१९

एकोनविंशो ऽध्यायः

विष्वक्सेनः—
अतः परं प्रवक्ष्यामि चाङ्गन्यासादिलक्षणम् ।
शृणु गुह्यमना भूत्वा साधकानां हिताय वै ॥ १९।१ ॥

अङ्गन्यासक्रमं चैव मुद्राया लक्षणं तथा ।
फलानि विविधान्यत्र सर्वविद्याप्रकाशकम् (?) ॥ १९।२ ॥

आचार्यः प्रयतो भूत्वा प्राङ्मुखो वाप्युदङ्मुखः ।
पङ्कजं वासनं बद्ध्वा स्वस्तिकं वा यथेच्छया ॥ १९।३ ॥

पूजारम्भे ऽञ्जलिं कृत्वा नमस्कृत्य यथाविधि ।
उत्ताने वामहस्ताग्रे तिर्यग्दक्षिणमञ्जसा ॥ १९।४ ॥

मण्डलाकृति संस्पृश्य(?)वामान्तमितरेण तु ।
वामाङ्गुष्ठं ततो बद्ध्वा मुष्ट्योर्ध्वाङ्गुष्ठया मुने ॥ १९।५ ॥

मुष्टिं कृत्वा गतो धाम ध्यात्वा मन्त्रं समाहितः ।
संस्पृश्य हृदयं देवं त्रिमात्रे शिरसा तथा ॥ १९।६ ॥

प्रणम्य पाणिव्यत्यासं बद्ध्वा मुद्रां तथा पुनः ।
प्रविश्याञ्जलिमुद्रां तु पूजामन्त्रेण मन्त्रवित् ॥ १९।७ ॥

नमो ऽन्तं हृदयं मूर्ध्नि शिखायां कवचे तथा ।
अस्त्रे नेत्रे ततो ध्यात्वा तच्चिह्नेन न्यसेद्बुधः ॥ १९।८ ॥

मुद्राया लक्षणं चापि निरुक्तं च ततः शृणु ।
लब्धया तु यया यस्मात् साधको देववैरिणाम् ॥ १९।९ ॥

द्रावयीत मुदं तस्मात् मुद्रा तल्लक्षणं शृणु ।
बद्धायास्तु बहिर्मुष्ट्या ऋजुमङ्गुष्ठमायतम् ॥ १९।१० ॥

कृत्वातो मध्यमायां तु तन्मूलं हृदये स्पृशेत् ।
आहृत्य तर्जनीं सम्यक् बद्ध्वाङ्गुष्ठेन मुष्टिकम् ॥ १९।११ ॥

अथाङ्गुष्ठललाटान्ते शिखोर्ध्वमहतीं तथा (?) ।
बृहदग्रद्वयेनैव क्षुद्रमुद्रस्य(?) बन्धनम् ॥ १९।१२ ॥

हस्ताभ्यामूर्ध्वमायम्य कृत्वा चानाभिमण्डलम् ।
कवचस्य धिया न्यस्य कवचस्य तु मुद्रिका ॥ १९।१३ ॥

अपरास्त्रस्य मुद्रैषा कथ्यते दक्षिणाग्रकम् ।
मुष्टिं बद्ध्वा ततस्तर्जन्यग्रमङ्गुष्ठरेखया ॥ १९।१४ ॥

स्पृष्ट्वा स्फोटमुदक्षेपः पूर्वादि दशदिक्ष्वपि ।
कनिष्ठानामिके बद्ध्वा नहता तलमध्यगे ॥ १९।१५ ॥

तर्जनीमध्यमाग्राभ्यां नेत्रयोर्नेत्रमुद्रिका ।
मध्यमुत्थापितं कृत्वा हस्तं सङ्कोच्य यत्नतः ॥ १९।१६ ॥

कनीयसं तु संहृत्य शेषयोरुभयोरपि ।
अथो वक्त्रमुखां शेषाङ्गुलिना वामकेन तु (?) ॥ १९।१७ ॥

करेण दक्षिणं स्पृष्ट्वा भ्रामयेद्दीपमुद्रिका ।
ललाटे हृदि वा सम्यक् सम्पुटो ऽञ्जलिरूर्ध्वगः ॥ १९।१८ ॥

नाम्ना मुद्रेयं विज्ञेया प्रणामे ऽञ्जलिमुद्रिका ।
उक्तानामिह वान्येष्वप्यनुक्तानां प्रयत्नतः ॥ १९।१९ ॥

प्रदर्शने ऽप्यशक्तः सन् अञ्जलिं तु प्रदर्शयेत् ।
अञ्जलिर्नाम मुद्रेयं सर्वमुद्रामया प्रिया ॥ १९।२० ॥

विष्णोः प्रणाममुद्रैषा सर्वकामान् प्रदापयेत् ।
एताभिर्न्यस्तसर्वाङ्गो जपहोमादिकान् मुने ॥ १९।२१ ॥

यः करोति स्वरक्षां च दीर्घमायुर्यशस्करम् ।
सुखमैश्वर्यबलतां कल्प्यतां च लभेत् पराम् ॥ १९।२२ ॥

विद्या हि विविधां श्रेष्ठां भुक्तिमुक्तिस्तथैव च ।
राष्ट्रो यस्योदितानां तु विद्यानामेकया मुने ॥ १९।२३ ॥

मूर्तिमन्त्रप्रकारेण साधकः सकृदर्चयेत् ।
तस्य सर्वमभिप्रायं सिद्ध्यत्येव न संशयः ॥ १९।२४ ॥

अनावृष्टिभयं नास्ति अतिवृष्टिभयं तथा ।
व्याधिदुर्भिक्षचोरादि पीडाकालमृतिस्तथा ॥ १९।२५ ॥

बहुनात्र प्रलापेन किं सर्वान् साधयिष्यति ।
यद्यत् कामयते स्वस्य समृद्धं पुरुषो भुवि ॥ १९।२६ ॥

तत्तदेव लभेत् सम्यक् हरेस्तस्य निवेदयेत् ।
साधकश्चापि वा भक्त्या प्रयतः सम्यगर्चयेत् ॥ १९।२७ ॥

तत्तत्सर्वं लभेदेवं मृष्टान्नं नात्र संशयः ।
नृपो वा नृपमात्रो वा वेदमन्त्रैस्तथा मुने ॥ १९।२८ ॥

मूर्तिमन्त्रैरशक्तो वा स्वद्रव्यैरर्चनादिकान् ।
कारयीत मुनिश्रेष्ठ साधकेन यथाविधि ॥ १९।२९ ॥

सफलं सुकृतं प्राप्य विष्णुसारूप्यमृच्छति ॥

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [अङ्गन्यासादि- विधिर्नाम] एकोनविंशो ऽध्यायः ॥