१५

पञ्चदशो ऽध्यायः

नारदः—

ब्रूहि मे हरिसेनेश मूलमन्त्रेण विस्तरात् ।
होमक्रमं कृपाधार शुश्रूषोर्भक्तवत्सल ॥ १५।१ ॥

विष्वक्सेनः—

शृणु नारद तत्त्वेन पूर्वभागे यथामुने ।
कुण्डानि स्रुक्स्रुवं (वौ?)चैव प्रस्पष्टं प्रोक्तवानहम् ॥ १५।२ ॥

तत्क्रमेण विना वापि सह वा मूलविद्यया ।
होमं कुर्याद्यथाशक्ति सिद्धं(द्धिं?)विन्देत सर्वथा ॥ १५।३ ॥

वैष्णवैः करणैर्युक्तमतस्तं प्रथमं शृणु ।
पिप्पलं च शमीगर्भमरणिं परिकल्पयेत् ॥ १५।४ ॥

मथित्वा वैष्णवैरग्निमथवा रत्नसम्भवम् ।
लौकिकं वा समानीय प्रोक्षयेद्द्वादशाक्षरैः ॥ १५।५ ॥

आचार्यो ऽग्निं समादाय स्वात्मन्येवोपसंहरेत् ।
तेन बीजेन मतिमान् तर्जन्यङ्गुष्ठया मुने ॥ १५।६ ॥

अञ्जलिमुद्रया चाग्निं नमस्कृत्य पुनः पुनः ।
कुण्डं वा स्थण्डिलं वापि चतुरश्रं तु कारयेत् ॥ १५।७ ॥

वैष्णवीकरणार्थाय अग्नेर्हस्त(?)मतन्द्रितः ।
चतुरङ्गुलमानेन खानयेदवटं धराम् ॥ १५।८ ॥

खाताद्धि द्व्यङ्गुलं हित्वा मेखलां परिकल्पयेत् ।
चतुरङ्गुलविस्तारमुत्सेधं तु तथैव च ॥ १५।९ ॥

कारेयन्तमुनिशार्दूलद मेखलैका समन्ततः ।
इत्येकमेखलाकुण्डं तन्त्रे ऽस्मिन् परिकीर्तितम् ॥ १५।१० ॥

वैष्णवानलकुण्डस्य वलयं योनिकल्पनम् ।
यथाकामं प्रकर्तव्या योनिः पिप्पलपत्रवत् ॥ १५।११ ॥

कर्षणादिषु सर्वासु क्रियासु मुनिसत्तम ।
वैष्णवीकरणार्थाय सम्प्रोक्तं कुण्डलक्षणम् ॥ १५।१२ ॥

सम्प्रोक्ष्याभ्युक्ष्म शा(चा?) स्त्रेण साधको मुनसित्तम ।
उपलिप्योल्लिखेद्रेखामर्गलां(?) यज्ञनामिकाम् ॥ १५।१३ ॥

सौम्याग्रां प्रथमां तस्या रेखे पूर्वाग्रिके तयोः ।
मध्ये तिस्रस्तथारूपाः दक्षिणादिक्रमेण तु ॥ १५।१४ ॥

एवमुल्लिख्य चाभ्युक्ष्य प्रणवेनैव मन्त्रवित् ।
शय्यां तु चिन्तयेत् पूर्वं कुण्डमध्ये तु देशिकः ॥ १५।१५ ॥

धर्मादिपादं(दान्?)विन्यस्य तथाधर्मादिकत्रयम् ।
अनन्तं विन्यसेन्मध्ये ततः पाशास्त्रयो गुणाः ॥ १५।१६ ॥

ततः प्रोक्तविधानेन मूलमन्त्रेण साधकः ।
पृथिव्यादीनि भूतानि करणादीनि कर्तृके(?) ॥ १५।१७ ॥

परिस्तरणसञ्छन्नां धूपामोदसुधूपिताम् (?) ।
ध्यायेच्च लक्ष्मीं तन्मध्ये प्रकृतिं त्रिगुणात्मिकाम् ॥ १५।१८ ॥

तस्मिन् शयनमध्ये तु सम्प्राप्तनवयौवनाम् ।
अतीव रूपसम्म्पन्नां मदघूर्णितलोचनाम् ॥ १५।१९ ॥

सर्गशक्तिसमोपेतां वैष्णवीं शुभविग्रहाम् ।
दिव्यमाल्याम्बरधरां दिव्यरत्नविराजिताम् ॥ १५।२० ॥

