१७

सप्तदशो ऽध्यायः

विष्वक्सेनः—
अथातः सम्प्रवक्ष्यामि जङ्गमस्थापनं परम् ।
अप्रधानं च बिम्बं तु जङ्गमं बिम्बमुत्तमम् ॥ १७।१ ॥

पृथक् चेत् सर्वकर्माणि बिम्बशुद्ध्यर्थमेव च ।
कारयेन्मुनिशार्दूल स्नानादिप्रतिमाक्रियाम् ॥ १७।२ ॥

स्नानोत्सवादिकार्यार्थं काले ऽस्मिन् वर्तते सति (?) ।
जलवासं क्रमात् कृत्वा मण्डपे चाधिवासनम् ॥ १७।३ ॥

कृत्वा तु पूर्ववद्धोमं तिलहोमं विना द्विज ।
स्नपनं विधिवत् कृत्वा रत्नन्यासं विना मुने ॥ १७।४ ॥

मन्त्रन्यासं विना तस्मिन् तत्त्वन्यासं समाचरेत् ।
मध्यसूत्रं परित्यज्य प्रासादे परमेष्ठिना ॥ १७।५ ॥

पौरुषं सूक्तमुच्चार्य स्थापयेन्मतिमान् पृथक् ।
मूर्तीनां स्थानभेदस्तु बिम्बाध्याये प्रदर्शितः ॥ १७।६ ॥

तत्तत्स्थाने स्वमन्त्रेण संस्थाप्यार्चादि नारद ।
यद्रुपं मूलबेरस्य यच्चिह्नैश्चिह्नितं पुरा ॥ १७।७ ॥

या मूर्तिः स्थापिता पूर्वं मूलार्चेति महात्मभिः ।
यथा चायुधविन्यासः कथं(कृतो?)बुद्धिमतां वरैः ॥ १७।८ ॥

कर्मार्चादिषु बेरेषु तत्सर्वं कारयेत्तथा ।
न विधिः शयितस्यैषः स्थापनादि प्रकीर्तितम् ॥ १७।९ ॥

शयितस्य तु कर्मार्चा स्थानकं त्वासनं तु वा ।
संस्थाप्य वासुदेवाख्यं न सङ्कर्षणमिष्यते ॥ १७।१० ॥

तथा सङ्कर्षणं स्थाप्य प्रद्युम्नं नार्चयेत् सुधीः ।
प्रद्युम्नस्थापनार्चायां कर्मार्चा नानिरुद्धका ॥ १७।११ ॥

कर्मार्चा सर्वथा कार्या मूलबिम्बानुसारिणी ।
विशेषश्चात्र सम्प्रोक्तः शेषं पूर्ववदाचरेत् ॥ १७।१२ ॥

एवं सङ्क्षेपतः प्रोक्तं जङ्गमस्थापनं मुने ।
धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ॥ १७।१३ ॥

स्थापनं सम्प्रवक्ष्यामि चित्राभासार्धचित्रके ।
आभासं त्रिविधं प्रोक्तं भित्तौ च फलके पटे ॥ १७।१४ ॥

अर्धचित्रं तथा भित्तौ शिलायां दारुके ऽपि च(?) ।
विद्यते यदि कर्मार्चाप्येतेषां(स्यादेषां?)लोहजाकृतिः ॥ १७।१५ ॥

कर्मार्चायां तु सकलां क्रियां कृत्वा तु पूर्ववत् ।
मूलार्चायां तु कर्तव्यो मन्त्रन्यासो द्विजोत्तम ॥ १७।१६ ॥

अधिवासनकुम्भस्थतोयेन प्रोक्षयेद्बुधः ।
ततः पुरुषसूक्तेन पञ्चोपनिषदैरपि ॥ १७।१७ ॥

अत्रैव षोडशन्यासो नेष्यते तन्त्रपारगैः ।
फलके च पटे चैव विशेषं कथयाम्यहम् ॥ १७।१८ ॥

