२०

विंशो ऽध्यायः

विष्वक्सेनः—
शृणु नारद तत्त्वेन साधकानां हिताय वै ।
पूजाभेदं प्रवक्ष्यामि परमात्मादिमूर्तिषु ॥ २०।१ ॥

पूते मनोरमे देशे वने पुण्यतमे ऽपि वा ।
तीर्थे वा क्षेत्रवर्ये वा ग्रामे वा नगरे ऽपि वा ॥ २०।२ ॥

खर्वटे खेटके वापि पत्तने वा तटे तटे(?) ।
महाग्रामे विशेषेण पश्चिमे मध्यमे ऽपि वा ॥ २०।३ ॥

कारयेन्मन्दिरं सम्यक् सौम्यं सुमनसां प्रभोः ।
विष्णोः पूर्वोक्तमार्गेण कल्पयेद्बहुबेरकम् ॥ २०।४ ॥

लक्षणं पूर्वमुक्तेन तत्र यद्येकबेरकम् (?) ।
रामत्रयादिकानां तु कल्ययेद्बहुबेरकम् ॥ २०।५ ॥

आत्मार्थबेरमेकं वा स्वतन्त्रपरतन्त्रयोः ।
पूजाभेदः सुरमुने किञ्चि(कश्चि?)दस्ति तदुच्यते ॥ २०।६ ॥

आवाहनं विसर्गं च स्वतन्त्रे त्रिषु सन्धिषु ।
अग्निकार्यं बलिं चैव परतन्त्रेषु तैर्विना ॥ २०।७ ॥

आत्मर्थे फलकायां वा पटे वालिख्य यत्नतः ।
पूर्वोक्तलक्षणोपेतं प्रतिष्ठायाः क्रमेण च ॥ २०।८ ॥

सम्प्रोक्ष्य नवरत्नान्वा आवाह्यभ्यर्चयेत वा ।
स्थण्डिले प्रतिमायां वा लौह्यामिच्छानुरूपतः(?) ॥ २०।९ ॥

इन्द्रनीलं मरतकं स्फटिकं वज्रमेव च ।
पद्मरागं प्रवालं च वैडूर्यं मुक्तमेव च ॥ २०।१० ॥

माणिक्कमिति रत्नानि नव तेषां यथाक्रमम् ।
कालं वक्ष्ये तथार्चायाः प्रातर्मध्याह्न एव च ॥ २०।११ ॥

सायाह्नश्च प्रदोषश्चाप्यर्धरात्रमुषस्तथा ।
इति षट्कं परार्थे तु पूजायामुत्तमं स्मृतम् ॥ २०।१२ ॥

मध्यमाराधने सायमुषश्च परिवर्जयेत् ।
अधमे चार्धरात्रं च सायाह्नं च विवर्जयेत् ॥ २०।१३ ॥

प्रातर्मध्यप्रदोषेषु बलिभ्रमणमाचरेत् ।
नान्येषूत्तमपूजायामपि वा मध्यमार्चने ॥ २०।१४ ॥

बलिहीने तु काले तु पूजाभेदमथो शृणु ।
आह्वानमर्घ्यपाद्यं च आचामं गन्धपुष्पकम् ॥ २०।१५ ॥

धूपो दीपो निवेद्यं च मुखवासविसर्जने ।
इति कर्मोत्तमादीनां नाडीकालः प्रवक्ष्यते ॥ २०।१६ ॥

प्रथमा सप्तनाडी स्यात् मध्यमा पञ्चनाडिका ।
कनीयसी त्रिनाडी स्यात् इति शास्त्रस्य निश्चयः ॥ २०।१७ ॥

दिवाकरोदयात् पूर्वमाचार्यः स्नानमाचरेत् ।
अर्कोदये मुनिश्रेष्ठ पूजाकर्म समाचरेत् ॥ २०।१८ ॥

स्नानपूर्वाः क्रियाःसर्वाः फलसंसिद्धिहेतवः ।
अतस्तान्(-स्तत्?)प्रथमं वक्ष्ये साधकानां हिताय वै ॥ २०।१९ ॥

समुद्रगामिन्यो वापि ह्रदे नद्यां जलादिषु ।
तटाके निर्झरे वापि स्नानं कुर्वीत साधकः ॥ २०।२० ॥

ब्राह्मे मुहूर्ते चोत्थाय धर्ममोक्षार्थचिन्तकः ।
प्रागुदग्दिशमासाद्य साधकः स्नानमाचरेत् ॥ २०।२१ ॥

प्राच्युत्तरे नीरराशौ स्नानं कुर्याद्विचक्षणः ।
वायव्ये नैरृताग्नेय्यां वरुणायां विसर्जयेत् ॥ २०।२२ ॥

वर्जिते देशनीरे तु यो मोहात् स्नानमाचरेत् ।
तत् स्नानं निष्फलं याति पुनःस्नानं समाचरेत् ॥ २०।२३ ॥

प्रातरुत्थाय मूर्तीनां यां मूर्तिं स्वयमर्चति ।
तन्मूर्त्यर्चनमन्त्रेण साधकः स्नानमाचरेत् ॥ २०।२४ ॥

विष्णुमन्त्रेण वा साङ्गमथवा मूलविद्यया ।
अवगाह्य जले मध्ये त्रिराचम्य च मन्त्रतः ॥ २०।२५ ॥

विसृज्यार्द्राम्बरं चान्यत् वस्त्रयुग्मेन वेष्टयेत् ।
सपवित्रकरेणैव मन्त्राचमनमाचरेत् ॥ २०।२६ ॥

सुवार्णाद्यङ्गुलीयैवा(-यं वा?)धारयेद्दक्षिणे भुजे (करे?) ।
आपोहिष्ठेति मन्त्रेण प्रोक्षयेत् स्वशिरोपरि ॥ २०।२७ ॥

तर्पयेत् स्वस्वमन्त्रेण स्नानकर्म समाचरेत् ।
अशक्तः पुनराचम्य प्रोक्तां विद्यामनुस्मरन् ॥ २०।२८ ॥

सम्प्रोक्ष्य स्नानकार्याणि कृत्वा कार्यं विशेद्बुधः ।
प्रविश्य कृतसच्छौचः पूजामन्त्रेण मन्त्रवित् ॥ २०।२९ ॥

कवाटोद्घाटनं कृत्वा मन्त्रेणाद्येन वा मुने ।
वायुमन्त्रेण वा द्वारं कवाटोद्धाटनं क्रमात् ॥ २०।३० ॥

तद्द्वारं तु द्विधा कृत्वा साधको मन्त्रवित्तमः ।
सूत्रस्योत्तरपार्श्वे तु प्रतिशेद्दक्षिणाङ्घ्रिणा ॥ २०।३१ ॥

प्रणम्य साधको मन्त्रं षडक्षरमनुस्मरन् ।
नित्यदीपं ततो ज्वाल्य विष्णुमन्त्रेण मन्त्रवित् ॥ २०।३२ ॥

सूत्रस्य दक्षिणे पार्श्वे उत्तराभिमुखः स्वयम् ।
समे शुचौ प्रदेशे तु कृष्णाजिनकुशास्तरे ॥ २०।३३ ॥

फलके वा समासीनः स्वस्थान्तःकरणःशुचिः ।
पद्मं वा स्वस्तिकं वापि बद्ध्वा स्वेच्छानुरूपतः ॥ २०।३४ ॥

तेन मन्त्रेण दिग्बन्धमष्टदिक्षु निवेशयेत् ।
रक्षार्थं यागदेशं तदिति तत्त्वार्थदर्शिनः ॥ २०।३५ ॥

एवं कृत्वा तु दिग्बन्धं प्राणायाममथारभेत् ।
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ॥ २०।३६ ॥

प्राणानायम्य यस्तिस्रः प्राणायामोत्तमः स्मृतः ।
पञ्चविंशतिकृत्वान्तः प्राणानायम्य मानसः ॥ २०।३७ ॥

अभ्यासो ऽष्टाक्षरस्यैकः प्राणायामः स मध्यमः ।
प्राणो वायुः शरीरस्थः तस्यायामो निरोधकः ॥ २०।३८ ॥

पूरकं कुम्भकं चैव रेचकं त्रिविध स्मृतम् ।
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ॥ २०।३९ ॥

क्रियते चाङ्गुलिस्फोटः सा(?)मात्रा परिकीर्तितः ।
तथा द्वादशमात्राभिः पूरकं क्रियते क्रमात् ॥ २०।४० ॥

तस्माद्द्विगुणमात्राभिः कुम्भकं क्रियते बुधैः ।
तथैव रेचकं कृत्वा बुधास्तत्त्वार्थदर्शिनः ॥ २०।४१ ॥

प्राणायाममिदं प्रोक्तमधमं मुतिसत्तम ।
त्रिप्रधाने विधाने ऽत्र यथासम्भवमाचरेत् ॥ २०।४२ ॥

प्राणायामत्रयं कृत्वा पञ्च वा सप्त वाथवा ।
प्राणायामं प्रकुर्वीत प्राणायामविदां वर ॥ २०।४३ ॥

ततस्तु कायशुद्ध्यर्थं वर्णं धूम्रादि विन्यसेत् ।
शब्दःस्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ॥ २०।४४ ॥

अहङ्कारमनो बुद्धियुक्तमात्मानमानयेत् ।
सदाविष्णौ तु संयोज्य धातुदेहं सुशोधयेत् ॥ २०।४५ ॥

यद्बीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम् ।
विशोषयेदशेषं तु ध्यायेद्देहस्थकल्मषम् ॥ २०।४६ ॥

क्षौमं हृत्पद्ममध्यस्थं बीजं तेजोमयं स्मरेत् ।
अथोर्ध्वतिर्यगाभिश्च ज्वालाभिः कल्मषं दहेत् ॥ २०।४७ ॥

