१०

दशमो ऽध्यायः

नारदः—
प्रतिमालक्षण किं वा मूर्तिभेदस्य लक्षणम् कथं वा ।
सूर्यविन्यासो (?) वद मे वदतां वर ॥ १०।१ ॥

विष्वक्सेनः—

साधु साधु महाप्राज्ञ प्रश्नमेतज्जगद्धितम् (?) ।
आदरात् प्रतिमां यत्नात् शृणुष्वावहितो भवा ॥ १०।२ ॥

परमात्मा भवेदादौ (द्यः?) द्वितीये (यो?) वासुदेवकः ।
सङ्कर्षणस्तृतीयः स्यात् प्रद्युम्नस्तु चतुर्थकः ॥ १०।३ ॥

पञ्चमस्त्वनिरुद्धस्तु एताश्चैवादिमूर्तयः ।
चतूर्मूर्तिक्रमाच्चोक्ताः दशमूर्तिक्रमं शृणु ॥ १०।४ ॥

मत्स्यः कूर्मो वराहश्च नारसिंहो ऽथ वामनः ।
जामदग्न्यश्च रामश्च बलः कृष्णः सुरार्चितः ॥ १०।५ ॥

कल्किर्वि (ल्की वि?) ष्णुरिति प्रोक्तः दशमूर्तिक्रमस्तव ।
भेदं द्वादशमूर्तीनां कथयामि तवानघ ॥ १०।६ ॥

केशवः प्रथमस्तेषां मुने नारायणः परम् ।
माधवो ऽन्यो ऽथ गोविन्दो विष्णुः स्यान्मधुसूदनः ॥ १०।७ ॥

त्रिविक्रमो भवेन्नाम्ना वामनः श्रीधरस्तथा ।
हृषीकेशो भवेदन्यः पद्मनाभस्ततः परम् ॥ १०।८ ॥

अतः स्मृतं(परं?) भवेद्ब्रह्ममूर्तिरस्मिन् महामुने ।
दामोदर इमं तत्वं श्रीमूर्तिं वदतः शृणु ॥ १०।९ ॥

विश्वरूपो भवेदेको यज्ञमूर्तिर्द्वितीयकः ।
तृतीयो वेदमूर्तिः स्यादिति मूर्तित्रयं भवेत् ॥ १०।१० ॥
श्रियादिमूर्तिभेदं ते वक्ष्यामि मुनिसत्तम ।
श्रीमूर्तिः प्रथमोद्दिष्टा पुष्टिमूर्तिस्ततः परम् ॥ १०।११ ॥

मेधासरस्वतीदुर्गाविघ्नेशाश्च श्रियादिषट् ।
श्रियादिभेदमेवं स्याद्वक्ष्याम्यङ्गुलिमानतः ॥ १०।१३ ॥

तिलाष्टकं यवः प्रोक्तो यवाष्टावङ्गुली स्मृता ।
व्रीहित्रयोच्छ्रितं वापि यवाष्टौ तिर्यगेव वा ॥ १०।१४ ॥

अथवाङ्गुलिमानं तु शृणु मत्तस्तपोधन ।
देशिकाङ्गुलिमध्यस्य मध्यरेखासमा मुने ॥ १०।१५ ॥

मध्यं मध्यकरस्याथ करमध्याङ्गुलेस्ततः ।
मध्यपर्वसमावृत्तिर्मुने मात्राङ्गुलं च तत् ॥ १०।१६ ॥

इति त्रिधा (?)ङ्गुलिः प्रोक्ता तास्विष्टाङ्गुलिना मुने ।
विमानस्यापि बेरस्य मानं कार्यं तथाधुना ॥ १०।१७ ॥

अथाष्टमङ्ग्रलानां च स्रुक्स्रुवयोस्तोरणस्य वा ।
वेद्यामण्डपकुण्डस्य विधाने समिधश्च वै ॥ १०।१८ ॥

स्नपनस्य चैवमादैतान् विधौ देशिकः सुपरि(?) ।
शुद्धमात्राङ्गुलप्रमाणैर्मेधा विधिना प्रयत्नतो मतिमान् (?) ॥ १०।१९ ॥

