अष्टमो ऽध्यायः
क्षीराब्धेरुत्तरे पारे तपस्यन्तं हिरण्यमयम् ।
नारदो वाहिनीनाथं विष्णोर्लीलाचले मुनिः ॥ ८।१ ॥
दृष्ट्वा प्रणम्य सम्पूज्य विष्णुभक्तिबलात्कृतः ।
पप्रच्छ भगवान् भक्तेरिव मूर्तिमवस्थितम् ॥ ८।२ ॥
पूर्वं तु परमात्मादिमूर्तीनां लक्षणं तथा ।
मन्त्राणां लक्षणं चैव छन्दांसि च ऋषींस्तथा ॥ ८।३ ॥
एवमादीनि चान्यानि सद्मादीनि यथाक्रमम् ।
वक्तुमर्हसि सेनाप यद्यनुग्रहभागहम् ॥ ८।४ ॥
विष्वक्सेनः—
शृणु देवमुनिश्रेष्ठ यत् प्रष्टु(पृष्ट?)मखिलं त्वया ।
वक्ष्याम्यहमशेषेण क्रमादवहितो भव ॥ ८।५ ॥
श्रुतिमूलमिदं तन्त्रं प्रमाणं कल्पसूत्रवत् ।
प्रमाणमिदमेवैकमागमेष्वप्यवस्थितम् ॥ ८।६ ॥
आयुरारोग्यदं नॄणां कीर्तिश्रीपुत्र(ष्टि?)वधनम् ।
पापक्षयं महापुण्यं योगसाधनमेव च ॥ ८।७ ॥
तस्मात्तत्रोत्तरं भागं नित्यमृद्धिशुभप्रदम् ।
आद्येष्टकाविधानादि सर्वकामप्रदं सदा ॥ ८।८ ॥
अथातःसम्प्रवक्ष्यामि इष्टकालक्ष्णं परम् ।
कर्षणं च गवां वासं(सो?)भूमिशुद्धिस्तथैव च ॥ ८।९ ॥
पूर्वमेव मया प्रोक्तं(क्ताः)तन्त्रे ऽस्मिन् पूर्वभागके ।
अङ्कुरार्पणपूर्वं तु पूर्वरात्रे ऽधिवासयेत् ॥ ८।१० ॥
पूर्ववन्मण्डपं कृत्वा गोमयेनानुलेपयेत् ।
अष्टद्रोणसमायुक्तं शालिभिःसमलङ्कृतम् ॥ ८।११ ॥
साधिताः पूर्वरात्रे तु चतस्रः प्रथमेष्टकाः ।
शिलामया मृण्मया वा कुर्याल्लक्षणसंयुताः ॥ ८।१२ ॥
शिला दोषविनिर्मुक्ताः विस्तारद्विगुणायताः ।
सुविस्तारेष्टकाः प्रोक्ताः षट्पञ्चचतुरङ्गुलाः ॥ ८।१३ ॥
उत्तमादिक्रमादेताः विस्तारद्विगुणायताः ।
विस्तारार्धधनं प्रोक्तं इष्टकास्तु प्रमाणतः ॥ ८।१४ ॥
पञ्चगव्येन सम्प्रोक्ष्य परिस्तीर्य कुशैस्तथा ।
पुण्याहं वाचयित्वा तु प्रोक्षयेच्च कुशाम्भसा ॥ ८।१५ ॥
हैमैः कौतुकसूत्रं तु बन्धयेन्मूलविद्यया ।
वस्त्रैः प्रत्येकमाच्छाद्य तदग्रे स्थापयेद्बुधः ॥ ८।१६ ॥
कलशान् स्थापयेत् पश्चात् सवस्त्रान् सापिधानकान् ।
मध्युकुम्भं च सुदृढं पञ्चरत्नसमन्वितम् ॥ ८।१७ ॥
मूलमन्त्रेण कुम्भं तु साधयेत् साधकोत्तमः ।
विद्येश्वरसमायुक्तान् पूरयेत् कलशान् क्रमात् ॥ ८।१८ ॥
वाराहं नारसिंहं च श्रीधरं हयशीर्षकम् ।
जामदग्न्यं च रामं च वामनं वासुदेवकम् ॥ ८।१९ ॥
एवं विद्येश्वरान् प्रोक्तान् क्रमात् कुम्भेषु पूजयेत् ।
वाराहे मुक्तकं न्यस्य नारसिंहे प्रवालकम् ॥ ८।२० ॥
मरकतं श्रीधरे न्यस्य वैडूर्यं हयशीर्षके ।
इन्द्रनीलं न्य सेद्रामे माणिक्यं वामनैऋते ॥ ८।२१ ॥
वामने पुष्यरागं च शङ्खं वै वासुदेवके ।