दिव्यगन्धानुलिप्ताङ्गीं दिव्याभरणभूषिताम् ।
साभिलाषामृतुस्नातां प्रार्थयन्तीं हरिं प्रति ॥ १५।२१ ॥

एवं रूपां च सञ्चिन्त्य देवीं पङ्कजधारिणीम् ।
गन्धमाल्योदकादीनि मुखवासान्तकानि च ॥ १५।२२ ॥

यानि क्रीडोपचाराणि तानि ध्यात्वा समन्ततः ।
अतीव रूपसम्पन्नं प्रथमे वयसि स्थितम् ॥ १५।२३ ॥

मकुटाङ्गदचित्राङ्गं नीलकुञ्चितमूर्धजम् ।
दिव्यमाल्याम्बरधरं दिव्यरत्नविराजितम् ॥ १५।२४ ॥

श्रीवत्सेनाङ्कितोरस्कं वनमालाविराजितम् ।
सर्वरत्नप्रभाजालकौस्तुभेन विराजितम् ॥ १५।२५ ॥

अन्नतांसं महोरस्कं कर्णान्तायतलोचनम् ।
आजानुबाहुं श्रीमन्तं सौम्यं प्रहसिताननम् ॥ १५।२६ ॥

लावण्यामृततोयेन सिञ्चन्तमिव सर्वतः ।
चतुर्भुजमनुध्यायेत् शङ्खचक्रगदाधरम् ॥ १५।२७ ॥

एवं रूपं ततो ध्यात्वा देवीं देवं तथैव च ।
अर्चयेद्गन्धपुष्पाद्यैरुपचारैर्मनोरमैः ॥ १५।२८ ॥

सम्पूजयेत्ततो भक्त्या स्वयं तु विगतस्पृहः ।
एकशय्यागतौ ध्यात्वा समालिङ्ग्य व्यवस्थितौ ॥ १५।२९ ॥

पश्चात्तु ग्राम्यधर्मेण परं हर्षमुपागतौ ।
देवस्य शुक्लमध्यस्थं वह्निबीजं तु साधकः ॥ १५।३० ॥

तेन बीजेन मतिमान् न्यसेदग्निमनुत्तमम् ।
गर्भशय्यां प्रतिष्ठाप्य तद्रत्नेन समन्वितम् ॥ १५।३१ ॥

देवं विसर्जयेत् पश्चात् गर्भाधाने कृते सति ।
अग्निं समेधयेत् पश्चात् शुष्ककाष्ठैरनन्तरम् ॥ १५।३२ ॥

प्रादेशमात्राःसमिधः कृत्वाधानं ततः पुनः ।
परिसमूह्य ततो दर्भैः परिस्तीर्य त्रिधा त्रिधा ॥ १५।३३ ॥

अग्रैराच्छादयेद्यद्वत् मूलं पूर्वादितः क्रमात् ।
पात्राण्यासादयेत्तस्मिन् इध्मबर्हिद्वयं तथा ॥ १५।३४ ॥

स्रुक्स्रुवौ च प्रणीतेन(च?)क्ष(स्था?) पयित्वात्र साधकः ।
प्रोक्षणी च प्रणीते द्वे आज्यस्थालीमुखं(द्वयम्) तथा ॥ १५।३५ ॥

युग्मं युग्मं व्यवस्थाप्य अन्यदप्युपयोगि यत् ।
तत्सर्वं प्रोक्षायित्वा तु गृहीत्वा प्रोक्षणीं ततः ॥ १५।३६ ॥

अद्भिः सम्पूर्य चोत्पूय पवित्रान्तर्हिते करे ।
अवस्थाप्य च तत्तोयं प्रोक्षयित्वात्र साधकः ॥ १५।३७ ॥

प्रोक्षण्यामेव तत्कृत्वा ध्यात्वा ज्योतिषमव्ययम् ।
पूर्ववत् स्थापयेदग्नेः(ग्निं?) संस्कृत्यान्तर्जलेन तु ॥ १५।३८ ॥

त्रिःसम्प्रोक्ष्य ततःसर्वं इध्मं विस्रस्य साधकः ।
गन्धपुष्पाक्षतयुतां पवित्रान्तर्जलेन तु ॥ १५।३९ ॥

प्रणीतामग्रतः कृत्वा तस्यां साङ्गं न्यसेद्धरिम् ।
गन्धादिभिःसमभ्यर्च्य सर्वरक्षाकरं प्रभुम् ॥ १५।४० ॥