अथवा वै हि देवर्षे मानमार्गविधानतः ।
अष्टमङ्गलकादीनां मानार्थं वदतो मुने(?) ॥ १०।२० ॥

आचार्यहस्तस्य कनिष्ठिकाद्यैः चतुर्भिरेवाङ्गुलिभिर्महर्षे ।
मध्यमाङ्गुलेर्मध्यमपर्वभागे तिर्यग्विसर्पद्भिरिहेव मेयम् ॥ १०।२१ ॥

द्वादशाङ्गुलमानं हि तालमित्यभिधीयते ।
तालद्वयं भवेद्धस्तमिति मानविदो विदुः ॥ १०।२२ ॥

इत्युक्तं त्रिविधं मानमङ्गुलीनां प्रभेदतः ।
प्रतिमालक्षणं वक्ष्ये शृणुष्वावहितः सदा ॥ १०।२३ ॥

बेरमानं विमानाद्वा द्वारमानेन वा पुनः ।
गर्भमानेन वा ज्ञेयं मूलबेरप्रमाणतः ॥ १०।२४ ॥

मूलप्रासादविस्तारं यद्बाह्येषु प्रमाणतः ।
तस्यार्धं श्रेष्ठमित्युक्तं तदर्धं मध्यमं स्मृतम् ॥ १०।२५ ॥

तदर्धमधमं प्राहुः प्रतिमोत्सेधमत्र वै ।
एवं प्रासादमानं तु द्वारमानमतः शृणु ॥ १०।२६ ॥

द्वारात् पादाधिकं श्रेष्ठं द्वारमानं तु मध्यमम् ।
द्वारस्य पादहीनं यदधमं प्रतिमोच्छ्रयम् ॥ १०।२७ ॥

गर्भमानं प्रवक्ष्यामि शृणु नारद तत्त्वतः ।
त्रिपादद्वयदीर्घर्ं (घा?)वा प्रतिमा सोत्तमा स्मृता ॥ १०।२८ ॥

पञ्चभागसमोत्तुङ्गं(ङ्गा?) प्रतिमा मध्यमा तु सा ।
गर्भगेहार्धतुङ्गा या सावरा प्रतिमोच्छ्रया ॥ १०।२९ ॥

गर्भमानमिति प्रोक्तं चित्रं चाप्यर्धचित्रकम् ।
चित्राभासविधिश्चेति शृणु नारद साम्प्रतम् ॥ १०।३० ॥

कालयोगप्रमाणेन कर्तव्या प्रतिमा शुभा ।
चित्रं चाप्यर्धचित्रं च चित्राभासं तथैव च ॥ १०।३१ ॥

त्रिविधं प्रतिमाकर्म शास्त्रज्ञाः सम्प्रचक्षते ।
दृश्यते ऽवयवा यत्र प्रतिमायां समन्ततः ॥ १०।३२ ॥

मानोन्मानप्रमाणाभिः(द्यैः?)तच्चित्रमिति पठ्यते ।
शिलागताया यस्यास्तु पृष्ठभागो न दृश्यते ॥ १०।३३ ॥

मानप्रमाणसंयुक्ता सार्धचित्रमिति स्मृता ।
या स्थितालेख्यरूपेण लिखितापि(चैव?)शिल्पिभिः ॥ १०।३४ ॥

मानप्रमाणसंयुक्ता सा चित्राभास उच्यते ।
उत्तमं तु फलं चित्रं मध्यमं चार्धचित्रकम् ॥ १०।३५ ॥

आलेख्यमधमं प्रोक्तं प्रतिष्ठा(मा?)कर्मणि क्रमात् ।
इत्युक्तं प्रतिमाकर्म शृणु पीठविधिं मुने ॥ १०।३६ ॥

बेरोच्छ्रायं त्रिधा कृत्वा भागैकं पीठिकोच्छ्रयम् ।
चतुर्भागैकभागं तु चासने स्थानकोच्छ्रयम् ॥ १०।३७ ॥

अथवा पीठमेवं वा शृणु नारद साम्प्रतम् ।
पादपद्मं भवेत्फुल्लमष्टपत्रं सकर्णिकम् ॥ १०।३८ ॥

