०५

पञ्चमो ऽध्यायः

विष्वक्सेनः—
अथातःसम्प्रवक्ष्यामि शूलस्थापनमुत्तमम् ।
स्थापयेत् प्रतिमाशूलं रत्नन्यासस्य चो(स्तथो?)परि ॥ ५।१ ॥

खदिरादीनि गृह्णीयात् याज्ञिकानि विशेषतः ।
तल्लक्षणं प्रवक्ष्यामि शृणु पूर्वं शचीपते ॥ ५।२ ॥

पञ्चोत्तरद्विपञ्चाशत् सपादं(अङ्गुलं?)शूलमुच्पते ।
रहितं वृक्षदोषैस्तु मितमङ्गुलिभिः क्रमात् ॥ ५।३ ॥

द्विषट्कद्व्यङ्गुलयुतं मुखं प्रोक्तं प्रमाणतः ।
भागः सपादकं वा स्यादधस्तात् सप्तविंशतिः ॥ ५।४ ॥

नाभेरधोमुखं प्रोक्तमर्धाङ्गुलिसमायुतम् ।
ऊरुदण्डस्य चायामः पञ्चविंशाङ्गुलो भवेत् ॥ ५।५ ॥

भागःसपादं जानुः स्यात् जङ्घा चोरुसमायुता ।
गोलकद्वयमुद्दिष्टमधस्ताद्द्व्यन्तरं तथा ॥ ५।६ ॥

वक्षोदण्डस्य विस्तारः पञ्चविंशाङ्गुलो भवेत् ।
कटिदण्डस्य विस्तारः षोडशाङ्गुल उच्यते ॥ ५।७ ॥

आयामो बाहुदण्डस्य पञ्चविंशाङ्गुलो भवेत् ।
आयामो ऽपरबाह्वोस्तु भवेत् सप्तदशाङ्गुलम् ॥ ५।८ ॥

मणिबन्धः कलायामो बन्धकान् प्रतिमस्करम् ।
आयामो मध्यमाङ्गुल्यां पञ्चाङ्गुल इति स्मृतः ॥ ५।९ ॥

एतत्प्रमाणं शूलं स्यात् उक्तमन्यन्निरीक्ष्यते(तु?) ।
देवीनां तु शचीनाथ शूलानुक्तान् प्रयोजयेत् ॥ ५।१० ॥

शिल्पशास्त्रानुसारेण कारयेच्छूललक्षणम्(मुत्तमम्?) ।
शूलमृत्पटरज्वादिजीर्णं चेत्तु शचीपते ॥ ५।११ ॥

पुनरन्यत् समुत्पाद्य पूर्वोक्तेनैव कारयेत् ।
हीनाधिकं न कर्तव्यं जीर्णदण्डवदाचरेत् ॥ ५।१२ ॥

एवमेतन्मया प्रोक्तम्, जीर्णोद्धारणकर्मणि ।
युक्त्या युक्तिविशेषेण क्रियते ऽस्मिन्नतन्द्रितैः ॥ ५।१३ ॥

शूलाधिवासनादीनि प्रवक्ष्यामि शचीपते ।
शृणुष्वैकाग्रचित्तेन विविक्तेन मयाधुना(?) ॥ ५।१४ ॥

प्रासादस्याग्रतः कुर्यात् मण्डपं चतुरश्रकम् ।
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ ५।१५ ॥

वितानवस्त्रसञ्छन्नमलङ्कारैरलङ्कृतम् ।
पञ्चोत्तरशतं हस्तं विस्तारं तावदेव तु ॥ ५।१६ ॥

तन्मध्ये वेदिकां कृत्वा दशतालप्रमाणतः ।
दशहस्तं भवेद्वापि द्वादशं वा शचीपते ॥ ५।१७ ॥

तन्मण्डपं(द्वेदिकां?)त्रिधा कृत्वा मध्ये वेदिं तु कारयेत् ।
दशतालविहीनेन (प्रमाणेन) कारयेद्वेदिमुत्तमाम् ॥ ५।१८ ॥

तालद्वयोच्छ्रितां वेदिं दर्पणोदरसन्निभाम् ।
वेदिकां क्रमशः कृत्वा सम्यक्कुण्डानि कल्पयेत् ॥ ५।१९ ॥

चतुस्तालं त्रितालं वा दूरीभूतानि सर्वशः ।
वेदिकायां तु परितः चतुरश्रादि कल्पयेत् ॥ ५।२० ॥

स्थण्डिले वा प्रकर्तव्यं शूलस्थापनकर्मणि ।
कृत्वैवं मण्डपं सम्यक् प्रपां वास्मिन् समाचरेत् ॥ ५।२१ ॥