ध्यात्वा नीत्वोत्तरे भागे स्थापयित्वार्चयेद् बुधः ।
आज्यस्थालीमथाज्येन सम्पूर्याग्रे निधाय तु ॥ १५।४१ ॥

सम्प्लवोत्प्लवनाभ्यां तु कुर्यादाज्यस्य संस्कृतिम् ।
आखण्डिताग्रौ निहतौ कुशौ प्रादेशमात्रकौ ॥ १५।४२ ॥

ताभ्यामुत्तानपाणिभ्यामङ्गुष्ठानामिकेन तु ।
तानन्तयोस्तु सङ्गृह्य त्रिर्नीत्वा त्रिरथानयेत् ॥ १५।४३ ॥

स्रुक्स्रुवौ चापि सम्मृज्य पुनः प्रक्षाल्य चैव हि ।
निष्टप्य स्थापयित्वा तु प्रणवेनैव साधकः ॥ १५।४४ ॥

तेन बीजेन मतिमान् गर्भाधानादि होमयेत् ।
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ॥ १५।४५ ॥

जातकर्मनामकरणान्नप्राशनमेव च ।
चौलं तथोपनयनं प्राजापत्यं तु सोमकम् ॥ १५।४६ ॥

वैश्वदेवं च शुक्रियं समावर्तनमेव च ।
विवाह इति विज्ञेयो मुने ऽतः परमेव हि ॥ १५।४७ ॥

संस्कारानुक्रमः प्रोक्तस्तत्क्रिया वक्ष्यते ऽधुना ।
अग्निं समर्च्य गन्धाद्यैः गर्भाधानादि होमयेत् ॥ १५।४८ ॥

आचार्यो ऽनलजिह्वासु सप्तस्वेवारभेन्मुने ।
अन्यथाकृततुल्यं स्यात् विपरीतफलप्रदम् ॥ १५।४९ ॥

नारदः—

ब्रूहि यत्कथितं पूर्वं श्रवणीयं मया यदि ।
जिह्वा सप्तेति किं नाम किं पदं किं गुणं मुने ॥ १५।५० ॥

विष्वक्सेनः—

शृणु वक्ष्याम्यहं सम्यक् रहस्यं परमं मुने ।
जिह्वाख्यां स्थानरूपे च विनियोगमतः परम् ॥ १५।५१ ॥

जिह्वाग्नेः प्रथमा काली कराली तदनन्तरा ।
मनोजवा या तृतीया तु तुर्या लोहिता भवेत् ॥ १५।५२ ॥

सुधूम्रा पञ्चमी षष्ठ स्फलिङ्गिन्यभिशब्दिता ।
सप्तमी विश्वरूपाख्या सप्तजिह्वाः प्रकीर्तिताः ॥ १५।५३ ॥

काल्यास्तु मध्यमं स्थानं कराल्याः पूर्वदिग् भवेत् ।
मनोजवायाः कीनाशं वारुणी(-णं?) लोहितापदम् ॥ १५।५४ ॥

सूधूम्रा सोमनीलाय (-निलया?)स्फुलिङ्गिन्यनलालया ।
विश्वरूपी(-पे?)शवसतिरेवं स्थानं क्रमान्मुने ॥ १५।५५ ॥

आसां काल्यां विवाहान्तं गर्भाधानादि कारयेत् ।
वैष्णवानलरूपे तु प्रणेवन हुनेद् घृतम् ॥ १५।५६ ॥

एकैकमष्टाहुतिभिः संस्काराणि विशेषतः ।
स्मरंस्तत्तद्भावनया साधकः प्रौढमानसः ॥ १५।५७ ॥

षोडशेध्मान् समादाय सकृत् प्रणवमुच्चरन् ।
जुहुयात् कुण्डमध्ये तु काल्यां चान्नावसानके(कम्?) ॥ १५।५८ ॥

पुनराज्याहुतिं हुत्वा प्रणवेनाष्टधात्र तु ।
चरुं हुत्वाक्षमात्रेण प्रत्येकैकाहुतिं क्रमात् ॥ १५।५९ ॥

अष्टाक्षरेण मन्त्रेण अ(-णाप्य?)ष्टाविंशतिसङ्ख्यया ।
पूर्णाहुतिं ततो हुत्वा स्रुचा मूलेन साधकः ॥ १५।६० ॥

वौषडन्तेन मन्त्रेण प्लुतं प्रणवमुच्चरेत् ।
गन्धपुष्पादिनाभ्यर्च्य नमस्कृत्याग्निमन्त्रतः ॥ १५।६१ ॥