द्वारात् पादांशविस्तारं तावदुत्सेधसंयुतम् ।
तस्य नालं भवेद्वृत्तं चतुरश्रं तु वा पुनः ॥ १०।३९ ॥

वृत्तं शिव इति प्रोक्तं चतुरश्रं पितामहः ।
हस्तमात्रं तदायामं तन्मानं नाह उच्यते ॥ १०।४० ॥

स्थानकस्येदमाख्यातमासनस्याधुनोच्यते ।
गर्भद्वारयुगांशं तु पादपद्मोच्छ्रयं भवेत् ॥ १०।४१ ॥

तावदायामविस्तारः पूर्ववच्छेषमुच्यते ।
एतद्याने न शयने कार्यं नैव कदाचन ॥ १०।४२ ॥

इत्युक्तं मूलबेरादिबिम्बानां लक्षणं मुने ।
लक्षणं चासनस्यापि तवेदानीं प्रदर्शितम् ॥ १०।४३ ॥

अत ऊर्ध्वं प्रवक्ष्यामि कर्मार्चायास्तु लक्षणम् ।
मूलबेरस्य दीर्घस्य त्रिभागैकं तु कौतुकम् ॥ १०।४४ ॥

वेदभागैकभागं वा भूतभागैकभागकम् ।
श्रेष्ठमध्यमहीनं तु त्रिविधं कौतुकं भवेत् ॥ १०।४५ ॥

वेदभागैकभागं वा भूतभागैकभागकम् ।
श्रेष्ठमध्यमहीनं तु त्रिविधं कौतुकं भवेत् ॥ १०।४५ ॥

अथवा कुरु कर्मार्चां मूलबेरस्य साम्प्रतम् ।
मूलबेरायतार्धे तु भूतभागैकभागकम् ॥ १०।४६ ॥

उत्सवप्रतिमायामं स्नपनस्य तथा भवेत् ।
तद्गुणांशैकभागं तु बलिबेरोच्छ्रयं भवेत् ॥ १०।४७ ॥

कर्मार्चायाः प्रमाणं वा कुर्याद्वा लक्षणं भवेत् ।
उक्तैर्लोहैः कृता पुण्यानुक्तैर्लोहैः कृताशुभा ॥ १०।४८ ॥

त्रिगुणाष्टाङ्गुलोत्सेधमथवाष्टदशाङ्गुलम् ।
षोडशाङ्गुलकं वापि द्वादशाङ्गुलमेव वा ॥ १०।४९ ॥

अथवाष्टाङ्गुलोत्सेधं बलिबिम्बमथोच्यते ।
पादाधिकदशैकं तु (?) [द्विरट ष्टाङ्गुलिना मुने ॥ १०।५० ॥

बलिबिम्बोच्छ्रयं कृत्वा चोत्तमं परिकीर्तितम् ।
एकादशाङ्गुलोत्सेधं मध्यमं बलिकौतुकम् ॥ १०।५१ ॥

अष्टाङ्गुलं वा कुर्वीत बलिबिम्बाधमं स्मृतम् ।
तीर्थबिम्बं तथैव स्यादिति शास्त्रस्य निश्चयः ॥ १०।५२ ॥

हीनमानं न कर्तव्यं मूलबिम्बात् कदाचन ।
षडङ्गुलायता चैव नैव कार्या विजानता ॥ १०।५३ ॥

मूलबेरत्रिभागैकमुत्सवप्रतिमा भेवत् ।
उत्सवप्रतिमायामां स्नपनार्चां तु कारयेत् ॥ १०।५४ ॥

इति कर्मार्चनादीनां विविधि मानमीरितम् ।
विध्याचारविधानेन यथायोगं समाचरेत् ॥ १०।५५ ॥

अत ऊर्ध्वं प्रवक्ष्यामि स्वार्थार्चायास्तु लक्षणम् ।
लोहजा मणिजा वापि राजता ताम्रनिर्मिता ॥ १०।५६ ॥

एताः प्रशस्ता विप्राणां क्षत्रियस्य सुवर्णजा ।
राजता वापि वैश्यस्य राजता ताम्रका शुभा ॥ १०।५७ ॥

