तृतीयो ऽध्यायः
विष्वक्सेनः—
अथातः सम्प्रवक्ष्यामि दारुसङ्ग्रहणं परम् ।
ब्राह्मणान् भोजयित्वा तु आचार्यःशुद्धमानसः ॥ ३।१ ॥
आचार्यःसमलङ्कृत्य नववस्त्राङ्गुलीयकैः ।
यजमानः शचीनाथ शुद्धान्तःकरणःशुचिः ॥ ३।२ ॥
शिल्पिनं पूजयित्वा तु गन्धपुष्पाम्बरादिभिः ।
वैष्णवान् समलङ्कृत्य भोजनाच्छादनादिभिः ॥ ३।३ ॥
कुठारादीनि सङ्गृह्य वैष्णवैःसह मन्त्रवित् ।
शुचिर्नवाम्बरधरः सोत्तर्यो(?)ष्णीषवान् क्रमात् ॥ ३।४ ॥
निर्गच्छेद्वृक्षमासाद्य शिल्पिभिःसह साधकः ।
अष्टाक्षरं महामन्त्रं जप्त्वा चाष्टोत्तरं शतम् ॥ ३।५ ॥
कुशहस्तः प्रणम्याथ दारुं पश्येत् समाहितः ।
शुचौ तले विविक्ते तु केशाङ्गारविवर्जिते ॥ ३।६ ॥
स्थापितं वृक्षमुद्वीक्ष्य तं प्रणम्य हरिं स्मरन् ।
तद्वृक्षं मनसा गृह्य कण्टकं परिवर्जयेत् ॥ ३।७ ॥
कार्तिक्याद्यष्टमासेषु दारुसङ्ग्रहमुत्तमम् ।
उक्तकाले महाप्राज्ञो निरीक्ष्य शुभवृक्षकम् ॥ ३।८ ॥
कण्टकात् खदिरं ग्राह्यमसारं परिवर्जयेत् ।
वृक्षानुक्रमणं वक्ष्ये सङ्क्षेपात् सारमुत्तमम् ॥ ३।९ ॥
खदिरो देवदारुश्च बदरी चन्दनद्वयम् ।
शिंशुपा राजवृक्षश्च बिल्वयूपवनस्तथा ॥ ३।१० ॥
मधुको लोहितश्चैव स्वन्दनस्वन्दकस्तथा ।
तुम्बकं चैव शामल्यं शालवृक्षस्तथैव च ॥ ३।११ ॥
असनो वकुलश्चैव शिरीषामलकस्तथा ।
सर्वे च याज्ञिका वृक्षाः प्रतिमार्थमुदाहृताः ॥ ३।१२ ॥
सारवन्तश्च ये चान्ये कृमिकीटविवर्जिताः ।
दग्धो ऽग्निना स्वयं शुष्कः पतितश्च स्वयं तथा ॥ ३।१३ ॥
तथा चाशनिनार् दधः स्फुटितो भिन्न एव च ।
दक्षिणप्रवणश्चैव वर्जिता अन्यदेशजाः ॥ ३।१४ ॥
सङ्कल्प्य प्रतिमामेकां शिलायां वृक्ष एव वा ।
क्रमेण परिगृह्णीयात् कर्तव्यैकैवमत्र तु ॥ ३।१५ ॥
नान्यत्र प्रतिमां कुर्यात् क्रिया भवति निष्फला ।
शिलादार्वोस्तु वक्ष्यामि अधिवासबलिक्रमम् ॥ ३।१६ ॥
तस्याधस्ताद्धरां पश्चादाशायां मण्डलं कुरु ।
सम्प्रोक्ष्य गन्धतोयेन विष्णुगायत्रिया बुधः ॥ ३।१७ ॥
तद्वृक्षमूले मन्त्रज्ञो परिगृह्य नवाम्बरम् ।
आचार्यश्च चतुर्दिक्षु पताकास्तत्र लम्बयेत् ॥ ३।१८ ॥
तत्र विष्णुं समावाह्य रविमध्यगतं हरिम् ।
सूक्तेन पुरुषेणैव पूजयेत् पुरुषोत्तमम् ॥ ३।१९ ॥
शिलाग्रहणदेशे ऽपि गोमयेनानुलेपयेत् ।
पूर्ववत् समलङ्कृत्य छादयेन्नववस्त्रकैः ॥ ३।२० ॥
अत्र पूर्वोक्तमार्गेण पूजयेद्धरिमव्ययम् ।
तत्पूर्वभागे तन्त्रज्ञः सायाह्ने चाधिवासयेत् ॥ ३।२१ ॥
चतुर्दिक्षु महादीपं प्रज्वाल्याक्षतधूपकैः ।
अलङ्कृत्य जनान् सर्वानूर्ध्वपुण्ड्रधरोन्मुखान् ॥ ३।२२ ॥
