११

एकादशो ऽध्यायः

विष्वक्सेनः—
वर्णादींश्चायुधानां तु विन्यासं मुनिसत्तम ।
परमात्मात्मभावार्थं प्रथमं शृणु नारद ॥ ११।१ ॥

श्वेतपर्वतसन्निभं त्रिदशं गरुत्मति संस्थितम् सर्वदेवनमस्कृतं कमलासनाद्यभिपूजितम् ।
सर्वभूषणभूषितं द्विचतुर्भुजं द्विपदं मुने स्वात्मदेहविराजितं कनकप्रभमं(प्रभां?)बरमादधत् ॥ ११।२ ॥

इति ध्यायेन्मुनिश्रेष्ठ सर्वदेवमयं ततः ।
ध्यायन्नुत्पद्यते तस्य सम्यग्ज्ञानं तु नारद ॥ ११।३ ॥

इति ते दर्शितं साक्षात् मूर्तं तु परमात्मनः ।
अस्य मूर्तस्य वक्ष्यामि विन्यासं चायुधस्य च ॥ ११।४ ॥

अस्य दक्षिणहस्ताग्रे चक्रं चाधः स्थितस्य तु ।
स्वागतावस्थितो हस्त पद्मं वा हरि नारद ॥ ११।५ ॥

अधःस्थितस्य हस्ताग्रे चाक्षमालां तु विन्यसेत् ।
एवं दक्षिणहस्तानां वामपार्श्वस्य चोच्यते ॥ ११।६ ॥

वामपार्श्वस्य हस्तानां चोर्ध्वे शङ्खं वरप्रदम् ।
सगदाकटिहस्तं स्यात् इत्थं तु परमात्मनः ॥ ११।७ ॥

वासुदेवस्य वक्ष्यामि रूपं वै चायुधानि ते ।
गोक्षीरस्फटिकाकारं श्यामाकृतिमथापि वा ॥ ११।८ ॥

पीतवस्त्रधरं वापि रक्ताम्बरधरं तु वा ।
शङ्खचक्रगदाहस्तं सर्वाभरणभूषितम् ॥ ११।९ ॥

सर्वावयवसम्पूर्णं चतुर्बाहुविराजितम् ।
सर्वालङ्कारसंयुक्तं वासदेवं विचिन्तयेत् ॥ ११।१० ॥

वक्ष्याम्यस्य तु हेतीनां विन्यासं ते महामुने ।
अस्य दक्षिणहस्ताग्रे चक्रं चाधःस्थिते ऽम्बुजम् ॥ ११।११ ॥

वामोर्ध्वे शङ्खमन्यस्मिन् गदा चास्याप्यधोमुखम् ।
श्रियं तु दक्षिणे पार्श्वे वामे पुष्टिं तु विन्यसेत् ॥ ११।१२ ॥

तुष्टिं वा वामपार्श्वे तु कारयेन्मुनिसत्तम ।
एवं जनार्दनस्यापि मूर्तं कर्तव्यमेव तु ॥ ११।१३ ॥

इत्युक्तं वासुदेवस्य शृणु सङ्कर्षणस्य तु ।
बालसूर्यप्रतीकाशः सङ्कर्षण इति स्मृतः ॥ ११।१४ ॥

पीतवस्त्रधरः साक्षात् चतुर्बाहुविराजितः ।
सर्वावयवसंयुक्तः सर्वाभरणभूषितः ॥ ११।१५ ॥

सर्वालङ्कारसंयुक्तः शङ्खचक्रधरः सदा ।
इति सङ्कर्षणं(णे?)रूपमस्य वै दक्षिणे करे ॥ ११।१६ ॥

ऊर्ध्वे चक्रं त्वधो हस्ते मुसलं विन्यसेत् सुधीः ।
वामोर्ध्वे शङ्खमित्युक्तं पुण्डरीकं त्वधः करे ॥ ११।१७ ॥

दक्षिणे तु श्रियं वामे पुष्टिं संस्थापयेद्बुधः ।
इति सङ्कर्षणश्चोक्तः प्रद्युम्नं शृणु नारद ॥ ११।१८ ॥

पीताम्बरं चतुर्बाहुं सर्वावयवसंयुतम् ।
शङ्खचक्रगदापाणिं सर्वाभरणभूषितम् ॥ ११।१९ ॥

सर्वालङ्कारसंयुक्तमित्थं प्रद्युम्नरूपकम् ।
दक्षिणोर्ध्वकरे पद्ममधः कौमोदकीं न्यसेत् ॥ ११।२० ॥

वामोर्ध्वाधः स्थिते हस्ते शङ्खचक्रं तु विन्यसेत् ।
इत्थं प्रद्युम्नमूर्तं ते देवर्षे वर्णितो ऽधुना (तं मया?) ॥ ११।२१ ॥

अनिरुद्धं वदामो ऽत्र (म्यत्र?) शृणु नारद तत्त्वतः ।
नीलजीमूतसङ्काशं कालाञ्जनचयोपमम् ॥ ११।२२ ॥

शङ्खचक्रधरं देवं पीतवस्त्रं चतुर्भुजम् ।
सर्वाभरणसंयुक्तं सर्वावयवशोभितम् ॥ ११।२३ ॥

सर्वालङ्कारसंयुक्तमनिरुद्धमितीरितम् ।
अस्य वामकरे चोर्ध्वे शङ्खमन्यकरे गदाम् ॥ ११।२४ ॥

दक्षिणोर्ध्वे न्यसेच्चक्रमन्यत्राभयमिष्यते ।
अनिरुद्धं जगन्नाथमनन्तोपरि शायिनम् ॥ ११।२५ ॥

श्रियं दक्षिणतः पार्श्वे पुष्टिं वामे ऽस्य विन्यसेत् ।
शयने सति मूलार्चा द्विभुजं वा चतुर्भुजम् ॥ ११।२६ ॥

कल्पयेन्मुनिशार्दूल सर्वसम्पत् सुखावहम् ।
देवस्य पादपार्श्वे तु श्रियं पुष्टिं तु विन्यसेत् ॥ ११।२७ ॥

अथ वा कल्पयेद्देवमौलिपार्श्वे श्रियं मुने ।
चित्रं वाप्यर्धचित्रं वा चित्राभासं तु वा मुने ॥ ११।२८ ॥

यजमानेच्छया कुर्यात् देवीनां लक्षणं क्रमात् ।
इत्थं श्रियादिमूर्तीनां पूर्वपूर्वा गरीयसी ॥ ११।२९ ॥

अनिरुद्ध इति प्रोक्तो मत्स्यादीन् शृणु नारद ।
शतपत्रमयस्याथ पुण्डरीकस्य मध्यमे ॥ ११।३० ॥

पद्मासनस्थं मत्स्याष्टपरीतं कनकप्रभम् ।
त्रिणेत्रं द्विभुजं चैव प्राङ्मुखं पद्मधारिणम् ॥ ११।३१ ॥

सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ।
मत्स्याभिमानिनं(नो?)मूर्र्तिं(तं)इत्थमुक्तं च नारद ॥ ११।३२ ॥

पद्मपूर्वदले मत्स्यं सौवर्णं विन्यसेद् बुधः ।
आग्नेयदिग्दले मत्स्यं राजतं चाथ विन्यसेत् ॥ ११।३३ ॥

याम्यदिग्दलमध्ये तु मत्स्यं ताम्रनिभं न्यसेत् ।
नैऋत्यदिग्दले मत्स्यं कृष्णवर्णं तु विन्यसेत् ॥ ११।३४ ॥

वारुणे दिग्दले मत्स्यं रक्तवर्णं तु विन्यसेत् ।
वायव्यदिग्दले मत्स्यं श्यामवर्णं तु विन्यसेत् ॥ ११।३५ ॥

सौम्यदिग्दलमत्स्यं तु धूम्रवर्णं तु विन्यसेत् ।
ईशानदिग्दले मत्स्यमग्निवर्णं तु विन्यसेत् ॥ ११।३६ ॥

इत्यष्टदिग्दलस्थैस्तु मत्स्यैरभिमृखीकृतम् ।
मत्स्याभिमानिनं (नो?) मूर्तं तव स्नेहात् प्रदर्शितम् ॥ ११।३७ ॥

अस्य दक्षिणपार्श्वे तु श्रियं पुष्टिं परत्र च ।
विन्यसेन्मत्स्यरूपं वै कूर्मरूपं ततः शृणु ॥ ११।३८ ॥

कालाञ्जनगिरिप्रख्यं त्रिणेत्रं स्वाङ्गशोभितम् ।
चतुर्बाहुयुतं चैव सर्वाभरणभूषितम् ॥ ११।३९ ॥