अङ्कुरार्पणपूर्वं तु स्थापयेच्छूलमुत्तमम् ।
शुलादि देवदेवीत्वाप्यूहं कृत्वा क्रमेण तु ॥ ५।२२ ॥

त्रिरात्रमेकरात्रं वा जलवासं प्रकल्पयेत् ।
जलाधिवासनं गुह्यं शृणु शक्र शचीपते ॥ ५।२३ ॥

नद्यां वाथ तटाके वा निर्झरे वा शचीपते ।
समुद्रगामिनी नद्यां(?)जलवासं समाचरेत् ॥ ५।२४ ॥

तस्मिन्मनोरमे तीरे संस्थाप्य हरिमव्ययम् ।
शूलमध्ये हरिं ध्यात्वा साधकः परमार्थवित् ॥ ५।२५ ॥

केवलं लोहबिम्बं वा स्थापयेत् साधकोत्तमः ।
अर्घ्यपाद्यादिनाभ्यर्च्य न्यासकर्म समारभेत् ॥ ५।२६ ॥

अष्टाक्षरं महामन्त्रं ज्ञात्वा मन्त्रविचक्षणः ।
न्यासं कृत्वा स्वदेहे तु पश्चाद्देवे न्यसेत् क्रमात् ॥ ५।२७ ॥

सृष्टिन्यासं न्यसेत्तस्मिन् संहारं न स्मरेदिह ।
षडक्षरं न्यसेद्धीमान् स्थितिन्यासं न्यसेत् क्रमात् ॥ ५।२८ ॥

देवाग्रे तु ततो भूमिं गोमयेनानुलेपयेत् ।
तन्मध्ये शालीनास्तीर्य चाष्टपत्राब्जकं लिखेत् ॥ ५।२९ ॥

पञ्चगव्यं न्यसेन्मध्ये कर्णिकायां शचीपते ।
पूर्वे गन्धोदकं न्यस्य दक्षिणे पुष्पतोयकम् ॥ ५।३० ॥

पश्चिमे नालिकेराम्भः चोत्तरे तु कुशोदकम् ।
आग्नेय्यां दधि विन्यस्य नैऋते क्षीरमेव च ॥ ५।३१ ॥

वायव्ये मङ्गलोदं तु ऐशाने तु यवोदकम् ।
एवं तु नवकं चाब्जमध्ये संस्थापयेत् क्रमात् ॥ ५।३२ ॥

पद्मस्य परितश्चाष्टौ लोकपालान् प्रकल्पयेत् ।
प्रत्येकं कलशस्यान्तः तोयं संस्थापयेत्क्रमात् ॥ ५।३३ ॥

नववस्त्रैश्च सञ्छाद्य कलशानां तथोपरि ।
प्रत्येकैकं त्रिभिर्वापि नववस्त्रं शचीपते ॥ ५।३४ ॥

पुण्याहं वाचयित्वा तु स्वस्तिसूक्तं तथोच्चरेत् ।
गन्धपुष्पादिनाभ्यर्च्य स्वनाम्ना मन्त्रवित्तमः ॥ ५।३५ ॥

स्मरन् नारायणं पश्चात् स्नापयेत् क्रमयोगतः ।
पञ्चगव्यादिकलशान् पूर्ववत् परमेष्ठिना ॥ ५।३६ ॥

पुष्पमाल्यैरलङ्कृत्य चित्रवस्त्रैस्तु वेष्टयेत् ।
गन्धपुष्पादिनाभ्यर्च्य स्मरन् नारायणं प्रभुम् ॥ ५।३७ ॥

जलमध्ये प्रपां कृत्वा वितानैरुपशोभिताम् ।
सप्तहस्तसमां वापि पञ्चहस्तसमां तु वा ॥ ५।३८ ॥

दर्भसूत्रैस्तु संवेष्ट्य पुनर्माल्यैस्तु वेष्टयेत् ।
चतुर्हस्तं तु देवेन्द्र विस्तारायामतादृशम्(तः समम्?) ॥ ५।३९ ॥

दर्भमालासमायुक्तं मुक्तादामैरलङ्कृतम्(मभिरन्वितम्?) ।
पुष्पमाल्यैरलङ्कृत्य पताकैरुपशसोभितम् ॥ ५।४० ॥

एवं प्रपामलङ्कृत्य तन्मध्ये चासनं न्यसेत् ।
चतुष्पादसमायुक्तं काष्ठासनमनुत्तमम् ॥ ५।४१ ॥