एषामलाभे सौवर्णं तदलाभे तु मौक्तिकम् ॥ ८।२२ ॥
सकूर्चं साधयेद्विद्वान् सर्वालङ्कारशोभितम् ।
प्रभाते पूजयित्वाथ स्थपतिं तक्षकैः सह ॥ ८।२३ ॥
स्थापको मन्त्रयोग्यस्तु स्थपतिः कर्मयोग्यकः ।
साधकश्चेष्टकास्तत्र स्नापयेन्मूलविद्यया ॥ ८।२४ ॥
ततो गन्धादिनाभ्यर्च्य दैवज्ञं पूजयेत्ततः ।
आचार्यं पूजयेत्तत्र हेमवस्त्राङ्गुलीयकैः ॥ ८।२५ ॥
तक्षकं पूजयित्वाथ इष्टकाधानमारभेत् ।
द्वारस्य दक्षिणे पार्श्वे स्थानमेतत् प्रचक्षते ॥ ८।२६ ॥
सुमुहूर्ते न्यसेद्विद्वान् इष्टकाः परितः क्रमात् ।
विन्यसेच्च चतुर्दिक्षु वासुदेवादिविद्यया ॥ ८।२७ ॥
पश्चाच्छिल्पिनमलङ्कृत्य वस्त्रहेमाङ्गुलीयकैः ।
तेनैव सह संस्थाप्य इष्टकाश्च चतुर्दिशि ॥ ८।२८ ॥
तेषां मध्ये तथा गर्ते पूरयेदुदकेन तु ।
शुभं वै दक्षिणावर्तं वामावर्तमशोभनम् ॥ ८।२९ ॥
वामावर्ते तथा कुर्यात् मूलेन शतमाहुतीः ।
तदैव नवरत्नानि विन्यसेदनुपूर्वशः ॥ ८।३० ॥
वज्रमौक्तिकवैडूर्यशङ्खस्फटिकपुष्यकम् ।
चन्द्रकान्तं महानीलं माणिक्यं च क्रमान्न्यसेत् ॥ ८।३१ ॥
गजदन्ते ऽथवा शङ्खे वल्मीके कर्कटालये ।
वृषशृङ्गे ह्रदे नद्यां नीर्थे वै पर्वते तथा ॥ ८।३२ ॥
समुद्रे च मृदं गृह्य पूरयेदवटं तथा ।
पुण्याहं वाचयित्वा तु ब्राह्मणानथ भोजयेत् ॥ ८।३३ ॥
एतद्विमाने प्रथमे सर्वमेतदतन्द्रितः ।
मण्डपे रत्नहीनं स्यात् रत्नहीनं तु वप्रके(?) ॥ ८।३४ ॥
एवं कृतं चेन्मेधावी(?) सर्वसम्पत् समृद्धिदम् ।
यद्येवं न कृतं चेत्तत् पिशाचादि समाविशेत् ॥ ८।३५ ॥
कर्तुः कारयितुश्चापि महान् दोषो भविष्यति ।
तस्मात् सर्वप्रयत्नेन विधानोक्तं समाचरेत् ॥ ८।३६ ॥
यः पूर्वमारभेत् कर्म तक्षकैः स्थापकैः सह ।
यजमानुमत्या च कर्षणादि महामुने ॥ ८।३७ ॥
जीर्णस्योद्धरणं वापि चित्रादिकमथापि वा ।
तेनैव कारयेद्विद्वान् नान्येन तु कदाचन ॥ ८।३८ ॥
तैक्ष्ण(तक्ष्णा?)मानादि निर्वृत्तं तक्ष्णैव पुनरुद्धृतम् (?) ।
तक्षणै(तक्षके?)नैव कार्यं स्यादिति शास्त्रस्य निश्चयः ॥ ८।३९ ॥
तस्मात् सर्वप्रयत्नेन स्थापकैस्तक्षकैर्न्यसेत् ।
मोहाद्वा यदि वा लोभात् स्थापकात्तक्षकादृते ॥ ८।४० ॥
यः कारयीत कुर्याद्वा राजराष्ट्रं विनाशयेत् ।
एवं परीक्ष्य बहुधा मतिमान् साधकोत्तमः ॥ ८।४१ ॥
प्रशान्तमानसो भूत्वा कुर्वीताद्येष्टकाविधिम् ।
प्रथमेष्टकावसाने तु प्रासादं चारभेत् क्रमात् ॥ ८।४२ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां प्रथमेष्टकाविधिर्नामाष्टमो ऽध्यायः