शशाङ्काकृतिवद्धायन्नम्बरस्थं सुधाम्बुधिम् ।
हृत्पद्मव्यापिभिर्देहं स्वकर्म भ्रामयेत् सुधीः ॥ २०।४८ ॥

सुषुम्ना योगमार्गेण सर्वनाडीविसर्पिभिः(?) ।
पश्चाच्छब्दादिविषयान् योजयेन्मूर्ध्निमध्यमे ॥ २०।४९ ॥

एवं चामृतरूपं तु मया प्रोक्तं तु नारद ।
यद्बीजं तु न्यसेन्नाभौ अनामिक्या तु नारद ॥ २०।५० ॥

अङ्गुष्ठानामिकाभ्यां तु क्षौमबीजं हृदि न्यसेत् ।
सर्वासामङ्गुलीनां तु मूर्ध्नीमं (?) बीजमुत्तमम् ॥ २०।५१ ॥

यकारादि वकारान्तं धूम्रमव्यारुणासितम् ।
एवं संशोध्य देहं तु ऊर्ध्वपुण्ड्रं समाचरेत् ॥ २०।५२ ॥

ऊर्ध्वपुण्ड्रविधिं वक्ष्ये शृणु नारद तत्त्वतः ।
सर्वाघनाशनं पुण्यं सर्वतीर्थफलप्रदम् ॥ २०।५३ ॥

स्वमूर्त्यर्चनमन्त्रेण ललाटादि ककुत्परम् ।
चन्दनं श्वेतमृद् बिल्वतुलसीमूलतोयकैः ॥ २०।५४ ॥

ऊर्ध्वपुण्ड्रं लिखेद्विद्वाननामिक्या तु साधकः ।
द्वादश (-शैः ?) द्वादशैर्मासैर्नामभिर्वा विशुद्धये ॥ २०।५५ ॥

एवं पूतो भवेदूर्ध्वपुण्ड्राणां धारणान्मुने ।
सृष्टिस्थित्यादिवशतो हस्ताङ्गन्यासयोर्द्वयोः ॥ २०।५६ ॥

विनाभ्य(-प्यर्?)चा फलवती मूर्तिमन्त्रप्रभावतः ।
आराधनक्रमं वक्ष्ये द्वारपूजादि नारद ॥ २०।५७ ॥

साधकःसिद्धसर्वाङ्गः सुभगो रोगवर्जितः ।
कुष्ठापस्माररहितो द्वारपूजां समाचरेत् ॥ २०।५८ ॥

चण्डप्रचण्डगरुडाः चतुर्थ्यन्तं नमो ऽन्तकम् ।
दक्षिणोत्तरपूर्वे तु(-पूर्वेषु?) द्वारे च प्रणवैः सह ॥ २०।५९ ॥

चण्डाधरे तु चक्रं स्यात् प्रचण्डस्याधरे ऽम्बुजम् ।
गन्धपुप्पादिभिर्द्वारपूजामेवं समाचरेत् ॥ २०।६० ॥

अथवा द्वारपूजायाः क्रमं शृणु महामुने ।
चण्डादीन् पूर्ववत् पूज्य चक्रादिरहितेन तु ॥ २०।६१ ॥

धातारं पूजयेद्वामे विधातारं तु दक्षिणे ।
सूत्रस्य दक्षिणे स्थित्वा आचार्यो मन्त्रवितमः ॥ २०।६२ ॥

अधोभागे तु भूमिः स्यादुपर्यङ्गं पूजयेच्छ्रियम् ।
दुर्गा गणपती चैव कवाटस्थौ प्रपूजयेत् ॥ २०।६३ ॥

शङ्गपद्मनिधी चैव शाखयोर्मूलदेशतः ।
गङ्गां च यमुनां चैव कवाटाधारके न्यसेत् ॥ २०।६४ ॥

उत्कर्षणीं कर्षणीं च अन्तर्यन्त्रे ह्यधोपरि ।
गन्धपुष्पाक्षतैर्धूपैः दीपाद्यैर्द्वारमर्चयेत् ॥ २०।६५ ॥

अथ चण्डं प्रचण्डं च गरुडान्तं(-डं च?)समर्चयेत् ।
प्रणवादि स्ननाम्ना च मन्त्रमित्यभिधीयते ॥ २०।६६ ॥

पूर्ववत् पूजयेद्द्वारदेवांस्तन्त्रविचक्षणः ।
त्रिप्रकारं मया प्रोक्तं यथायोगं समाचरेत् ॥ २०।६७ ॥

प्रणवादिस्वनाम्ना च पूजयेदिह नारद ।
एवं सङ्क्षेपतः प्रोक्तः द्वारपूजाविधिक्रमः ॥ २०।६८ ॥

कांस्यघण्टाध्वनिं कृत्वा द्वारमाच्छाद्य वाससा ।
प्रविशेद्देवपार्श्वे तु साधकः संयतेन्द्रियः ॥ २०।६९ ॥

पूवोक्तमासनं कृत्वा देवस्यासनमारभेत् ।
सौवर्णे राजते वाथ ताम्रे वाथ महामुने ॥ २०।७० ॥

कुशेन वाथ पुष्पेण कल्पयेदासनं हरेः ।
देवस्य पुरतः कृत्वा ह्यासनं संयतेन्द्रियः ॥ २०।७१ ॥

आधारः प्रणवो ज्ञेयः शक्तिर्वागीश्वरी तथा ।
कन्दं च पृथिवीं स्मृत्य(-त्वा?)नालमाकाशरूपकम् ॥ २०।७२ ॥

नालस्याग्रे स्मरेत् पद्मं हृत्पद्मं परमालयम् ।
आधारादीनि सर्वाणि ह्यासनस्य महामुने ॥ २०।७३ ॥

अज्ञानात् कल्पयेन्मोहात् निष्फलं स्यान्न संशयः ।
तस्मात् सर्वप्रयत्नेन आधारादीनि कल्पयेत् ॥ २०।७४ ॥

आधारं प्रथमं न्यस्य शक्तिं चैव ततः परम् ।
शक्त्योपरि न्यसेद्धीमान् कन्दं चैव महामुने ॥ २०।७५ ॥

कन्दस्योपरि विन्यस्य नालमाकाशरूपकम् ।
नालस्याग्रे तु विन्यस्य धर्मादीनि यथाक्रमम् ॥ २०।७६ ॥

धर्मादीनां तु तन्मध्ये पद्मं श्वेताष्टपत्रकम् ।
धर्मं ज्ञानं च वैराग्यं ऐश्वर्यं च चतुष्टयम् ॥ २०।७७ ॥

चत्वार्येतानि कोणेषु आग्नेयादिषु विन्यसेत् ।
मध्ये तु रुद्रं विन्यस्य नालमूलस्य मध्यमे ॥ २०।७८ ॥

अधर्माज्ञान (-ना?) वैराग्यानैश्वर्यं च चतुष्टयम् ।
विन्यसेच्च चतुर्दिक्षु पूर्वादिषु यथाक्रमम् ॥ २०।७९ ॥

धर्मादीनि न्यसेदादौ मन्त्रेणाद्येन संयुतम् ।
स्वनाम्ना चैव सर्वेषां मन्त्रमित्यभिधीयते ॥ २०।८० ॥

अधर्मादीनि सर्वेषां स्वस्वनाम्ना च साधकः ।
विन्यसेच्च चतुर्दिक्षु पूर्वादिक्रमयोगतः ॥ २०।८१ ॥

एवं न्यासं क्रमात् कृत्वा ह्याधारादि महामुने ।

नारदः—
धर्मज्ञानादिरूपाणि श्रोतुमिच्छाम्यहं प्रभो ॥ २०।८२ ॥

आयुधानि च सर्वेषां यथावद्वक्तुमर्हसि ।

विष्वक्सेनः—
शृणु नारद तत्त्वज्ञ विष्णुपादपरायण ॥ २०।८३ ॥

धर्मादीनां स्वरूपाणि प्रवक्ष्याम्यायुधानि च ।
चतुर्वक्त्रं चतुर्बाहुं द्विपादं चासिताननम् ॥ २०।८४ ॥

शङ्खचक्रधरं सौम्यं पीताम्बरसमन्वितम् ।
जातिपुष्पदलप्रख्यं सर्वाभरणभूषितम् ॥ २०।८५ ॥

धर्ममूर्तिरिति ख्यातं ज्ञानमूर्तिं ब्रवीमि ते ।
द्विपादं च चतुर्बाहुं चतुर्वक्त्रं सनातनम् ॥ २०।८६ ॥

नीलोत्पलदलप्रख्यं शङ्कचक्रगदाधरम् ।
ज्ञानमूर्तिरिति ख्यातं वैराग्यस्य वदाम्यहम् ॥ २०।८७ ॥

रक्ताक्षित्रयसंयुक्तं चतुर्वक्त्रं चतुर्भुजम् ।
पीताम्बरधरं सौम्यं शङ्खचक्रधरं सदा ॥ २०।८८ ॥

कर्णिकारदलप्रख्यं वायव्यं दिशमाश्रितम् ।
वैराग्यस्ये(-मि?)ति निर्दिष्टं ऐश्वर्यस्य वदामि ते ॥ २०।८९ ॥

रक्तोत्पलदलप्रख्यं चतुर्वक्त्रं चतुर्भुजम् ।
पीताभ्बधरं सौम्यं शङ्खचक्रधरं सदा ॥ २०।९० ॥

सिताननसमायुक्तं मुक्ताहारसमन्वितम् ।
ऐश्वर्यस्येति निर्दिष्टमीश्वरस्य वदामि ते ॥ २०।९१ ॥

