नवमो ऽध्यायः
विष्वक्सेनः—
अथातः सम्प्रवक्ष्यामि बालस्यानविधिं परम् ।
प्रथमं च द्वितीयं च (?) सङ्क्षेपाच्छृणु नारद ॥ ९।१ ॥
महाविमानाभिमुखं नातिदूरसमीपगम् ।
प्रासादस्याग्रतः कुर्यात् देवस्य तरुणालयम् ॥ ९।२ ॥
महागेहाभिमुखो (गेहमुखं यद्वा?) पूर्वद्वारे तु कल्पयेत् ।
प्रासादाभिमुखाभावे दक्षिणे चैव कल्पयेत् ॥ ९।३ ॥
उत्तरे वा मुनिश्रेष्ठ सोमेशानान्तरे ऽथ वा ।
ईशाने वाप्यभावे तु कल्पयेत्तरुणालयम् ॥ ९।४ ॥
राष्ट्रवृद्धिकरं पूर्वे धनधान्यसुखप्रदम् ।
ग्रामराष्ट्रस्य वृद्धिः स्याद्दक्षिणे मुनिसत्तम ॥ ९।५ ॥
ब्रह्मऋद्धिकरं सोमे पुत्रपौत्रसुखावहम् ।
दुर्भिक्षभयनाशार्थं सोमेशानान्तरे मुने ॥ ९।६ ॥
ईशाने तु भवेत्तस्मिन्(त्तच्च?)ग्रामायतनऋद्धिकृत् ।
प्रासादे पश्चिमद्वारे बालस्थानं तु पश्चिमे ॥ ९।७ ॥
दक्षिणादिक्रमं तस्मिन् (?) सर्वं पूर्ववदाचरेत् ।
मूलस्थानस्य देशं च गृहीत्वा तदनन्तरम् ॥ ९।८ ॥
प्रथमं स्यान्मुनिश्रेष्ठ कल्पयेत्तरुणालयम् ।
इष्टकाभिर्मृदा वापि कारयेच्छास्त्रचोदितम् ॥ ९।९ ॥
षट्पञ्चसप्तहस्तं वा नवहस्तमथापि वा ।
सञ्ज्ञात्वा साधकस्तस्मिन् यजमानेच्छया कुरु (?) ॥ ९।१० ॥
गर्भमानत्रिभागैकं द्वारमाम्न प्रशस्यते ।
द्वारविस्तारमानस्य द्विगुणं तु तथोच्छ्रितम् ॥ ९।११ ॥
कूटाकारं तु वा कुर्यात् मण्डपाकारमेव वा ।
कारयेत् बालगेहं तु आचार्यः शिल्पिभिः सह ॥ ९।१२ ॥
आद्येष्टकाविधानादि कारयेदिह पूर्ववत् ।
मण्डपं चाग्रतः कृत्वा सप्राकारं सुरक्षितम् ॥ ९।१३ ॥
गर्भन्यासं तु कुर्याच्च रत्नन्यासं तु नेष्यते ।
पीठं कृत्वा तु तन्मध्ये काष्ठैर्वा चेष्टकै(?)स्तथा ॥ ९।१४ ॥
मृदा वा सुदृढं स्निग्धं काष्ठासनसमन्वितम् ।
एकहस्तोच्छ्रितां वेदिं साष्टपत्रं सकर्णिकम् ॥ ९।१५ ॥
कृत्वैवं बालगेहं तु साधकेच्छानुरूपतः ।
एवं कृत्वा विधानेन तरुणालयमुत्तमम् ॥ ९।१६ ॥
परमात्मादिमूर्तीनां लक्षणं चाधुना शृणु ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां बालस्थानविधिर्नाम नवमो ऽध्यायः ॥