त्रयोविंशो ऽध्यायः
विष्वक्सेनः—
अतः परं प्रवक्ष्यामि हरेः पूजाङ्गमुत्तमम् ।
पुष्पारामस्य देशं च तस्य संस्कारमेव च ॥ २३।१ ॥
एवमादीनि चान्यानि सन्ध्यारक्षावसानकम् ।
शृणु गुह्यमना भूत्वा साधकानां हिताय वै ॥ २३।२ ॥
देवालयस्य परितो वायव्यां दिशि वा मुने ।
पूर्वे ऽथ दक्षिणे वापि कुर्यादाराममुत्तमम् ॥ २३।३ ॥
पूर्ववद्वैष्णवैर्युक्तं यजमानो विधानतः ।
आचार्यं पूजयित्वा तु ब्राह्मणानामनुज्ञया ॥ २३।४ ॥
अङ्गुलीयकवस्त्राद्यैस्तोषयित्वा हरिं स्मरेत् ।
अर्ध्यादिस्नानपर्यन्तं तेनैव मनसाव्ययम् ॥ २३।५ ॥
रविमण्डलमध्यस्थं देवं नारायणं प्रभुम् ।
सम्पूजयित्वा तद्भूमौ शङ्खतूर्यादिसंयुतम् ॥ २३।६ ॥
वैष्णवैः सह तां भूमिं निरीक्ष्यास्त्रेण मन्त्रवित् ।
कर्षयेल्लाङ्गलैः शूद्रैः वैष्णवैस्तु यथाक्रमम् ॥ २३।७ ॥
ततो मृच्छिष्यशस्त्रैस्तु तां भूमिं शिक्षयेद्द्विज (?) ।
यजमानो हरिं स्मृत्वा आचार्यं पूजयेत् पुनः ॥ २३।८ ॥
ब्राह्मणान् भोजयित्वा तु पुण्याहं तत्र कारयेत् ।
तस्यां भूम्यां शुभायां तु पुष्पवृक्षादिकान् क्रमात् ॥ २३।९ ॥
स्थापयेद्देवदेवस्य पूजार्थं मुनिसत्तम ।
करवीरं तथा जतिर्मल्लिकावकुलं तथा ॥ २३।१० ॥
चम्पकं कर्णिकारं तु नन्द्यावर्तं तथैव च ।
तुलसीद्वमेवं च दलैकं पद्ममुच्यते ॥ २३।११ ॥
मागधीवृक्षवकुलं(-लौ?) क्रमुकं(-कः?)पनसं(-सः?)तथा ।
कदल्यामलकं(-कौ?)चैव मधुकाम्रं(-म्रौ?)तथैव च ॥ २३।१२ ॥
नालिकेरं त(-रस्त?)थोशीरं चन्दनं हरिबेरकम् ।
पुन्नागं वंशपुन्नागं क्षुद्रपुन्नागमेव च ॥ २३।१३ ॥
दाडिमं च तथा हव्यं पालाशं पादपं तथा ।
एवमादीनि चान्यानि देवोद्याने तु दर्शकान् ॥ २३।१४ ॥
पुष्पारामे क्रमेणैव कुर्यात्तु ब्राह्मणेन वै ।
ब्राह्मणान् ज्ञानसम्पन्नान् वैष्णवान् वेदपारगान् ॥ २३।१५ ॥
सङ्गृह्य तानलङ्कृत्य सर्वदुन्दुभिसंयुतम् ।
पूर्वं विघ्नेशमभ्यर्च्य उपहा(-चा?)रसमन्वितम् ॥ २३।१६ ॥
ताम्बूलं सूक्ष्मवस्त्रैस्तु ब्राह्मणान् पूज्य मन्त्रवित् ।
एवमादीनि चान्यानि वैष्णवान् प्रणवं स्मरेत् ॥ २३।१७ ॥
गन्धादिभिः समभ्यर्च्य ताम्बूम्ल दापयेत् क्रमात् ।
तस्माद्द्विजवरश्रेष्ठैरारामे मुनिसत्तम ॥ २३।१८ ॥
बीजानि वापयेद्भूमौ प्रणवाद्यन्तसंयुतम् ।
विष्णुगायत्रिमन्त्रेण विष्णुमन्त्रमनुस्मरन् ॥ २३।१९ ॥
अङ्कुरादींस्तथा भूमौ चारामे क्रमयोगतः ।
सर्वा(शक्रा?)दीशानपर्यन्तं करवीरादिकान् क्रमात् ॥ २३।२० ॥