कुण्डादग्निं समादाय पूर्वकुण्डे नियोजयेत् ।
ततस्तु दक्षिणे न्यस्य पश्चिमे तदनन्तरम् ॥ १५।६२ ॥

उत्तरे ऽग्निं विनिक्षिप्य मूलमन्त्रेण साधकः ।
अथवात्र मुनिश्रेष्ठ सर्वं वै प्रथमेन तु ॥ १५।६३ ॥

कुण्डे कुण्डे विनिक्षिप्य पावकं परमार्थवित् ।
एवं संस्कृत्य विधिना पावकं पावनं हरेः ॥ १५।६४ ॥

एवं तथाग्निसंस्कारं सर्वयागेषु कीर्तितम् ।
वैष्णवीकरणे चैवं वैष्णवाग्निस्ततो भवेत् ॥ १५।६५ ॥

परिधिप्रभृतीन् दग्ध्वा प्रणवेन तु साधकः ।
एतत्क्रमेण चोत्पाद्य वैष्णवाग्निं तु नारद ॥ १५।६६ ॥

कारयेद्विधिवत् सर्वं कर्षणादिक्रियादिषु ।
अथवा मुनिशार्दूल पूर्वकुण्डे तु कारयेत् ॥ १५।६७ ॥

वैष्णवीकरणं सर्वं शेषं साधारणं भवेत् ।
कुण्डे वा स्थण्डिले वापि वैष्णवीकरणं कुर१ ॥ १५।६८ ॥

अन्यदेशे तु यो मोहादग्निमुत्पादयेद्यदि ।
तत्क्रिया निष्फला ज्ञेया सस्यादिनिधनं भवेत् ॥ १५।६९ ॥

तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ।
चतुरश्रादिकुण्डानि सम्प्रोक्ष्यास्त्रेण मन्त्रतः ॥ १५।७० ॥

विन्यसेन्न्यासमार्गेण शशाङ्काद्यक्षरैः क्रमात् ।
तत्र न्यासक्रमं वक्ष्ये शृणु कुण्डेषु नारद ॥ १५।७१ ॥

कुण्डे वा स्थण्डिले वापि प्रणवाभ्युक्षणे कृते ।
प्रोक्षयेद्वसुसूत्रेण दक्षिणाद्युत्तरान्तकम् ॥ १५।७२ ॥

पश्चिमादीन्द्रपर्यन्तं कोष्ठं कृत्वा विभज्य च ।
तन्मध्यकोष्ठं प्रस्तीर्य शालिना कुडुबेन च ॥ १५।७३ ॥

तण्डुलेनाक्षतेनात्र चन्द्रमण्डलमालिखेत् ।
तन्मध्ये बीजमालिख्य पूर्वादष्टाक्षरं लिखेत् ॥ १५।७४ ॥

तद्बहिर्वसुकोष्ठेषु आऋकारान्तमालिखेत् ।
इन्द्रादीशानपर्यन्तं तद्बहिः स्वरकोष्ठके (?) ॥ १५।७५ ॥

पूर्वादीन्द्रेशपर्यन्तं जान्तरप्रभृतीन् न्यसेत् ।
तद्बहिस्तत्त्वकोष्ठेषु झादिसान्तमथो लिखेत् ॥ १५।७६ ॥

पूर्वाद्युत्तरपूर्वान्तं ततो वै मेखलासु च ।
पूर्वादिसोमपर्यन्तं पठन्तं च सुदर्शनम् ॥ १५।७७ ॥

योनिमध्ये तु विप्रेन्द्र विष्णुबीजमनुत्तमम् ।
विन्यसेत् पञ्चधा तस्मिन्ननामिक्या तु साधकः ॥ १५।७८ ॥

एवं न्यासं क्रमात् कृत्वा साधकानां हिताय तु ।
न्यासहीने ऽग्निकार्यं स्यात् तत्क्रिया निष्फला भवेत् ॥ १५।७९ ॥

तद्ग्रामो निधनं याति तत्स्थानां निधनं भवेत् ।
तस्मात् सर्वप्रयत्नेन न्यासं कुर्याद्विचक्षणः ॥ १५।८० ॥

कुण्डे कुण्डे मुनिश्रेष्ठ स्थण्डिले वाप्यतन्द्रितः ।
गन्धादिदीपपर्यन्तमभ्यर्च्याञ्जलिमुद्रिकाम् ॥ १५।८१ ॥