कुन्देन्दुमुक्त(?)सङ्काशं द्विपादं च चतुर्भुजम् ।
रक्ताक्षित्रयसंयुक्तं जटामकुटधारिणम् ॥ २०।९२ ॥

पीताम्बरधरं सौम्यं परशुं(ईश्वरं?)शूलधारिणम् ।
सर्वाभरणसंयुक्तं सर्वशोभितशोभनम् ॥ २०।९३ ॥

इत्थं हरस्य रूपं तु देवर्षे विद्धि नारद ।
एवं सङ्क्षेपतः प्रोक्तं धर्मज्ञानादिरूपकम् ॥ २०।९४ ॥

अधर्मादीनि गात्राणि (?) वक्ष्यामि शृणु नारद ।
रक्तवर्णं महाकायं कम्बुग्रीवं चतुर्भुजम् ॥ २०।९५ ॥

एकवक्त्रं बृहत्कुक्षिं नेत्रत्रयसमन्वितम् ।
रक्ताम्बरधरं रौद्रं खङ्गमुद्गरधारिणम् ॥ २०।९६ ॥

अधर्मसयैवमुक्तं तु अज्ञानस्य वदामि ते ।
पीतवर्णं बृहत्कुक्षिं महाकायं चतुर्भुजम् ॥ २०।९७ ॥

शूलखङ्गधरं रौद्रं सर्वाभरणभूषितम् ।
एतदज्ञानरूपं स्यादवैराग्यं वदामि ते ॥ २०।९८ ॥

दूर्वाश्यामनिभं ब्रह्मन् द्विपादं च चतुर्भुजम् ।
परशुपाशधरं रौद्रं रक्ताम्बरधरं सदा ॥ २०।९९ ॥

अक्षित्रयसमोपेतं जटामकुटधारिणम् (-धारकम्?) ।
अवैराग्यस्य रूपं स्यात् अनैश्वर्यं वदामि ते ॥ २०।१०० ॥

धूम्राकारं बृहत्कुक्षिं चतुर्बाहुं महाहनुम् ।
एकवक्त्रं महाकायं मुक्तकेशसमन्वितम् ॥ २०।१०१ ॥

अश्रीकरमसौम्यं च अक्षित्रयसमन्वितम् ।
अनैश्वर्यस्य रूपं तु निर्दिष्टमधुना मुने ॥ २०।१०२ ॥

धर्मादिपञ्चपादानि अधर्मादीनि नारद ।
तेषां रूपं स्मरेन्नित्यं न्यसेत्तस्मिन् यथाक्रमम् ॥ २०।१०३ ॥

अन्यथा कल्पयेन्मोहात् आधारादिनिरूपकम्(?) ।
तत्पूजा निष्फला याति ग्रामस्याग्निभयं भवेत् ॥ २०।१०४ ॥

तस्मात् सर्वप्रयत्नेन स्मरेद्रूपाणि साधकः ।
न्यसेदष्टदलं पद्मं तेषामुपरि नारद ॥ २०।१०५ ॥

तत्रार्कसोमवह्नींश्च उपर्युपरि वन्यिसेत् ।
वृत्ताकारं तु रक्ताभमर्कमण्डलकं न्यसेत् ॥ २०।१०६ ॥

तत्रोपरि न्यसेद्ध्यात्वा श्वेतं वृत्तं शशाङ्ककम् ।
अग्निमग्निनिभं ध्यात्वा त्रिकोणं मण्डलोपरि ॥ २०।१०७ ॥

एवं रूपं तु सञ्चिन्त्य मण्डलार्कादि नारद ।
मण्डलोपरि विन्यस्य तामसादि गुणत्रयम् ॥ २०।१०८ ॥

तामसं राजसं चैव सात्विकं च यथाक्रमम् ।
तामसं कृष्णरूपं तु राजसं रक्तरूपकम् ॥ २०।१०९ ॥

सात्विकं श्वोतवर्णं तु वर्णान्येतानि संस्मरेत् ।
तत्र तद्वर्णकं चिन्त्य मण्डलोपरि विन्यसेत् ॥ २०।११० ॥

तामसादिनि विन्यस्य न्यसेदात्मद्वयं बुधः ।
आत्मानं चान्तरात्मानं वासुदेवपरायणौ ॥ २०।१११ ॥

आत्मा तु श्वेतवर्णः स्यादन्तरात्मा तथैव च ।
श् तेषां वर्णं तु सञ्चिन्त्य न्यसेदात्मान्तरात्मके ॥ २०।११२ ॥

आधाराद्यन्तरात्मान्तं न्यासक्रममथो शृणु ।
आधारं प्रथमं न्यस्य श्वेतवर्णं त्रिमूर्तियुक् ॥ २०।११३ ॥

शक्तिन्यासं द्वितीये तु कन्दन्यासमतः परम् ।
नालमाकाशरूपं स्यात्तमोवर्णं चतुर्थकम् ॥ २०।११४ ॥

नालस्याग्नेयकोणे तु धर्ममूर्तिं तु पञ्चमम् ।
षष्ठं तु नैरृते न्यस्य ज्ञानमूर्तिं तु नारद ॥ २०।११५ ॥

सप्तमे तु न्यसेद्विद्वान् वैराग्यं वायुगोचरे ।
ऐश्वर्यमष्टमं न्यस्य ईशाने तन्त्रवित्तमः ॥ २०।११६ ॥

नवमं नालमूले तु रुद्रमूर्तिं सदाशिवम् ।
दशमं नालस्याग्रे तु पूर्वे ऽधर्मं तु विन्यसेत् ॥ २०।११७ ॥

एकादशे तु विन्यस्य दक्षिणे ऽज्ञानरूपकम् ।
पश्चिमे तु न्यसेत् पश्चादवैराग्यं तु नारद ॥ २०।११८ ॥

उदीच्यां विन्यसेद्देवमनैश्वर्यं त्रयोदश ।
नालस्याग्रे स्मरेद्विद्वान् पद्मं तत्परमालयम् ॥ २०।११९ ॥

एतत् पद्मासनं प्रोक्तं त्रिदशैः पूजितं सदा ।
तत्रोपरि न्यसेत् पश्चात् मण्डलार्कादि नारद ॥ २०।१२० ॥

गुणत्रयं न्यसेन्मध्ये तामसादि यथाक्रमम् ।
गुणमध्ये न्यसेद्धीमानात्मानं चान्तरात्मकम् ॥ २०।१२१ ॥

एवं सङ्क्षेपतः प्रोक्त आसनस्य क्रमो मया ।
आसनस्यार्चनं वक्ष्ये सङ्क्षेपाद्विधिपूर्वकम् ॥ २०।१२२ ॥

आधाराद्यन्तरात्मान्तं मूर्तीनां मुनिसत्तम ।
व्यस्तैःसम्पूजयेत् सर्वं समस्तैर्वा समाहितः ॥ २०।१२३ ॥

अर्चयेद्गन्धपुष्पाद्यैः पूजयेत्तं मनोरमैः ।
तेषां स्वनामकैर्मन्त्रैर्दद्यात् सर्वं यथाक्रमम् ॥ २०।१२४ ॥

एतत् कल्प्यं मुनिश्रेष्ठ आह्वानं च वदाम्यहम् ।
स्वर्णाद्यन्यतमं पात्रं कुडुबद्वयपूरितम् ॥ २०।१२५ ॥

इत्थं हि लक्षणं प्रोक्तं सर्वपात्राणि नारद ।
आवाहनादि पात्रं तत् पञ्चषट्सप्त एव वा ॥ २०।१२६ ॥

पूजकस्याग्रतः स्थाप्य प्रोक्षयेन्मूलविद्यया ।
एतेषामप्यलाभे तु शङ्खशुक्तिमथापि वा ॥ २०।१२७ ॥

क्षालयेत् सर्वपात्राणि विष्णुगायत्रिया मुने ।
आढकद्वयसम्पूर्णां पक्वबिम्बफलाकृतिम् ॥ २०।१२८ ॥

वर्धनीं वामपार्श्वे तु विन्यस्यापूरयेद्बुधः ।
गालितैरुदकैर्यस्यां गन्धपुष्पयुतां न्यसेत् ॥ २०।१२९ ॥

शेषं दक्षिणपार्श्वे तु परितो वाग्रतो ऽपि वा ।
स्थापयेत्तु क्रमेणैव पूजाद्रव्यं समस्तकम् ॥ २०।१३० ॥

तत् पात्रेष्वेकपात्रं तु सङ्गृह्य मुनिसत्तम ।
षडक्षरेण मन्त्रेण सम्प्रोक्ष्य तु पुनः पुनः ॥ २०।१३१ ॥

तत्पात्रं तु पुनः प्रोक्ष्य गन्धोदेन प्रपूरयेत् ।
तस्मिन् शिरसि (?) पुष्पं च न्यसेत्तोयं सपुष्पकम् ॥ २०।१३२ ॥

उद्धृत्य पूजामन्त्रेण ध्यात्वात्र महामुने ।
यद्रूपं चिन्तितं सम्यक् तद्रूपं चिन्त्य(?) साधकः ॥ २०।१३३ ॥

अवतीर्णं महाबेरादागच्छान्तेन मूर्ध्नि च ।
प्रोक्ष्य चैवासनं दद्यात् केवलेन जगद्गुरोः ॥ २०।१३४ ॥

प्रक्षिप्य वादमूले तु पुष्पमुष्टिं ततः परम् ।
नमस्कृत्याञ्जलिं पश्चात् दर्शयेन्मुनिसत्तम ॥ २०।१३५ ॥

अर्ध्यं पाद्यं तथाचामं दत्वा देवाय मन्त्रवित् ।
ततस्तु परिवाराणि पात्रशेषेण कल्पयेत् ॥ २०।१३६ ॥