मण्डपं पूर्ववत् कृत्वा वेदिं कृत्वा तु पूर्ववत् ।
कृत्वा सुलोचने दिव्ये शयने सन्निवेशयेत् ॥ १७।१९ ॥

जलाधिवासनं चैव नेष्यते स्नपनं बुधैः ।
मूर्तिहोमं ततः कृत्वा दिशाहोमविवर्जितम् ॥ १७।२० ॥

विद्येशानपि सम्पूज्य वेदिकाकलशेष्वथ ।
प्रलयं च निसर्गं च क्रमात् कृत्वा तु देशिकः ॥ १७।२१ ॥

प्रोक्षयेत् स्वेन मन्त्रेण ब्रह्मकुम्भस्थवारिणा ।
युक्त्या युक्तिविशेषेण शेषं पूर्ववदाचरेत् ॥ १७।२२ ॥

भित्तिस्थप्रतिमायां तु स्थानं कथयाम्यहम् ।
भित्तौ सम्यक्पटे चित्रे वर्णालङ्कारभूषिते ॥ १७।२३ ॥

आभासे चार्धचित्रे वा पटे सम्यक्सुलोचने (?) ।
देवस्य पुरतः कृत्वा मण्डपं सपरिच्छदम् ॥ १७।२४ ॥

वेदिकां तत्र कुर्वीत पूर्वोक्तेन विधानतः ।
द्विकरां त्रिकरां वापि शिल्पिना कुशलेन तु ॥ १७।२५ ॥

ततस्तु वेदिकामध्ये विन्यसेच्छालिसञ्चयम् ।
शालिमध्ये लिखेत् पद्ममष्टपत्रं सकर्णिकम् ॥ १७।२६ ॥

ततस्तु द्रोणसम्पूर्णं ब्रह्मकुम्भं सुवर्चसम् ।
वस्त्रपूतैर्जलैः पूर्णं सकूर्चं सापिधानकम् ॥ १७।२७ ॥

ससूत्रं वस्त्रयुग्मेन वेष्टितं रत्नसंयुतम् ।
अष्टशक्तिसमोपेतं सौवर्णायुधपञ्चयुक् ॥ १७।२८ ॥

अश्वत्थपल्लवैर्युक्तं गन्धपुष्पाक्षतार्चितम् ।
तत्कुम्भं प्रणवेनैव पद्ममध्ये तु विन्यसेत् ॥ १७।२९ ॥

ततः पद्मदलेष्वष्टघटांस्तु परितो न्यसेत् ।
पूर्ववत्तोयसम्पूर्णान् सहिरण्यान् सवस्त्रकान् ॥ १७।३० ॥

सपिधानान् सकूर्चांस्तु मुखे चाश्वत्थपल्लवान् ।
अर्चयेद्गन्धपुष्पैश्च दीपैरन्यैर्विचित्रकैः ॥ १७।३१ ॥

अर्चयेन्मूलमन्त्रेण नारायणमनामयम् ।
विश्णुमक्लिष्टकर्माणं परमं मध्यमे घटे ॥ १७।३२ ॥

वासुदेवं न्यसेत् पूर्वे सङ्कर्षणं तु दक्षिणे ।
प्रद्युम्नं पश्चिमे न्यस्य अनिरुद्धं तु चोत्तरे ॥ १७।३३ ॥

आग्नेय्यां विन्यसेल्लक्ष्मीं नैरृत्यां तु सरस्वतीम् ।
वायव्ये तु रतिं न्यस्य शान्तिमीशानगोचरे ॥ १७।३४ ॥

एवं न्यस्य विधानेन गन्धपुष्पादिभिर्यजेत् ।
अथवात्र मुनिश्रेष्ठ परितः कलशान् न्यसेत् ॥ १७।३५ ॥

