चतुर्थो ऽध्यायः
विष्वक्सेनः—
अतः परं प्रवक्ष्यामि शिलाग्रहणमुत्तमम् ।
द्विविधा तु शिला ग्राह्या पर्वतेषु धरासु च ॥ ४।१ ॥
पर्वतान् प्रथमं वक्ष्ये येषु शैलेषु गृह्यते ।
त्रिकूटो हेमकूटश्च कैलासो गिरिसत्तमः ॥ ४।२॥
मन्दरो माल्यवांश्चैव निषधो नीलपर्वतः ।
मेरुः सह्यश्च विन्ध्यश्च किष्किन्धो गिरिसत्तमः ॥ ४।३ ॥
वेङ्कटो दर्दरश्चैव श्रीगिरिश्चित्रकूटकः ।
एवम्भूतान् समन्वीक्ष्य पुरतः प्रणमेत् सदा ॥ ४।४ ॥
पत्रं पुष्पं समादाय निक्षिपेद्गिरिमूलके ।
नमस्कृत्य हरिं ध्यात्वा पर्वतं पापनाशनम् ॥ ४।५ ॥
अधिवासनानिसर्वाणि(कर्माणि?)अस्मिन् पूर्ववदाचरेत् ।
भूगता याः शिलाः प्रोक्ताः तासां लक्षणमुच्यते ॥ ४।६ ॥
वारुणी चैव माहेन्द्री आग्नेयी वायवी तथा ।
चतुर(चतस्र?)स्तु शिलाः प्रोक्ताः तासांलक्षणमुच्यते ॥ ४।७ ॥
या पुष्पवनसङ्कीर्णा जलाशयसमायु(वृ?)ता ।
सा क्षितिर्वारुणी ज्ञेया शिला तत्र तु वारुणी ॥ ४।८ ॥
यस्याश्चोत्तरसंस्थायाः व्रीहिक्षेत्रं तु दक्षिणे ।
पश्चिमे क्षीरवृक्षाश्च सा माहेन्द्री प्रकीर्तिता ॥ ४।९ ॥
पलाशाः खदिरा वृक्षाः काश्मर्यः पुष्पर्(-यश्चैव?)दक्षिणे ।
तित्तिर्यश्च कपोताश्च गृध्राश्चैव वसाशनाः ॥ ४।१० ॥
भ्रमराश्च वराहाश्च दृश्यन्ते यत्र सन्ततमद्म् ।
तोयमन्तर्गतां(तं?)स्वल्पां(ल्पं?)तामाग्नेयीम्प्रचक्षते ॥ ४।११ ॥
बिल्वश्लेष्मातकाकीर्णा तथा स्नुहिविभीतके ।
सृगाला यत्र दृश्यन्ते तथैव मृगतृष्णिका ॥ ४।१२ ॥
तृणोदकविहीना च शर्करोषरसंयुता ।
वायवी सा क्षितिः प्रोक्ता शिलां तत्र तु वर्जयेत् ॥ ४।१३ ॥
नदीतीरे ह्रदतटे लवणोदपरिप्लुते ।
ग्राममध्ये श्मशाने च तथा चैव चतुष्पथे ॥ ४।१४ ॥
अमेध्यभूमौ वल्मीके ऊषरे शवदूषिते ।
वायुसूर्याग्निदग्धे च न ग्राह्यास्तु शिलाःसदा ॥ ४।१५ ॥
वर्जिताभिः शिलाभिर्यः प्रतिमां लोभमोहितः ।
कुर्याद्वा कारयेद्वापि तस्य स्यादाभिचारिकम् ॥ ४।१६ ॥
प्रमिमार्थं तु निर्गच्छेदाचार्यः शिल्पिभिःसह ।
ब्राह्मणान् भोजयित्वादौ तैः कृत्वा स्वस्तिवाचनम् ॥ ४।१७ ॥
अयः कुठादिसङ्गृह्य प्राङ्मुखो वाप्युदङ्मुखः ।
निर्गतस्तु शिलां पश्येत् तदा प्रभृति नित्यशः ॥ ४।१८ ॥
प्रतिमाकर्म कुर्वीत तत्कर्मान्तं हविष्यभुक् ।
दारुसङ्ग्रहणाध्याये सम्प्रोक्तं चाधिवासनम् ॥ ४।१९ ॥
तस्मिन् सर्वं प्रयोक्तव्यं विशेषं कथयामि ते ।