परिवारक्रमं वक्ष्ये यथातत्त्वेन (यथातथ्येन?) नारद ।
आवाहनांशतोयेन कल्पेयत्तु यथाक्रमम् ॥ २०।१३७ ॥

पूर्वे तु वासुदेवं तु शुद्धस्फटिकसन्निभम् ।
शङ्खचक्रगदापाणिं पीताम्बरविभूषितम् ॥ २०।१३८ ॥

सङ्कर्षणं न्यसेद्याम्ये शशिबालार्कसन्निभम् ।
शङ्खचक्रसमोपेतं चतुर्बाहुविराजितम् ॥ २०।१३९ ॥

प्रद्युम्नं पश्चिमे न्यस्य शातकुम्भनिभं मुने ।
शङ्खचक्रगदापाणिं पीताम्बरविभूषितम् ॥ २०।१४० ॥

अनिरुद्धं न्यसेत्तस्मिन्नुत्तरे नीलरूपिणम् ।
शङ्खचक्रसमायुक्तं पीतवस्त्रं चतुर्भुजम् ॥ २०।१४१ ॥

श्रियं सुवर्णवर्णाभां श्वेतरूपां सरस्वतीम् ।
रक्तवर्णां रतिं पश्चात् शान्तिं कुङ्कुमसन्निभाम् ॥ २०।१४२ ॥

आग्नेयादिषु कोणेषु विन्यसेच्छक्तिरूपकम् ।
पैशाचे तु न्यसेत् पश्चात् शङ्खादीनां तु नारद ॥ २०।१४३ ॥

पूर्वे शङ्ख नियुञ्जीत श्वेतवर्णं स(च?)नादयुक् ।
कालाग्निसदृशाकारं दक्षिणे चक्रमुत्तमम् ॥ २०।१४४ ॥

पश्चिमे तु गदां न्यस्य हरिद्राभामनुत्तमाम् ।
रक्तवर्णनिभं पद्ममुत्तरे तु न्यसेद्बुधः ॥ २०।१४५ ॥

मुसलं कृष्णवर्णं तु आग्नेय्यां दिशि विन्यसेत् ।
नैरृतायां न्यसेत्तत्र खङ्गमाकाशसन्निभम् ॥ २०।१४६ ॥

पञ्चवर्ण तथा शार्ङ्गं वायव्ये तन्त्रवित्तमः ।
सर्ववर्णमयाकारां वनमालां तथैशके ॥ २०।१४७ ॥

एतद्द्ब्रिजीयावरणं गर्भागारे प्रकीर्तितम् ।
द्वारस्य दक्षिणे चण्डं कृष्णवर्णं चतुर्भुजम् ॥ २०।१४८ ॥

शङ्खचक्रगदापाणिं त्रिणेत्रं रक्तलोचनम् ।
एवं रूपं तु सञ्चिन्त्य प्रचण्डं तु ततः शृणु ॥ २०।१४९ ॥

शङ्खचक्रगदापाणिं रक्तवर्णं चतुर्भुजम् ।
द्वारस्योत्तरपार्श्वे तु त्रिणेत्रं भीमरूपिणम् ॥ २०।१५० ॥

पुरतो वैनतेयं च सुवर्णाभं कृताञ्जलिम् ।
करण्डमकुटं नीलवाससं प्रियदर्शनम् ॥ २०।१५१ ॥

नीलाग्रनासिकायुक्तं नागाभरणभूषितम् ।
एवं तु गरुडं चिन्त्य बलरामस्य मूर्तिवत् ॥ २०।१५२ ॥

यो भक्त्या देवमभ्यर्चेत् तथैव गरुडं यजेत् ।
भगवत्प्रमुखं पश्चाद्गरुत्मन्तं नियोजयेत् ॥ २०।१५३ ॥

रक्तवर्णं चतुर्बाहुं द्विबाहुं वा मुनीश्वर ।
सर्वाभरणसंयुक्तं सर्वशोभनशोभितम् ॥ २०।१५४ ॥

कालाग्निसदृशाकारं चक्रधृङ्मकुटान्वितम् ।
एवं चक्राधिदैवं तु पूजयेद्द्वारपार्श्वके ॥ २०।१५५ ॥

शङ्खाभं सौम्यरूपं तु सर्वाभरणभूषितम् ।
उपवीतयुतं श्वेतं शङ्खधृङ्मकुटान्वितम् ॥ २०।१५६ ॥

चतुर्बाहुं द्विबाहुं वा ध्यायेद्द्वारस्य वामके ।
धातारं पीतवर्णं विधातारमरुणप्रभम् ॥ २०।१५७ ॥

श्यामवर्णा तु भूमिः स्यात् रक्तवर्णां हरिप्रियाम् ।
दुर्गां च कोमलश्यामां श्वेतरूपं विनायकम् ॥ २०।१५८ ॥

शङ्खपद्मनिधी चैव श्वेतरक्तनिभौ मुने ।
गङ्गां च यमुनां चैव श्वेतकृष्णनिभे मुने ॥ २०।१५९ ॥

उत्कर्षणीं तु रक्तां वै कर्षणीं रक्तवर्णकाम् ।
एवं द्वारे तु सञ्चिन्त्य त्रिसन्ध्यायां(-सु?) प्रपूजयेत् ॥ २०।१६० ॥

नार्चयेदुपसन्ध्यायां चण्डादीन् द्वारपालकान् ।
अज्ञानादर्चयेन्मोहात् स्थाननाशो भविष्यति ॥ २०।१६१ ॥

दुर्भिक्षं जायते राष्ट्रं धनधान्यविनाशकृत् ।
तस्मात् सर्वप्रयत्नेन विधिनोक्तं समाचरेत् ॥ २०।१६२ ॥

विमानाग्नेययाम्ये तु तन्मध्ये गणनायकम् ।
पूर्ववद्वर्णकं चिन्त्य हस्तिवक्त्रं चतुर्भुजम् ॥ २०।१६३ ॥

विमाने दक्षिणे कुर्यात् दक्षिणामूर्तिमीश्वरम् ।
अक्षमालाधरं देवमष्टाक्षरपरायणम् ॥ २०।१६४ ॥

त्रिणेत्रं श्वेतसङ्काशं सौम्यं सोमार्धधारिणम् ।
नारदाद्यृषिसङ्घैश्च सेवितं दक्षिणामुखम् ॥ २०।१६५ ॥

एवं रहस्यरूपं ते सङ्क्षेपेण विधीयते ।
तस्य दक्षिणपाश्वे तु मातॄणामुत्तरामुखम् ॥ २०।१६६ ॥

कल्पयेन्मुनिशार्दूल सर्वसम्पत्सुखावहम् ।
आलयस्योत्तरे मातॄः कल्पयेद्बा मुनीश्वर ॥ २०।१६७ ॥

तेषां नाम क्रमाद्गुह्यं शृणुष्वावहितो ऽधुना ।
वागीश्वरीक्रियाकीर्तिः लक्ष्मीसृष्टिस्तथैव च ॥ २०।१६८ ॥

विद्याकान्तिश्च सप्तैताः कथिता विष्णुमातरः ।
उत्तरे पश्चिमे चैव हयास्यः श्रीधरस्तथा ॥ २०।१६९ ॥

वीरभद्रगणेशौ वा मातॄणां द्वारपालकौ ।
साधकेच्छानुरूपेण कल्पयेद्विष्णुमातरः ॥ २०।१७० ॥

मातरश्च सुवर्णाभाः श्रीधरः श्याम एव च ।
हयशीर्षःसुवर्णाभो वर्णा एताः (-ते?) प्रकीर्तिताः ॥ २०।१७१ ॥

तथैव वीरभद्रादि वर्णं तु परिपठ्यते ।
विमानपृष्ठभागे तु अनन्तमथ साधकः ॥ २०।१७२ ॥

पञ्चास्यपन्नगोर्ध्वे तु पञ्चवक्त्रैः(?)समावृतम् ।
चतुर्भुजं समासीनं शङ्खचक्रगदाधरम् ॥ २०।१७३ ॥

इत्थं हि लक्षणोपेतं सर्वदेवैर्नमस्कृतम् ।
सौम्यास्येशानयोर्मध्ये दुर्गां श्यामनिभां यजेत् ॥ २०।१७४ ॥

तस्योत्तरे तु विन्यस्य मम रूपं चमूपतेः ।
श्यामलं पिङ्गलाक्षं तु पिङ्गश्मश्रुः सनातनम् ॥ २०।१७५ ॥

शङ्खचक्रगदापाणिं चतुर्बाहुं किरीटिनम् (?) ।
पीताम्बरधरं सौम्यं विवृत्ताक्षिसमन्वितम् ॥ २०।१७६ ॥

तर्जयन् वामतर्जन्या नासाग्रासन्नया जगत् ।
एवं हि मम रूपं ते (तु?) पठ्यते मुनिसत्तम ॥ २०।१७७ ॥

परिवारविधानोक्तमथ बाह्येषु विन्यसेत् ।
द्वारस्य शङ्खचक्रे तु दक्षिणोत्तरतः स्मरेत् ॥ २०।१७८ ॥

दक्षिणे शङ्खवर्णं तु शङ्खचक्रगदाधरम् ।
चतुर्भुजं त्रिणेत्रं तु मूर्ध्नि शङ्खं न्यसेत् सदा ॥ २०।१७९ ॥

वामपार्श्वे न्यसेच्चक्रमग्निरूपं चतुर्भुजम् ।
त्रिणेत्रं भीमसङ्काशं शङ्खचक्रगदाधरम् ॥ २०।१८० ॥

तन्मूर्ध्नि विन्यसेच्चक्रं नीलाम्बरकिरीटिनम् ।
एवं तु लक्षणं प्रोक्तं शङ्चक्रादिरूपकम् (?) ॥ २०।१८१ ॥

