द्वितीयो ऽध्यायः
विष्वक्सेनः—
अथातःसम्प्रवक्ष्यामि मण्डपादिक्रियां क्रमात ।
मण्डपश्चैव कुण्डानि स्रुक्स्रुवं(वौ?)चाष्टमङ्गलम् ॥ २।१ ॥
तोरणं चैव तन्नाम तेषां पूजाविधिं क्रमात् ।
द्वारपालपताकाश्च तेषां न्यासविधिं क्रमात् ॥ २।२ ॥
शचीपते विविक्तेन गुह्याद्गुह्यविधिं क्रमात् ।
मण्डपं पूर्वदिग्भागे पुष्टिश्रीवर्धनं भवेत् ॥ २।३ ॥
सर्वविघ्नोपशमनं याम्ये चैव यशस्करम् ।
जयदं वारुणे भागे धनदं चोत्तरे दिशि ॥ २।४ ॥
आग्नेये नैऋते वापि वायव्यैशा(शे?)शचीपते ।
कल्पयेन्मण्डपं चैवं पूर्वपूर्वा गरीयसी ॥ २।५ ॥
यजमानेच्छया कुर्यात् अन्यदेशे न कारयेत् ।
मण्डपं त्रिविधं प्रोक्तं हीनं मध्यममुत्तमम् ॥ २।६ ॥
हीने हीनं तु कर्तव्यं मध्यमे मध्यमं पुनः ।
उत्तमे चोत्तमं चैव मण्डपं विधिना पुनः ॥ २।७ ॥
पञ्चोत्तरदशं(?)वापि दशहस्तमथापि वा ।
षोडशस्तम्भसंयुक्तं मण्डपं कारयेत् क्रमात् ॥ २।८ ॥
अधमं तद्विजानीयात् मध्यमं शृणु सुव्रत ।
षोडशं द्वादशं(?)वापि मध्यमं मण्डपं विदुः ॥ २।९ ॥
चतुर्विंशतिहस्ताच्च विंशद्धस्तान्तमेव वा ।
उत्तमं तद्विज्ञानीयात् सूत्रपातविधिं शृणु ॥ २।१० ॥
प्रासादमण्डपाद्वापि प्राकारात् पीठतो ऽपि वा ।
एकहस्तं द्विहस्तं वा त्रिहस्तं वा शचीपते ॥ २।११ ॥
विसृज्य देशिकः कुर्यात् प्रतिष्ठामण्डपं शुभम् ।
सर्वलक्षणसंयुक्तं आचार्येच्छानुरूपतः ॥ २।१२ ॥
पातयेद्ब्रह्मसूत्रं तु यावन्मण्डपगोचरम् ।
त्रिभागीकृत्य सूत्रेण रेखाश्चत्वारि(?)कारयेत् ॥ २।१३ ॥
पूर्वपश्चिमतश्चैव तथा वै दक्षिणोत्तरम् ।
त्रिकूटं कारयित्वा तु भागं तत्र तु कारयेत् ॥ २।१४ ॥
कोणेषु चैव सर्वेषु कोणस्तम्भान् प्रकल्पयेत् ।
सूत्रसन्धिषु सर्वेषु स्तम्भानन्यान् प्रकल्पयेत् ॥ २।१५ ॥
मण्डपाङ्गानि सर्वाणि चान्यानि तु शचीपते ।
युक्त्या युक्तिविशेषेण कारयेत्तु यथाविधि ॥ २।१६ ॥
चतुर्द्वारसमायुक्तं वितानाद्यैर्विभूषितम् ।
एवं तु मण्डपं कृत्वा सप्ताहात्पूर्वमेव तु ॥ २।१७ ॥
मण्डपस्यानुरूपेण मध्ये वेदिं तु कारयेत् ।
आमेष्टकाभिः पक्वाभिः वेदिकां कारयेत् क्रमात् ॥ २।१८ ॥
उत्तमे ऽप्युत्तमां कुर्यान्मध्यमे मध्यमां कुरु ।
अधमे ऽप्यधमां कृत्वा तन्माने पुटमानतः(?) ॥ २।१९ ॥