शूद्रस्य ताम्रकैर्वा स्यात् सर्वेषां वापि ताम्रजा ।
लोहजाः प्रतिमाः प्रोक्ताः निर्देषाः समुदाहृताः ॥ १०।५८ ॥

रत्नजास्त्रिविधाः प्रोक्ताः सौम्याग्नेयी समेति च ।
शशिकान्तमयी सौम्या सूर्यकान्तमयी परा ॥ १०।५९ ॥

स्फटिकेति समा प्रोक्ता पूर्वा पूर्वोत्तमोत्तमा ।
द्व्यङ्गुलं तु यदुत्सेधमथवा चतुरङ्गुलम् ॥ १०।६० ॥

अङ्गुलित्रयमानेन मणिबिम्बमिहोच्यते ।
एवमात्मार्थबिम्बानां लक्षणं विद्धि पूर्वकम् ॥ १०।६१ ॥

पूर्वं कर्मार्चनादीनामुत्तमादित्रि(वि?) भेदतः ।
उक्तं हि लक्षणं तेन चात्मार्थे ऽपि भवेद्विधिः ॥ १०।६२ ॥

फलकायां पटे कुड्ये लिखितानां तु लक्षणम् ।
कर्मार्चालक्षण यद्वत्तद्वदुक्तं प्रमाणकम् ॥ १०।६३ ॥

अत्र किञ्चि(कश्चि?) द्विशेषो ऽस्ति क्रमुकाद्येन वा पुनः ।
पालाशेन तु बिल्वेन खादिरेण तु वा पुनः ॥ १०।६४ ॥

उदुम्बरेण वा पश्चात् वकुलेन महामुने ।
पनसेन द्रुमेष्वेषु लब्धेन तु विशेषतः ॥ १०।६५ ॥

द्व्यङ्गुलं तु घनं चैव चतुरङ्गुलमायतम् ।
चतुरश्रं तु वा वृत्तं मेखलात्रयसंवृ(यु?) तम् ॥ १०।६६ ॥

तस्यो(?)परि लिखेदब्जमष्टपत्रं तु वा पुनः ।
दलैर्द्वादशभिर्युक्तं सर्वशोभासमन्वितम् ॥ १०।६७ ॥

कर्णिकायां न्यसेत् तस्य नवरत्नं विशेषतः ।
तस्मिन् वा कर्णिकाग्रे वा फलकादिषु कर्णिकाम् ॥ १०।६८ ॥

आवाह्य पूजयेद्देवमात्मार्थयजनं प्रति ।
मूलबेरादिबिम्बानां स्थानभेदं मुने शृणु ॥ १०।६१ ॥

प्रासादस्य तु गर्भांशे सप्तभागं गी?) कृते मुने ।
पुटा(पदा?) न्येकोनपञ्चाशत्तन्मध्यं ब्राह्ममुच्यते ॥ १०।७० ॥

तद्बाह्ये देवभागः स्यात् (दैवतं स्थानं?) तद्बाह्ये मानुषं भवेत् ।
पैशाचं तद्बहिर्ज्ञेयं स्थानभेदमुदीरितम् ॥ १०।७१ ॥

ब्राह्मे स्यादर्चनं पीठमिति बेरं (मेकबेरे?) तथा मुने ।
बहुबेरप्रतिष्ठा च (ष्ठायां?) पीठिका चामरांशके ॥ १०।७२ ॥

मानुषे परिवाराश्च पैशाचे हेतयः स्मृताः ।
आसने यदि कर्तव्ये मानुषे (षं?) किञ्चिदाश्रयेत् ॥ १०।७३ ॥

दैवे च मानुषे चैव कुर्वीत शयनक्रियाम् ।
उक्तस्थानं विना तत्र यदि कुर्यात् प्रमादतः ॥ १०।७४ ॥

मण्डलेशस्य राज्ञश्च स्थापकश्च (स्य) विपद्ध्रुवम् ।
न फलन्ति क्रियास्तत्र नात्र कार्या विचारणा ॥ १०।७५ ॥

यजमानस्य पुत्रो वा म्रियते नात्र संशयः ।
दुर्भिक्षं जायते घोरं सर्वं राष्ट्रं विनश्यति ॥ १०।७६ ॥

