२१

एकविंशो ऽध्यायः

नारदः—
भगवन्ननयार्चनया सदृशं परमाप्तिकरं न हि पुम्स इति ।
अतिचापलगद्गदापि (-दयापि?) गिरा स्तुतिरस्ति किमभियत् स्वपराम् (?) ॥ २१।१ ॥

विष्वक्सेनः—

शृणु नारद मूर्तिनुतिं परमां परमेण ममाभिहितां गुरुणा ।
तव भक्तिमतः कथयिष्यामि (-याम्यधुना?) इह (त्विह?) तृप्यति को हि शुभेषु नरः ॥ २१।२ ॥

विनतासुतवाहनमादरत- स्त्रिदशं कनकाङ्गदमष्टभुजम् ।
धवलाद्रिनिभं द्विपदं सुमुखं परमात्मगुरुं प्रणतो ऽस्मि सदा ॥ २१।३ ॥

जलजारिगदाम्बुजहस्तधरं सकलाभरणं तुहिनाद्रिमुषम् ।
चतुराननसेवितपादयुगं परनामधरं प्रणतो ऽस्मि सदा ॥ २१।४ ॥

तरुणार्कनिभं त्रिदशेध्य (-ड्य?) पदं सुकुमारदृशं मुसलप्रहरम् ।
अरुणाम्बरमप्रतिमं हलिनं शशिवक्त्रसमं प्रणतो ऽस्मि सदा ॥ २१।५ ॥

चतुरङ्ग(?)सुपीवरदीर्घभुजं हरिवर्णकृताञ्जलिनोपकृतम् (?) ।
गरुडेन च दक्षिणतो ऽम्बुज- योत्तरतः प्रहरं प्रणतो ऽस्मि सदा (?) ॥ २१।६ ॥

अत्र कश्चिद्विशेषो ऽस्ति मूर्तीनामर्चनाविधौ ।
मत्स्यादिदशमूर्तीनामिह लोके फलं लभेत् ॥ २१।७ ॥

तत्फलं ते प्रवक्ष्यामि अधुना शृणु नारद ।
आयुरारोग्यदं(-कं?) चैव सायुज्यं लभते ध्रुवम् ॥ २१।८ ॥
उक्तक्रमेण(?)यो मत्स्यं भक्तिपूर्वं समर्चयेत् ।
सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति ॥ २१।९ ॥

कूर्मं भक्त्या समाराध्य नरो निर्धूतकल्मषः ।
सर्वान् कामाननुप्राप्य विष्णुसायुज्यमाप्नुयात् ॥ २१।१० ॥

भक्त्या वराहमभ्यर्च्य क्रमेणानेन बुद्धिमान् ।
पापरोगविनिर्मुक्तः स याति परमां गतिम् ॥ २१।११ ॥

नारसिंहं समाराध्य भक्त्या परमया युतः ।
समस्तकामसंसिद्धो जयलक्ष्मीं समृच्छति ॥ २१।१२ ॥

भक्त्यार्च्य वामनं ज्ञानी विष्णुसालोक्यमश्नुते ।
भार्गवं राममाराध्य विष्णुसारूप्यमाप्नुयात् ॥ २१।१३ ॥

अर्च्य दाशरथिं राममायुः कीर्तिं सुखं यशः ।
अवाप्य काममखिलं विष्णुलोके महीयते ॥ २१।१४ ॥

बलरामं समाराध्य बलारोग्यधनं लभेत् ।
कृष्णमभ्यर्च्य सकलं इष्टमिष्टफलं लभेत् ॥ २१।१५ ॥

ज्ञानमूर्तिं च कल्किं तु(?) लक्ष्म्यायुः कीर्तिमेव च ।
अवाप्य विष्णुसालोक्यं मोदते विष्णुपार्षदैः ॥ २१।१६ ॥

दशमूर्त्यर्चनं पुण्यं गुह्याद्गुह्यतरं मुने ।
साधकानां हितार्थाय तव भक्तस्य धीमतः ॥ २१।१७ ॥

फलश्रुतिर्मया प्रोक्ता मत्स्यादीनां विशेषतः ।
तन्त्राणां परमं गुह्यं विनियोगमतः शृणु ॥ २१।१८ ॥

उक्तं च नोपदेष्टव्यमभक्ताय कदाचन ।
न मानिने डम्भिने च नास्तिकाय शठाय च ॥ २१।१९ ॥

न चाशुश्रूषवे दद्यात् शुचये च कृपालवे ।
देवतागुरुभक्ताय न हि चेद्गुरुदोषभाक् ॥ २१।२० ॥

जानकीं रुक्मिणीं लक्ष्म्या पुष्ट्या भामां तु विद्यया ।
लक्ष्मणं भरतं वापि शत्रुघ्नं च महामुने ॥ २१।२१ ॥

प्रणवादिस्वनाम्नैव चतुर्थ्यन्तं नमो ऽयुजा ।
अर्चयेत मुनिच्छन्दो दैवं राघवमन्त्रवित् ॥ २१।२२ ॥

सर्वेषां परिवाराणां मन्त्रमेवं प्रयोजयेत् ।
आभिर्हेमः प्रयोक्तव्यः स्वाहान्तं सकलं मुने ॥ २१।२३ ॥

अभ्यन्तरोपचारेण(-षु?) आगच्छान्तं मुखीकृतौ ।
क्षमस्वान्तं विसर्गे तु नमो ऽन्तं चान्मकर्मणि ॥ २१।२४ ॥

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [मत्स्याद्यर्चनफलकथनं नाम] एकविंशो ऽध्यायः ॥