इन्द्रादीशानपर्यन्तं स्वेषु स्थानेषु योजयेत् ।
वज्रहस्त्तं सहस्राक्षं सौम्यं तु श्यामलाकृतिम् ॥ २०।१८२ ॥

सौन्दर्यमिन्द्रदैवत्यं ध्यायेदिन्द्रं किरीटिनम् ।
त्रिशिखं रक्तवर्णाभं रक्तमाल्यैरलङ्कृतम् ॥ २०।१८३ ॥

त्रिपादं चाष्टबाहुं च रक्तनेत्रत्रयं मुने ।
रक्तकेशनखश्मश्रुवह्निरूपं सशक्तिकम् ॥ २०।१८४ ॥

धर्मराजं ततो ध्यायेत् सर्वलक्षणलक्षितम् ।
कालमेघनिभाकारं द्विभुजं दण्ण्डपाणिनम् ॥ २०।१८५ ॥

किरीटहारकेयूरमकुटादिविभूषितम् ।
सर्वप्रेताधिनाथस्य लक्षणं कथितं मया ॥ २०।१८६ ॥

ततस्तु रक्षसामीशं निरृतिं रक्तमूर्धजम् ।
खङ्गबाहुं महाकायं रक्तवक्त्रं त्रिणेत्रकम् ॥ २०।१८७ ॥

एतत्तु लक्षणं प्रोक्तं राक्षसाधिपतेस्ततः ।
सर्वलक्षणसंयुक्तं सर्वालङ्कारभूषितम् ॥ २०।१८८ ॥

श्यामलं पाशहस्तं च जलेशं पङ्कजासनम् ।
धूम्रवर्णनिभाकारं ध्वजयुक्तं महाभुजम् ॥ २०।१८९ ॥

द्विपादं च द्विहस्तं च सर्वेषां प्राणसञ्ज्ञितम् ।
इत्थं ते मुनिशार्दूल लक्षणं परिपठ्यते ॥ २०।१९० ॥

ध्यायेत् सौम्ये तु मतिमान् यक्षेश्वरमनुत्तमम् ।
तप्तहाटकसङ्काशं सर्वलक्षणलक्षितम् ॥ २०।१९१ ॥

द्विपादं च द्विहस्तं च दण्डपाणिं धनेश्वरम् ।
श्वेताद्रिशिखराकारं द्विपादं च चतुर्भुजम् ॥ २०।१९२ ॥

वृषध्वजं त्रिणेत्रं च शूलपाणीन्दुमौलिनम् ।
एवं ध्यायेत् क्रमात् सर्वान् स्वनाम्ना पूजयेत् पृथक् ॥ २०।१९३ ॥

एतत्तृतीयावरणे द्वारपार्श्वेन्दुसूर्ययोः ।
रक्तवर्णं महाकायं कम्बुग्रीवं चतुर्भुजम् ॥ २०।१९४ ॥

शङ्खचक्रगदापाणिं त्रिणेत्रं भीमरूपिणम् ।
चिन्तचेद्दक्षिणे पार्श्वे तृतीयद्वारके रविम् ॥ २०।१९५ ॥

कुन्दपुष्पनिभाकारं शङ्खचक्रगदाधरम् ।
चतुर्भुजं त्रिणेत्रं च पीतवस्त्रं च चिन्तयेत् ॥ २०।१९६ ॥

द्वारस्य वामपार्श्वे तु शशाङ्काकृतिमुत्तमम् ।
मौलिपृष्ठस्य सूर्यादौ चिन्तयेन्मण्डलाकृतिम् ॥ २०।१९७ ॥

एवं शशिं रविं ध्यात्वा तृतीयद्वारपार्श्वयोः ।
कुमुदादीनि सर्वाणि न्यसेत् पूर्वादिषु क्रमात् ॥ २०।१९८ ॥

कुमुदः कुमुदाक्षश्च पुण्डरीको ऽथ वामनः ।
शङ्कुकर्णःसर्पनेत्रः सुमुखः सुप्रतिष्ठितः ॥ २०।१९९ ॥

एतेषां लक्षणं प्रोक्तं ध्यायेदस्मिन् महोत्सवे ।
तद्वत् ज्ञात्वात्र भूतेशान् पूजयेत् साधकोत्तमः ॥ २०।२०० ॥

पुरतः स्थापयेत् सर्वान् विष्णुपारिषदान् बहून् ।
सर्ववर्णधराःसर्वे सर्वे शस्त्रास्त्रपाणयः ॥ २०।२०१ ॥

महापीठे तु संस्मृत्य सर्वान् भूतगणान्वितान् ।
पूजाकाले ततो ध्यायेत् स्वरूपं पूजकः क्रमात् ॥ २०।२०२ ॥

स्वनाम्ना परिवाराणां प्रणवादिनमोन्तकम् ।
अर्घ्यपाद्यादिभिर्वापि गन्धाद्यैर्वा मुनीश्वर ॥ २०।२०३ ॥

अर्चयेन्नित्यपूजायां प्रणवादिमनुस्मरन् ।
अस्मिन् तन्त्रे मया प्रोक्तं चण्डाद्यावरणार्चनम् ॥ २०।२०४ ॥

उत्सवे परिवाराणामर्चनाविधिरुत्तमः ।
तथैवाभ्यर्च्य मतिमान् परिवारानतन्द्रितः ॥ २०।२०५ ॥

एवमभ्यर्च्य भूतेशान् पश्चात् पूजां समाचरेत् ।
क्षालयेत् सर्वपात्राणि पूर्वोक्तेन विधानतः ॥ २०।२०६ ॥

सर्वद्रव्याणि सम्प्रोक्ष्य निरीक्ष्याद्येन मन्त्रतः ।
आवाहनादिभिः सर्वैरुपचारक्रमेण तु ॥ २०।२०७ ॥

देवदेवं समभ्यर्च्य स याति परमां गतिम् ।
उपचारक्रमं वक्ष्ये यथावदनुपूर्वशः ॥ २०।२०८ ॥

पूर्वमावाहनं कुर्यात् पुनरासनमेव च ।
तृतीयं पुष्पविक्षेपं तुरीयं तु नमस्कृतिम् ॥ २०।२०९ ॥

पञ्चमो ऽञ्जलिमुद्रा च (स्यात्?) षष्ठमर्ध्यं तथैव च ।
पाद्यं तु सप्तमं कुर्यात् तथाचमनमष्टमम् ॥ २०।२१० ॥

स्नपनं नवमं विद्याद्दशमो वसनं भवेत् ।
एकादशो भूषणं स्यात् द्वादशस्तूपवीतकम् ॥ २०।२११ ॥

त्रयोदशश्चाचमनं गन्धश्चैव चतुर्दशः ।
पुष्पं पञ्चदशश्चैव षोडशो धूप एव च ॥ २०।२१२ ॥

दीपः सप्तदशश्चैव मुद्राष्टादश उच्यते ।
हविरेकोनविंशश्च पानीयं विंशकस्तथा ॥ २०।२१३ ॥

एकविंशस्तथाचामः ताम्बूलं च द्वाविंशकः ।
उपचारस्त्रयोविम्श आचामस्तदनन्तरम् ॥ २०।२१४ ॥

मुखवासः पञ्चविंशः षड्विंशो गेयमुच्यते ।
पुराणं सप्तविंशश्च नृत्तहोममतः परम् ॥ २०।२१५ ॥

बलिभ्रमणमेकोनत्रिम्श अर्ध्यमतः परम् ।
पुष्पं वा मुनिशार्दूल दद्यादिच्छानुरूपतः ॥ २०।२१६ ॥

एकत्रिंशो मुखवासश्चोद्वासनमतः परम् ।
द्वात्रिंशदुपचाराणामुक्तमेवं महामुने ॥ २०।२१७ ॥

वक्ष्ये कलोपचाराणि (-रांस्तु?) शृणुष्वावहितो भव ।
आद्य आवाहनं पश्चात् आसनं तदनन्तरम् ॥ २०।२१८ ॥

पाद्यं तृतीय अर्ध्यं स्यादाचामं पञ्चमः स्मृतः ।
षष्ठं तु स्नपनं विद्यात् सप्तमो वसनं भवेत् ॥ २०।२१९ ॥

अष्टमस्तूपवीतं स्यान्नवमं गन्ध उच्यते ।
दशमः पुष्पविन्यासः धूप एकादशो भवेत् ॥ २०।२२० ॥

दीपस्ततः परं विद्यात् चरुणस्तु (चरोश्चैव?) निवेदनम् ।
चतुर्दश्यञ्जलिमुद्रा प्रदक्षिणमतः परम् ॥ २०।२२१ ॥

उद्वासनं षोडशः स्यादित्येवमपरःक्रमः ।
एवं षोडशधा प्रोक्ता उपचाराणि(-रांस्तु?)नारद ॥ २०।२२२ ॥

एकादशोपचाराणां क्रमं शृणु महामुने ।
आवाहनं तु प्रथमः द्वितीयश्चासनं भवेत् ॥ २०।२३३ ॥

अर्घ्य चानन्तरं विद्यात् पाद्यं चैव ततः परम् ।
देवस्याचमनं विद्यात् पञ्चमं तु विचक्षणः ॥ २०।२२४ ॥

गन्धं चानन्तरं विद्यात् सप्तमं पुष्पमेव च ।
धूपं तु चाष्टमं विद्यात् दीपस्तु नवमः स्मृतः ॥ २०।२२५ ॥

दशमस्तु निवेद्यं स्यादुद्वासनमतः परम् ।
मुख्यगौणक्रमेणैव विनियोगं ततः शृणु ॥ २०।२२६ ॥