दर्शयित्वा यथान्यायं कुर्यात् पञ्चशतं (?) क्रमात् ।
तथैव मेखलायां तु पूजयेद्योनिमेव च ॥ १५।८२ ॥

अतः परं प्रवक्ष्यामि होमानुक्रममुत्तमम् ।
कर्षणादिषु सर्वासु क्रियासु मुनिसत्तम ॥ १५।८३ ॥

आचार्यः प्रक्रमेद्धोमं बर्हिंषि समिधस्तथा ।
परिधिस्रुक्स्रुवान्नं चाप्याज्यं लाजं तिलं तथा ॥ १५।८४ ॥

तदिन्धनबलिद्रव्यं गन्धं पुष्पं सुधूपकम् ।
दीपं वर्धनीं गन्धोदं प्रोक्षणीपात्रकं तथा ॥ १५।८५ ॥

प्रणीताज्यमथान्यच्च हस्तमुत्सृज्य विन्यसेत् ।
उत्तरेणानिलस्थानात् युग्मं युग्मेन साधकः ॥ १५।८६ ॥

प्रोक्षण्यां वर्धनीनीरमासिच्य प्रोक्ष्य विद्यया ।
मूलया साधनद्रव्यमाहूयाग्निं ततो मुने ॥ १५।८७ ॥

अनलं पूर्ववत् प्रोक्ष्य अ(चा?)ग्निमूर्तिमनुस्मरेत् ।
अग्निं प्रोक्ष्यावटस्थं तं सानुस्वारे तु बीजके ॥ १५।८८ ॥

हस्ताभ्यामनलं स्थाप्य पूर्वोक्तेन विधानतः ।
एधांसि ज्वालयित्वोक्ष्य परिस्तीर्याग्निमध्यमे ॥ १५।८९ ॥

पद्ममष्टदलं ध्यात्वा तत्र वै मूलबेरतः ।
आवाहयित्वा देवेशमर्चयेद्विधिचोदितम् ॥ १५।९० ॥

अत्र कश्चिद्विशेषो ऽस्ति होमकर्मणि नारद ।
देवं श्वेताद्रिसङ्काशं त्रिपादं सप्तबाहुकम् ॥ १५।९१ ॥

वेदशृङ्गं द्विवदनं पीताम्बरधरं हरिम् ।
शङ्खचक्रगदापाणिं सप्तजिह्वं सुभूषणम् ॥ १५।९२ ॥

सौम्यं[च] सर्वाभरणैर्दिव्यैः परिवृतं बुधः ।
अग्नौ वह्निस्वरूपेण स्थितमर्चामुखं स्मरेत् ॥ १५।९३ ॥

तस्मादर्ध्यादि दत्वा च दक्षिणे ऽग्नेर्विधिं न्यसेत् ।
तं पूज्य विधिवत् पश्चात् होमद्रव्याणि मध्यमे ॥ १५।९४ ॥

प्रणीताभाजनं न्यस्य तत्र साङ्गं न्यसेद्धरिम् ।
देवमभ्यर्च्य गन्धाद्यैः होमकर्म समाचरेत् ॥ १५।९५ ॥

नित्ये नैमित्तिके काम्ये समिदाज्यैर्यथाक्रमम् ।
समित्(?) पालाशखदिरबिल्वोदुम्बरपिप्पलाः ॥ १५।९६ ॥

सद्वृक्षा विदुषा ग्राह्यास्तन्मानं द्वादशाङ्गुलम् ।
कनिष्ठिकाघना वक्रग्रन्धिन्यासान्यवृत्ततः ॥ १५।९७ ॥

परिधिर्हस्तमात्रःस्यात् स्थण्डिले कुण्ड एव वा ।
मध्यमेखलया तुल्यमङ्गुष्ठानां घनं विदुः(?) ॥ १५।९८ ॥

देवानां परिधीन् दिक्षु चतसृष्वपि कारयेत् ।
विष्णुयागे विशेषेण द्विजानामग्निकर्मणि ॥ १५।९९ ॥

त्रिष्वेव तु मुने बुद्धि होमान्तं पश्चिमादिकम्(?) ।
विष्णोर्मखे महेन्द्रादिदर्भान् सर्वासु चोभयोः ॥ १५।१०० ॥

निशाचराणां रक्षायै विशेषं मुनिसत्तम ।
महेन्द्रप्रभृतीनां तु होमद्रव्यापहारिणाम् ॥ १५।१०१ ॥

