०७

सप्तमो ऽध्यायः

विष्वक्सेनः—
अतः परं प्रवक्ष्यामि स्वप्नाध्यायं शचीपते ।
विविक्तेन परं गुह्यं क्रमाच्छृणु शचीपते ॥ ७।१ ॥

स्वप्नस्तु प्रथमे यामे संवत्सरविपाकदः ।
द्वितीये चाष्टमासे तु त्रिभिर्मासैस्त्रियामके ॥ ७।२ ॥

अरुणोदयवेदालायां दशाहेन फलं भवेत् ।
अत ऊर्ध्वं प्रवक्ष्यामि पुण्यापुण्यं तु वै शृणु ॥ ७।३ ॥

आरोहणे गोवृषकुञ्जराणं प्रासादशैलाग्रवनस्पतीनाम् ।
विष्टानुलेपो कथितः स्वप्नेष्वगम्यागमनं प्रशस्तम् ॥ ७।४ ॥

यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयम् ।
सुवर्णं वृषभं गावं(गां वा?)कुटुम्बं तस्य वर्धते ॥ ७।५ ॥

क्षीरिणं फलिनं वृक्षं एकाकी यो ऽधिरोहति ।
तत्रस्थो यदि बुध्येत धनं शीघ्रमवाप्नुयात् ॥ ७।६ ॥

प्रासादस्थो ऽपि यो भुङ्क्ते समुद्रं तरते तु यः ।
अपि दासकुले जातः सो ऽपि राजा भविष्यति ॥ ७।७ ॥

दीपमन्नं फलं पद्मं कन्यां छत्रं ध्वजं तथा ।
स्वप्नान्ते यो लभेन्मन्त्रं स श्रियं यायितं ध्रुवम् ॥ ७।८ ॥

मानुषाणि तु मांसानि स्वप्नान्ते यस्तु भक्षयेत् ।
हरितानि सुपक्वानि शृणु वक्ष्यामि तत्फलम् ॥ ७।९ ॥

पादभक्षे शतं लाभः सहस्रं बाहुभक्षणे ।
राज्यं शतसहस्रं वा शिरसो भक्षणे लभेत् ॥ ७।१० ॥

उपानहौ तु छत्रं च लब्ध्वा यः प्रतिबुध्यति ।
असिंवानिर्मलं तीक्ष्णं तस्याध्वानं(?)विनिर्दिशेत् ॥ ७।११ ॥

नावमारोहयेद्यस्तु नदीश्चापि समुत्तरेत् ।
प्रवासं निर्दिशेत्तस्य शीघ्रं च पुनरागमम् ॥ ७।१२ ॥

दन्ता यस्य विशीर्यन्ते स्वप्नान्ते तु पतन्ति वा ।
धनानि नाशयेत्तस्य पीडा वापि शरै रणे ॥ ७।१३ ॥

अभ्यञ्जते यस्तैलेन पयसा तु घृतेन वा ।
स्नेहेन वा (यः?)तथान्येन व्याधिं तस्य विनिर्दिशेत् ॥ ७।१४ ॥

अभिद्रवन्ति यं स्वप्ने शृङ्गिणो दंष्ट्रिणो ऽपि वा ।
वानरो वा वराहो वा भवेद्राजकुलाद्भयम् ॥ ७।१५ ॥

रक्ताम्बरधरा नारी रक्तगन्धानुलेपना ।
अवगृह्णन्ति(ह्णाति?)यं स्वप्ने ब्रह्महत्यां विनिर्दिशेत् ॥ ७।१६ ॥

शुक्लाम्बरधरा नारी शुक्लगन्धानुलेपना ।
अवगृह्णन्ति(ह्णति?)यं स्वप्ने तस्य श्रीः सर्वतोमुखी ॥ ७।१७ ॥

आदित्यमण्डलं स्वप्ने चन्द्रं वा यदि पश्यति ।
व्याधितो मुच्यते रोगादरोगः श्रियमाप्नुयात् ॥ ७।१८ ॥

बडबां क्रकरीं क्रौञ्चीं लब्ध्वा यः प्रतिबुध्यति ।
क्रोशादाहृत्य लभते भार्यां स प्रियवादिनीम् ॥ ७।१९ ॥

निगलैर्यस्तु मुच्येत बाहुपाशैस्तथैव च ।
पुत्रो वा जायते तत्र प्रतिष्ठां वा विनिर्दिशेत् ॥ ७।२० ॥

यस्तु श्वेतेन सर्पेण दश्यते दक्षिणे शुभे(करे?) ।
सहस्रं लभते वित्तं सम्पूर्णे दशमे ऽहनि ॥ ७।२१ ॥

अन्त्रैस्तु वेष्टितं स्वप्ने ग्रामं नागरमेव वा ।
ग्रामे मण्डलराजेन्द्रो नगरे वाधिपो भवेत् ॥ ७।२२ ॥
रुधिरं पिबति स्वप्ने सुरां वापि कदाचन ।
ब्राह्मणो लभते विद्यामितरश्च(स्तु?)धनं लभेत् ॥ ७।२३ ॥

क्षीरं च पिबति स्वप्ने सफेनं दोहने गवाम् ।
सोमपानं भवेत्तस्य अन्ते च क्रतुमेदिनीम्(?) ॥ ७।२४ ॥

दधि दृष्ट्वा भवेत्प्रीतिः गोधूमं च धनागमः ।
यवैराज्यागमं विद्यात् सिद्धार्थकेषु च (तथा?) ॥ ७।२५ ॥

यस्तु मध्ये तटाकस्य भुञ्जीत मधुपायसम् ।
निषण्णं पद्मिनीपत्रे तं विद्याद्धरणीपतिम् ॥ ७।२६ ॥

लिङ्गमभ्यर्च्य तं(तद्?)दृष्ट्वा देवानपि विशेषतः ।
व्यवहारे जयस्तस्य(जयं चैव?)धनं च विपुलं भवेत् ॥ ७।२७ ॥

पुष्पिते पुष्पितं विद्यात् फलिते बुद्धिरुत्तमा ।
धूमायन्तमपायं तं प्रज्वलन्तं श्रियावहम् (?) ॥ ७।२८ ॥

आसने शयने याने शरीरे वाहने गृहे ।
ज्वलमाने विबुध्येत तस्य श्रीः सर्वतोमुखी ॥ ७।२९ ॥

देवताश्च द्विजा गावः पितरो लिङ्गिनस्तथा ।
यद्वदन्ति नरं स्वप्ने तत्तथैव विनिर्दिशेत् ॥ ७।३० ॥

सर्वाणि शुक्लान्यभिनन्दितानि कार्पासभस्मास्थिस(क?)तक्रवर्जम् ।
सर्वाणि कृष्णानि न शोभनानि गोहस्तिदेवद्विजवाजिवर्जम् ॥ ७।३१ ॥

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां स्वप्नविधिर्नाम सप्तमो ऽध्यायः ॥