यत्र पूजोत्तमा तत्र कुर्यान्मुख्योपचारकम् ।
मध्यमाराधनं यत्तु त्रकृध्यमप्रयोजयेत् ॥ २०।२२७ ॥

अर्चा कनीयसी यत्र तत्रैवैकादशेन तु ।
प्रयोज्यमिति शास्त्रस्य निश्चयः साधकोत्तमैः ॥ २०।२२८ ॥

सर्वे सर्वत्र वा पूजा देशकालानुरूपतः ।
साधकेच्छानुरूपेण कुर्याद्वा मुनिपुङ्गव ॥ २०।२२९ ॥

अनि(आरि?)राधयिषुर्मूत्रा यद्यद्वै साधकोत्तमः ।
तत्तद्वै मूर्तिमन्त्रेण कुर्यात् सर्वोपचारकम् ॥ २०।२३० ॥

स्नपने मन्त्रभेदो ऽस्ति मूर्तीनां मुनिसत्तम ।
नित्ये नैमित्तिके वापि विष्णोर्नुकमथावपि ॥ २०।२३१ ॥

नारायणोपनिषदं द्वादशाक्षरमेव च ।
नारायणं ब्राह्मणं(?)वा अतो देवी(-वे?)ति वा पुनः ॥ २०।२३२ ॥

सहस्रशीर्षं देवमष्टाक्षरमथापि वा ।
सहस्रशीर्षा पुरुषो मन्त्रं वा परमेष्ठिनः ॥ २०।२३३ ॥

एतेष्वन्यतमं वापि स्नपनं साधकः शुचिः ।
कुर्वन् स्वराष्ट्रमुद्धृत्य विष्णुलोकमवाप्नुयात् ॥ २०।२३४ ॥

केवलं मूलमन्त्रेण पूजकः पुरुषोत्तम ।
आवाहनादिभिः सर्वैरुपचारैः समर्चयेत् ॥ २०।२३५ ॥

सुगुणो वंशसम्पन्नो निर्देषो रोगवर्जितः ।
आवाहनादि कर्माणि सर्वाण्येतानि सर्वदा ॥ २०।२३६ ॥

अष्टाक्षरेण वा कुर्यात् मूर्तीनां मुनिसत्तम ।
पूजकस्योत्तमत्वाच्च निर्देषत्वान्महामुने ॥ २०।२३७ ॥

केवलं पुष्पमात्रेण देवेशस्तृप्यते ऽत्र तु ।
सा पूजा सफलं याति वृद्धिकृत् ग्रामराज्योः ॥ २०।२३८ ॥

एवं यः कारयेद्भक्त्या स याति परमां गतिम् ।
यतिर्वा ब्रह्मचारी वा पूजको मुनिसत्तम ॥ २०।२३९ ॥

द्विगुणं फलमाप्नोति नात्र कार्या विचारणा ।
एवं सम्पूजयेद्भक्त्या विष्णुं सकलमव्ययम् ॥ २०।२४० ॥

इह लोके श्रियं प्राप्य परलोके तथैव च ।
सर्वान् कामानवाप्नोति सर्वयज्ञफलं भवेत् ॥ २०।२४१ ॥

विशेषमत्र वक्ष्यामि आत्मार्थस्य परस्य च ।
उपचारक्रमं सर्वं साधकानां हिताय तु ॥ २०।२४२ ॥

अर्घ्यादिमुखवासन्तं क्रमाद्देवाय कल्पयेत् ।
अर्घ्यं पाद्यं तथाचामः मधुपर्कः पुनश्च तत् ॥ २०।२४३ ॥

ताम्बूलं गन्धपुष्पं च अक्षतो धूप एव च ।
दीपो ह्यञ्जलिमुद्रा तु निवेद्यं तु महामुने ॥ २०।२४४ ॥

पानीयाचमनीयं च मुखवासस्तथैव च ।
एवं क्रमो मुनिश्रेष्ठ तत्क्रमेणाथवार्चयेत् ॥ २०।२४५ ॥

क्षालयेत् सर्वपात्राणि पूर्ववत्तन्त्रवित्तमः ।
तत्तत् पात्रेषु तद्द्रव्यं निक्षिप्यापूर्य पुष्पकम् ॥ २०।२४६ ॥

अर्घ्यतोयं स्वमन्त्रेण मुखमालेपयद्धरेः ।
पाद्यं देवस्य पादे च दीयते(दद्याद्वै?)स्वस्वविद्यया ॥ २०।२४७ ॥

देवस्य दक्षिणे हस्ते ह्याचामं मधुपर्ककम् ।
पुनराचामताम्बूलं तथैव च पुनः पुनः ॥ २०।२४८ ॥

जातिश्रीकण्ठ(-खण्ड?)मादाय पेषयेत् पिष्ठपङ्कवत् ।
कर्पूरेण समायुक्तं कुडुबद्वयपूरितम् ॥ २०।२४९ ॥

केवलं चन्दनं वापि गन्धं षण्मुष्टिमात्रकम् ।
पुष्पप्रस्थचतुष्कैस्तु मूर्तीनां तु पृथक्पृथक् ॥ २०।२५० ॥

दापयेत्तु प्रयत्नेन साधकः परमार्थवित् ।
धूपं सुरभिणा व्याप्तं प्राप्तज्वालोच्छ्रितोज्ज्ञितम् ॥ २०।२५१ ॥

बहुरेखमनारग्न्यं दशमात्रं प्रदापेयत् (?) ।
दीपं सप्ताङ्गुलोत्थानं घृतकर्पूरदीपितम् ॥ २०।२५२ ॥

धूपं तु दापयेद्गन्धं नासिकायां तु दक्षिणे ।
दद्याद्यथाक्रमं सर्वं वासुदेवाय भक्तितः ॥ २०।२५३ ॥

कलमादीनि (?) सर्वाणि शेषाङ्गं मर्दयेद्बुधः ।
वामहस्तेन मन्त्रज्ञः पुष्पं गृह्य समाहितः ॥ २०।२५४ ॥

दक्षिणेन करेणैव दद्याद्देवस्य पादयोः ।
मुष्टिमात्रं प्रदद्यात्तु त्रिवारेण (-रं च?) स्वविद्यया ॥ २०।२५५ ॥

मध्यमानामिकामध्ये चाङ्गुष्ठेन समन्वितम् ।
अक्षतं तु ततो दद्यात् तथैव च पुनः पुनः ॥ २०।२५६ ॥

देवस्य वामनासौ च(-नासायां?) धूपं दद्यात् समाहितः ।
दक्षिणे देवदृक्पार्श्वे दीपं दद्यात्तु मन्त्रवित् ॥ २०।२५७ ॥

त्रिमात्रकं तु मुद्राया दर्शनं दक्षिणादृशि ।
कपिलाज्येन संस्राव्य ह्यन्नसुक्तेन संस्पृशेत् ॥ २०।२५८ ॥

परिषिच्यादि मन्त्रेण पाणिं दद्यात्तु पाणिना (?) ।
दद्यात्तद्दक्षिणे हस्ते हविःप्राशनमुद्रया ॥ २०।२५९ ॥

पानीयाचमनीयं च मुखवासं तथैव च ।
एवं षोडशधा प्रोक्तं विशेषेणोपचारकम् ॥ २०।२६० ॥

दद्याद्यथाक्रमं सर्वं भक्तिपूतेन चेतसा ।
ततस्तु साधकः सम्यक् प्रणम्याञ्जलिमुद्रया ॥ २०।२६१ ॥

देवस्य पादौ हस्ताभ्यां संस्पृशेत्तत् समाहितः ।
ततस्त्वथर्ववेदे तु शौनकायां तु शाखया ॥ २०।२६२ ॥

नारायणोपनिषदं उच्चार्य च पुनः पुनः ।
त्रिभिः काण्डैःसमुच्चार्य मन्त्रेणैव महामुने ॥ २०।२६३ ॥

देवेशस्तृप्यते चैव नात्र कार्या विचारणा ।
राजराष्ट्रविवृद्धिः स्यात् ग्रामादिषु तथैव च ॥ २०।२६४ ॥

अर्चयेन्नान्यथा मोहादाभिचारकरो भवेत् ।
सा पूजा निष्फला चैव रोगवृद्धिर्भविष्यति ॥ २०।२६५ ॥

तस्मात् सर्वप्रयत्नेन त्रिभिः काण्डैः समर्चयेत् ।
अग्निकार्यं तु पूर्वोक्तं कुर्यात्तन्त्रविचक्षणः ॥ २०।२६६ ॥

समिधो मूलमन्त्रेण आज्यमाज्येन मन्त्रतः ।
चरुं पुरुषसूक्तेन प्रत्येकं षोडशाहुतीः ॥ २०।२६७ ॥

हुत्वा हुत्वाग्निमध्ये तु साधको मन्त्रवित्तमः ।
शेषद्रव्याणि सर्वाणि पूर्वोक्तेनैव कारयेत् ॥ २०।२६८ ॥

अग्निकार्यं समाप्यैवं बलिदानमथोच्यते ।
बलिदानक्रमः सर्वः सङ्क्षेपाद्वक्ष्यते ऽधुना ॥ २०।२६९ ॥

नित्ये नैमित्तिके चैव सर्वसम्पत् सुखावहम् ।
स्वर्णादीनां तु पात्राणां लक्षणं कथ्यते ऽधुना ॥ २०।२७० ॥

तालं तु कर्णिका प्रोक्तं तत्पादार्धतलं तथा ।
पादं तु तद्बहिः कुर्यात् तदन्ते वलयं भवेत् ॥ २०।२७१ ॥

बलिपात्रं समाख्यातं ताम्रराजतहैमकम् ।
उत्तमाधममध्यं स्यात् विभवस्यानुरूपतः ॥ २०।२७२ ॥