अञ्जनमृत्सन्निभमूर्तिः द्वादशपत्रे वर्तितमब्जे ।
पद्मसमाख्यस्वासनयुक्तः कूर्मशरीरी विष्णुरिहास्ते ॥ ११।४० ॥

प्राक्क्रमतो ऽब्जद्वादशपत्रारूढशरीरैर्द्वादशकूर्मैः ।
अञ्जनवर्णप्रख्यशरीरेरावृतमूर्तिःस्वाभिमुखस्थैः ॥ ११।४१ ॥

शङ्खचक्रधरश्चैव पद्महस्तस्तथैव च ।
ततो द्वादशकूर्मा हि (कूर्मैर्हि?) देवो ऽप्यभिमुखीकृतः ॥ ११।४२ ॥

अस्य दक्षिणहस्तोर्ध्वे चक्रपद्मो(चक्रं पद्मं?)करान्तरे ।
वामोर्ध्वे शङ्खमित्युक्तं पद्मं चाधःस्थिते करे ॥ ११।४३ ॥

अस्य दक्षिणपार्श्वे तु श्रियं विन्यस्य बुद्धिमान् ।
पुष्टिं वामे न्यसेदेवं कूर्ममूर्तिरुदाहृता ॥ ११।४४ ॥

वाराहं शृणु वक्ष्यामि राजावर्तनिभं मुने ।
शङ्खवर्णं तु वा श्यामं सर्वलक्षणलक्षितम् ॥ ११।४५ ॥

नवयौवनसम्पूर्णां सर्वावयवसुन्दरीम् ।
नारीणामुत्तमां देवीं सुकेशां पङ्कजाननाम् ॥ ११।४६ ॥

विद्युल्लताप्रभां वापि श्यामां वापि कृताञ्जलिम् ।
सर्वालङ्कारसंयुक्तां निमग्नां जगतीं शुभाम् ॥ ११।४७ ॥

वामदोष्णा समालिङ्ग्य प्रोद्धृत्यालिङ्ग्य सुस्थिताम् ।
वामेन बाहुनाश्लिष्य जिघ्रन् देवीमुखं प्रभुः ॥ ११।४८ ॥

वामेनालिङ्ग्य हस्तेन तस्याः स्कन्धं तपोनिधे ।
गृहीत्वोरुं दृढं तस्याः दक्षिणेन करेण च ॥ ११।४९ ॥

सूकराङ्गं चतुर्बाहुं शङ्खचक्रधरं प्रभुम् ।
दक्षिणे तु न्यसेत् चक्रं वामे शङ्खं तु विन्यसेत् ॥ ११।५० ॥

इत्थं वराहरूपं ते प्रथमं परिपठ्यते ।
अथ वा क्रोडवक्त्रं च महाकायं सुदंष्ट्रकम् ॥ ११।५१ ॥

सर्वलक्षणसम्पन्नं श्रीवत्साङ्कितवक्षसम् ।
तिर्यक्संस्थितसूत्रं च रूपं वै यन्महात्मनः ॥ ११।५२ ॥

वाराहं मध्यमं प्रोक्तं सङ्क्षेपात्तु तपोनिधे ।
अथ वा शृणु वक्ष्यामि रूपं वाराहरूपिणः ॥ ११।५३ ॥

उद्धृत्य नासिकातुल्यं वामहस्तस्य को(कूर्?)परम् ।
वामपार्श्वार्धभागे तु निरीक्षन् को(कूर्?)परं सदा ॥ ११।५४ ॥

कटिप्रदेशमालम्ब्य पाणिना दक्षिणेन तु ।
एवं रूपं महाविष्णोः शङ्खचक्रधरस्य च ॥ ११।५५ ॥

अस्य दक्षिणहस्ताग्रे चक्रं शङ्खं परे च हि ।
इति वाराहमूर्तस्य त्रिधा रूपं तु दर्शितम् ॥ ११।५६ ॥

एवमुक्तस्य रूपस्य त्रिधाकारस्य नारद ।
इत्थं रूपं तु कर्तव्यं नृसिंहस्य ततः शृणु ॥ ११।५७ ॥

गलादधस्तान्नररूपधारी परत्र सिंहाननभृत्स्वरूपः ।
बिभर्ति नेत्राणि हुताशनार्कप्रभा- ञ्चितान्येव विभीषणानि ॥ ११।५८ ॥

शङ्खचक्रधरश्चैव सर्वाभरणभूषितः ।
सर्वावयवसम्पूर्णः सर्वसिद्धिकरःशुभः ॥ ११।५९ ॥

चक्रं च दक्षिणे हस्ते शङ्खं वामे न्यसेद्बुधः ।
श्वेतपर्वतसङ्काशं सर्वदुःखविनाशनम् ॥ ११।६० ॥

रक्तचन्दनदिग्धाङ्गं कालाभ्रोद्दामनिः स्वनम् ।
शरदिन्दुकलादंष्ट्रं क्रुद्धं हाटकताटकम् ॥ ११।६१ ॥

सुफुल्लवदनं शश्वत् दुष्टानामतिभीषणम् ।
एवं रूपं नृसिंहस्य कृत्वा पूर्वं मृदा (मुदा?) मुने ॥ ११।६२ ॥

पर्यङ्ककल्पितं कृत्वा आसीनं विष्टरे शुभे ।
हस्तयोःको(कूर्?)परे तस्य जान्वोरुपरि विन्यसेत् ॥ ११।६३ ॥

इत्थं नृसिंहरूपं ते वर्णितं वणतोचितम्(?) ।
वामनस्य वदामो ऽत्र (म्यत्र?) रूपं श्रुणु महामुने ॥ ११।६४ ॥

सुस्मितं पद्मनाभेन(?)वामनं वामनाकृतिम् ।
बालकुञ्जरसङ्काशं बृहत्स्कन्धं महाभुजम् ॥ ११।६५ ॥

श्यामलं नीरजाक्षं तु आयतामललोचनम् ।
क्षोणीतलं पदन्यासैः डोलयन्निव नारद ॥ ११।६६ ॥

जटाटवीसमायुक्तं सर्वेषां च मनोहरम् ।
द्विभुजं सव्यहस्तेन मुष्टिना दण्डधारिणम् ॥ ११।६७ ॥

आकुञ्चितं वामपादं स्वागतं दक्षिणं भुजम्(?) ।
हारकुण्डलकेयूरभूषणैर्भूषितं मुने ॥ ११।६८ ॥

लम्बयज्ञोपवीतेन मेखलानां त्रयेण च ।
संयुक्तं युक्तरूपं तु काश्यपं ब्रह्मचारिणम् ॥ ११।६९ ॥

कौपीनधारिणं वापि पीतवाससमेव च ।
रक्षार्थं विष्टापानां तु वामनत्वमुपागतम् ॥ ११।७० ॥

एवं सुलक्षणोपेतं रूपं कार्यं महामुने ।
जामदग्न्यस्य रामस्य रूपं वक्ष्याम्यतः परम् ॥ ११।७१ ॥

तस्य वर्णं सुवर्णाभं द्विभुजं श्वेतरक्तकम् ।
आसीनं तु प्रसन्नास्यं ब्रह्मलक्ष्मीसमावृतम् ॥ ११।७२ ॥

सर्वलक्षणसम्पूर्णं सर्वाभरणभूषितम् ।
सर्वालङ्कारसंयुक्तं जटामण्डलमण्डितम् ॥ ११।७३ ॥

परशुं दक्षिणे हस्ते वामे चापं सपत्रिणम् ।
वामे कमण्डलुं वापि चाक्षसूत्रं तु दक्षिणे ॥ ११।७४ ॥

इत्थं रूपं मुने तुभ्यं जामदग्न्यस्य वर्णितम् ।
रामस्याथ वदामो ऽत्र(म्यत्र?)रूपं दाशरथेस्तव ॥ ११।७५ ॥

अतीवरूपसम्पन्नौ नीलवेल्लितमूर्धजौ ।
व्यूढोरस्कौ नतांसौ च केयूराङ्गदचित्रितौ ॥ ११।७६ ॥

दीर्घबाहू श्रियोपेतौ सौम्यौ प्रहसिताननौ ।
कर्णान्तलोचनौ साक्षात् प्रथमे वयसि स्थितौ ॥ ११।७७ ॥

सौन्दर्यामृततोयैश्च सिञ्चन्ताविव विश्वतः ।
खङ्गहस्तौ धनुष्पाणी भुजविख्यातविक्रमौ ॥ ११।७८ ॥

बद्धगोधाङ्गुलित्राणौ मुने वैश्रवणोपमौ ।
औदार्यरूपसम्पद्भिः नृणां चित्तापहारिणौ ॥ ११।७९ ॥