आचार्यः कुम्भमादाय निर्देषं सूत्रवेष्टितम् ।
अश्वत्थपल्लवैर्युक्तं सरत्नं तोयसंयुतम् ॥ ३।२३ ॥
वस्त्रयुग्मेन संवेष्ट्य धान्यराशौ विनिक्षिपेत् ।
तस्मिन् ब्रह्माणमभ्यर्च्य परितो ऽष्टघटान् न्यसेत् ॥ ३।२४ ॥
सापिधानान् सवस्त्रांश्च धान्यराशौ पृथङ्न्यसेत् ।
इन्द्रादीशानपर्यन्तं दिक्पतीनर्चयेत् क्रमात् ॥ ३।२५ ॥
पूर्वादिसोमपर्यन्तं होमकर्म समाचरेत् ।
वासुदेवादिमूर्तीनां स्वनाम्ना च पृथक्पृथम् ॥ ३।२६ ॥
समिदाज्यचरूंश्चैव अष्टात्तरशतं क्रमात् ।
जुहुयाद्वह्निजिह्वायां वासुदेवादिविद्यया ॥ ३।२७ ॥
पूर्णाहुतिं ततो हुत्वा शेषमस्मिन्न विद्यते ।
उत्तरे ऽस्मिन्महामन्त्रे(तन्त्रे?)वैष्णवीकरणं क्रमात् ॥ ३।२८ ॥
सम्प्रोक्तं नारदस्यैव तद्वदुत्पादयेदिह ।
उत्पाद्य वैष्णवाग्निं तु तदग्नौ होममाचरेत् ॥ ३।२९ ॥
अथवा पूर्वभागे तु चतुर्मूर्तिमनुस्मरन् ।
कारयेद्धोमकर्माणि पूर्वाग्नौ पूर्ववत् क्रमात् ॥ ३।३० ॥
परितो बलिदानं तु भूतक्रूरबलिं क्षिपेत् ।
पायसान्नं गुडोपेतं सघण्टास्वरसूक्ष्मयुक् ॥ ३।३१ ॥
पुण्याहं वाचयित्वा तु आदावन्ते तु च क्रमात् ।
कुठारं नववस्त्राद्यैरलङ्कृत्याधिवासयेत् ॥ ३।३२ ॥
द्रोणतण्डुलमध्ये तु पद्मष्टदलं लिखेत् ।
तन्मध्ये शाययेदस्त्रमन्त्रेणाष्टाक्षरेण वा ॥ ३।३३ ॥
नववस्त्रेण सञ्छाद्य साधको मन्त्रवित्तमः ।
गन्धपुष्पादिनाभ्यर्च्य मन्त्रेणास्त्रेण मन्त्रवित् ॥ ३।३४ ॥
आचार्यः सुस्थितो भूत्वा इमं मन्त्रमुदीरयेत् ।
ॐ नमः सर्वलोकाय विष्णवे प्रभविष्णवे ॥ ३।३५ ॥
विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः ।
रक्षः पिशाचा नागाश्च ये ऽत्र तिष्ठन्ति नित्यशः ॥ ३।३६ ॥
व्यपगच्छन्तु ते सर्वे सन्निधत्तां सदा हरिः ।
हत्युक्त्वा स्वप्नमाकाङ्क्षन् पश्चिमे शाययेन्निशि ॥ ३।३७ ॥
शुभाशुभं निरीक्ष्यात्र स्वप्नाध्याये प्रकीर्तितम् ।
अदर्शने ऽपि गृह्णीयात् विपरीते निवर्तयेत् ॥ ३।३८ ॥
आचार्यः प्रातरुत्थाय विधिवत् स्नानमाचरेत् ।
वृक्षमूले शिलायां वा कुम्भमादाय मन्त्रवित् ॥ ३।३९ ॥
अभिषिच्यास्त्रमन्त्रेण सुदर्शनमनुत्तमम् ।
सहस्रारेति सङ्कीर्त्य हुङ्कारं तदनन्तरम् ॥ ३।४० ॥
फट्कारान्तं महाहेतिं सुदर्शनमखण्डितम् ।
अस्त्रराजस्य मन्त्रो ऽयं श्रीकीर्तिजयदं परम् ॥ ३।४१ ॥
अभिषिच्य त्रिराचम्य परिधाय(प्य?) नवाम्बरैः ।
अर्चयेद्गन्धपुष्पाद्यैः सान्त्वनं तु समाचरेत् ॥ ३।४२ ॥
वृक्ष लोकस्य शान्त्यर्थं गच्छ देवालयं शुभम् ।
देवत्वं यास्यते तत्र दाहच्छेदविवर्जितः ॥ ३।४३ ॥
जलपुष्पप्रदानेन सुधूपैर्बलिभिस्तथा ।