एवं ज्ञात्वा मुनिश्रेष्ठ इध्माद्यैर्हेममाचरेत् ।
कराल्यां समिधो हुत्वा मूलमन्त्रेण मन्त्रवित् ॥ १५।१०२ ॥

मनोजवायामाज्येन वेदाद्येनैव देशिकः ।
लोहितायां तथान्नेन जुहुयान्मूर्तिमन्त्रतः ॥ १५।१०३ ॥

सुधूम्रायां तथा लाजान् विधायाथ द्वितीयया ।
तृतीयेन तु मन्त्रेण स्फुलिङ्गिन्यां तिलं तथा ॥ १५।१०४ ॥

विश्वरूप्यां चतुर्थेन तत्तद्द्रव्यं दिने दिने ।
अधोमुखाङ्गुष्ठसहितानामिका सहमध्यमा ॥ १५।१०५ ॥

आमध्यपर्व गृह्णाति क्रियां तेनैव कारयेत् ।
होमद्रव्येण होमं तु सर्पिषा शुक्तिकाहुतिम् ॥ १५।१०६ ॥

प्रायश्चित्ताहुतिं पूर्णां परिध्यादि तथा (ततः?) परम् ।
अनुक्तस्थानकं सर्वं काल्यां तु जुहुयात् पुनः ॥ १५।१०७ ॥

समिदादितिलान्तं च द्रव्यमष्टोत्तरं शतम् ।
प्रायश्चित्ताहुतिं कुर्यादेकां मूलेन विद्यया ॥ १५।१०८ ॥

पूर्णाहुतिं ततो हुत्वा स्रुचा मूलेन साधकः ।
वौषडन्तेन मन्त्रेण द्वादशाक्षरसञ्ज्ञया ॥ १५।१०९ ॥

परिधिप्रभृतीन् सर्वान् वौषडन्तं तथा हुनेत् ।
स्वाहान्तं मूलमन्त्रेण मुष्ट्याज्येन च पूरणम् ॥ १५।११० ॥

आहुतीश्च यथाशास्त्रं जुहुयात् साधकोत्तमः ।
पूर्णाहुत्यवसाने तु मूलेनाष्टोत्तरं जपेत् ॥ १५।१११ ॥

परिधीनुत्सवान्ते च दाहयेदुत्सवे मुने ।
नित्याग्नौ च यथाकामं सर्वं नैमित्तिकं तथा ॥ १५।११२ ॥

उत्सवानुत्सवाग्नौ वा कुर्यान्नैमित्तिकं बुधः ।
आचार्येभ्यो यथाकामं दक्षिणामाददेत्ततः ॥ १५।११३ ॥

दक्षिणाहीनमेतच्चेत् सर्वं निष्फलमेव हि ।
तस्मादाचार्यतृप्त्यर्थं राजराष्ट्रविवृद्धये ॥ १५।११४ ॥

आचार्यं पूजयेच्छिष्यं भूषणाच्छादनैरपि ।
धान्यैश्चैव धनैश्चैव यजमानेन सत्कृतः ॥ १५।११५ ॥

दक्षिणां गुरवे दद्यात् यजमानो यथाबलम् ।
अन्यथाकृतमेतच्चेत् सर्वं राष्ट्रं विनश्यति ॥ १५।११६ ॥

तस्मात् सर्वप्रयत्नेन विधानोक्तं समाचरेत् ।
कुण्डस्थ पूजयेद्देवमुपचारेण यत्नतः ॥ १५।११७ ॥

अनन्तरं प्रविश्याथ मुद्रामञ्जलिसञ्ज्ञिताम् ।
उद्वासयेत्ततः कुण्डात् मूलबेरे विधानवित् ॥ १५।११८ ॥

कर्षणाद्युत्सवे काले नित्योत्सवविधावपि ।
एवमुक्तप्रकारेण होमं कुर्याद्विचक्षणः ॥ १५।११९ ॥

हरेरतिप्रियाशेषलोकान् समविकारयेत् (?) ।
नित्यहोमे तु परिधीन् बर्हींषि च न दाहयेत् ॥ १५।१२० ॥

एतद्रहस्यं कथितं मुने होमविधिक्रमम् ।
हरेरतिप्रियकरं यः कुर्यात् कारयेदपि ॥ १५।१२१ ॥

भक्त्या गुरोरशेषं (?) स्यात् स हरिर्नात्र संशयः ॥

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां झ्र्होमविधिर्नामट पञ्चदशो ऽध्यायः ॥