कौसल्यायाः सुमित्रायाः प्रीतिदौ वीर्यवत्तरौ ।
राक्षसध्वान्ततिग्मांशू शूरौ दशरथात्मजौ ॥ ११।८० ॥

नरनारायणाख्यातौ तावुभौ रघुनन्दनौ ।
जगतां पालनार्थाय मनुष्यत्वमुपागतौ ॥ ११।८१ ॥

पुण्डरीकविशालाक्षौ तावुभौ पीतवाससौ ।
भुजान्ते बद्धतूणीरौ बाणपाणी महामुने ॥ ११।८२ ॥

निवसन्तौ श्रिया साकं वाल्मीकेः कवि(काव्य?)सागरे ।
रक्षसां मृत्युसङ्काशौ रावणस्यातिरावणौ ॥ ११।८३ ॥

नृपसूनू रघुश्रेष्ठौ भ्रातरौ रामलक्ष्मणौ ।
सर्वैश्च लक्षणैर्युक्तौ स्थापयेत्तन्त्रवित्तमैः ॥ ११।८४ ॥

समस्तलक्षणोपेतां सीतां रामस्य वल्लभाम् ।
नैऋतानां विनाशाय जातां शुद्धामयोनिजाम् ॥ ११।८५ ॥

त्रिगुणात्ममयीं मायां मूलप्रकृतिसंस्थिताम् ।
व्यक्तरूपेण सञ्ज्ञापि साक्षादव्यक्तरूपिणीम् ॥ ११।८६ ॥

पतिव्रतां महाभागां स्त्रीणामप्युत्तमां श्रियम् ।
रक्तपद्मकरां देवीं पद्मां पद्मोपमाननाम् ॥ ११।८७ ॥

यौवनोद्दामदिव्याङ्गीं सीतां जनकनन्दिनीम् ।
पातिव्रत्यगुणोपेतां सीतां रामस्य वल्लभाम् ॥ ११।८८ ॥

सर्वालङ्कारसंयुक्तां नीलालकशिरोरुहाम् ।
मालानिबद्धधम्मिल्लां मदविभ्रान्तलोचनाम् ॥ ११।८९ ॥

कालपीताम्बरधरा स्थापयेद्रामपार्श्वतः ।
सव्यमुष्टिं(ष्टौ?) ललाटान्तं कृतोर्ध्वमुखमन्तरम् ॥ ११।९० ॥

तस्मिन् त्र्यवनतं चापं बाणौघजधनं(?)दृढम् ।
वासवास्त्रं वामबाहौ कारयेनमुनिसत्तम ॥ ११।९१ ॥

सायकं कटिसूत्रे तु वामपाणिं(?)तु दक्षिणे ।
कालाग्निसदृशं बाणं पौलस्त्यान्तकरं दृढम् ॥ ११।९२ ॥

अन्तरे ऽस्य मुखं कृत्वा गोलकं चोल्बणं भवेत् (?) ।
मर्दन्तं रावणपुरं स्वबलं (सबलं?) चायुषं तथा ॥ ११।९३ ॥

निहत्य रामहस्तस्थं (?) स्थापयेद्दक्षिणे करे ।
वसुतालेन वा विद्वान् नवतालक्रमेण वा ॥ ११।९४ ॥

बेरस्य चानुरूपेण चरेत् सर्वायुधानि वै ।
कुञ्चितं वामपादं तु सुस्थितं दक्षिणं पदम् ॥ ११।९५ ॥

कनिष्ठिकाङ्कितस्थाने त्वङ्गुष्ठस्य स्थितिर्भवेत् ।
स्तोककुञ्चितजानुश्च पादो वामस्थितो भवेत् ॥ ११।९६ ॥

मुखे शरीरे कट्यां च त्रिष्वङ्गेष्वेषु नारद ।
त्रिभङ्गित्वान्मुनिश्रेष्ठ त्रिभङ्गीति प्रपठ्यते ॥ ११।९७ ॥

मुखं दक्षिणतो भङ्गं तनुमध्यं तु वामतः ।
दक्षिणे कटिभङ्गस्तु भङ्गत्रयमुदाहृतम् ॥ ११।९८ ॥

वामहस्तः सचापः स्याद्दक्षिणःसशिलीमुखः ।
लक्ष्मणस्य भवेदेवं लक्षणं भरतस्य तु ॥ ११।९९ ॥

शत्रुघ्नस्याप्यथैवं स्यादिति तन्त्रेषु निश्चितम् ।
संस्थाप्य मध्यमे रामं वामपार्श्वे ऽस्य लक्ष्मणम् ॥ ११।१०० ॥

दक्षिणे स्थापयेद्देवीं सीतां जनकनन्दिनीम् ।
शत्रुघ्नभरतौ कार्यावुत्तरे दक्षिणे क्रमात् ॥ ११।१०१ ॥

चामरासक्तबाहू तौ परिवारविधावपि ।
इति स्वतन्त्रे निर्दिष्टं परतन्त्रे वदाम्यहम् ॥ ११।१०२ ॥

लोहैश्च निर्मिते बेरे चोत्तमादिक्रमैर्मुने ।
ललाटपट्टपर्यन्तं पादाङ्गुष्ठात् समुच्छ्रयम् ॥ ११।१०३ ॥

द्वात्रिंशदङ्गुलं विद्धि उत्तमं कौतुकं द्विज ।
अस्मात् सप्ताङ्गुलैर्हीनं मध्यमं बेरमुच्छ्रयम् ॥ ११।१०४ ॥

अस्मात् नवाङ्गुलैर्हीनमधमं परिकीर्तितम् ।
इति दाशरथेर्मूर्तमुत्सेधं मुनिसत्तम ॥ ११।१०५ ॥

सीतालक्ष्मणयोश्चापि भरतस्यापि साम्प्रतम् ।
शत्रुघ्नस्यापि देवर्षे वदाम्यायाममद्य ते ॥ ११।१०६ ॥

देवस्य बाहुमूलान्तं देव्युत्सेधं प्रचक्षते ।
लक्ष्मणस्योच्छ्रयश्चापि रामस्यास्यान्तमीरितम् ॥ ११।१०७ ॥

लक्ष्मणस्य भुजान्तं स्यात् शत्रुघ्नस्योच्छ्रयो भवेत् ।
इति दीर्घप्रमाणोक्तं शेषं पूर्ववदाचरेत् ॥ ११।१०८ ॥

स्वतन्त्रे परतन्त्रे च लक्षणं तव भाषितम् ।
बलरामस्य वक्ष्यामि शृणु नारद लक्षणम् ॥ ११।१०९ ॥

बलभद्रः निभा (सिता?) भिख्यः कुन्देन्दुधवलप्रभः ।
पङ्कजाक्षो ऽङ्गनावक्त्रः सर्वावयवशोभितः ॥ ११।११० ॥

सर्वालङ्कारसंयुक्तः सर्वाभरणभूषितः ।
सर्वावयवसम्पूर्णः प्रभामण्डलमण्डितः ॥ ११।१११ ॥

अस्य दक्षिणबाहौ तु मुसलं वामके करे ।
हलं तु विन्यसेद्धीमान् बलरामस्य मन्त्रवित् ॥ ११।११२ ॥

दक्षिणे तु श्रियं देवीं सौम्ये तु गरुडं न्यसेत् ।
पीतं कृताञ्जलिं त्वेवं बलरामस्त्वथेरितः ॥ ११।११३ ॥

अतः परं प्रवक्ष्यामि कृष्णं कृष्णाञ्जनप्रभम् ।
स्थापनं कार्यमस्यैव स्थानकं तु विशेषतः ॥ ११।११४ ॥

त्रिभङ्ग्या सम्मितं तं तु स्थितं पीठे महामुने ।
क्रीडायष्टिसमायुक्तं देव्या च परमं हरिम् ॥ ११।११५ ॥

स्थापयेद्दैविके स्थाने सर्वज्ञं सर्वकारणम् ।
एवं सङ्क्षेपतः प्रोक्तं विविक्तेनाधुना मुने ॥ ११।११६ ॥

अतः(?)श्यामनिभं वापि पीताम्बरसमन्वितम् ।
वासुदेवं गुडाकेशं सर्वाभरणभूषितम् ॥ ११।११७ ॥

क्रीडायष्टिधरं देवं त्रिभङ्गस्थितिसंयुतम् ।
सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् ॥ ११।११८ ॥

वामपादतलं तिर्यक् क्रमेणैव तु कारयेत् ।
तत्कनिष्ठाङ्गुलिस्थाने चाङ्गुष्ठस्थितिमाचरेत् ॥ ११।११९ ॥