द्विताकोच्छ्रायसंयुक्तां दर्पणोदरसन्निभाम् ।
वेदिकां क्रमशः कृत्वा कुण्डानि परिकल्पयेत् ॥ २।२० ॥
त्रितालं वेदिकायां तु दूरीभूतानि सर्वशः ।
चतुस्तालं द्वितालं वा विसृज्य परितः क्रमात् ॥ २।२१ ॥
(त्रितालं वेदिकायास्तु विसृज्य परितः क्रमात् ।
चतुस्तालं द्वितालं वा दूरीभूतानि सवर्शः?) ॥ २।२१* ॥
कारयेद्वह्निकुण्डानि तुर्याश्रादीनि साधकः ।
प्राक्पूर्वं॥॥॥॥॥॥॥॥॥प्रत्यक्संस्थितमन्ततः ॥ २।२२ ॥
तस्यामास्फालयेत् पश्चादायतं दक्षिणोत्तरम् ।
एकहस्तं द्विहस्तं वा ज्ञात्वा मानं तु लाञ्छयेत् ॥ २।२३ ॥
द्वाभ्यां द्वाभ्यामथैकैकं लाञ्छयेत् कोणमत्स्यकम् ।
दिक्सूत्राणि क्रमात्तेषु प्रसार्यास्फाल्य यत्नतः ॥ २।२४ ॥
चतुरश्रीकृतं क्षेत्रं चतुष्कोणसमं शुभम् ।
चतुरभ्यधिकं विंशदङ्गुलं चतुरश्रकम् ॥ २।२५ ॥
सूत्रेण सूत्रयित्वा तु क्षेत्रं तावत् खनेत् क्षितिम् ।
तस्यार्धं वा खनित्वा तु शिल्पिना कुशलेन तु ॥ २।२६ ॥
कारयेच्चतुरश्रादिकुण्डानि विधिवत् क्रमात् ।
तालमानेन सर्वत्र कुण्डानि परितः क्रमात् ॥ २।२७ ॥
कारयेच्चतुरश्रादि विस्तारायामतादृशम् (तः समम्?) ।
सूत्रेण सूत्रयित्वा तु क्षेत्रं तावत् खनेत् क्षितिम ॥ २।२८ ॥
खातस्य मेखलाः कार्याःत्यक्त्वा चैवाङ्गुलिद्वयम् ।
प्रथमा सात्विकी प्रोक्ता द्वितीया राजसी मता ॥ २।२९ ॥
तृतीया तामसी पूर्वा द्वादशाङ्गुलमुच्छ्रिता ।
अष्टाङ्गुला द्वितीया तु तृतीया चतुरङ्गुला ॥ २।३० ॥
चतुरङ्गुलविस्ताराः सर्वाः कार्यास्तु सन्ततम् ।
योनिर्दशाङ्गुला रम्या षट्चतुद्वर्यङ्गुलाग्रका ॥ २।३१ ॥
योनिर्योनिरिवा(समा?)कारा गजोष्ठसदृशापि(शी तु?)वा ।
क्रमान्निम्ना तु कर्तव्या चतुरङ्गुलमायता ॥ २।३२ ॥
मूलं तु त्र्यङ्गुलं ज्ञेयमग्रं तस्य षडङ्गुलम् ।
एकहस्तादि(स्तस्य?)कुण्डस्य लक्षणं कथितं त्विदम् ॥ २।३३ ॥
द्विहस्ते द्विगुणं प्रोक्तं नाभिश्चैव तु मेखला ।
एकमेखलकं वापि कुण्डं सङ्क्षेपकर्मणि ॥ २।३४ ॥
कुण्डार्धं कोणभागार्धं दिशि चोत्तरतो बहिः ।
पूर्वपश्चिमतो यत्नात् लाञ्छयित्वा तु मध्यतः ॥ २।३५ ॥
सर्वतो भ्रामितं कुण्डमर्धचन्द्रं भवेत् स्फुटम् ।
तत्कुण्डं सर्वसिद्ध्यर्थं सर्वसम्पद्विवर्धनम् ॥ २।३६ ॥