स्थापयेत् पूर्ववन्मन्त्री सेचयेत् प्रणवैर्जलम् ।
यन्त्रेणाहृत्य सच्छि(-च्छू?)द्रो वैष्णवैस्तु दिने दिने ॥ २३।२१ ॥
तोषयेत् पुष्पवृक्षांश्च पत्राणि विविध नि च ।
एवमादीनि च न्यानि फलवृक्षान्तमेव च ॥ २३।२२ ॥
तालं निम्बं तथा राजवृक्षं खदिरमेव च ।
विष्ण्वालये तथारामे स्वृगृहे च विवर्जयेत् ॥ २३।२३ ॥
वर्ज्यस्यावर्जनान्यानि(-ने नैव?)वृद्धिः स्यात् कुप्यते हरिः ।
तस्मात् सर्वप्रयत्नेन तालादीनां तु वर्जयेत् ॥ २३।२४ ॥
ब्राह्मणाराधने लोके परार्थे विष्णुमव्ययम् (?) ।
ब्राह्मणैरेव कर्तव्यः पुष्पारामो महामते ॥ २३।२५ ॥
तथैव नृपविड्भ्यां च विष्णोराराधेन क्रमम् (-मः?) ।
शूद्राराधनदेवस्य शूद्रैर्नन्दवनं मुने ॥ २३।२६ ॥
कारयेत् क्रमयोगेन ब्राह्मणानां महत्तपः ।
ब्राह्मणाराधने भूमौ पूर्ववन्नन्दनं मुने ॥ २३।२७ ॥
स्थापितं ब्राह्मणेनेव पुष्पवृक्षादिकान् क्रमात् (?) ।
यथाकामं तु मन्त्रेण जलैः शूद्रैस्तु वर्जयेत् ॥ २३।२८ ॥
आपुष्पकालमत्रैव तावत् कुर्याद्दिने दिने (?) ।
पुष्पकाले ऽङ्कुरादीनि पत्राणि विविधानि च ॥ २३।२९ ॥
हस्तं प्रक्षाल्य तान् छेद्य(छित्वा?)पात्रे शूद्रैस्तु पूरयेत् ।
सपुष्पपात्रमादाय ब्रह्मणो वेदपारगः ॥ २३।३० ॥
प्रणवेन समुद्धृत्य सापिधानं हरिं स्मरन् ।
पुष्पमण्डपमासाद्य पुष्पभाण्डे तु पूरयेत् ॥ २३।३१ ॥
पश्चाच्छुद्धजलैर्मन्त्रीं सम्प्रोक्ष्यास्मिन् मुखेषु तान् ।
पिधाय तु बहिर्देशे निष्क्रम्यास्त्रेण मन्त्रतः ॥ २३।३२ ॥
ततस्तु फलकां तस्मिन् मन्त्री वायुमनुस्मरन् ।
सम्मृज्य कुशबृन्देन प्रोक्षयेत् प्रणवेन तु ॥ २३।३३ ॥
सङ्क्षाल्य विष्णुणायत्र्या फलकां गन्धवरिणा ।
हस्तं प्रक्षाल्य तेनैव प्रणवेनाभिमन्त्रयेत् ॥ २३।३४ ॥
पुष्पपात्रात् समादाय हस्ताभ्यां प्रणवेन तु ।
पूरयेत् फलकान्तं तु नववस्त्रैस्तु वा मुने ॥ २३।३५ ॥
तथैवाङ्कुरपत्रणि सर्वाण्येतानि वै क्रमात् ।
पश्चाद्गन्धजलैस्तस्मिन् प्रोक्षयेत् प्रणवं स्मरेत् ॥ २३।३६ ॥
मनसा सततं देवमनुस्मृत्य समाहितः ।
नमस्कारविहीने(-नं?)तु सूत्रेः पुष्पाणि सन्धयेत् ॥ २३।३७ ॥
उत्पलादीनि चान्यानि तुलसीद्वयमेव च ।
नानावर्णसमायुक्तं माल्यान्येवं समाचरेत् ॥ २३।३८ ॥
ततः प्रणवमुच्चार्य षडक्षरमनुस्मरन् ।
पुष्पपात्रे तु सम्पूर्य प्रणवेनोद्धरेद्बुधः ॥ २३।३९ ॥
नमस्कारविहीनेन(-नं तु?) हरिं स्मृत्य शनैः शनैः ।
देवपार्श्वं समासाद्य स्थापयेद्दक्षिणाग्रतः ॥ २३।४० ॥