तस्मात् सर्वप्रयत्नेन स्थापयेत् प्रतिमादिकम् ।
नित्योत्सवादिबिम्बानां स्थानं नारद कथ्यते ॥ १०।७७ ॥

स्थापयेद्बलिबिम्बं तु कर्मार्चादक्षिणे सुधीः ।
स्नानबिम्बं तु यत्नेन बलिबिम्बस्य दक्षिणे ॥ १०।७८ ॥

उत्सवप्रतिमास्थानं कर्मार्चावामपार्श्वतः ।
उत्सवप्रतिमावामे यात्रा (तीर्थ?) बिम्बस्य चैव हि ॥ १०।७९ ॥

संस्थापयेत् क्रमेणैव देशिकस्तन्त्रवित्तमः ।
अन्यथास्थापिते कर्ता महद्भयमवाप्नुयात् ॥ १०।८० ॥

राजा कलहमाप्नोति ग्रामश्चापि विनश्यति ।
इति नित्योत्सवाद्यर्चास्थानभेदः प्रदर्शितः ॥ १०।८१ ॥

अथ वा मूलबेरादिबिम्बानां लक्षणं शृणु ।
मूलबेरं तु कर्मार्चा नित्योत्सवमतः परम् ॥ १०।८२ ॥

महोत्सवं तु देवर्षे स्नपनार्चा तथैव च ।
तरुणालयमित्युक्तं प्रतिमाषट्कमीरितम् ॥ १०।८३ ॥

इत्यमीषां प्रमाणानि शृणु नारद साम्प्रतम् ।
षण्णवत्यङ्गुलायामो उत्तमस्योच्छ्रयो भवेत् ॥ १०।८४ ॥

इतः पक्षाङ्गुलैर्हीनो मध्यमस्योच्छ्रयो भवेत् ।
एकपञ्चाशदित्युक्तः अधमस्योच्छ्रयो भवेत् ॥ १०।८५ ॥

इत्युक्तमादिबेराणामुत्सेधो त्रिविधस्त्विति ।
एकबेरप्रतिष्ठायामधमं बेरमुच्यते ॥ १०।८६ ॥

कर्मार्चा नोत्तमं मानमुक्तं तन्मानतो भवेत् (?) ।
इति शैलमयी यत्र स्थाप्यते प्रतिमा मुने ॥ १०।८७ ॥

एकबेरविधानेन तत्रायं विधिरुचयते ।
इत्येकबहुबेराणामुक्तमुत्सेधलक्षणम् ॥ १०।८८ ॥

उत्सेधस्यानुरूपेण कार्यं विस्तारकं मुने ।
बहुबेरप्रतिष्ठायां देवीनां लक्षणं शृणु ॥ १०।८९ ॥

देवस्य बाहुमूलान्तं देवीनामिति चोच्छ्रयम् ।
स्तनान्तं वा मुनिश्रेष्ठ चोच्छ्रयं परिपठ्यते ॥ १०।९० ॥

देवीनां दक्षिणे हस्ते पद्मं मुकुलकं न्यसेत् ।
पद्मं तु वामहस्ते स्यात्(चेत्?) महद्भयमवाप्नुयात् ॥ १०।९१ ॥

राजा कलहमाप्नोति तस्माद्यत्नेन वर्जयेत् ।
इत ऊर्ध्वं प्रवक्ष्यामि कर्मार्चादेरथोच्छ्रयम् ॥ १०।९२ ॥

चतुर्विंशतिमानं तु (-र्विंशाङ्गुलायामं?)उत्तमं विद्धि नारद ।
द्वादशाङ्गुलमायामं मध्यमं बेरमेव वै ॥ १०।९३ ॥

अष्टाङ्गुलायतं यत्तदधमं परिकीर्तितम् ।
नित्योत्सवस्य बिम्बस्य द्वादशाङ्गुलमायतम् ॥ १०।९४ ॥

अष्टाङ्गुलमथो वापि चतुरङ्गुलमेव वा ।
एवं ज्ञात्वा मुनिश्रेष्ठ कारयेद्बलिकोतुकम् ॥ १०।९५ ॥

महोत्सवस्य द्वाविंशच्चै(त्ये?)कं वा दीर्ध उच्यते ।
अध्यर्धाङ्गुलहीनं वा अङ्गुलद्वयहीनकम् ॥ १०।९६ ॥