सर्वविघ्नोपशमनं दक्षिणे कारयेद बुधः ।
कुण्डाद्येवं(द्यव?)स्थितं सूत्रं कोणे यदतिरिच्यते ॥ २।३७ ॥
तदर्थं दिशि संस्थाप्य भ्रामितं वर्तुलं भवेत् ।
वृत्तं तु परमं ज्ञेयं सर्वदुःखनिवारणम् ॥ २।३८ ॥
अनावृष्टिभयं नास्ति अतिवृष्टिभयं तथा ।
पद्माकारं तु सर्वत्र मेखलायां तु वर्तुलम् ॥ २।३९ ॥
प्रत्येकैकं शचीनाथ मेखलोपरि साधकः ।
द्वादशं वा दलं लिख्य चाष्टपत्रं सकर्णिकम् ॥ २।४० ॥
तत्कुण्डं पद्ममित्युक्तं सर्वशास्त्रविशारदैः ।
ब्रह्मवृद्धिकरं ज्ञेयं यज्ञस्वाध्यायवृद्धिदम् ॥ २।४१ ॥
तथैव चतुरश्रं तु इति शास्त्रस्य निश्चयः ।
त्रिकोणं वाब्जकुण्डं वा साधकेच्छानुरूपतः ॥ २।४२ ॥
सोमे तु कारयेद्धीमान् सर्वविघ्नोपनाशनम् ।
पञ्चत्रिंशाङ्गुलं वापि द्वादशाङ्गुलमेव वा ॥ २।४३ ॥
सङ्गृह्याचार्यतःसूत्रं प्रसार्यास्फाल्य यत्नतः ।
नैऋते ह्यनिले चैव लाञ्छयेत् कोणमत्स्यकम् ॥ २।४४ ॥
तथैव लाञ्छयेदैन्द्रे तत्त्रिकोणं भवेच्छुभम् ।
कारयेदवटं धीमान् शिल्पिना कुशलेन तु ॥ २।४५ ॥
तत्तुद्रूपेण कुण्डेषु मेखलां परितः क्रमात् ।
कारयेत्तु शचीनाथ साधकः परमार्थवित् ॥ २।४६ ॥
एतत्त्रिकोणमुद्दिष्टं शेषं साधारणं भवेत् ।
कुण्डपङ्क्तिः समाख्याता प्रकृतिस्त्रिगुणात्मिका ॥ २।४७ ॥
सा योनिः सर्वभूतानां सिद्ध्यर्थं तु शचीपते ।
विद्यामन्त्रगणानां तु विमुक्तेश्चैव कारणम् ॥ २।४८ ॥
प्राच्यां शिरःसमाख्यातं बाहू कोणे व्यवस्थितौ ।
ऐशान्याग्नेयसञ्ज्ञे तु यङ्घा वायव्यनैऋते ॥ २।४९ ॥
उदरं कुण्डमित्युक्तं योनिर्योनिर्विधीयते ।
मेखलात्रितयं चैव गुणत्रयमुदाहृतम् ॥ २।५० ॥
एवं सङ्क्षेपतः प्रोक्तं कुण्डानां लक्षणं क्रमात् ।
स्रुक्स्रुवौ मङ्गलांश्चैव (लान्यष्टौ?)तोरणानि तथैव च ॥ २।५१ ॥
प्रवक्ष्याम्यधुना चैव तेषां लक्षणमुच्यते ।
अश्वत्थखदिराद्यैर्वा चतुर्विंशद्भि (?)रङ्गुलैः ॥ २।५२ ॥
प्रतिष्ठाद्युत्सवे चैव होमार्थं कारयेत् स्रुवम् (चम्?) ।
सप्तपञ्चाङ्गुलं वापि विस्तारं चतुरश्रकम् ॥ २।५३ ॥
त्रिभागेन भवेद्गर्तं मध्ये वृत्तं सुशोभनम् ।
तिर्यगूर्ध्वं समं वापि तदर्धं वा खनेत् स्रुवम् (चम्?) ॥ २।५४ ॥
अङ्गुलस्य चतुर्थांशं व्यपोह्यान्ते ऽवटस्य तु ।