किञ्चित्कुञ्चितजानुश्च वामपादस्थितिर्भवेत् ।
वक्त्रे चैव तथा गात्रे कटियन्त्रे तथैव च ॥ ११।१२० ॥
त्रिषु मार्गेषु(भागेषु?)भङ्गित्वात् त्रिभङ्गित्वं विधीयते ।
वक्त्रं दक्षिणतो भङ्गे मध्यकायं तु वामतः ॥ ११।१२१ ॥

कटिदक्षिणतो भङ्गे भङ्गत्रयमुदाहृतम् ।
कारयेद्दक्षिणं हस्तं सुयष्टिं कटकान्वितम् ॥ ११।१२२ ॥

वामं देवीभुजासक्तं वामहस्तमधोमुखम् ।
वामं करतलं चैव नाभिसूत्रेण योजयेत् ॥ ११।१२३ ॥

दक्षिणं कटिहस्तं तु वक्त्रसूत्रेण योजयेत् ।
त्रिभागमानमायामं मुखं मूर्ध्नि त्रिगोलकम् ॥ ११।१२४ ॥

हनुग्रीवं त्रिमात्रार्धमर्धमात्रं गलं स्मृतम् ।
हिक्कानाभिमुखे चैव मध्यकायं प्रतिष्ठितम् ॥ ११।१२५ ॥

मेढ्रं नाभिमुखं नाहस्तस्मादूरूमुखद्वयम् ।
मानं सङ्क्षेपतः प्रोक्तं शेषं साधारणं स्मृतम् ॥ ११।१२६ ॥

देव्यौ तत्पार्श्वयोश्चैव स्थापयेत् क्रमयोगतः ।
देवस्य दक्षिणे कुर्यात् रुक्मिणों रुक्मसन्निभाम् ॥ ११।१२७ ॥

सत्यभामां च वामे तु कारयेच्छ्यामसन्निभाम् ।
पूर्ववत् कमलं गृह्यं सात्विकेन समायुतम् ॥ ११।१२८ ॥

स्वतन्त्रे चैवमुक्तं तु परतन्त्रे वदामि ते ।
लोहेन मुनिशार्दूल उत्तमादिक्रमेण तु ॥ ११।१२९ ॥

सम्प्रोक्तं राघवस्यैवं तद्वदुत्पादयेदिह ।
लक्षणं यादवेन्द्रस्य उत्सेधादिक्रमं मुने ॥ ११।१३० ॥

नवनीतार्थनृत्तं च सर्पनृत्तमथापि वा ।
इत्येवमादि मूर्तीनां लक्षणं मुनिसत्तम ॥ ११।१३१ ॥

यजमानेच्छया तस्मिन् कारयेत् स्वस्वलीलया ।
युक्त्या युक्तिविशेषेण प्रतिमां कारयेत् क्रमात् ॥ ११।१३२ ॥

इति यादवसिंहस्य लक्षणं परिकीर्तितम् ।
सङ्क्षेपेण मुनिश्रेष्ठ कल्कि(ल्की?)विष्णोरतः शृणु ॥ ११।१३३ ॥

अतिशोणव(णित?) सङ्काशो त्रिणेत्रो भीमरूपवान् ।
शङ्खचक्रगदापाणिश्चतुर्बाहुः किरीटधृक् ॥ ११।१३४ ॥

वनमालासमायुक्तः सर्वाभरणभूषितः ।
सर्वालङ्कारसंयुक्तः पीतवस्त्रसमन्वितः ॥ ११।१३५ ॥

एवं कल्किर्मया प्रोक्तो हेतिन्यासं वदामि ते ।
दक्षिणोर्घ्वकरे चक्रं वामोर्ध्वे शङ्खमेव तु ॥ ११।१३६ ॥

वामस्याधरहस्ते तु पाशं कृष्णनिभं न्यसेत् ।
कारयेद्दक्षिणे हस्ते कालदण्डं त्वधोमुखम् ॥ ११।१३७ ॥

श्रियं दक्षिणपार्श्वे तु वामे पुष्टिं न्यसेद्बुधः ।
द्बितीयावरणे चाष्टपरिवारसमन्वितम् ॥ ११।१३८ ॥

एवं सञ्चिन्त्य कल्किं तु पूजयेत्तु विधानतः ।
कलौ युगे विशेषेण कल्किं सम्पूजयेद् द्विज ॥ ११।१३९ ॥

नृपो वा नृपमात्रो वा पूजयेत्तु दिने दिने ।
सर्वान् कामानवाप्नोति जयलक्ष्मीं स गच्छति ॥ ११।१४० ॥

विशेषं चा(षश्चा?)त्र सम्प्रोक्तं(क्तः?)शेषं साधारणं स्मृतम् ।
एवं कल्केर्मया प्रोक्तं लक्षणं सर्वसिद्धिदम् ॥ ११।१४१ ॥

मूर्तीनां लक्षणं वक्ष्ये शास्त्रभेदेन चिह्नितम् ।
अदिमूर्तिः परो देवो वासुदेवः सनातनः ॥ ११।१४२ ॥

द्वितीया तु परा मूर्तिः सङ्कर्षण इति स्मृतः ।
प्रद्युम्नाख्या तृतीया तु मूर्तिरेषा सनातनी ॥ ११।१४३ ॥

चतुर्थी तु भवेन्मूर्तिः अनिरुद्धेतिसञ्ज्ञिता ।
चतस्रो मूर्तयस्त्वेताः प्रतिष्ठायाः पृथक् पृथक् ॥ ११।१४४ ॥

वासुदेवः परा मूर्तिः स्थापनीया द्विजोत्तमैः ।
द्वितीया स्थाप्यते मूर्तिः क्षत्रियैर्मोक्षकाङ्क्षिभिः ॥ ११।१४५ ॥

प्रद्युम्नाख्या तु विप्रेन्द्र वैश्यैः स्थाप्या मुमुक्षुभिः ।
शूद्रैः संस्थाप्यते मूर्तिरनिरुद्धो जगद्गुरुः ॥ ११।१४६ ॥

भेदैस्त्रिभिस्त्रिभिर्विप्र एकैका भिद्यते पुनः ।
वर्णास्त्रन्यासभेदेन भेदाश्च परिकीर्तिताः ॥ ११।१४७ ॥

मूर्तीनां केशवादीनां विविक्तेन शृणु क्रमात् ।
शङ्खकुन्दनिभं वापि ह्यथवा श्याममेव च ॥ ११।१४८ ॥

शङ्खचक्रगदापाणिं श्रीवत्साङ्कितवक्षसम् ।
सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ॥ ११।१४९ ॥

पीताम्बरसमायुक्तं चतुर्बाहुं किरीटिनम् ।
एवं ध्यायेन्मुनिश्रेष्ठ भुक्तिमुक्तिप्रदं हरिम् ॥ ११।१५० ॥

अस्त्रविन्यासभेदं च प्रवक्ष्यामि शृणु क्रमात् ।
दक्षिणोर्ध्वकरे चक्रं वामोर्ध्वे शङ्खमुद्वहन् ॥ ११।१५१ ॥

गदां वामाधरे हस्ते नीरजं दक्षिणाधरे ।
आदिमूर्तेस्तु भेदो ऽयं केशवाख्यं मुने शृणु ॥ ११।१५२ ॥

नारायणमथो वक्ष्ये शृणु नारद सत्तम ।
कुन्दपुष्पनिभं वापि श्यामं वा रक्तमेव वा ॥ ११।१५३ ॥

शङ्खचक्रगदापाणिं चतुर्बाहुं किरीटिनम् ।
पीताम्बरसमायुक्तं सर्वाभरणभूषितम् ॥ ११।१५४ ॥

सर्वावयवसंयुक्तं सर्वालङ्कारशोभितम् ।
सर्वदेवमयं सूक्ष्मं त्रैलोक्याधिपतिं हरिम् ॥ ११।१५५ ॥

एवं रूपं तु सञ्चिन्त्य हेतिन्यासमथो शृणु ।
दक्षिणे तु करे चोर्ध्वे पद्मं मुकुलकं न्यसेत् ॥ ११।१५६ ॥

अस्याधरे तु चक्रं स्यात् कालाग्निसदृशं मुने ।
वामोर्ध्वे तु गदां न्यस्य ह्यधोहस्ते ऽम्बुजं न्यसेत् ॥ ११।१५७ ॥

एवं चायुधविन्यासो माधवं चाधुना शृणु ।
शङ्खपुष्पदलप्रख्यं शङ्खचक्रगदाधरम् ॥ ११।१५८ ॥

सर्वावयवसम्पूर्णं सर्वालङ्कारशोभितम् ।
सर्वाभरणसम्पूर्णं चतुर्बाहुं किरीटिनम् ॥ ११।१५९ ॥

माधवस्त्वधुना प्रोक्तः मधुकैटभनाशनः ।
अस्त्रविन्यासभेदं तु शृणु चास्य महामुने ॥ ११।१६० ॥

