अष्टादशो ऽध्यायः
विष्वक्सेनः—
अथातः सम्प्रवक्ष्यामि देवीनां स्थापनं परम् ।
तयोर्विवाहं होमं च शृणु गुह्यमनुक्रमात् ॥ १८।१ ॥
देवं पूर्वं प्रतिष्ठाप्य तत्काले प्रोक्षयेन्मुने ।
श्रियादीनां(?)स्वमन्त्रेण महाकुम्भस्थवारिणा ॥ १८।२ ॥
पृथक् चेन्मुनिशार्दूल देवीस्थापनमाचरेत् ।
मण्डपं पूर्ववत् कृत्वा दशहस्तसमन्वितम् ॥ १८।३ ॥
वेदिकां पूर्ववत् कृत्वा मण्डपस्थानुरूपतः ।
हस्तमात्रं तदर्धं वा कुण्डानि परितः क्रमात् ॥ १८।४ ॥
कारयेत्तद्विधानेन शिल्पिभिः सह साधकः ।
चतुरश्राणि सर्वाणि कीर्तितानि श्रियः क्रमात् ॥ १८।५ ॥
भूमेर्वृतानि(?)कुण्डानि तदङ्गानां तथैव च ।
शान्तिं लक्ष्मीं च वाग्देवीं रतिं पूर्वादि चाग्निषु ॥ १८।६ ॥
श्वेतां पद्मोत्पलश्यामां ध्यात्वा तु जुहुयात् क्रमात् ।
लक्ष्मीं सरस्वती चैव रतिः प्रीतिस्थथैव च ॥ १८।७ ॥
कीर्तिः शान्तिस्तथा तुष्टिः पुष्टिश्चैव यथादिशम् ।
पूर्वादिकलशानां तु वेदिकायां तु देवताः ॥ १८।८ ॥
महामुम्भं तु संस्थाप्य तच्छक्तिं मध्यमे नयेत् ।
सर्वशक्तिसमोपेतां सर्वाङ्गां सर्वकारिणीम् ॥ १८।९ ॥
सम्पूजयेत् स्वमन्त्रेण गन्धाद्यैःसुमनोरमैः ।
ध्वजानां तोरणानां च कलशानां च देवताः ॥ १८।१० ॥
पूर्वोक्ताः पूजनीयाश्च क्रमेणैवात्र चैव हि ।
तोरणद्वारकलशान् वेदिकाकलशानपि ॥ १८।११ ॥
पालिकावेदिकायां तु तथा चैवाष्टमङ्गलान्(?) ।
वस्त्रैः क्रमेण सञ्छाद्य गन्धपुष्पैश्च पूजयेत् ॥ १८।१२ ॥
तत्तत्स्वरूपं सौवर्णं कलशेषु विनिक्षिपेत् ।
स्नपनं शयनं चैव अधिवासनमेव च ॥ १८।१३ ॥
पूर्वोक्तं सकलं कुर्याद्देवीमावाह्य यत्नतः ।
पूजां च महतीं कुर्यात् काले प्राप्ते सुशोभने ॥ १८।१४ ॥
विशेषमत्र वक्ष्यामि सर्वलोकशुभप्रदम् ।
सर्वेषां भक्तिजननमायुःश्रीकीर्तिवधनम् ॥ १८।१५ ॥
कर्तॄणां पुष्टिजननं ग्रामस्यैव विशेषतः ।
सर्वदुःखहरं पुंसां सर्वकामफलप्रदम् ॥ १८।१६ ॥
क्रमाद्वैवाहिकं होमं कारयेत्तन्त्रपारगः ।
वैष्णव्यः शक्तयः प्रोक्ता मानुष्यो याश्च शक्तयः ॥ १८।१७ ॥
तासां वै यत्र शक्तीनां पूर्वा लक्ष्म्याःपरा क्षितिः(तेः?) ।
भूमेरंशावतारं तत्(-रस्तु?)पुष्टिर्नाम महामुने ॥ १८।१८ ॥
क्षितिं वाप्यथवा पुष्टिं सव्यपार्श्वे तु योजयेत् ।
देव्योर्विवाहमेकस्मिन् काले तु समुपस्थिते ॥ १८।१९ ॥
लक्ष्म्याः पूर्वं ततो भूमेः कारयित्वा विचक्षणः ।
लग्नस्यातिक्रमे कृत्वा जलदानं यथाविधि ॥ १८।२० ॥
तस्मिन् क्रमेण शेषं तु साधकः साधयेत् पुनः ।