कारयेद्बलिपात्रं तु एकद्रव्येण शिल्पिना ।
आचार्यो ऽलङ्कृतः सम्यक् पात्रमादाय मण्डले ॥ २०।२७३ ॥

साधितं प्रोक्षितं पश्चात् गालितेनोदकेन तु ।
तस्मिन्मध्ये तु कुर्वीत सुदृढं हविषासनम् ॥ २०।२७४ ॥

कर्णिकारपरीमाणं यत्तावद्विस्तारमुच्यते ।
चतुरङ्गुलमुत्सेधमन्नपीठस्य नारद ॥ २०।२७५ ॥

लक्षणं चात्र सम्प्रोक्तं नित्यपूजोत्सवस्य तु ।
महोत्सवे न कुर्वीत चान्नपीठस्य चोपरि ॥ २०।२७६ ॥

कारयेच्छिबिकाद्येषु बलिभ्रमणमुत्तमम् ।
कल्पयेत् सपरीवारमन्तरावरणस्थितम् ॥ २०।२७७ ॥

तस्मिन् पात्रोपरि न्यस्य स्वनाम्ना मुनिसत्तम ।
अन्नोपरि पटं न्यस्य पुष्पैरन्यैः प्रकीर्य च ॥ २०।२७८ ॥

वस्त्रैराभरणैश्चित्रैः गन्धैः पुष्पैरलङ्कृतम् ।
सुवर्णकुसुमैश्चित्रैः प्रभावासितसंयुतम् (?) ॥ २०।२७९ ॥

वासिकाद्याभिर्मालाभिः (?)भूषितं सुमनोरमम् ।
सौवर्णं राजतं वापि ताम्रं वातीव सुन्दरम् ॥ २०।२८० ॥

तस्मिन् तिष्ठापयेद्बिम्बं स्वस्वमूर्त्यनुसारतः ।
अलाभे काञ्चने वापि राजतं ताम्रमेव वा ॥ २०।२८१ ॥

तण्डुलं च चरुं पुष्पं प्रातर्मध्याह्न एव च ।
प्रदोषे च बलिं कुर्यात् यथायोगक्रमेण तु ॥ २०।२८२ ॥

अर्घ्यादि चाष्टमं दद्यात् मुखवासान्तमेव वा ।
दीपान्तं वा प्रदातव्यं स्वेन मन्त्रेण देशिकः ॥ २०।२८३ ॥

अन्यपात्रे तु मन्त्रज्ञः चान्नं तोयसमन्वितम् ।
गन्धपुष्पसमायुक्तं स्वस्तिवाचनसंयुतम् ॥ २०।२८४ ॥
पीठे पीठे मुनिश्रेष्ठ बलिदानं समाचरेत् ।
शङ्खघोषसमायुक्तं धूपदीपसमन्वितम् ॥ २०।२८५ ॥

वितानध्वजसंयुक्तं छत्रचामरशोभितम् ।
तूर्यवादित्रघोषैश्च जयशब्दसमन्वितम् ॥ २०।२८६ ॥

शिष्यमभ्यर्च्य गन्धाद्यैः गरुडं संस्मरेत् स्वयम् ।
विद्यानामादिमन्त्रेण पात्रमुत्थापयेद्गुरुः ॥ २०।२८७ ॥

स्थापयेन्मूर्ध्नि शिष्यस्य बलिपात्रमनुत्तमम् ।
तत्पात्रे स्थापयेद्देवं गच्छमानं (-न्तं च?) प्रकल्पयेत् ॥ २०।२८८ ॥

शनैः शनैर्मुनिश्रेष्ठ शङ्खाद्यैर्गेयसंयुतम् ।
बलिभ्रमणकाले तु बिम्बाग्रे बलिमाचरेत् ॥ २०।२८९ ॥

यो मोहाद्बिम्बहीने तु बलिकर्मणि चेन्मुने (?) ।
तत्स्थानं निधनं याति तत्रस्था नरकं व्रजेत् ॥ २०।२९० ॥

तस्मात् सर्वप्रयत्नेन बिम्बाग्रे बलिमाचरेत् ।
प्रतिमाचार्ययोर्मध्ये गमनं वर्जयेत्ततः ॥ २०।२९१ ॥

गमनं यदि चेत्तत्र स्नपनं पञ्चगव्यकैः ।
तदन्ते गन्धतोयेन स्नापयेत्तेन मूर्तिना (?) ॥ २०।२९२ ॥

पुण्याहघोषसंयुक्तं स्वस्तिसूक्तरवैर्युतम् ।
मन्त्राणामादिमन्त्रेण मूर्तिमन्त्रेण वा मुने ॥ २०।२९३ ॥

समिदाज्येन चरुणा प्रत्येकैकाहुतिं क्रमात् ।
हुत्वा स्वे स्वे तु जुहुयात् स्वाहान्तेन यथाक्रमम् ॥ २०।२९४ ॥

पश्चात् पूर्णाहुतिं हुत्वा शेषकर्म समाचरेत् ।
आद्यं प्रदक्षिणं कृत्वा नृत्तगेयसमन्वितम् ॥ २०।२९५ ॥

द्वितीयं च परिभ्रम्य गेयतूर्यसमन्वितम् ।
तृतीयं तु परिभ्रम्य तूर्यैर्नानाविधैर्युतम् ॥ २०।२९६ ॥

चण्डप्रचण्डप्रभृति महापीठान्तमेव च ।
अर्घ्यपाद्यादिनाभ्यर्च्य गन्धाद्यैर्जलसंयुतम् ॥ २०।२९७ ॥

परिवारान् समभ्यर्च्य यथापूर्वं प्रकल्पितम् ।
बलिभ्रमान्तं कृत्वा तु महापीठप्रदक्षिणम् ॥ २०।२९८ ॥

तृतीयसवने गत्वा पुनः कुर्यात् प्रदक्षिणम् ।
शङ्खशब्दत्रयं कुर्यात् गोपुरे निःस्वनं गता(?) ॥ २०।२९९ ॥

विमानद्वारमासाद्य आर्घ्यं वा पुष्पमेव वा ।
दत्वा तन्मूर्तिमन्त्रेण गर्भागारे(-रं?) प्रवेशयेत् ॥ २०।३०० ॥

पीठस्य दक्षिणे पार्श्वे बलिबिम्बं प्रसादयेत् ।
पाद्यादि चतुरो दद्यात् कर्मार्चायां तथैव च ॥ २०।३०१ ॥

बलिपात्रस्थितं पुष्पं ममाग्रे निक्षिपेद्बुधः ।
अन्नपीठं सतोयं च महापीठे विनिक्षिपेत् ॥ २०।३०२ ॥

प्रक्षाल्य पादौ हस्तौ च आचम्य विधिना पुनः ।
न्यासं कृत्वा विधानेन मूर्तिमन्त्रेण पूर्ववत् ॥ २०।३०३ ॥

ककुदन्तं ललाटादि न्यसेद्देहे यथाक्रमम् ।
सहस्रं वा शतं वापि अष्टाविंशमथापि वा ॥ २०।३०४ ॥

स्वेन स्वेन तु मन्त्रेण यथाशक्ति जपेत् क्रमात् ।
नमस्कारं क्रमात् कृत्वा तन्मूर्तिस्तुतिभिः क्रमात् ॥ २०।३०५ ॥

जपेन्मन्त्री स्वमन्त्रेण देवदेवस्य सन्निधौ ।
अस्मिन् काले तु देवेशस्तृप्यते(?)नात्र संशयः ॥ २०।३०६ ॥

सर्वान् कामानवाप्नोति ग्रामराज्ञोश्च वृद्धिकृत्(?) ।
अन्यथा देवदेवेशः कुप्यते(?)नात्र संशयः ॥ २०।३०७ ॥

तस्मात् सर्वप्रयत्नेन जपेन्मूर्तिस्तुतिं बुधः ।
पुष्पं दत्वा नमस्कृत्य मूलबेरे नयेद्धरिम् ॥ २०।३०८ ॥

आवाहनं यथापूर्वं तद्वदुद्वासनं कुरु ।
आलोक्य दत्तमित्याहुः बलिदानोत्तमं परम् ॥ २०।३०९ ॥

सङ्क्षेपेण मया प्रोक्तं वक्ष्ये दत्तावलोकनम् ।
अथवा परिवाराणां बलिदानविधिक्रमम् ॥ २०।३१० ॥

प्रवक्ष्यामि मुनिश्रेष्ठ गुह्याद्गुह्यतरं शृणु ।
झल्लरीमद्दलैर्युक्तं नानावाद्यसमन्वितम् ॥ २०।३११ ॥

नित्योत्सवस्य पूर्वे तु बलिदानं समाचरेत् ।
सर्वालङ्कारसंयुक्तं वितानध्वजसंयुतम् ॥ २०।३१२ ॥

नृत्तगीतसमायुक्तं पश्चाद्बिम्बं परिभ्रमेत्(?) ।
मध्यमं बलिदानं तच्चण्डादिभ्यो ह्यतन्द्रितः ॥ २०।३१३ ॥

दत्तावलोक्यकं(-कनं?) नाम राज्ञो राष्ट्रस्य वृद्धिकृत् ।
एवं दिने दिने कुर्यात् परिवारबलिक्रमम् ॥ २०।३१४ ॥

एवं सङ्क्षेपतः प्रोक्तो नित्योत्सवबलिभ्रमः ।
विशेषं चात्र वक्ष्यमि परार्थे बलिकर्मणि ॥ २०।३१५ ॥

शृणुष्वावहितो भूत्वा गुह्याद्गुह्यतरं मुने ।
इन्द्रादिलोकपालान् वा कल्ययेत् क्रमयोगतः ॥ २०।३१६ ॥