तन्मध्ये चानयेदष्टविद्येशान् साधकोत्तमः ।
वाराहं पूर्वभागे तु नारसिंहं तु दक्षिणे ॥ १७।३६ ॥

श्रीधरं पश्चिमे देशे उत्तरे हयशीर्षकम् ।
आग्नेये भार्गवं रामं नैरृत्यां राममेव च ॥ १७।३७ ॥

वामनं चापि वायव्ये वासुदेवं तथेशके ।
स्वनाम्ना पूजयित्वैतान् कलशेषु पृथक् पृथक् ॥ १७।३८ ॥

एवं सम्पूजयित्वा तु होमकर्म समाचरेत् ।
पूर्वादि चोत्तरान्तं तु कुण्डानि परिकल्पयेत् ॥ १७।३९ ॥

वासुदेवं यजेत् पूर्वं कुण्डे तु चतुरश्रके ।
अर्धचन्द्राग्निदुण्डे तु याम्य सङ्कर्षणं यजेत् ॥ १७।४० ॥

वारुणे वृत्तकुण्डे तु प्रद्युम्नं तु यजेद्बुधः ।
उत्तरे पद्मकुण्डे तु अनिरुद्धमथो यजेत् ॥ १७।४१ ॥

पालाशं खादिरं चैव बैलवमौदुम्बरं तथा ।
अष्टोत्तरशत हुत्वा पूर्वादि च पृथक् क्रमात् ॥ १७।४२ ॥

समिदाज्यचरून् लाजान् जुहुयुर्मूर्तिपाः क्रमात् ।
अथवात्र मुनिश्रेष्ठ पूर्वाग्नौ साधकात्तमः ॥ १७।४३ ॥

समिदाज्येन चरुणा होममेकेन(?)चाप्यलम् ।
कुण्डे वा स्थण्डिले वापि आचार्यो जुहुयाद्बुधः ॥ १७।४४ ॥

रात्रौ होमः प्रकर्तव्यः जलसम्प्रोक्षणं दिवा ।
न कुर्यात् प्रोक्षणं रात्रौ न दिवा होममाचरेत् ॥ १७।४५ ॥

तस्मात् सर्वप्रयत्नेन रात्रौ होमं तु कारयेत् ।
मुहूर्ते समनुप्राप्ते ब्राह्मणानामनुज्ञया ॥ १७।४६ ॥

कुम्भस्थितेन तोयेन प्रोक्षयेत् परमेष्ठिना ।
आवाहयेत्ततो देवं नारायणमनामयम् ॥ १७।४७ ॥

शङ्खचक्रधरं देवं पीताम्बरधरं हरिम् ।
यद्रुपं चिन्तितं भित्तौ तथा ध्यायेज्जगद्गुरुम् ॥ १७।४८ ॥

एवं कृत्वा महाविष्णुं प्रोक्षयेद्गन्धवारिणा ।
ततः पुरुषसूक्तेन प्रोक्षयेत् प्रतिमां पुनः ॥ १७।४९ ॥

पूजयेदर्घ्यपाद्यैश्च चरुभिर्विविधैरपि ।
यथावित्तानुसारेण(?) दद्यादाचार्यदक्षिणाम् ॥ १७।५० ॥

एवं सङ्क्षेपतः प्रोक्तं स्थापनं भित्तिसंश्रितम् ।
ततःसुपीठिकां कृत्वा पीठस्य(पीठं च?)परितःक्रमात् ॥ १७।५१ ॥

सङ्कल्प्य परिवारांश्च तत्रावाह्य तु पूजयेत् ।
दिने दिने मुनिश्रेष्ठ त्रिसन्ध्यैकमथापि वा ॥ १७।५२ ॥

एवं सङ्क्षेपतः प्रोक्तो (क्ता?) भित्तिबिम्बस्य संस्थितिः ॥

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां (जङ्गमबिम्बादिस्थापनविधिर्नाम) सप्तदशो ऽध्यायः ॥