वामपार्श्वोर्ध्वहस्ते तु शङ्खं धवलकं न्यसेत् ।
अधोहस्ते न्यसेद्रक्तं पद्मं च दशपत्रकम् ॥ ११।१६१ ॥

दक्षिणोर्ध्वकरे चक्रमधस्ताल्लकुटं न्यसेत् ।
तृतीया तु भवेन्मूर्तिः माधवाख्या तु नारद ॥ ११।१६२ ॥

वासुदेवस्य भेदो ऽयं वक्ष्ये सङ्कर्षणस्य ते ।
तरुणार्कनिभं वापि श्यामं वाभ्रनिभं तु वा ॥ ११।१६३ ॥

पीतवस्त्रं चतुर्बाहुं सर्वाभरणभूषितम् ।
सर्वावयवसंयुक्तं गोविन्दं गोकुलालमय् ॥ ११।१६४ ॥

एवं ध्यायेन्मुनिश्रेष्ठ सर्वकामप्रदं हरिम् ।
अस्यास्त्रन्यासभेदं तु श्रुणु नारद सत्तम ॥ ११।१६५ ॥

दक्षिणोर्ध्वकरे तस्य गदां चक्रमधो न्यसेत् ।
वामपार्श्वोर्ध्वहस्ते ऽब्जं शङ्खमन्ये तु विन्यसेत् ॥ ११।१६६ ॥

गोविन्द एवं सम्प्रोक्तः विष्ण्वाख्यमधुना शृणु ।
रक्तपद्मदलप्रख्यं श्यामं वा रक्तमेव वा ॥ ११।१६७ ॥

कृष्णं वा मुनिशार्दूल सर्वलक्षणसंयुतम् ।
सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ॥ ११।१६८ ॥

शङ्खचक्रगदापाणिं पीतवस्त्रं चतुर्भुजम् ।
सर्वालङ्कारसंयुक्तं ध्यायेद्विष्णुं सनातनम् ॥ ११।१६९ ॥

प्रथमे तु करे पद्मं ह्यधस्तात् कारयेद्गदाम् ।
वामे शङ्खं न्यसेत्तस्य ह्यधश्चक्रं विराजितम् ॥ ११।१७० ॥

अथ वा मुनिशार्दूल शृणु विष्णुं सनातनम् ।
ऋजुस्थितं सुसौम्यं यत्कटिहस्तसमन्वितम् ॥ ११।१७१ ॥

शङ्खचक्राभयोपेतं पीताम्बरसमन्वितम् ।
सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ॥ ११।१७२ ॥

सर्वालङ्कारसंयुक्तं ध्यायेद्विष्णुमनुत्तमम् ।
द्विप्रकारं मया प्रोक्तं विष्णुं सकलमव्ययम् ॥ ११।१७३ ॥

एवं ध्यायेन्मुनिश्रेष्ठ कर्तुरिच्छावशात् कुरु ।
रक्तोत्पलदलप्रख्यं पीतवस्त्रं चतुर्भुजम् ॥ ११।१७४ ॥

शङ्खचक्रगदापाणिं सर्वावयवशोभितम् ।
सर्वालङ्कारसंयुक्तं सर्वाभरणभूषितम् ॥ ११।१७५ ॥

सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ।
सर्वालङ्कारसंयुक्तं सर्वसिद्धिप्रदं परम् ॥ ११।१७६ ॥

प्रथमे तु करे शङ्गमधस्ताच्चक्रकं न्यसेत् ।
पद्मं वामोर्ध्वहस्ते तु गदां चाधः करे न्यसेत् ॥ ११।१७७ ॥

मधुसूदनमूर्तस्य लक्षणं विद्धि नारद ।
सङ्कर्षणस्य भेदो ऽयं त्रिविक्रममथ शृणु ॥ ११।१७८ ॥

तप्तहाटकसङ्काशं श्यामं वग्निनिभं तु वा ।
सर्वालङ्कारसंयुक्तं सर्वावयवशोभितम् ॥ ११।१७९ ॥

सर्वाभरणसंयुक्तं पीतवस्त्रं चतुर्भुजम् ।
शङ्खचक्रगदापाणिं सर्वदेवैः नमस्कृतम् ॥ ११।१८० ॥

त्रिविक्रमस्य सम्प्रोक्तं लक्षणं च समृद्धिदम् ।
गदां प्रथमहस्ते तु ह्यधस्ताच्चक्रमुद्वहन् ॥ ११।१८१ ॥

वामे पद्ममधःशङ्खं दृश्यते यत्र कुत्रचित् ।
यथाकामं तु वा चास्त्रविन्यासं मुनिसत्तम ॥ ११।१८२ ॥

एवं चायुधविन्यासो प्रोक्तो वामन उच्यते ।
कर्णिकारदलप्रख्यं रक्तवर्णं चतुर्भुजम् ॥ ११।१८३ ॥

सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ।
सर्वालङ्कारसंयुक्तं सर्वसिद्धिप्रदं परम् ॥ ११।१८४ ॥

प्रथमे तु करे चक्रं अधःशङ्खश्च दृश्यते ।
गदा च वामहस्ते तु ह्यधः पद्मं च शोभते ॥ ११।१८५ ॥

वामनाख्यस्तु विप्रेन्द्र विज्ञेयःशुभलक्षणः ।
तप्तजाम्बूनदप्रख्यं श्रीवत्साङ्कितवक्षसम् ॥ ११।१८६ ॥

सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ।
पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ॥ ११।१८७ ॥

श्रीधरस्य मया प्रोक्तं लक्षणं भुक्तिमुक्तिदम् ।
ऊर्ध्वे चक्रमधः पद्मं दक्षिणे तु करे न्यसेत् ॥ ११।१८८ ॥

वामे चैव गदा ज्ञेया ह्यधःशङ्खं विराजितम् ।
तथा श्रीधरमूर्तिस्तु विज्ञेया देशिकोत्तमैः ॥ ११।१८९ ॥

एवं प्रद्युम्नभेदस्तु अनिरुद्धाख्य उच्यते ।
नीलोत्पलदलप्रख्यं चतुर्बाहुं किरीटिनम् ॥ ११।१९० ॥

शङ्खचक्रगदापाणिं सर्वाभरणभूषितम् ।
श्रीवत्सवक्षसोपेतं हृषीकेशं सनातनम् ॥ ११।१९१ ॥

दक्षिणे ऽस्य महाचक्र गदां च तदधःस्थिताम् ।
वामहस्ते महापद्ममधस्ताच्छङ्खमेव च ॥ ११।१९२ ॥

सा मूर्तिस्तु तदा ज्ञेया हृषीकेशेति(शस्य?)नारद ।
पद्मनाभस्य वक्ष्ये ऽहं लक्षणं भुक्तिमुक्तिदम् ॥ ११।१९३ ॥

नीलवर्णनिभं वाथ श्यामं वा मुनिसत्तम ।
सञ्ज्ञात्वा लक्षणं तत्र सर्वज्ञं सर्वकारणम् ॥ ११।१९४ ॥

कारयेन्मुनिशार्दूल शिल्पिभिः सह साधकः ।
सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम् ॥ ११।१९५ ॥

सर्वावयवसम्पूर्णं चतुर्बाहुं किरीटिनम् ।
शङ्खचक्रगदापाणिं पीताम्बरसमन्वितम् ॥ ११।१९६ ॥

श्रीवत्सवक्षसोपेतं पद्मनाभमवै(वे?) हि तम् ।
प्रथमे ऽस्य करे पद्ममधस्ताच्छङ्ख एव तु ॥ ११।१९७ ॥

वामे च दृश्यते चक्रं गदा च तदधः स्थिता ।
सा मूर्तिः पद्मनाभेति नमस्कार्या विचक्षणैः ॥ ११।१९८ ॥

विन्यसेद्वा यथाकामं शस्त्रविन्यासमत्र तु ।
अथ वा पद्मनाभस्य लक्षणं शृणु सुव्रत ॥ ११।१९९ ॥

द्विभुजं पङ्कजाक्षं तु श्यामं वाग्निनिभं तु वा ।
ध्यायेत्तस्मिन् मुनिश्रेष्ठ कारयेल्लक्षणैर्युतम् ॥ ११।२०० ॥

शयने सति सम्प्रोक्तं पद्मनाभस्य नारद ।
अत्र कर्मार्चनादीनां लक्षणं वक्ष्यते ऽधुना ॥ ११।२०१ ॥

योगमुद्रासमायुक्तं शङ्खचक्रसमन्वितम् ।
कारयेत्तु मुनिश्रेष्ठ कर्मार्चां पूर्ववत्तु वा ॥ ११।२०२ ॥