शिल्पिभिश्च भुवं खात्वा शिलां पश्येत् समाहितः ॥ ४।२० ॥
दक्षिणोत्तरमायामं तथा वै पूर्वपश्चिमम् ।
शान्तिदा दक्षिणग्रीवा पूर्वग्रीवाजयप्रदा ॥ ४।२१ ॥
श्रीकरी पश्चिमग्रीवा कर्तुर्भवति नित्यदा ।
पुष्टिदा चोत्तरग्रीवा कोणं तु परिवर्जयेत् ॥ ४।२२ ॥
उत्पाट्यमाने दृश्यन्ते स्फुलिङ्गा यत्र चाग्निवत् ।
नादाश्च कांस्यघण्टावच्छिलायाश्च शिरो मतम् ॥ ४।२३ ॥
कांस्यवन्मध्यभागे तु मूले वै कांस्यतालवत् ।
ध्वनिर्यस्याः शिलायास्तु सा पुमानिति कीर्तिता ॥ ४।२४ ॥
तस्मात्किञ्चिद्विहीना तु छिद्रायाश्च ध्वनिर्भवेत् ।
सा शिला स्त्रीति विज्ञेया तद्धीना स्यान्नपुंसकम् ॥ ४।२५ ॥
पुल्लिङ्गे प्रतिमा प्रोक्ता स्त्रीलिङ्गे पादपीठिका ।
रत्नन्यासादधस्तात्तु नपुंसकमुदाहृतम् ॥ ४।२६ ॥
तत्र गर्भं परीक्षेत छेदने भेदने ऽपि च ।
मण्डला यत्र दृश्यन्ते तत्र गर्भं विनिर्दिशेत् ॥ ४।२७ ॥
माञ्जिष्ठवर्णसदृशे दर्दुरस्तत्र सम्भवे ।
पीतके मण्डले गोष्णा (गोधा?)कृष्णे कृष्णाहिरेव च ॥ ४।२८ ॥
कपिले मूषिकः प्रोक्तः कृकलासस्तथारुणे ।
गुलवर्णे तु पाषाणः कर्बुरेगृहगौलिका ॥ ४।२९ ॥
कु(अ?)म्भः कृपाणसदृशे वालुकाः पद्मसन्निभे ।
विचित्रे वृश्चिको ज्ञेयो नीलपीते पतङ्गकः ॥ ४।३० ॥
मधुवर्णे तु खद्योतः मण्डले निर्दिशेद्बुधः ।
गर्भदर्शनदोषांस्तु पुनर्वक्ष्ये यथातथम् ॥ ४।३१ ॥
दर्दुरे स्यादनारोग्यं गोधायां दुर्गतो(तिः?) भवेत् ।
विषेण म्रियते सर्पे अनपत्यस्तु मूषिके ॥ ४।३२ ॥
कृकलासे य(त?)थाल्पायुः पाषाणे ऽशनिना वधः ।
गौलिकायां धनापायो जले वै गर्भनाशनम् ॥ ४।३३ ॥
सिकातासु जलाभावो वृश्चिके कलहस्तथा ।
शलभे राष्ट्रनाशः स्यात् खद्योते च कुलक्षयः ॥ ४।३४ ॥
तस्माद्यत्नात् परीक्षेत नित्यं गर्भमतन्द्रितः ।
गर्भेण सहितां लोभात् प्रतिमां कुरुते यदि ॥ ४।३५ ॥
तन्मण्डलाधिपो राजा कारकः स्थापकस्तथा ।
उन्मूमिला भवन्त्येते तस्माद्गर्भं विशोधयेत् ॥ ४।३६ ॥
मणिजा लोहजाश्चैव दारुजा वा शचीपते ।
गर्भागर्भमवेक्षेत नित्यं वृद्धिशुभप्रदा ॥ ४।३७ ॥
अस्मिन् तन्त्रोत्तरे भागे प्रमिमालक्षणं क्रमात् ।
नारदस्य(दाय?)मया प्रोक्तं गुह्याद्गुह्यमनुत्तमम् ॥ ४।३८ ॥
तस्मात्पूर्वोत्तरं ज्ञात्वा प्रमिमां कारयेत्क्रमात् ।
एवं शैलविधिः प्रोक्तः सारात्सार अनुत्तमः ॥ ४।३९ ॥
इति श्रीपाञ्चरात्र विष्वक्सेनसंहितायां शिलासङ्ग्रहणविधिर्नाम चतुर्थो ऽध्यायः ॥