तन्मध्ये देवमावाह्य क्षीरार्णवमनुस्मरन् ।
शाययेत्तु शचीनाथ मूर्तिमन्त्रेण मन्त्रवित् ॥ ५।४२ ॥

प्राक्शीर्षं वा[पिटदेवेन्द्र दक्षिणे वाथ शाययेत् ।
पञ्चोपनिषदं ज्ञात्वा आचार्यस्तन्त्रपारगः ॥ ५।४३ ॥

पुरुषेण ततो गन्धपुष्पाद्यैरर्चयेद्धरिम् ।
लोकपालाष्टकलशान् देवस्य परितो न्यसेत् ॥ ५।४४ ॥

स्वनाम्ना पूजयेत् सर्वानिन्द्रादिक्रमयोगतः ।
प्रणवादिनमोन्तेन घण्टाशब्दसमन्वितम् ॥ ५।४५ ॥

गन्धा(अर्घ्या?)दिदीपपर्यन्तं साधकः परमार्थवित् ।
तां प्रपां परितश्चाष्टदिग्बलिं कारयेत् क्रमात् ॥ ५।४६ ॥

अनेन लोकपालांस्तु स्मरंस्तन्त्रविदां वरः ।
गन्धपुष्पादिनाभ्यर्च्य उक्तमन्येन (न्यच्च?)कारयेत् ॥ ५।४७ ॥

शचीपते मया प्रोक्तो जलवासविधिः क्रमात् ।
अपरे ऽहनि देवेन्द्र अपराह्णे समाहितः ॥ ५।४८ ॥

जलादुत्तीर्य तन्त्रज्ञः शङ्खभेर्यादिभिः सह ।
सम्पूजयेत्तयो देवमलङ्कृत्य स्रगादिभिः ॥ ५।४९ ॥

मण्डपेशानभागे तु स्थापयेत् स्नानमण्डपे ।
स्नपनं विधिवत् कृत्वा गन्धाद्यैरर्चयेत् क्रमात् ॥ ५।५० ॥

उत्तरे ऽस्मिन् मया प्रोक्तं तन्त्रे तु स्नपनं क्रमात् ।
तत्क्रमं स्नापयित्वा तु कल्पयेच्छयनं क्रमात् ॥ ५।५१ ॥

शयनं कल्पयित्वा तु शाययेच्छूलसञ्चयम् ।
तन्मध्ये देवशूलं तु देवीशूलं तु पार्श्वयोः ॥ ५।५२ ॥

वस्त्रैः सञ्छादयेच्छूलान् गन्धपुष्पैः समर्चयेत् ।
सूक्तेन पु(पौ?) रुषेणैव सृष्टिन्यासं ततो न्यसेत् ॥ ५।५३ ॥

संहारो नेष्यते तस्मिन् तत्वानि विनियोजये ।

मूलप्रकृतिमहदहङ्काराकाशवायुवह्णिवारिवसुन्धरावाक्पाणिपादपायूपस्थश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणमनःप्राणापानव्यानोदानसमानजीवाः पञ्चविंशतितत्त्वानि ।

एवं तत्त्वानि विन्यस्य तन्नामानि नियोजयेत् ॥ ५।५४ ॥

ततस्तु वेदिकायां तु पूर्वादिक्रमयोगतः ।
स्थापयेत् पूर्णकुम्भांस्तु धान्यराशौ समाहितः ॥ ५।५५ ॥

वराहादीन् समभ्यर्च्य स्वनाम्नाष्टदले(घटे) षु च ।
नेष्यते वेदिकायां तु ब्रह्मकुम्भाधिवासनम् ॥ ५।५६ ॥

न्यासभेदानि सर्वाणि अनुक्तं न स्मरेदिह ।
अर्घ्यपाद्यादिनाभ्यर्च्य स्मरन्नारायणं हरिम् ॥ ५।५७ ॥

वासुदेवादिमूर्तीनां पूर्वादिक्रमयोगतः ।
कुण्डे वा स्थण्डिले वापि जुहुयुर्मूर्तिपाः पृथक् ॥ ५।५८ ॥

समिदाज्येन चरुणा अष्टोत्तरशतं क्रमात् ।
मधुना पयसा दध्ना हूयतेन (जुहुयाच्च?) घृतेन च ॥ ५।५९ ॥

सूक्तेन पौरुषणैव पूर्वादिक्रमयोगतः ।
कुण्डे कुण्डे तु कर्तव्यं (कुर्याच्च?) प्रत्येकं षोडशाहुतीः ॥ ५।६० ॥

पूर्णाहुतिं ततो हुत्वा होममस्मिन् समापयेत् ।
पायसं कृसरं गौऌयं देवेशाय निवेदयेत् ॥ ५।६१ ॥