कारयेत् क्रमयोगेन चैकस्मिन् स्थण्डिले पुनः ॥ १८।२१ ॥
वस्त्रयुग्मेन देवेशं देवीं चैव यथाक्रमम् ।
भूषणैश्चैव विविधैरलङ्कृत्य प्रयत्नतः ॥ १८।२२ ॥
देवीं देवासने नीत्वा होमकर्म समारभेत् ।
पुण्याहं कारयित्वा तु ब्राह्मणैः स्वस्तिसंयुतम् ॥ १८।२३ ॥
सर्वोपचारसंयुक्तं जलदानं तु कारयेत् ।
स्थण्डिलं पुरतः कृत्वा देवस्य पुरतः स्थितः ॥ १८।२४ ॥
विज्ञाप्यैवं कृतानुज्ञो होमं कुर्याद्विचक्षणः ।
पञ्चविंशतिमादाय समिधो ऽक्तास्तु सर्पिषा ॥ १८।२५ ॥
अष्टाक्षरेण मन्त्रेण स्वाहान्तेन सकृत् क्षिपेत् ।
आज्याहुतिशतं हुत्वा गायत्र्या विष्णुसञ्ज्ञया ॥ १८।२६ ॥
आचार्यो ऽग्निं परिक्रम्य यथा राज्ञां पुरोहितः ।
तथा लाजैस्तु जुहुयात् प्रणवेनाहुतित्रयम् ॥ १८।२७ ॥
मध्ये मध्ये परिक्रम्य पावकं पावनं हरेः ।
शान्तिहोमं तु कुर्वीत सर्पिषां प्रणवेन तु ॥ १८।२८ ॥
प्रत्येकैकं मुनिश्रेष्ठ षोडशाहुतिमुत्तमम् ।
होमं समाप्य विधिवत् नृत्तगेयादि कारयेत् ॥ १८।२९ ॥
एवं वैवाहिकं कृत्वा पूजयेत् पुरुषोत्तमम् ।
अनेनैव विधानेन प्रतिष्ठामात्रया(?)पि वा ॥ १८।३० ॥
देवेन सह संयोज्य पूजयेत् तन्त्रवित्तमः ।
लोहबिम्बस्य देवीनां सम्प्रोक्तं मुनिसत्तम ॥ १८।३१ ॥
लक्ष्म्यादिक्रमयोगेन पूजयेत्तु दिने दिने ।
सर्वासामेव देवीनां एष एव विधिर्भवेत् ॥ १८।३२ ॥
मूलबेरस्य देवीनां प्रतिष्ठामात्रया(-म?) प्यलम् ।
विवाहादिक्रमस्तत्र नेष्यते मुनिसत्तम ॥ १८।३३ ॥
स्वबीजैरेव कर्तव्यं स्थापनं मुनिसत्तम ।
मेधा सरस्वतीदुर्गेत्येवमादिषु मूर्तिषु ॥ १८।३४ ॥
एवमादुषु कर्तव्यः प्रतिष्ठादिक्रमो मुने ।
प्रोक्षयेत् स्वस्वमन्त्रैस्तु ब्रह्मकुम्भस्थवारिणा ॥ १८।३५ ॥
स्वैः स्वैर्मन्त्रैस्तु संस्थाप्य पूजयेत्तु विधानतः ।
एवं सङ्क्षेपतः प्रोक्तः देवीनां स्थापनक्रमः ॥ १८।३६ ॥
एवं यः कारयेद्भक्त्या शक्तीनां स्थापनं परम् ।
आयुरैश्वर्यपुत्रादीन् सर्वान् कामानवाप्नुयात् ॥ १८।३७ ॥
इह लोके सुखं लब्ध्वा परलोके तथैव च ।
राज्यलक्ष्मीं परां प्राप्य पुनः प्राज्ञो भविष्यति ॥ १८।३८ ॥
अत्र कश्चिद्विशेषो ऽस्ति श्रीवत्सस्य हरिप्रियम् ।
लक्षणं स्थानभेदं च मन्त्रमाराधनं तथा ॥ १८।३९ ॥
एवमादीनि चान्यानि विशेषाणि(!)महामुने ।
सङ्क्षेपतः प्रवक्ष्यामि शृणु गुह्यमनुत्तमम् ॥ १८।४० ॥
सर्वसम्पत्समृद्ध्यर्थं सर्वकामशुभप्रदम् ।
सुवर्णरजतेनापि तथा ताम्रमयेन तु ॥ १८।४१ ॥
उत्तमदिक्रमेणैव कारयेत् फलकास्पदम् ।
षडङ्गुलं तथायामं तस्य विस्तारमेव च ॥ १८।४२ ॥