तस्यान्ते मेखलां सम्यक् गर्तं वै परितः क्रमात् ॥ २।५५ ॥
कारयेन्मेखलामेकामुत्सेधं तु तथैव च ।
मेखलायास्तु परितः लिखेदब्जदलाकृतिम् ॥ २।५६ ॥
द्वादशाष्टदलं वापि कारयेन्मेखलाधरे ।
कर्णिकां गर्तमध्ये तु लिखेच्छिल्पप्रमाणतः ॥ २।५७ ॥
दलान्ते वलयं कुर्यात् चतुरश्रं समन्ततः ।
तदङ्गुलार्धविस्तारं कलाबिन्दुविभूषितम् ॥ २।५८ ॥
सर्वालङ्कारसंयुक्तं द्विरेखायुक्समाचरेत् ।
द्वादशाष्टकमेवं वा यथारुचि लेखित् क्रमात् ॥ २।५९ ॥
कण्ठं त्रिभागविस्तारं सार्धाङ्गुलसमायतम् ।
द्विरङ्गुलायतं वापि तदग्रे तु मुखं भवेत् ॥ २।६० ॥
चतुरङ्गुलविस्तारं पञ्चाङ्गुलमथापि वा ।
त्रिकं द्व्यङ्गुलमात्रं स्यान्मध्ये धारां सुशोभनाम् ॥ २।६१ ॥
सुषिरं कण्ठदेशे स्यात् प्रविशेच्छिबिक(?) यथा ।
धाराया दक्षिणे वामे मुखे वृत्तं समालिखेत् ॥ २।६२ ॥
कण्ठोर्ध्वे तु लिखेदास्यं सुशोभनमतः परम् ।
नासिकामुखमेकं वा वराहाननमेव च ॥ २।६३ ॥
व्याघ्रगोमुखमेव स्यात् यथारुचि समाचरेत् ।
स्रुक्पृष्ठं शोधयित्वा तु परितो ऽष्टदलं लिखेत् ॥ २।६४ ॥
वृत्तापादं ततो बाह्ये न्यसेद्द्व्यङ्गुलमेव तु ।
तथैव दण्डमूले तु पदन्यासं यथाविधि ॥ २।६५ ॥
अङ्गुष्ठाङ्गुलमानेन तद्वृत्ताङ्घ्रिं समाचरेत् ।
दण्डद्वितीयमध्यान्ते तृतीयस्याधरे ऽम्बुजम् ॥ २।६६ ॥
अष्टपत्रसमायुक्तमालिखेत् फलकायुतम् ।
घृतादिमध्यमे भागे कारयेत् परितः क्रमात् ॥ २।६७ ॥
दण्डमूले ऽब्जमुकुलं त्रिलेखायुक्समाचरेत् ।
चतुरभ्यधिकं विंशदङ्गुलं तच्छचीपते ॥ २।६८ ॥
स्रुवं तु कारयेत्पश्चात् आननेन समन्वितम् ।
चर(ष?)कं द्व्यङ्गुलं वृत्तं कर्तव्यं तु सुशोभनम् ॥ २।६९ ॥
गोष्पदं तु यथामग्नमल्पपङ्के तथा भवेत् ।
स्रुव(स्रुचो?) मूले मुखाद्ये च त्रिरेखा यवमानतः ॥ २।७० ॥
कारयेत्तु शचीनाथ सा च स्रुक् सर्वसिद्धिदा ।
मुखादित्र्यङ्गुलं हित्वा तदन्ते ऽङ्घ्रिं समाचरेत् ॥ २।७१ ॥
वृत्तं सुशोभनं पृष्ठे तद्देहाङ्गुलमानतः ।
तथैव स्रुवमूले ऽङ्घ्रिं विस्तारायामतादृशम् ॥ २।७२ ॥
पद्मस्य मुकुलाकारं स्रुवमूले ऽथ कारयेत् ।
परस्याक्ष्यङ्घ्रिहीनेन(?) कारयेद्वाथ स्रुक्स्रुवौ ॥ २।७३ ॥
एतत् स्रुक्स्रुवमाख्यातं मङ्गलाष्टकमुच्यते ।