शङ्खदुन्दुभिनिर्घोषं तस्मिन् काले नियोजयेत् ।
रक्षार्थं हविषास्त्रेण चाष्टदिग्बलिमाचरेत् ॥ ५।६२ ॥

घण्टाशब्दसमोपेतं शङ्खदुन्दुभि घोषयेत् ।
ततस्तु नववस्त्रैश्च वेष्टयेदुपरि क्रमात् ॥ ५।६३ ॥

गन्धपुष्पं विनिक्षिप्य प्रणम्याञ्जलिमुद्रया ।
रात्रिशेषं नयेत् गेयनृत्तवीणादिभिः क्रमात् ॥ ५।६४ ॥

प्रभातायां तु शर्वर्यामाचार्यः स्नानमाचरेत् ।
ऊर्ध्वपुण्ड्रं क्रमात् कृत्वा वस्त्रालङ्कारभूषितः ॥ ५।६५ ॥

मूर्तिपैःसह चोत्थाय शूलमूलमनुस्मरन् ।
अर्घ्यपाद्यादिनाभ्यर्च्य हाविरस्मिन्न (स्मैप्र?) दापेयत् ॥ ५।६६ ॥

वेश्वमप्रदक्षिणं कुर्वन् गर्भागारं प्रवेशयेत् ।
आचार्यः स्थापयेच्छूलं ततस्तु परमेष्ठिना ॥ ५।६७ ॥

देवीशूलं तु संस्थाप्य स्वनाम्नास्मिन् श्रियादिना ।
वेदान् सस्वरमुद्धृत्य काले तस्मिन् समुच्चरेत् ॥ ५।६८ ॥

वाराहादीनि चावाह्य शूलाग्रे सेचयेत् क्रमात् ।
आसनं च ततः पुंसा विश्वेन शयनं ततः ॥ ५।६९ ॥

निवृत्या यानकं चापि सिञ्चेत्तन्मूर्ध्नि(र्ति?) धारकः ।
मूर्धादिपादपर्यन्तं वाराहादीननुक्रमात् ॥ ५।७० ॥

विन्यसेच्छूल (लं?) देहे तु स्वनाम्ना च पृथक्पृथम् ।
सहैव स्थापयेच्छूलं श्रीपुष्ट्योर्देवपार्श्वयोः ॥ ५।७१ ॥

चित्रार्धं शेलदारुभ्यां साङ्गोपाङ्गसमायुतम् ।
कारयेत् प्रतिमां तत्र स्थापयेच्छूलवत् पुरा ॥ ५।७२ ॥

वस्त्रं तत्र नवं स्निग्धं नीलरोमादिवर्जितम् ।
सङ्गृह्य प्रणवेनैव छादयेत् प्रतिमोपरि ॥ ५।७३ ॥

वर्णं तत्कारयेद्विद्वान् यद्यत् पूर्वानुरूपतः ।
पुनःसंस्थापनं कृत्वा स्थापनाशास्त्रतः क्रमात् ॥ ५।७४ ॥

शूलमस्थिमवेत्तस्मिन् रज्जुस्तत्र सिरा भवेत् ।
मृण्मासं त्वक्पटं तत्र शरीरवदिदं स्मृतम् ॥ ५।७५ ॥

यथा शरीरे सङ्कल्प्य चतुष्षष्टि सिरास्तथा ।
नारिकेले(ल?)त्वचःसारं गृह्णीयाद्रज्जुकर्मणि ॥ ५।७६ ॥

शूले पाशाः प्रकर्तव्याः तत्कर्मकशलैः शुभैः ।
एवं रज्जुमयं कृत्वा सर्वाङ्गेषु सुवेष्टयेत् ॥ ५।७७ ॥

सङ्क्षेपात् कथितं रज्जुबन्धनं परमं शुभम् ।
एवं कृत्वा यथान्यायं शूलस्थापनमुत्तमम् ॥ ५।७८ ॥

आचार्यं पूजयेत् पश्चात् धनैःकनककुण्डलैः ।
शिल्पिनं पूजयेत् पश्चात् तथैव नववस्त्रकैः ॥ ५।७९ ॥

दैवज्ञं पूजयेत् पूर्वं वस्त्रहेमाङ्गुलीयकैः ।
ब्राह्मणान् भोजयेत् पश्चात् वैष्णवान् वेदपारगान् ॥ ५।८० ॥

एवं संस्थापनं प्रोक्तं सङ्क्षेपाच्छूलमुत्तमम् (?) ॥

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां शूलस्थापन- विधिर्नाम पञ्चमो ऽध्यायः ॥