पश्चात्तान्यस्त्रमन्त्रेण प्रोक्षयेत् साधकः क्रमात् ।
ततः प्रणम्य मनसा मूलमन्त्रमनुस्मरन् ॥ २३।४१ ॥
निष्क्रम्य तु बहिर्देशे जपेद्वै वैष्णवो द्विजः ।
देवालयाद्बहिर्देशे न कुर्यात् पुष्पमण्डपम् ॥ २३।४२ ॥
यो बाह्ये कुरुते मोहात् पुष्पमाल्यादिकान् मुने ।
न पूजाफलमाप्नोति तस्मात्तं परिवर्जयेत् ॥ २३।४३ ॥
सच्छूद्रवैष्णवैर्मालामापद्यपि महामुने ।
नित्ये नैमित्तिके चैव न कुर्यात्तु कथञ्चन ॥ २३।४४ ॥
ब्राह्मणाराधेन(?) चास्मिन् परार्थे तु विशेषतः ।
आत्मार्थमव्ययं विष्णु यथाकामं समर्चयेत् ॥ २३।४५ ॥
सा पूजा भुक्तिमुक्तिः स्यात् तस्मात् स्वार्थं विशिष्यते ।
यो मोहात् कुरुते मालां शूद्रो ब्राह्मणपूजने ॥ २३।४६ ॥
आत्मार्थे च परार्थे च सा पूजा निष्फला भवेत् ।
तद्ग्रामं(-मो?)निधनं याति तस्माद्यत्नेन वर्जयेत् ॥ २३।४७ ॥
प्रातर्मध्यप्रदोषेषु सान्ध्याषट्के विशेषतः ।
नित्ये नैमित्तिके चैव ब्राह्मणाराधने मुने ॥ २३।४८ ॥
मन्त्रपुष्पादिकान् सर्वान् ब्राह्मणैरेव चोद्धरेत् ।
सम्मार्जनशतं पुण्यं सहस्रमनुलेपनम् ॥ २३।४९ ॥
मालाः शतसहस्राणि अनन्तो दीप उच्यते ।
तस्मात्तेषां मुनिश्रेष्ठ दीपमाला विशिष्यते ॥ २३।५० ॥
गन्धैः पुष्पैस्तथा धूपदीपैर्माल्यैर्मनोरमैः ।
देवदेवं समभ्यर्च्य सन्ध्यारक्षां समाचरेत् ॥ २३।५१ ॥
जगत्संरक्षणार्थाय तद्ग्रामस्य विशेषतः ।
दिने दिने तु कर्तव्यं(?)पात्रे ताम्रादिके बुधैः ॥ २३।५२ ॥
पुष्पपात्रैस्तथा दूर्वामालाद्यैस्तिलसर्षपैः ।
सम्पूर्यास्मिन् तदस्त्रेण दीपानष्टदले न्यसेत् ॥ २३।५३ ॥
कार्पासतूलगोसर्पिःसतैलेन (तैलेन च?)विमिश्रितम् ।
कर्पूरागरुसंयुक्तमष्टदिग्दीपसंयुतम् ॥ २३।५४ ॥
सङ्गृह्य प्रणवेनैव पुष्पैरस्त्रेण पूजयेत् ।
महादीपसमायुक्तं छत्रचामरसंयुतम् ॥ २३।५५ ॥
षडक्षरेण मन्त्रेण भ्रामयेत्तच्छिरोपरि ।
तत्पश्चाद्दासदासीभिर्वैष्णवैः सह मन्त्रवित् ॥ २३।५६ ॥
नानाशङ्खरवैर्युक्तं नानावाद्यसमन्वितम् ।
पीटाग्रे वाथ बाह्ये वा रक्षादीपं नयेद्बुधः ॥ २३।५७ ॥
षडक्षरेण मन्त्रेण प्रणवाद्यन्तसंयुतम् ।
पश्चाद्गर्भगृहाग्रे तु महादीपं विसर्जयेत् ॥ २३।५८ ॥
नित्ये नैमित्तिकेप्येवं सन्ध्यारक्षां समाचरेत् ।
सायाने ऽलङ्कृतान्ते वा सन्ध्यारक्षां विशेषतः ॥ २३।५९ ॥
कारयेत् क्रमयोगेन सर्वसम्पत्सुखावहम् ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [पूजाङ्गविधिर्नाम] त्रयोविंशो ऽध्यायः ॥