चतुर्विंशो ऽध्यायः
विष्वक्सेनः—
अथ वक्ष्ये विशेषेण विष्णोराराधनं मुने ।
जलगन्धादिसंस्कारविधिं गुह्यमनुत्तमम् ॥ २४।१ ॥
ब्राह्मणान् वेदसंयुक्तान् वैष्णवान् सुकुलोद्भवान् ।
तान् क्रमेणैव संस्कृत्य प्रोक्षयित्वा शिरोपरि ॥ २४।२ ॥
मूलमन्त्रेण मन्त्रज्ञः पश्चात्तेनैव कारयेत् ।
गोपुरस्योत्तरे कुर्याद्दक्षिणे वा जलाशयम् ॥ २४।३ ॥
याम्ये देवगृहस्यैव चोत्तरे वा प्रमाणतः ।
अलङ्कृत्य तु तत्स्थानं प्रणवं सततं जपेत् ॥ २४।४ ॥
गोमयेन् समालिप्य प्रोक्षयेद्गन्धवारिणा ।
द्वादशाक्षरमन्त्रेण प्रणवाद्यन्तसंयुतम् ॥ २४।५ ॥
अलङ्कृत्य च गन्धादि धूपदीपैः समन्ततः ।
मुक्तादामसमायुक्तं वितानैरुपशोभितम् ॥ २४।६ ॥
पताकमालासंयुक्तं शालिपिष्टैरलङ्कृतम् ।
तत्स्थानं साधकः पश्चाद्द्वादशाक्षरविद्यया ॥ २४।७ ॥
सम्प्रोक्ष्य धूपयित्वा च गुग्गुलागरुसंयुतम् ।
तस्मिन् मनोरमे देशे जलभाण्डादिकान् मुने ॥ २४।८ ॥
स्थापयेत् प्रणवेनैव प्रत्येकं तं हरिं स्मरन् ।
जलभाण्डं तथा कुम्भं वर्धनीं च बहूनि च ॥ २४।९ ॥
स्रग्धूपपात्रसंयुक्तं स्थापयेत्तु समाहितः ।
एवमादीनि चान्यानि तद्भूमौ स्थापयेत् क्रमात् ॥ २४।१० ॥
सुगन्धं देवपानीयं स्नानार्थं जलमेव च ।
गन्धद्रव्यं तथोशीरं माञ्जं मलयजं तथा ॥ २४।११ ॥
एवमादीनि चान्यानि गन्धद्रव्यादिकान् मुने ।
सङ्गृह्य विष्णुगायत्र्या प्रणवाद्यन्तसंयुतम् ॥ २४।१२ ॥
जलभाण्डादिकान् सर्वान् विष्णुगायत्रिया मुने ।
सङ्क्षाल्यान्यान् सुसम्प्रोक्ष्य पूरितान् गालितोदकैः ॥ २४।१३ ॥
पूरयेत् प्रणवेनैव तान् पिधाय पृथक् पृथक् ।
एलाचम्पकपुष्पाणि केतकोत्पलमेव च ॥ २४।१४ ॥
उशीरमल्लिकाजातिपुष्पं वकुलमेव च ।
एतान् पुष्पान् समादाय विक्षिपेत्तान् पृथक् पृथक् ॥ २४।१५ ॥
एतेषामप्यलाभे तु जलेषु मुनिसत्तम ।
यथासम्भवमाहृत्य निक्षिपेद्गन्धपुष्पकम् ॥ २४।१६ ॥
त्रिमात्रात्(?)पुष्पमुद्धृत्य प्रणवेन विसर्जयेत् ।
सुसूक्ष्मैः सुदृढैर्वस्त्रैर्वेष्टयेदस्त्रमन्त्रतः ॥ २४।१७ ॥
ततश्चन्दनसंयुक्तं कर्पूरं पेषयेद्बुधः ।
तथैव गन्धं मालाकां(?)रजनीं प्रणवैः सह ॥ २४।१८ ॥
एवं संस्कृत्य मतिमान् सर्वान् देवाननुस्मरन् ।
वर्धनीं विष्णुगायत्र्या सलक्ष्म्यास्मिन् पृथक् पृथक् ॥ २४।१९ ॥
जलभाण्डाज्जलं गृह्य प्रणवेन तु पूरयेत् ।
एवं सम्पूरयित्वा तु पिधाय च सुवस्त्रकैः ॥ २४।२० ॥
पूजारम्भे मुनिश्रेष्ठ प्रणवाद्यन्तसंयुतम् ।
विष्णुगायत्रिमन्त्रेण चोद्धरद्वर्धनीं बहून्(?) ॥ २४।२१ ॥
मण्डपस्योत्तरे पार्श्वे स्थापयेत् प्रणवं स्मरन् ।
एवं दिने दिने देवपूजार्थं जलमुत्तमम् ॥ २४।२२ ॥
तथैव चन्दनादीनि कर्पूरेण विमिश्रितम् ।
दूर्वाक्षताञ्जनं चैव मात्रातण्डुलमेव च ॥ २४।२३ ॥
तिलगोहेमदध्याज्यं मधुपर्कोपहारकम् ।
स्नानार्थं रजनीपिष्टं सतैलामलकं तथा ॥ २४।२४ ॥
एवमादीनि चान्यानि पूजाद्रव्याणि सर्वशः ।
प्रणवेन तु संस्कृत्य चास्त्रमन्त्रेण चोद्धरेत् ॥ २४।२५ ॥
मुखवासं मुनिश्रेष्ठ प्रणवं सततं जपन् ।
संस्कृत्यान्ते विधानेन चोद्धरेद्वाग्यतः शुचिः ॥ २४।२६ ॥
शङ्खत्रय(-तूर्य?)समायुक्तं प्रणवेन दिने दिने ।
देवस्य दक्षिणे पार्श्वे स्थापयेदस्त्रमन्त्रतः ॥ २४।२७ ॥
प्रातः सन्ध्यादिषट्काले ऽप्येवमेव समाचरेत् ।
नित्ये नैमित्तिके ऽप्येवं संस्कारो मुनिसत्तम ॥ २४।२८ ॥
सङ्क्षेपेण मया प्रोक्तो जलगन्धादिकः क्रमात् ।
अन्यथा चेन्महादोषो भविष्यति न संशयः ॥ २४।२९ ॥
दुर्भिक्षं जायते चैव धनधान्यक्षयो भवेत् ।
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ॥ २४।३० ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां (जलगाधादि-संस्कारविधिर्नाम) चतुर्विंशो ऽध्यायः ॥