त्रयाङ्गुलवि (अङ्गुलत्रय?)हीनं वा चोत्सवस्य महामुने ।
इत ऊर्ध्वं तु(न?) कर्तव्यं हीनाधिक्यं तु नारद ॥ १०।९७ ॥

तीर्थार्थं स्नपनार्थं चैवो (चाप्यु?) त्सवार्थं तथैव च ।
मूर्त्यभावे मुनिश्रेष्ठ बिम्बेनैकेन चाप्यलम् ॥ १०।९८ ॥

अस्य बिम्बस्य वक्ष्यामि लक्षणं शृणु नारद ।
विंशत्यङ्गुलमानं यदुत्तमं परिकीर्तितम् ॥ १०।९९ ॥
षोडशाङ्गुलमानं यत् मध्यमं सम्प्रचक्षते ।
द्वादशाङ्गुलमानं यदधमं परिचक्षते ॥ १०।१०० ॥

अत ऊर्ध्वं शृणुष्वान्यत् तरुणालयमुत्तमम् (बेरकम्?) ।
षोडशाङ्गुलमानं यदुत्तमं बेरमुच्यते ॥ १०।१०१ ॥

द्वादशाङ्गुलमानं यन्मध्यमं बेरमुच्यते ।
अष्टसप्ताङ्गुलिर्वापि चतुरङ्गुलिरेव वा ॥ १०।१०२ ॥

कारयेल्लक्षणोपेतमधमं परिचक्षते ।
इत ऊर्ध्वं प्रवक्ष्यामि शृणु नारद साम्प्रतम् ॥ १०।१०३ ॥

मूलबेरादिबिम्बानां स्वरूपं मुनिसत्तम ।
अष्टबाहुं चतुर्बाहुं द्विबाहुं वाथ नारद ॥ १०।१०४ ॥

यजमानेच्छया कार्या मूलबेरादयस्त्विति ।
स्थानयानासनं वापि शयनं वा प्रकल्पयेत् ॥ १०।१०५ ॥

अत्र कश्चिद्विशेषो ऽस्ति शयने मुनिसत्तम ।
अनिरुद्धं तथा पद्मनाभमूर्तिमथापि वा ॥ १०।१०६ ॥

सञ्ज्ञात्वा लक्षणोपेतं शाययेद्विधिचोदितम् ।
यत् कृत्वा मूलबेरं तु द्विभुजं चेद् द्विजोत्तम ॥ १०।१०७ ॥

कर्मार्चनादिबिम्बानां लक्षणं वा च (स्याच्च?) तुर्भुजम् ।
मूलबेरं तु (च?) कर्मार्चा द्विभुजं चेन्मुनीश्वर ॥ १०।१०८ ॥

बालादीनां तु बिम्बानां लक्षणं वा च (स्याच्च?) तुर्भुजम् ।
महोत्सवस्य बिम्बस्य द्विभुजं वा चतुर्भुजम् ॥ १०।१०९ ॥

शयनस्य मया प्रोक्तो विशेषो मुनिसत्तम ।
एवमुक्तप्रकारेण प्रतिमां कारयेत् क्रमात् ॥ १०।११० ॥

मूलार्चा चाष्टबाहुश्चेत् कर्मार्चादिचतुर्भुजम् ।
द्विभुजं यदि चेत्तत्र सर्वसंहारकारणम् ॥ १०।१११ ॥

तस्मात् सर्वप्रयत्नेन द्विभुजं न प्रकल्पयेत् ।
अष्टबाह्वोस्तु बिम्बस्य शयनं न प्रकल्पयेत् ॥ १०।११२ ॥

तथा मत्स्यादिमूर्तीनां शयनं तु न कारयेत् ।
श्रियादिविघ्नपर्यन्तमूर्तीनां च तथाविधि ॥ १०।११३ ॥

इदं तु तव वक्ष्यामि गुह्याद्गुह्यतरं मुने ।
यो ऽसौ नारायणः साक्षात् स हि विघ्नेश उच्यते ॥ १०।११४ ॥