पञ्चाङ्गुलायतं वापि तन्मध्ये तत्समं भवेत् ।
द्व्यङ्गुलं तस्य विस्तारं मौलेरेकाङ्गुलं तु वा ॥ १८।४३ ॥
एवं ज्ञात्वा मुनिश्रेष्ठ कुर्यादास्पदमुत्तमम् ।
एवं हि लक्षणं प्रोक्तं उत्तमं फलकाकृतेः ॥ १८।४४ ॥
एकाङ्गुलविहीनं तु मध्यमं परिपठ्यते ।
द्व्यङ्गुलं तद्विहीनं तु कनीयसमुदाहृतम् ॥ १८।४५ ॥
त्र्यङ्गुल(-लेन?)विहीनं तत् कुर्यात्तस्याधमाधमम् ।
मध्यमाधमकार्ये ऽस्मिन् अधमाधममेव च ॥ १८।४६ ॥
तस्यानुरूपतः कुर्यात् विस्तारं मुनिसत्तम ।
तन्मध्ये चिन्तचित्वा तु साधकः परमार्थवित् ॥ १८।४७ ॥
साधयेत् कमलां देवीं तप्तकाञ्चनसन्निभाम् ।
सर्वलक्षणसंयुक्तां पद्मासनसमन्विताम् ॥ १८।४८ ॥
पद्महस्तां श्रियं देवीं पद्मनाभप्रियां शुभाम् ।
मणिमौक्तिकसंयुक्तां सर्वाभरणभूषिताम् ॥ १८।४९ ॥
एवं सञ्चिन्त्य तां देवीं श्रियं त्रैलोक्यनायकीम् ।
हरेर्वक्षसि पार्श्वे तु दक्षिणे मुनिसत्तम ॥ १८।५० ॥
स्थापयेत्तां श्रियं देवीं जगत्संरक्षणार्थकम् ।
सर्वसम्पत्समृद्ध्यर्थमिति शास्त्रस्य निश्चयः ॥ १८।५१ ॥
जलाधिवासने चास्मिन् विशेषं कथयामि ते ।
भारद्वयेन सम्पूर्णं जलभाजनमुत्तमम् ॥ १८।५२ ॥
सङ्गृह्य मुनिशार्दूल तस्मिन् पात्रे ऽधिवासयेत् ।
पूर्वोक्तजलमानीय पूरयित्वा तु भाजनम् ॥ १८।५३ ॥
गन्धपुष्पैस्तु सम्पूज्य संस्मरेदमृतार्णवम् ।
तन्मध्ये पूर्ववत् कुर्यात् जलवासं विधानतः ॥ १८।५४ ॥
एतत् क्रमेण वा कुर्यात् अच्युतस्य महामुने ।
दर्पणे संस्थिते बेरे चित्रादीनां विशेषतः ॥ १८।५५ ॥
ह्रस्तं लोहजबिम्बस्य मुने स्वार्थपरार्थयोः ।
कारयेज्जलवासं तत् कनीयसमुदाहृतम् ॥ १८।५६ ॥
जलाधिवासने प्रोक्तो विशेषो मुनिसत्तम ।
द्विप्रकारं मया प्रोक्तं यथायोगं समाचरेत् ॥ १८।५७ ॥
मूलबेरात्तु तां देवीमावाह्यात्रैव योजयेत् ।
मूलमन्त्रेण मतिमान् कुम्भतोयेन हस्तयोः ॥ १८।५८ ॥
संयोज्यात्रैव मन्त्रेण साधकः परमार्थवित् ।
मन्त्रकोशे मया प्रोक्तस्तन्त्रे ऽस्मिन् मुनिसत्तम ॥ १८।५९ ॥
सम्प्रोक्तं परमं मन्त्रं गुह्यद्गुह्यं वरप्रदम् ।
तेनैव प्रोक्षयेद्देवीं महाकुम्भस्थवारिणा ॥ १८।६० ॥
तद्देहे न्यासमार्गेण विन्यसेत्तन्त्रवित्तमः ।
पञ्चविंशतितत्त्वानि तत्पञ्चाक्षरमेव च ॥ १८।६१ ॥
शङ्खचक्राब्जमुद्रां तु दर्शयेत्तन्त्रवित्तमः ।
ततस्त्वाराधयेद्देवीमर्ध्याद्यष्टोपचारकैः ॥ १८।६२ ॥
अर्घ्यं पाद्यं तथाचामं गन्धपुष्पं तथैव च ।
धूपदीपं निवेद्यं च पायसं गुलसंयुतम् ॥ १८।६३ ॥
एवमुक्तप्रकारेण घण्टादुन्दुभिसंयुतम् ।