इत्येवं पद्मनाभस्य लक्षणं परिकीर्तितम् ।
भित्तिपार्श्वे ऽस्य नाभ्यूर्ध्वे रक्तपद्मं सुनालकम् ॥ ११।२०३ ॥

कारयेत् सुमनोरम्यं शतपत्रं सकर्णिकम् ।
तदर्धं वार्धकं वापि दलं पद्मस्य नारद ॥ ११।२०४ ॥

कर्णिकाग्रे विधिं ध्यायेत् लक्षणैःसह नारद ।
तल्लक्षणं प्रवक्ष्यामि शृणु भुक्तिशुभप्रदम् ॥ ११।२०५ ॥

पद्मासनसमायुक्तं विधिं कनकसन्निभम् ।
चतुर्भुजं समासीनं चतुर्वक्त्रं सनातनम् ॥ ११।२०६ ॥

सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ।
सर्वदेवमयं सूक्ष्मं सृष्टिस्थितिलयात्मकम् ॥ ११।२०७ ॥

एवं रूपं ततो ध्यायेत् ब्रह्माणं कमलोद्भवम् ।
ब्रह्मणो दक्षिणे हस्ते स्रुक्स्रुवाक्षांश्च विन्यसेत् ॥ ११।२०८ ॥

वामहस्ते न्यसेत् पद्मं ऊर्ध्वे चैव कमण्डलुम् ।
अभयं वरदं वापि वामहस्ताधरं मुने ॥ ११।२०९ ॥
एवं रूपं तु सञ्चिन्त्य ब्रह्माणं कमलासनम् ।
अथ वा कारयेन्न्यासं शृणु गुह्योपरि क्रमात् ॥ ११।२१० ॥

विपरीतेन हस्ताभ्यामूरुमूले तु संस्पृशेत् ।
अङ्गुल्यग्रे मुनिश्रेष्ठ योगमुद्रे ऽयमुच्यते ॥ ११।२११ ॥

योगमुद्रा मया प्रोक्ता सर्वयोगेषु योजयेत् ।
अस्य दक्षिणपार्श्वे तु मेधां वामे सरस्वतीम् ॥ ११।२१२ ॥

विन्यसेच्च स्वतन्त्रे तु परतन्त्रे तयोर्विना ।
एवं कृत्वा विधानेन ब्रह्माणं कमलासनम् ॥ ११।२१३ ॥

पद्मनाभस्य मूर्ताङ्गं परतन्त्रमिति (?)स्मृतम् ।
स्वतन्त्रे मुनिशार्दूल शिल्पिभिः सह मन्त्रवित् ॥ ११।२१४ ॥

कल्पयेद्विधिवत् पद्मं संस्थाप्य कमलासनम् ।
ब्रह्मस्थाने ऽथवा पूर्वे दक्षिणे पश्चिमे ऽथ वा ॥ ११।२१५ ॥

ग्रामस्योत्तरपार्श्वे वा कल्पयेदास्पदं क्रमात् ।
नदीतीरे तटाकस्य तीरे वा मुनिसत्तम ॥ ११।२१६ ॥

यजमानेच्छया कल्प्यो प्रासादो विधिवत् क्रमात् ।
तद्ब्राह्मे दैविके वापि कारयेत् कमलासनम् ॥ ११।२१७ ॥

षङ्बेरं वा त्रिबेरं वा स्थापयेत्तु विधानतः ।
सम्पूजयेत्ततो भक्त्या वैष्णवैर्वेदपारगैः ॥ ११।२१८ ॥

पञ्चरात्रसमायुक्तैरूहापोहसमर्थकैः ।
स्वतन्त्रेणैव वा तत्र ब्रह्मसूक्तेन वा मुने ॥ ११।२१९ ॥

पुरुष(नर?)सूक्तेन वा ब्रह्मन् पूजयेत्तु विधानतः ।
एवं सम्पूजयेत्तत्र शेषं साधारणं स्मृतम् ॥ ११।२२० ॥

ब्रह्मणो ऽग्रे विमाने च हंसं तस्य पदे मुने ।
कारयेद्वाहनार्थं वा यथाकामं विचित्रितम् ॥ ११।२२१ ॥

गर्भागारे प्रवक्ष्यामि परिवारविशेषकम् ।
पैशाचे द्वारदेशे च शृणु गुह्यमनुत्तमम् ॥ ११।२२२ ॥

कपिलः काश्यपो दक्षो दक्षिणं पक्षमाश्रितः ।
रुद्रो वह्निर्मरुच्चापि वामपार्श्वं समाश्रिताः ॥ ११।२२३ ॥

भृगुश्च नारदश्चापि विमानद्वारपालकौ ।
चन्द्रादित्यौ मुनिश्रेष्ठ द्वितीयद्वारपालकौ ॥ ११।२२४ ॥

शङ्खपद्मनिधी चैव तृतीयद्वारपालकौ ।
तत्पूजा मुनिशार्दूल यज्ञस्वाध्यायकर्मकृत् ॥ ११।२२५ ॥

ब्रह्मऋद्धिकरं पुंसां सर्वसम्पत्सुखावहम् ।
सर्वदुःखविनाशं तत् राजराष्टविवृद्धिदम् ॥ ११।२२६ ॥

तस्मात्सर्वप्रयत्नेन विधिं विधिवदर्चयेत् ।
विशेषश्चात्र सम्प्रोक्तः शेषं साधारणं स्मृतम् ॥ ११।२२७ ॥

एवं सङ्क्षेपतः प्रोक्तं स्वतन्त्रार्चाविधानकम् ।
ब्रह्मणो मुनिशार्दूल दामोदरमथो शृणु ॥ ११।२२८ ॥

नीलजीमूतसङ्काशं पीतवस्त्रं चतुर्भुजम् ।
सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ॥ ११।२२९ ॥

सर्वालङ्कारसंयुक्तं श्रीवत्साङ्कितवक्षसम् ।
शङ्खचक्रगदापाणिं वनमालाविराजितम् ॥ ११।२३० ॥

एवं ध्यायेत् स्वरूपं तु दोमोदरमनामयम् ।
प्रथमे ऽस्य करे शङ्ख अधस्तात् पद्ममेव हि ॥ ११।२३१ ॥

वामे चैव गदा तस्य ह्यधस्ताच्चक्रमेव हि ।
अनिरुद्धस्य भेदो ऽयं दामोदर इति स्मृतः ॥ ११।२३२ ॥

चतसृणां च मूर्तीनां भेदाः सम्परिकीर्तिताः ।
आदिमूर्ति प्रतिष्ठाख्या नित्यमर्चा युगे युगे ॥ ११।२३३ ॥

त्रेतायां तु द्वितीया तु तृतीया द्वापरे तथा ।
कलौ युगे ऽनिरुद्धस्तु सर्वे सर्वेषु वा पुनः ॥ ११।२३४ ॥

परमेष्ठ्यादिमन्त्रैस्तु स्थापयेत्तु यथाक्रमम् ।
एवं द्वादशमूर्तीनां लक्षणं परिपठ्यते ॥ ११।२३५ ॥

किंशुकारं(?) समप्रख्यं त्रिणेत्रं भीमरूपिणम् ।
सहस्रं वा तदर्धं वा ह्यष्टोत्तरशतं तु वा ॥ ११।२३६ ॥

अथ वाष्टभुजं वापि कारयेत्सुमनोरमम् ।
पीताम्बरसमायुक्तं सर्वाभरणभूषितम् ॥ ११।२३७ ॥

सर्वालङ्कारसंयुक्तं सर्वप्रहरणान्वितम् ।
एवं रूपं तु सञ्चिन्त्य विश्वरूपमयं हरिम् ॥ ११।२३८ ॥

दक्षिणोर्ध्वकरे चक्रं मुसलं चापरे भुजे(करे?) ।
तस्याधरे तु पाशःस्यात् अङ्कुशं चापरे न्यसेत् ॥ ११।२३९ ॥

चक्रं वामाधरे हस्ते तस्योर्ध्वे लकुटं न्यसेत् ।
लकुटस्योर्ध्वहस्ते तु शङ्खं गोक्षीरसन्निभम् ॥ ११।२४० ॥

शङ्खोर्ध्वे सशरं चापमेवं प्रहरणं न्यसेत् ।
शेषाण्यस्त्राणि सर्वाणि यथाकामं न्यसेत् करे ॥ ११।२४१ ॥

विश्वरूपस्य सम्प्रोक्तं लक्षणं जयवृद्धिदम् ।
शुद्धस्फटिकसङ्काशं त्रिपादं सप्तहस्तकम् ॥ ११।२४२ ॥

वेदशृङ्गं द्विवदनं त्रिणेत्रं पीतवाससम् ।
शङ्खचक्रगदापाणिं सर्वाभरणभूषितम् ॥ ११।२४३ ॥