यो ऽसौ विघ्नेश इत्युक्तः सो हि नारायणः स्मृतः ।
वासुदेवमयत्वाच्च ह्यावृतत्वान्महामुने ॥ १०।११५ ॥

नैव जानन्ति तद्भेदं मुनयस्तत्वदर्शिनः ।
इदं तु नावमं मन्ये गुह्यादेकं तु नारद ॥ १०।११६ ॥

देवैरभिहितज्ञानं तव स्नेहात् प्रदर्शितम् ।
तस्मात् श्रियं च दुर्गां च वाणीं विघ्नेशमेव च ॥ १०।११७ ॥

स्वातन्त्र्येणार्चयेद्धीमान् सर्वकामार्थसिद्धये ।
श्रियादीनां तु बोद्धव्यं लक्षणं तन्त्रवित्तमैः ॥ १०।११८ ॥

तस्माच्छ्रियादिमूर्तीनां स्वातन्त्र्ये तु परार्थके ।
उक्तमात्मार्थपूजायां पूर्ववल्लक्षणं भवेत् ॥ १०।११९ ॥

मूलबेरस्य बाह्वन्त उत्सेधो लक्ष्मणस्य तु ।
भरतस्य तथोत्सेध इति तन्त्रे विदुर्बुधाः ॥ १०।१२० ॥

लक्ष्मणस्यापि बाह्वन्तः शत्रुघ्नस्योच्छ्रयो भवेत् ।
आत्मार्थयजनं वक्ष्ये शृणु नारद तत्वतः ॥ १०।१२१ ॥

षोडशाङ्गुलमु (को?) त्सेध उत्तमं सम्प्रचक्षते ।
मध्यमं तु तदर्धं स्यात् द्व्यङ्गुलं तु कनीयसम् ॥ १०।१२२ ॥

सुवर्णादिकृतानां च (वा?) लेख्यानां फलकादिषु ।
मानमेवं विजानीयादात्मार्थमिति कीर्तितम् ॥ १०।१२३ ॥

उक्तोत्सेधानुरूपेण कार्यं विस्तारलक्षणम् ।
सुवर्णादीनि वस्तूनि शृणुष्वैषां फलानि च ॥ १०।१२४ ॥

हेमरूप्यश्च ताम्रं च रीतिशैलं च धातवः ।
दारुश्च मृत्प्रश्स्तानि प्रतिमाप्रतिपादने ॥ १०।१२५ ॥

दद्यात् सुवर्णजाप्यासां पुष्टिकीर्तिसुखं नृणाम् ।
रौप्यलोहमयी सा तु सुखं सर्वत्र यच्छति ॥ १०।१२६ ॥

ताम्रजा प्रतिमा दद्यात् पुत्रपौत्रधनं तु वे ।
राजताखिलपापानि क्लेशदुःखानि निर्दहेत् ॥ १०।१२७ ॥

शैलजा प्रतिमा साक्षात् सौभाग्यायुः सुखानि च ।
दारुजा प्रतिमा दद्यात् बलारोग्ययशांसि च ॥ १०।१२८ ॥

मृण्मयी सर्वकामानां फलदात्री विशेषतः ।
इति भेदानि वस्तूनि फलान्येषां च नारद ॥ १०।१२९ ॥

प्रतिमाकरणे प्रोक्तं (-णोक्तानि?) तव स्नेहान्महामुने ।
अत ऊर्ध्वं प्रवक्ष्यामि शिलासङ्ग्रहणं तव ॥ १०।१३० ॥

दारुसङ्ग्रहणं चैव शूलस्य स्थापनं मुने ।
मृत्संस्कारादि यत्सर्वमेवमाद्यं महामुने ॥ १०।१३१ ॥

पूर्वभागे यथोद्दिष्टं तथा वै पञ्च(?) कारयेत् ।
अथवा मुनिशार्दूल श्रुणुष्व प्रतिमाविधिम् ॥ १०।१३२ ॥

पद्मोद्भवपुराणोक्तविधानेन शिलाग्रहः ।
शिलाग्रहणपूर्वं यत् मृत्संस्कारान्तमेव तत्(च) ॥ १०।१३३ ॥

