षष्ठो ऽध्यायः
विष्वक्सेनः—
मृत्संस्कारमथो वक्ष्ये शृणुष्वैक मनाधुना (!) ।
पक्वापक्वे(क्वा?)द्विधा प्रोक्ता भूसुरादीननुक्रमात् ॥ ६।१ ॥
सर्वलोका न शंसन्ति प्रतिमां दग्धमृण्मयीम् ।
अपक्वा प्रतिमा शस्ता सैव कार्या विचक्षणैः ॥ ६।२ ॥
सुधया नैव कुर्याद्वा नाश्मचूर्णैः कदाचन ।
मृदैव मृण्मयं कुर्यात् यथावर्णानुरूपतः ॥ ६।३ ॥
ब्राह्मणस्य सिता मृद्वै क्षत्रियस्यारुणा स्मृता ।
विशां पीता भवेन्मृद्वै कृष्णा शूद्रस्य कीर्तिता ॥ ६।४ ॥
मृदं वर्णानुपूर्व्येण गृह्णीयात् क्षेत्रसम्भवाम् ।
दधिसर्पिःपयोभिश्च अतसीस्नेहसंयुतैः ॥ ६।५ ॥
शर्करा(रां?)लोहपाषाणैः चूर्णं कृत्वा तु पूर्वशः ।
समभागानि चूर्णानि मृत्तिकायां नियोजयेत् ॥ ६।६ ॥
खादिरेण कषायेण अर्जुनेन च पेषयेत् ।
श्रीवेष्टकं सज्जरसं कुङ्कुमं कोष्ठमेव च ॥ ६।७ ॥
कुन्दुरुश्च रसा ह्येते सर्वे सर्वरसान्विताः ।
नदीसङ्गमतीरेषु पुण्योद्यानेषु वै पुनः ॥ ६।८ ॥
आदाय मृत्तिकां तत्र स्नेहचूर्णसमायुताम् ।
मासं पर्युषितं कृत्वा कारयेत् प्रतिमां ततः ॥ ६।९ ॥
त्रिरात्रं पेषिता(चोषिता?)सा तु शिलामयसमा भवेत् ।
मृत्संस्कारं मया प्रोक्तं तेनैव प्रतिमां क्रमात् ॥ ६।१० ॥
कारयेत् सुदृढं सम्यक् शास्त्रदृष्ट्या च शिल्पिना ।
साङ्गोपाङ्गसमायुक्तां प्रतिमां सुमनोरमाम् ॥ ६।११ ॥
नवाम्बरं तु सुस्निग्धं प्रतिमोपरि वेष्टयेत् ।
तस्योपरि लिखेत् स्निगधं वर्णानुक्रमणेन तु ॥ ६।१२ ॥
अतस्तत्सम्प्रवक्ष्यामि वर्णानुक्रमण क्रमात् ।
श्वेतं पीतं तथा रक्तं हरितं कृष्णमेव च ॥ ६।१३ ॥
पञ्चवर्णा इमे प्रोक्ताः पृथिव्याद्यधिदेवताः ।
उत्तमा धातुजा प्रोक्ता मध्यमा वृक्षसम्भवा ॥ ६।१४ ॥
संयोगजावरा ज्ञेया त्रिविधो वर्णसङ्ग्रहः ।
वर्णं चाप्यनुवर्णं च सङ्करं च तथैव च ॥ ६।१५ ॥
त्रिविधो वर्णसंयोगः शास्त्रे ऽस्मिन्नुच्यते मया ।
वर्णा इत्युच्यते शुद्धा राजवार्तादिनाकरोत्(?) ॥ ६।१६ ॥
अनाक(का?)रेषु ये वर्णाः प्रायःशुद्धिविवर्जिताः ।
अनुवर्णा इमे प्रोक्ताः सङ्करान् कथयाम्यहम् ॥ ६।१७ ॥
शुक्लो रक्तश्च कृष्णश्च नीलश्चेति चतुर्विधः ।
शङ्खगोक्षीरवर्णाभः शुक्ल इत्यभिधीयते ॥ ६।१८ ॥
हरितश्चैव पीतश्च पीतवर्णो द्विधा भवेत् ।
मनःशिला हरीतालो हरितः सम्प्रकीर्तितः ॥ ६।१९ ॥
हरिद्राकुङ्कुमाभस्तु पीत इत्यभिधीयते ।
ततस्तु श्यामवर्णश्च कृष्णवर्णो द्विधा मतः ॥ ६।२० ॥
दूर्वामरकताभस्तु इन्द्रनीलनिभो ऽपरः ।
शुक्लेन मिश्रितो रक्तो हरिरित्यभिसञ्ज्ञितः ॥ ६।२१ ॥
शुक्लेन मिश्रितः पीतो गौर इत्यभिधीयते ।
रक्तेन मिश्रितमपि कपिलं परिभाशितम् ॥ ६।२२ ॥
शुक्लेन मिश्रितः कृष्णो धूम्र इत्यभिसञ्ज्ञितः ।
पीतेन मिरितः कृष्ण काल इत्यभिसञ्ज्ञितः ॥ ६।२३ ॥
पीतकृष्णयुतःशुक्लो गौर इत्यभिधीयते ।
पीतरक्तयुतःशुक्लः कर्बुरः समुदाहृतः ॥ ६।२४ ॥
पीतकृष्णयुतो वर्णो हरिवर्णः प्रकीर्तितः ।
एवं सङ्करतो वर्णः तत्कालं स्थीयते दृढम् ॥ ६।२५ ॥
यन्निभा कथिता मूर्तिः तन्निभं वर्णयोजनम् ।
अदृष्टदेशसम्भूता मध्यमा कालसम्भवा ॥ ६।२६ ॥
एवं वर्णविभागस्तु क्रमशः परिकीर्तितः ।
वासुदेवं सङ्कर्षणं प्रद्युम्नं चनिरुद्धकम् ॥ ६।२७ ॥
कलौ युगे शचीनाथ श्यामवर्णेन कारयेत् ।
तद्बिम्बं शुभदं ऋद्धिं(विद्धि?)राजराष्ट्रविवर्धनम् ॥ ६।२८ ॥
तस्मात्सर्वप्रयत्नेन कलौ श्यामेन कारेयत् ।
अन्यथाशुभमाप्नोति राजराष्ट्रविनाशकृत् ॥ ६।२९ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां मृत्संस्कारविधिर्नाम षष्ठो ऽध्यायः