एकावरणमार्गं चेत् परिवारबलिक्रमम् ।
प्रथमावरणे कुर्यात् विघ्नेशादीन् विवर्जयेत् ॥ २०।३१७ ॥

चण्डादिशर्वपर्यन्तं संस्थाप्य बलिमाचरेत् ।
पश्चाद्बलिं महापीठे संस्थाप्य प्रथमं मुने ॥ २०।३१८ ॥

शङ्खादिगेयसंयुक्तं द्वितीयं भ्रामयेद्धरिम् ।
नानावाद्यसमायुक्तं तृतीयं भ्रामयेद्धरिम् ॥ २०।३१९ ॥

पश्चाद्देवं महाभागो नीत्वार्घ्याद्यैःसमर्चयेत् ।
शङ्खादिगेयसंयुक्तं द्वितीयं भ्रामयेद्धरिम् ॥ २०।३२० ॥

नानावाद्यसमायुक्तं तृतीयं भ्रामयेद्धरिम् ।
पश्चाद्देवं महाभागो नीत्वार्घ्याद्यैः समर्चयेत् ॥ २०।३२१ ॥

पाद्योदकं गृहीत्वा तु भक्तान् सम्प्रोक्ष्य मन्त्रवित् ।
एवं बलिविधिः प्रोक्तो एकावरणपूजने ॥ २०।३२२ ॥

पुनः प्राकारमत्रैव कल्पितश्चेन्मुनीश्वर (?) ।
चण्डादीशावसानं तु प्रथमावरणे न्यसेत् ॥ २०।३२३ ॥

शेषाणि परिवाराणि द्वितीये च तृतीयके ।
इन्द्रादि सुप्रतिष्ठान्तं पुनःसंस्थाप्य मन्त्रवित् ॥ २०।३२४ ॥

पूर्वोक्तेन विधानेन बलिदानं समाचरेत् ।
सा पूजा सफला भूत्वा वर्धते श्रीर्दिने दिने ॥ २०।३२५ ॥

राज्ञो राष्ट्रस्य वृद्धिः स्यात् आलयस्य तथैव च ।
एवं दिने दिने कुर्यात् तृतीयावरणावृतम्(?) ॥ २०।३२६ ॥

एवमेव बलिं कुर्यात् द्वितीयावरणालये ।
अर्घ्यावसानं पूवोक्तमार्गेण प्रथमे न्यसेत् ॥ २०।३२७ ॥

विध्नेशादि(?)मुनिश्रेष्ठ प्रथमं(मे?) बलिमाचरेत् ।
प्रथमावरणे पश्चात् इन्द्रादीनां बलिं हरेत् ॥ २०।३२८ ॥

तृतीयावरणे पश्चात् कुमुदादिबलिं हरेत् ।
तं बलिं मध्यममिदं पूर्वा पूर्वा गरीयसी (?) ॥ २०।३२९ ॥

अन्यथाफलमाप्नोति दुर्भिक्षानर्थदा भवेत् ।
तस्मात् कुर्यात् प्रयत्नेन बलिं विणोर्विधानतः ॥ २०।३३० ॥

वृक्षमूले ऽद्रिमूले वा कुड्ये वात्र गुहान्तरे ।
किञ्चिदस्मिन् विशेषो ऽस्ति तत्क्रमं शृणु नारद ॥ २०।३३१ ॥

देवाग्रे पूर्ववत् कल्प्य मण्डपं सपरिच्छदम् ।
तत्रोपलिप्य विधिवत् हस्तमात्रं समन्ततः ॥ २०।३३२ ॥

तन्मध्ये शक्तिमावाह्य पात्रे पादुकसंयुते ।
अर्घ्यादिसप्तमं दत्वा पृथक् पाद्यादिभिः क्रमात् ॥ २०।३३३ ॥

मण्डपं परितः कल्प्य परिवारान् विशेषतः ।
एकावरणमार्गेण मण्डपं भ्रामयेत् क्रमात् ॥ २०।३३४ ॥

मत्स्यादीनां तु देवर्षे एवमेव समाचरेत् ।
बलिदानं मुनिश्रेष्ठ शेषं पूर्ववदाचरेत् ॥ २०।३३५ ॥

अन्यथाफलमाप्नोति कर्ता भर्ता च नश्यति ।
केवलं बलिदानं तु प्रवक्ष्यामि शृणु क्रमात् ॥ २०।३३६ ॥

होमोत्सवविहीनं चेत् साधको मुनिसत्तम ।
पञ्चोत्तरदशान् सर्वान् चण्डादिद्वारपालकान् ॥ २०।३३७ ॥

पूजयेन्मुनिशार्दूल गन्धपुष्पादिभिः क्रमात् ।
तद्द्वारे बलिरित्याहुरधमः परिपठ्यते ॥ २०।३३८ ॥

उत्तमे ऽप्युत्तमं कुर्यात् मध्यमे मध्यमं कुरु ।
अधमे ऽप्यधमं कुर्यात् विभवस्यानुरूपतः ॥ २०।३३९ ॥

नित्योत्सवस्य पूर्वे तु कारयेत्तु विशेषतः ।
बलिदानं मुनिश्रेष्ठ पश्चाद्देवं परिभ्रमेत् ॥ २०।३४० ॥

अधमाधममित्याहुः परिवारविहीनतः ।
दत्तावलोक्यकं नाम तद्ग्रामस्यैव वृद्धिकृत् ॥ २०।३४१ ॥

अलङ्काराणि सर्वाणि चास्मिन् पूर्ववदाचरेत् ।
इत्युत्तमादि सम्प्रोक्तो बलिकर्मविधिर्मया ॥ २०।३४२ ॥

एवं सक्षेपतः प्रोक्तो नित्योत्सवविधिर्मुने ।
साधकेच्छानुरूपेण कारयेदेकधात्र तु ॥ २०।३४३ ॥

आत्मार्थं वैदिकेनैव तान्त्रिकेणैव वा मुने ।
परार्थे तान्त्रिकेणैव मिश्रितं वा हरिं परम् ॥ २०।३४४ ॥

अर्चयेत् पूर्ववद्धीमान् राज्ञो राष्ट्रस्य वर्धनम् ।
परार्थे वैदिकेनैव न कुर्यात्तु कथञ्चन ॥ २०।३४५ ॥

तस्मात् सर्वप्रयत्नेन मिश्रितं तान्त्रिकेण तु ।
स्वार्थ आवाहनं कुर्यात् फलकाद्वा पटादपि ॥ २०।३४६ ॥

सूर्यमण्डलमध्याद्वा परार्थे मूलबेरकात् ।
एकबेरं तु सन्त्यज्योद्वासनावाहनेन तु ॥ २०।३४७ ॥

कुर्यात् स्वार्थे परार्थे च शैलबिम्बे विशेषतः ।
तथैव बालगेहस्य बिम्बस्य मुनिसत्तम ॥ २०।३४८ ॥

आवाहनं विसर्गं तु न स्मरेच्छेषमाचरेत् ।
अशक्तो ऽनधिकारी वा स्वार्थं यः कारयत्यपि ॥ २०।३४९ ॥

परेण तत्कुलं सर्वं स्वकुलं तारयिष्यति ।
विष्णोर्निवेदितं सर्वं ममापि प्रियमेव च ॥ २०।३५० ॥

हस्तयोरङ्गुलीनां तु स्वाङ्गुष्ठानामिकेन तु ।
निर्माल्यं मोचयित्वा तु प्राणानायम्य मानसः(?) ॥ २०।३५१ ॥

तेन(?) माल्यं च तद्द्रव्यं मम प्रीतिकरं शुभम् ।
तन्माल्यं चैव तद्द्रव्यं भक्तानां चैव दापयेत् ॥ २०।३५२ ॥

मत्पूजा तद्विमाने तु विना चेन्मुनिसत्तम ।
सा पूजा निष्फला भूयात् ग्रामस्यानर्थकृद्भवेत् ॥ २०।३५३ ॥

काकश्वानादि(?)जन्तूनां पाषण्डीनां तथैव च ।
वेदविक्रयकानां च वेदनिन्दकमेव च (?) ॥ २०।३५४ ॥

शूद्रान्नतत्पराणां च नास्तिकानां विशेषतः ।
एवमादीनि जातीनां(?) भक्षणार्थं न दापयेत् ॥ २०।३५५ ॥

अविचारेण वा मोहात् दत्वा रौरवमाप्नुयात् ।
न लङ्घयीत निर्माल्यं ममापि पुरुषोत्तम ॥ २०।३५६ ॥

यश्चेत्तु लङ्घयेत्(-ते?)मोहात् महान् दोषो भविष्यति ।
महारौरवमायाग्नौ निमग्नस्तत्र दोषभाक् ॥ २०।३५७ ॥

द्विजात्यादित्रिवर्णान्तं वैष्णवानां विशेषतः ।
त्रेताग्नीनां व्रतस्थानं यतीनां शान्तचेतसाम् ॥ २०।३५८ ॥

दीक्षितानां तपस्वीनां वन्ध्यादिषु तथैव च ।
एवमादीनि भक्तानां(?)दापयेद्देवसन्निधौ ॥ २०।३५८ ॥

तस्मात् सर्वप्रयत्नेन वर्जितानां न दापयेत् ।
एवं यः कारयेद्भक्त्या विष्णुपूजामनुत्तमाम् ॥ २०।३६० ॥

मोक्षदं मोक्षमिच्छूनां धनदं धनकामिनाम् ।
अन्नदं चान्नमिच्छूनां सर्वकामप्रदं शुभम् ॥ २०।३६१ ॥

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [पूजाभेदकथनं नाम] विंशोध्यायः ॥