विश्वकर्मविधानोक्तं शिल्पलक्षणलक्षितम् ।
साधकस्याज्ञया शिल्पी कर्म कुर्यात् समाहितः ॥ १०।१३४ ॥

सर्वलक्षणसंयुक्तं सर्वावयवशोभितम् ।
सर्वाभरणसंयुक्तं प्रभामण्डलमण्डितम् ॥ १०।१३५ ॥

पादाद्यवयवसंयुक्तं (-वैर्युक्तं?) भूषणैर्मकुटेन च ।
विराजमानं कुर्वीत साधकः शिल्पिना सह ॥ १०।१३६ ॥

क्रियते दर्शनार्थं यद्भक्तानां बिम्बमुत्तमम् ।
तत्तस्य लक्षणं ब्रूहि (विप्र?) वक्तुं सर्वं न शक्यते ॥ १०।१३७ ॥

नारदः—

देवदेव जगन्नाथ ज्ञातं सर्वं त्वयोदितम् ।
छिन्धि संशयमद्य त्वं यन्मे मनसि वर्तते ॥ १०।१३८ ॥

एकत्र स्थापितं बिम्बं किमन्यत्रोचितं न वा ।
एतत् कथय मे तेन कृतार्थाः स्मो वयं प्रभो ॥ १०।१३९ ॥

विष्वक्सेनः—

शृणु नारद वक्ष्यामि साधूक्तं यत् त्वयाधुना ।
गुह्याद्गुह्यतरं चैव न प्रकाश्यं तपोधन ॥ १०।१४० ॥

पञ्चरात्रेण यत्पूर्वं (विधिना?) विमाने (नं)यत्प्रतिष्ठितम् ।
तत्रार्चा यार्चनाहीना सा स्यात्तच्छास्त्रनिर्मिते ॥ १०।१४१ ॥

अनन्यत्र (अन्यतन्त्र?)कृते धाम्नि तत्रार्चा मन्दिरान्तरे ।
अन्यतन्त्रकृते न स्यादिति शास्त्रस्य निश्चयः ॥ १०।१४२ ॥

यत्र यत्र विमाने वै एकतन्त्रप्रतिष्ठिते ।
तत्र तत्र भवेदर्चा न तन्त्रान्तरसम्भवा ॥ १०।१४३ ॥

एकतन्त्रार्चिते बिम्बे मन्दिरे वा कदाचन ।
तन्त्रान्तरार्चना न स्याद्यदि कुर्यान्महद्भयम् ॥ १०।१४४ ॥

यत्र यत्र मुने नात्रा (चार्चा?) तन्त्रसङ्करसम्भवा ।
तत्र तत्र महान् दोषो राजा राष्ट्रं च नश्यति ॥ १०।१४५ ॥

तस्मात् सर्वप्रयत्नेन सर्वलोकहितैषिणा ।
येन न स्यात्तथा कुर्यात् तन्त्रदोषसमुद्भवः ॥ १०।१४६ ॥

नारदः—
एतानि वर्जितैः सर्वैः कृतं चेत् तत्फलं प्रभो ।
वर्ज्यबिम्बार्चितेर् (चने?) किं वा वदस्व वदतां वर ॥ १०।१४७ ॥

विष्वक्सेनः—
मोहाद्वाथ भयाल्लोभात् वर्जि(गर्हि?) ताभिः शिलादिभिः ।
निर्मितेनैव बिम्बादीन् अर्चयेन्नोदितैरपि ॥ १०।१४८ ॥

शिलाद्याभिः निषिद्धाभिः कुर्याद्वा कारयेद्यदि ।
उत्सन्नं याति तद्ग्रामं बिम्बं तद्यावदास्थितम् ॥ १०।१४९ ॥

राज्ये ऽपि कलहं ब्रूयात् राजाप्यत्र विनश्यति ।
तस्मात् सर्वप्रयत्नेन निषिद्धं वर्जयेत् सुधीः ॥ १०।१५० ॥

इति सङ्क्षेपतः प्रोक्तं प्रतिमालक्षणं तव ।
अत ऊर्घ्वं प्रवक्ष्यामि परमात्मादिभेदनम् ॥ १०।१५१ ॥

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां प्रतिमालक्षणादिविधिर्नाम दशमो ऽध्यायः ॥