लोकास्त्वां पूजयिष्यन्ति ततो यास्यसि निर्वृतिम् ॥ ३।४४ ॥
एवं तु सान्त्वनं कृत्वा वृक्षमूलस्थितो मुखः(?) ।
शिलायामपि कर्तव्यं सान्त्वनं तु शचीपते ॥ ३।४५ ॥
शिलानाम समुच्चार्य सान्त्वनं तु शिला भवेत् (?) ।
कुठारं तु नमस्कृत्य मन्त्रेणास्त्रेण साधकः ॥ ३।४६ ॥
तं समादाय हस्ताभ्यां वृक्षं छिद्य(त्वा?)पुनः पुनः ।
एवं दारुमयं गृह्य वने वनचरैः सह ॥ ३।४७ ॥
शङ्खतूर्यादिनादैस्तु पटहैस्तालनिस्वनैः ।
गेयनृत्तसमायुक्तमालयं तु व्रजेत् क्रमात् ॥ ३।४८ ॥
यदा दारुमयं गृह्य तदा प्रभृति नित्यशः ।
प्रतिमां कारयेत्तत्र तत्कर्मान्तं हविष्यभुक् ॥ ३।४९ ॥
कर्मान्तरं न कुर्वीत यजमानःसमाहितः ।
शिल्पाचार्यस्य वंश्यश्च शास्त्रप्रामाण्यकोविदः ॥ ३।५० ॥
सारासारं परीक्ष्यात्र शिल्पिना कुशलेन तु ।
तस्याभावे शचीनाथ दारुसङ्ग्रहणं शृणु ॥ ३।५१ ॥
ब्राह्मणः क्षत्रियो वापि वैश्यो वा शूद्र एव वा ।
तान् समानीय मन्त्रज्ञो मूलविद्याः प्रदापयेत् ॥ ३।५२ ॥
तं गृहीत्वा रचीनाथ वृक्षार्थं तु व्रजेद्वने ।
वैष्णवान् भगवद्भक्तान् बलिनः कर्मतत्परान् ॥ ३।५३ ॥
निर्गच्छेद्वनमासाद्य छित्वा वृक्षं हरिं स्मरन् ।
तद्वृक्षं शिरसि स्थाप्य स्मरन्नारायणं प्रभुम् ॥ ३।५४ ॥
ततो यागगृहं गच्छेच्छङ्खतूर्यादिभिः सह ।
मूलालयस्य पूर्वे तु पूर्णकुम्भं निधापयेत् ॥ ३।५५ ॥
अश्वत्थपल्लवैर्युक्तं सापिधानं सवस्त्रकम् ।
सतोयं रत्नसंयुक्तं स्थापयेद्धान्यराशिषु ॥ ३।५६ ॥
तत्कुम्भे चानयेन्मन्त्रान् मूलमन्त्रादिकान् क्रमात् ।
नारायणोपनिषदं सृष्ट्यादिप्रतिपादिकाम् ॥ ३।५७ ॥
तथा पुरषसूक्तं तु जपेद्वै वैष्णवैः सह ।
कुम्भान्तरगताम्भःसु विष्णुं सकलमव्ययम् ॥ ३।५८ ॥
ध्यात्वा गन्धादिनाभ्यर्च्य सूक्तेन पुरुषेण च ।
कुम्भस्य पूर्वभागे तु गोमयेनानुलेपयेत् ॥ ३।५९ ॥
द्रोणद्वयं तदर्धं वा विकिरेत्तण्डुलान् क्रमात् ।
तन्मध्ये ऽष्टदलं पद्मं लिख्यानामिकयापि च ॥ ३।६० ॥
अष्टाक्षरं महामन्त्रं कर्णिकादिषु योजयेत् ।
तत्र मध्ये तु कुम्भस्य सम्प्रोक्ष्यास्त्रेण मन्त्रतः ॥ ३।६१ ॥
प्रोक्षयेन्मूलमन्त्रेण कम्बूदरजलैः पुनः ।
पुनः पुनस्त्रिधा प्रोक्ष्य विष्णुरूपमनुस्मरन् ॥ ३।६२ ॥
पञ्चोपनिषदैर्मन्त्रैः पुनः प्रोक्ष्य समाहितः ।
सम्प्रोक्ष्य मूलमन्त्राभ्यां कुम्भातोयेन साधकः ॥ ३।६३ ॥
पूर्वाधिवासितैर्मन्त्रैः स्नापयेद्दारुमुत्तमम् ।
सुधूपगन्धपुष्पाद्यैरर्चयेत् पूर्ववत् क्रमात् ॥ ३।६४ ॥
नववस्त्रेण सञ्छाद्य परितो बलिमाचरेत् ।
सुदर्शनेन मन्त्रेण पूर्वादिक्रमयोगतः ॥ ३।६५ ॥
हविषा बलिदानं तु सर्वशान्त्यर्थमेव च ।
