेष्ठ कारयेत् सुपदान् पृथक् ॥ २५।३५ ॥

तत्पदेषु पुनः सम्यक् अर्चयेद्गन्धवारिणा ।
पश्चात्तु पूरयेद्धान्यैस्तण्डुलैः शालिसम्भवैः ॥ २५।३६ ॥

त्रिपङ्क्तीकृत्य तान् सर्वान् प्रत्येकं क्रमयोगतः ।
आग्नेयादीशपर्यन्तं विन्यसेद्धान्यपूर्वकम् ॥ २५।३७ ॥

स्थापयित्वा तु मन्त्रेण द्वादशार्णेन वै ततः ।
व्यस्तैः पृथक् पृथक् स्थाप्य सर्वानेव यथाक्रमम् ॥ २५।३८ ॥

ततस्तु पूरयेत् सम्यक् मृद्वालुककरीषकैः ।
पूरयित्वा समान् सर्वान् अर्चयित्वा ततः क्रमात् ॥ २५।३९ ॥
गन्धपुष्पादिभिश्चैव पूजयित्वा विचक्षणः ।
पूजयित्वा ततः पश्चात् बीजानादाय मन्त्रवित् ॥ २५।४० ॥

तिलमुद्गं तथा माषनिम्बनिष्पावशालयः ।
यवश्यामाकनीवारकुलुत्थकङ्कुसर्षपाः ॥ २५।४१ ॥

एतानि द्वादश प्रोक्ता(?) मङ्गलाङ्कुरकर्मणि ।
पयोभिः क्षालयेत् पूर्वं बीजेन परमेष्टिना ॥ २५।४२ ॥

पुनश्च क्षालयेत् पश्चात् बीजेन पुरुषात्मना ।
जितन्त इति मन्त्रेण विन्यसेत्तु शनैः शनैः ॥ २५।४३ ॥

आग्नेयादीशपर्यन्तं प्रतिपङ्क्ति यथाक्रमम् ।
ततस्तु दूर्वाङ्कुरयुक् घृतारोपणमाचरेत् ॥ २५।४४ ॥

ततस्तु चाहतैर्वस्त्रैर्वेष्टयित्वा पृथक् पृथक् ।
पालिकां क्षेत्रपूर्वे वा चोत्तरे वा तु होमयेत् ॥ २५।४५ ॥

समिदाज्यचरूणां तु प्रत्येकं षोडशाहुतीः ।
सम्पाताज्येन सम्प्रोक्ष्य पालिकादीन् विशेषतः ॥ २५।४६ ॥

निवाते सम्प्रकुर्वीत मण्डपेशानकोणके ।
नवाहं सप्तरात्रं वा अर्चयेद्गन्धवारिणा ॥ २५।४७ ॥

शिरीषाङ्कुरपूर्वैस्तु माल्यैर्वेष्ट्य पृथक् पृथक् ।
दुर्वाङ्कुरैर्मुनिश्रेष्ठ पूर्वे वा वेष्टयेत् पृथक्(?) ॥ २५।४८ ॥

पुण्याहूपर्वं सम्पूज्य गन्धाद्यक्षतसंयुतम् ।
बलिं च सर्वतो दद्यादष्टदिक्षु समन्ततः ॥ २५।४९ ॥

हविषा गन्धपुष्पैस्तु पूजयेत्तु दिने दिने ।
बीजन्यास इति प्रोक्तः देवतानां ब्रवीमि ते ॥ २५।५० ॥

चतस्रो वासुदेवाद्या मूर्तयो दैविकास्तथा ।
शङ्खादीन्यायुधान्यष्टौ पालिकानां तु देवताः ॥ २५।५१ ॥

वाराहो नारसिंहश्च श्रीधरो हयशीर्षकः ।
जामदग्न्यश्च रामश्च वामनो यदुनन्दनः ॥ २५।५२ ॥

नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।
मत्स्यः कूर्मश्च तार्क्ष्यश्च अनन्तो भुजगोत्तमः ॥ २५।५३ ॥

इत्येते षोडश प्रोक्ताः घटिकानां तु देवताः ।
विष्ण्वाद्या द्वादश ये च हंसो ऽथ बल एव च ॥ २५।५४ ॥

कपिलश्च हलश्चैव शरावाणां तु देवताः ।
अपरे चन्द्राग्न्यादित्यदेवतात्रयमेव तु ॥ २५।५५ ॥

विष्णुं च ब्रह्मरुद्रौ च अङ्कुराणां मुनीश्वर ।
शुभमाप्नोति पीतेषु शुक्ले देवत्वमाप्नुयात् ॥ २५।५६ ॥

कृष्णरक्तावुभौ वर्णौ अशुभं कुर्वते सदा ।
पञ्चत्वमाप्नुयाच्छीघ्रमप्ररूढे सकर्तृकम् ॥ २५।५७ ॥

श्यामाङ्कुरो(-राद्?)द्रव्यनाशः कर्तुः कारयितुर्भवेत् ।
एतेषां चापि नीरोगमुत्सवस्य मयेरितम्(?) ॥ २५।५८ ॥

एतत्ते कथितं सम्यगङ्कुराणां सुविस्तरम् ॥

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां अङ्कुर्रापणविधिर्नाम पञ्चविंशोध्यायः ॥