कारयेद् बलिदानं तु सर्वकामप्रदं शुभम् ॥ १८।६४ ॥
बिल्वपत्राक्षतैर्युक्तं पद्मं पालाशमुत्पलम् ।
करवीरादिसंयुक्तं पूजयेत् कमलालयाम् ॥ १८।६५ ॥
दिने दिने मुनिश्रेष्ठ एवमेव समर्चयेत् ।
पायसान्नङ्ग गुलोपेतं बिल्वपत्राङ्कुरैर्युतम् ॥ १८।६६ ॥
चन्दनोदकसंयुक्तं बलिद्रव्यमिहोच्यते ।
एवमुक्तप्रकारेण घण्टादुन्दुभिसंयुतम् ॥ १८।६७ ॥
कारयेद्बलिदानं तु सर्वकर्म(-काम ?) प्रदं शुभम् ।
बिल्वमूलस्य पालाशं मूलाश्वत्थस्य वा मुने ॥ १८।६८ ॥
चतुरश्रं तु वृत्तं वा पीठं कृत्वा तु मन्त्रवित् ।
तन्मध्ये पूजयेल्लक्ष्मीं लक्ष्मयै नम इति ब्रुवन् ॥ १८।६९ ॥
प्रणवादिसमायुक्तं पञ्चाक्षरमिति स्मृतम् ।
तस्याग्रे तु बलिं कुर्यात् पूवोक्तेन विधानतः ॥ १८।७० ॥
गन्धपुष्पसमायुक्तं धूपदीपसमन्वितम् ।
एवं सम्पूजयित्वा तु मुखवासं प्रदापेयत् ॥ १८।७१ ॥
बल्यन्ते तु मुनिश्रेष्ठ श्रीसूक्तं तु पठेत् त्रिधा ।
श्रीमन्त्रं तत्स्तुतिं वापि पठेत्तन्त्रविचक्षणः ॥ १८।७२ ॥
ततः पञ्चमहाशब्दं घोषयेच्च पुनः पुनः ।
पूर्ववत् पूजयेद्देवीं सायाह्ने मुनिसत्तम ॥ १८।७३ ॥
पूजान्ते कारयेद्धोमं समिदाज्यचरूनपि ।
बिल्वाद्यन्यतमस्याथ पद्मकुण्डे यथेच्छया ॥ १८।७४ ॥
सङ्कल्प्यैकं मुनिश्रेष्ठ तन्मध्ये होममाचरेत् ।
बिल्वपालाशसमिधः प्रत्येकं षोडशाहुतीः ॥ १८।७५ ॥
जुहुयान्मूलमन्त्रेण कपिलाज्येन होमयेत् ।
तथैव पायसं ब्रह्मन् जुहुयात् षोडशाहुतीः ॥ १८।७६ ॥
तथैव बिल्वपत्रैश्च पद्मैरेकदलैरपि ।
साक्षतैः करवीरैस्तु जुहुयात्तु पुनः पुनः ॥ १८।७७ ॥
होमं कृत्वा तु विधिवत् कुण्डाद्देवीं समुद्धरेत् ।
तद्धोमः परमो गुह्यः ग्रामराज्ञोर्विवृद्धिकृत् ॥ १८।७८ ॥
सर्वरोगविनिर्मुक्तर्ं(-मोक्ता?)सर्वकामप्रदः शुभः ।
तस्मात् सर्वप्रयत्नेन रात्रौ होमं समाचरेत् ॥ १८।७९ ॥
होमान्ते दक्षिणां दद्यात् यथावित्तामुसारतः(?) ।
आचार्यं पूजयेत् पश्चाद्धेमवस्त्राङ्गुलीयकैः ॥ १८।८० ॥
ब्राह्मणान् पूजयेत् पश्चाद्दैवज्ञमनुपूजयेत् ।
उक्तलक्षणहीनेन यदि कुर्यात् प्रमादतः ॥ १८।८१ ॥
ग्रामराज्ञोश्च राष्ट्रस्य यजमानस्य नाशनम् ।
न फलन्ति क्रियास्तत्र नात्र कार्या विचारणा ॥ १८।८२ ॥
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ।
इति सङ्क्षेपतः प्रोक्तमात्मार्थस्य परस्य च ॥ १८।८३ ॥
विशेषश्चात्र सम्प्रोक्तः शेषं पूर्वावदाचरेत् ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [देवीस्थापनादिविधिर्नामट अष्टादशो ऽध्यायः ॥