तद्बलिं शुभदं ऋद्धिं(विद्धि?)सर्वविघ्ननिवारणम् ॥ ३।६६ ॥
तस्मात्सर्वप्रयत्नेन बलिमस्मिन् समाचरेत् ।
प्रभातायां तु शर्वर्यामालयं तु परिभ्रमेत् ॥ ३।६७ ॥
शङ्खतूर्यादिसंयुक्तं गृहीत्वा वृक्षमुत्तमम् ।
वैष्णवैःसह शिष्यैस्तु आचार्यो मन्त्रवित्तमः ॥ ३।६८ ॥
गर्भगेहे तु संस्थाप्य कवाटं बन्धयेत् पुनः ।
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ॥ ३।६९ ॥
नवरात्रं तु वा चास्मिन् कवाटं न विमोचयेत् ।
अङ्कुरार्पणमारभ्य तद्रात्रौ तु शचीपते ॥ ३।७० ॥
आलयेशानभागे तु दक्षिणे चोत्तरे ऽथ वा ।
मण्डपं वाथ कूटं वा प्रपां वाकल्प्य साधकः ॥ ३।७१ ॥
वितानवस्त्रसञ्छन्नमलङ्कारैरलङ्कृतम् ।
मुक्तादामसमायुक्तं पुष्पमाल्यैरलङ्कृतम् ॥ ३।७२ ॥
पालिका चाङ्कुरो(ङ्कुरको?)पेतमष्टदिग्दीपसंयुतम् ।
नालिकेरुलैर्युक्तं चामरैरुपशोभितम् ॥ ३।७३ ॥
एवं लक्षणसंयुक्तं मण्डपं चानयेत्तरुम् ।
अपराह्णे शचीनाथ वैष्णवैःसह मन्त्रवित् ॥ ३।७४ ॥
शङ्खतूर्यादिसंयुक्तं नृत्तगेयसमन्वितम् ।
गर्भगेहं समासाद्य कवाटं प्रविमोचयेत् ॥ ३।७५ ॥
दारुमभ्यर्च्य गन्धाद्यैः मूलमन्त्रमनुस्मरन् ।
सम्प्रोक्ष्य गन्धतोयेन पुण्याहं कारयेत् सुधीः ॥ ३।७६ ॥
मण्डपे मध्यभागे तु खानयेवदवटं क्रमात् ।
द्विहस्तं वा तदर्धं वा तस्यार्धं वा शचीपते ॥ ३।७७ ॥
प्रधानतरुमादाय मन्त्रेणास्त्रेण साधकः ।
स्थापयेन्मूलमन्त्रेण दक्षिणे तु श्रियं न्यसेत् ॥ ३।७८ ॥
उत्तरे तु न्यसेत् पुष्टिं तत्तन्मूलं यथाक्रमम् ।
संवत्सरसहस्रायुर्गतं स्मृत्य तरुं परम् ॥ ३।७९ ॥
तन्मूले सलिलं न्यस्य पुण्डरीकाक्षविद्यया ।
तत्तन्मूलेन वा पश्चाज्जलदानं यथारुचि ॥ ३।८० ॥
सितपुष्पैः समाराध्य तस्मात्सकलमव्ययम् ।
मन्त्रहीनं क्रियाहीनं सर्वं वै क्षन्तुमर्हसि ॥ ३।८१ ॥
एवमुक्त्वा नमस्कृत्य दारुमूलं तु मन्त्रवित् ।
एवं कृत्वा ततो दारुसङ्ग्रहं पुनरारभेत् ॥ ३।८२ ॥
अधिवासादिसर्वाणि चास्मिन् पूर्ववदाचरेत् ।
शिल्पिनं पूजयित्वा तु दारुं छिद्य (त्वा?) पनुः पुनः ॥ ३।८३ ॥
तेनैव (तैरेव?) वैष्णवैर्युक्तो मूलमूर्तिमनुस्मरन् ।
अन्यथा फलमाप्नोति ग्रामनाशो धनक्षयः ॥ ३।८४ ॥
स्थाननाशो भवेत्तत्र सम्भवेन्नात्र संशयः ।
एवं दारुमयं गृह्य पुनःसंस्कारवत् क्रमात् ॥ ३।८५ ॥
शिल्पशास्त्रानुसारेण कारयेन्मूलमुत्तमम् ।
आचार्यं पूजयेत् पश्चात् हेमवस्त्राङ्गुलीयकैः ॥ ३।८६ ॥
तथैव शिल्पिनं पूज्य शिलाग्रहणमारभेत् ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां दारुसङ्ग्रहणविधिर्नाम तृतीयो ऽध्यायः ॥