सर्वावयवसम्पूर्णं सर्वालङ्कारशोभितम् ।
एवं सङ्क्षेपतो प्रोक्तं यज्ञेशं चाघनाशनम् ॥ ११।२४४ ॥

दक्षिणे ऽस्य करे चोर्ध्वे चक्रं कालाग्निसन्निभम् ।
लकुटं चापरे न्यस्य वामोर्ध्वे शङ्खमुद्वहन् ॥ ११।२४५ ॥

अस्याधरे ऽभयं हस्तं वरदं वा स्मरेन्मुने ।
हविर्भागग्रहीतारं त्रिहस्तेन समाहितम् ॥ ११।२४६ ॥

एवं ध्यायेतत्त्रिसन्ध्यायां यज्ञेशं परमं हरिम् ।
त्रिसन्ध्यमेकसन्ध्यं वा यज्ञेशं पूजयेद् द्विजः ॥ ११।२४७ ॥

सर्वान् कामानवाप्नोति सर्वयज्ञफलं लभेत् ।
ध्यानेनोत्पद्यमानेन सम्यग्ज्ञानमवाप्यते ॥ ११।२४८ ॥

तस्मात्सर्वप्रयत्नेन यज्ञेशं पूजयेद् द्विजः ।
यज्ञेशस्त्वधुना प्रोक्तो वेदमूर्तिमथो शृणु ॥ ११।२४९ ॥

श्यामं पर्वतसङ्काशं चतुर्बाहुं किरीटिनम् ।
सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ॥ ११।२५० ॥

शङ्खचक्रगदापाणिं त्रिणेत्रं भीमरूपिणम् ।
पीताम्बरसमायुक्तं सर्वापलङ्कारसंयुतम् ॥ ११।२५१ ॥

सर्ववेदमयं सूक्ष्मं गुह्याद्गुह्यमनुत्तमम् ।
वेदमूर्तिर्मया प्रोक्ता हेतिन्यासमथो शृणु ॥ ११।२५२ ॥

अस्य दक्षिणहस्तोर्ध्वे चक्रं कालानलप्रभम् ।
चापं चाधरहस्ते तु विन्यसेत्तु महामुने ॥ ११।२५३ ॥

सव्यपार्श्वोर्ध्वहस्ते तु पाञ्चजन्यमधो गदाम् ।
एवं चायुधविन्यासं श्रियादीनामथ शृणु ॥ ११।२५४ ॥

तप्तजाम्बूनदमयीं चतुर्हस्तसमन्विताम् ।
सर्वावयवसम्पूर्णां सर्वाभरणभूषिताम् ॥ ११।२५५ ॥

सर्वशक्तिसमोपेतां मकुटादिविराजिताम् ।
सर्वालङ्कारसंयुक्तां सर्वरत्नविराजिताम् ॥ ११।२५६ ॥

रक्तपद्मधरां देवीं रक्ताम्बरसमन्विताम् ।
पद्मासनसमायुक्तां साक्षाद्देवीं हरिप्रियाम् ॥ ११।२५७ ॥

सर्वालङ्कारसंयुक्तां सर्वरत्नविराजिताम् ।
शङ्खचक्राम्बुजधरां लक्ष्मीमेवं तु चिन्तयेत् ॥ ११।२५८ ॥

दक्षिणोर्ध्वकरे चक्रमधः पद्मं विराजितम् ।
वामे शङ्खमधः पद्मं वरदं वाभयं तु वा ॥ ११।२५९ ॥

एवं ध्यायेन्मुनिश्रेष्ठ स्वतन्त्रार्चाविधानके ।
परतन्त्रे तु वक्ष्यामि लक्षणं पुष्टिसंयुतम् ॥ ११।२६० ॥

शङ्खचक्रं व्यपोह्यैव श्रियं पुष्टिं तु कल्पयेत् ।
द्विभुजां कनकाभासां श्रियं विन्यस्य दक्षिणे ॥ ११।२६१ ॥

पुष्टिं वामे न्यसेत्तस्याः लक्षणं शृणु नारद ।
दूर्वाश्यामां सुरक्तां वा द्विभुजां पङ्कजाननाम् ॥ ११।२६२ ॥

सर्वावयवसम्पूर्णां मकुटादिविराजिताम् ।
रक्तपद्मोर्ध्वगां देवीं सर्वाभरणभूषिताम् ॥ ११।२६३ ॥

दिव्यमाल्याम्बरधरां दिव्यरत्नविराजिताम् ।
रक्तपद्मकरां देवीं ध्यायेत् पुष्टिं हरिप्रियाम् ॥ ११।२६४ ॥

एवं ध्यात्वा मुनिश्रेष्ठ कारयेत् सुमनोरमाम् ।
एवं पुष्टिं तु सञ्चिन्त्य सर्वदुःखाघनाशिनीम् ॥ ११।२६५ ॥

मेधामूर्तिमथो वक्ष्ये सर्वविद्याप्रदायिनीम् ।
रक्तपद्मदलप्रख्यां पद्मासनगतां शुभाम् ॥ ११।२६६ ॥

सर्वलक्षणसम्पन्नां सर्वाभरणभूषिताम् ।
द्विभुजां द्विदृशां(शं?) देवीं मेधां मकुटधारिणीम् ॥ ११।२६७ ॥

मेधा चैव मया प्रोक्ता वाग्देवीमधुना शृणु ।
शुद्धस्फटिकसङ्काशां श्वेतपद्मगतां शुभाम् ॥ ११।२६८ ॥

पद्मासनसमोपेतां चतुर्हस्तसमन्विताम् ।
श्वेताम्बरसमायुक्तां मुक्ताभरणभूषिताम् ॥ ११।२६९ ॥

त्रिदृशां(शं?)द्विदृशां(शं?) वापि ह्यक्षमालाधरां शुभाम् ।
व्याख्यानपुस्तकायुक्तां वाग्देवीं मकुटान्विताम् ॥ ११।२७० ॥

एवं सरस्वतीं ध्यायेत् सर्वदेवीमयीं पराम् ।
परतन्त्रविधानं चेत् प्रवक्ष्यामि सरस्वतीम् ॥ ११।२७१ ॥

सर्वलक्षणसम्पन्नां सर्वावयवशाभिताम् ।
सर्वाभरणसंयुक्तां द्विभुजां द्विदृशां(शं?) पराम् ॥ ११।२७२ ॥

विशेषश्चात्र सम्प्रोक्तः शेषं पूर्ववदाचरेत् ।
इत्येवं परतन्त्रे तु लक्षणं परिपठ्यते ॥ ११।२७३ ॥

गणनावलयं चोर्ध्वे वामस्योर्ध्वे कमण्डलुम् ।
पुस्तकं चाधरे हस्ते सर्वविद्यार्णवामृतम् ॥ ११।२७४ ॥

प्रतिपादनमुद्रां च दक्षिणाधरहस्तके ।
परतन्त्रे मुनिश्रेष्ट पद्महस्तां शुभाननाम् ॥ ११।२७५ ॥

अङ्घ्रिपार्श्वेंऽशुकं गृह्य एवं वाणीं प्रकल्पयेत् ।
एवं सङ्क्षेपतः प्रोक्तं दुर्गामूर्तिमथो शृणु ॥ ११।२७६ ॥

श्यामाद्रिशिखराकारां त्रिणेत्रां पङ्कजाननाम् ।
द्विनेत्रां वा मुनिश्रेष्ठ चतुर्हस्ताष्टकं तु वा ॥ ११।२७७ ॥

सर्वावयवसम्पूर्णां मकुटादिविराजिताम् ।
शङ्खचक्राभयभुजां(करां?)पद्मस्योपरि संस्थिताम् ॥ ११।२७८ ॥

दुर्गां चैवं मया प्रोक्तां हेतिन्यासमथो शृणु ।
दक्षिणोर्ध्वकरे चक्रमभयं चापरे करे ॥ ११।२७९ ॥

वामोर्ध्वे कम्बु विन्यस्य ह्यधस्तात् कटिहस्तकम् ।
एवं चतुर्भुजे प्रोक्त अष्टहस्ते त्वथो शृणु ॥ ११।२८० ॥

तस्य दक्षिणहस्तोर्ध्वे चक्रं कालाग्निसन्निभम् ।
अस्याधरे तु शङ्खः स्यात् खङ्गं चाधरदोष्णि तु ॥ ११।२८१ ॥

स(त्रि?) शूलं विद्रुमप्रख्यं विन्यसेदपरे शुभे(करे?) ।
एवं दक्षिणपार्श्वे तु प्रोक्तं वामे त्वथ शृणु ॥ ११।२८२ ॥

चापो वामोर्ध्वहस्ते स्यात् ह्यधस्ताच्छङ्ख एव तु ।
परिघोप्यधरे हस्ते गदा चैवापरे करे ॥ ११।२८३ ॥

एवं सङ्क्षेपतः प्रोक्तां महिषान्तकरी शुभा ।
अत्र कश्चिद्विशेषो ऽस्ति दुर्गापूजाविधिक्रमे ॥ ११।२८४ ॥

संहितां तु करे गृह्य पूजयेद्विधिचोदितम् ।
विशेषश्चात्र सम्प्रोक्तः शेषं साधारणं स्मृतम् ॥ ११।२८५ ॥

विघ्नेशं वैष्णवं वक्ष्ये सर्वविघ्नोपनाशनम् ।
उत्पत्तिलक्षणं चास्य सङ्क्षेपाच्छृणु नारद ॥ ११।२८६ ॥

नारायणांशकं साक्षादाकाशात्मकमव्ययम् ।
हस्तिवक्त्रसमायुक्तं लीलयाग्नौ समुद्भवम् ॥ ११।२८७ ॥

दुष्टप्रध्वंसनार्थाय यागाग्नौ परमं हरिम(?) ।
अतस्तल्लक्षणं वक्ष्ये विविक्तेन शृणु क्रमात् ॥ ११।२८८ ॥

श्वेतं कृष्णं तथा श्यामं रक्तं वा मुनिसत्तम ।
सञ्ज्ञात्वा लक्षणोपेतं कारयेद्धस्तिवक्त्रकम् ॥ ११।२८९ ॥

सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ।
चतुर्बाहुं द्विनेत्रं च त्रिणेत्रं वात्र कारयेत् ॥ ११।२९० ॥

नागयज्ञोपवीताङ्गं श्वेताम्बरसमन्वितम् ।
शङ्खचक्रसमायुक्तं वरदं रशनाङ्कुशम्(?) ॥ ११।२९१ ॥

विन्यसेन्मुनिशार्दूल कर्तुरिच्छावशात् क्रमात् ।
कारयेद्यागविघ्नस्य नाशार्थं विघ्ननायकम् ॥ ११।२९२ ॥

दक्षिणे ऽस्य न्यसेच्चक्रमभयं त्वपरे भुजे(करे?) ।
वामे शङ्खं न्यसेदूर्ध्वे ह्यधस्ताल्लकुटं न्यसेत् ॥ ११।२९३ ॥

एवं चक्रादिसम्प्रोक्तमपरं चाधुना शृणु ।
दक्षिणे परशुं न्यस्य ह्यधः पाशाङ्कुशं न्यसेत् ॥ ११।२९४ ॥

अक्षमालां न्यसेद्वामे पाशं चाधरदोषणि ।
विन्यसेन्मुनिशार्दूल हस्तिवक्त्राग्रके फलम् ॥ ११।२९५ ॥

द्विप्रकारं मया प्रोक्तं विघ्नेशायुधकं भवेत् ।
विन्यसेन्मुनिशार्दूल साधकेच्छानुरूपतः ॥ ११।२९६ ॥

स्वतन्त्रे परतन्त्रे च रूपमेवं तु चिन्तयेत् ।
आखुस्तद्वाहनं प्रोक्तं गरुडं वाग्रतः स्मरेत् ॥ ११।२९७ ॥

नारायणांशकत्वाच्च प्रोक्तस्तत्र खगेश्वरः ।
गणानां तु त्र्यृचा तत्र विघ्नेशं योर्ऽचयेद् द्विजः ॥ ११।२९८ ॥
सर्वान् कामानवाप्नोति राज्ञस्तु विजयो भवेत् ।
अत्र कश्चिद्विशेषो ऽस्ति शृणु त्वं मुनिपुङ्गव ॥ ११।२९९ ॥

विमानलक्षणं चैव प्रतिमाद्रव्यमेव च ।
प्रतिमालक्षणं चैव परिवारस्य लक्षणम् ॥ ११।३०० ॥

पूजनादीनि सर्वाणि मूर्तीनां मुनिपुङ्गव ।
साधारणक्रमं ज्ञात्वा आदिमूर्तिवदाचरेत् ॥ ११।३०१ ॥

परमात्मादिमूर्तीनां विघ्नेशान्तं महामुने ।
स्वतन्त्रे परतन्त्रे च पूजयेत् स्वस्वविद्यया ॥ ११।३०२ ॥

वामनं विघ्नराजं च स्वतन्त्रं चेन्मुनीश्वर ।
श् एकबेरं तु संस्थाप्य पूजयेत्तु दिने दिने ॥ ११।३०३ ॥

षङ्बेरं वा त्रिबेरं वा संस्थाप्य विधिना मुने ।
नेष्यन्ते ऽत्र श्रियादीनि शक्तिस्थापनकं परम् ॥ ११।३०४ ॥

विशेषश्चात्र सम्प्रोक्तः शेषं साधारणं भवेत् ।
लक्ष्मीं पुष्टिं च वाग्देवीं मेधां दुर्गां च तत्र वै(?) ॥ ११।३०५ ॥

स्वतन्त्रे परतन्त्रे च पूजयेत् स्वस्वविद्यया ।
विशेषश्चात्र सम्प्रोक्तः पूजाभेदमतः शृणु ॥ ११।३०६ ॥

मूर्तीनां तु प्रवक्ष्यामि प्रासादादीनि पूर्ववत् ।
परमात्मादिमूर्तीनां पूजाभेदविशेषकम् ॥ ११।३०७ ॥

शयने सति मूलार्चा कर्मार्चा चासनं भवेत् ।
स्थानकं वापि कुर्वीत तद्बेरं तु चतुर्भुजम् ॥ ११।३०८ ॥

बलिबेरं तथा कुर्यादुत्सवे(वं?) स्नपने(नं?) तथा ।
स्थानकस्यैवमेव स्यात् यानकं वापि कारयेत् ॥ ११।३०९ ॥

आसीने तु महाबेरे सर्वमासीनमेव वा ।
स्थानकं वापि कुर्वीत सर्वमेवं चतुर्भुजम् ॥ ११।३१० ॥

मत्स्यादिदशमूर्तीनां पूजाबिम्बं चतुर्भुजम् ।
मूलबेरे तु यत्(यथा?) प्रोक्तं तथैव मुनिसत्तम ॥ ११।३११ ॥

अवतारे ऽथ वा कुर्यादर्चनाबेरमत्र वै ।
अत्र कश्चिद्विशेषो ऽस्ति मत्स्यादीनां तु नारद ॥ ११।३१२ ॥

प्रवक्ष्यामि मुनिश्रेष्ठ शृणु मत्स्यादिकान् क्रमात् ।
बहिरावरणे कुर्यात् अवतारालयं बुधः ॥ ११।३१३ ॥

मण्डपे गोपुरे वापि प्राकारे वा स्वतन्त्रके ।
सर्वकामप्रदं पुण्यमायुरारोग्यवर्धनम् ॥ ११।३१४ ॥

जयलक्ष्मीविवृद्ध्यर्थं स्वतन्त्रपरतन्त्रयोः ।
अवतारार्चनफलं लोकेषु परिपठ्यते ॥ ११।३१५ ॥

पर्वते वा वने वापि ग्रामे वा नगरे ऽपि वा ।
कारयेल्लक्षणोपेतान् यथावत्तत्क्रमान्मुने ॥ ११।३१६ ॥

स्वतन्त्रेणैव वा चास्मिन् परतन्त्रेण वा मुने ।
कारयेत् प्रतिमां तत्र पूर्वोक्तद्रव्यसंयुतम् ॥ ११।३१७ ॥

संस्थाप्य विधिवत्तेषां(त्ताश्च?) पूजयेत्तु दिने दिने ।
स्वतन्त्रार्चाविधाने तु मूर्तिभेदविधिं शृणु ॥ ११।३१८ ॥

बलिबिम्बोत्सवादींश्च वासुदेवादिकान् नयेत् (न्यसेत्?) ।
मूलमूर्त्यनुसारं तु न कुर्याद्वावतारके ॥ ११।३१९ ॥

यजमानेच्छया चास्मिन् यथाकामं समाचरेत् ।
परिवाराणि सर्वाणि पूर्ववत् क्रमयोगतः ॥ ११।३२० ॥

कल्पयेदवताराणं स्वतन्त्रार्चाविधानके ।
द्वाराद्यावरणान् सर्वान् कुर्याच्चैव स्वतन्त्रके ॥ ११।३२१ ॥

युक्त्या युक्तिविशेषेण क्रियते(कुर्याद्वै?) चात्र बुद्धिमान् ।
एवमुक्तप्रकारेण प्रतिमां कुरुते यदि ॥ ११।३२२ ॥

सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति ॥

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [वर्णायुधविन्यासविधिर्नाम] एकादेशो ऽध्यायः