लोहजान्येव कुर्वीत अलाभे काष्ठजानि च ॥ २।७४ ॥
अश्वत्थं वा पलाशं वा खदिरं वटमेव वा ।
पञ्चविंशाङ्गुलायामं द्वादशाङ्गुलविस्तृतम् ॥ २।७५ ॥
द्व्यङ्गुलं तु घनं ज्ञेयं पीठं तु चतुरङ्गुलम् ।
तस्योपरि लिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥ २।७६ ॥
शङ्खं चक्रं पताकं च श्रीवत्सं दर्पणं वृषम् ।
मत्स्ययुग्मं च कुम्भं च मङ्गलाष्टकमिष्यते ॥ २।७७ ॥
द्वादशाङ्गुलमायामं शङ्खादीनां प्रचक्षते ।
तत्तद्रूपानुसारेण विस्तारं कारयेद्बुधः ॥ २।७८ ॥
चामरे च महादीपे तेषां पार्श्वेषु कल्पयेत् ।
शङ्खादिमङ्गलानां तु छत्रं चोपरि विन्यसेत् ॥ २।७९ ॥
अधुना तोरणानां तु वक्ष्यते लक्षण क्रमात् ।
अश्वत्थतोरणं प्राच्यां ऋग्वेदश्चैन्द्रदैवतः ॥ २।८० ॥
औदुम्बरं तथा याम्ये यजुश्च यमदैवतम् ।
न्यग्रोधं तु प्रतीच्यां वै सामं(?)वरुणदैवतम् ॥ २।८१ ॥
उत्तरे सोमदैवत्यः प्लक्षश्चाथर्वणो भवेत् ।
अश्वत्थं वाप्यभावे तु पूर्वादि चतुरोदिशि ॥ २।८२ ॥
कल्पयेत् स्वस्वनाम्ना तु तत्तद्वृक्षस्वरूपकम् ।
सप्तहस्तसमायुक्तं पञ्चहस्तमथापि वा ॥ २।८३ ॥
चतुर्हस्तायतं वापि यथारुचि समाचरेत् ।
तदर्धं पट्टिका तिर्यक् त्रित्रिशूलसमन्वितम् ॥ २।८४ ॥
शूलायामं द्वितालं वा पादोनं वा शचीपते ।
पादशूलं मया प्रोक्तं नाहमेकादशाङ्गुलम् ॥ २।८५ ॥
नवाङ्गुलं वा देवेन्द्र यथारुचि समाचरेत् ।
पादौ तौ पट्टिका तिर्यक् द्वाभ्यां द्वाविंशदङ्गुलम् ॥ २।८६ ॥
वत्तं वा चतुरश्रं वा युक्त्या कुर्याद्यथाविधि ।
तोरणान् स्थापयेद्द्वारे स्वस्थाने च स्ववृक्षजान् ॥ २।८७ ॥
खात्वा भूमौ द्वितालं तु मण्डपे मूलविद्यया ।
अथैकतालमानं वा खातयेदवटं धराम् ॥ २।८८ ॥
तत्तद्गर्तेषु संस्थाप्य तोरणानि यथाक्रमम् ।
सुशोभनं तु पूर्वं स्यात् सुभद्रं नाम दक्षिणे ॥ २।८९ ॥
सुबन्धुं वारुणे चैव सुहोत्रं नाम चोत्तरे ।
एतत्स्वनाममन्त्रेण पूजयेद्देशिकोत्तमः ॥ २।९० ॥
कुमुदः कुमुदाक्षश्च प्राच्यां दौवारिकौ स्मृतौ ।
दक्षिणद्वारपालाख्यौ पुण्डरीको ऽथ वामनः ॥ २।९१ ॥
शङ्कुकर्णः सर्पनेत्रः प्रतीच्यां द्वारपालकौ ।
उत्तरद्वारपालौ तु सुमुखः सुप्रतिष्ठितः ॥ २।९२ ॥
तोरणाभ्यन्तरे स्थाप्य यथाष्टौ च यथादिशि ।
रक्ते पताके पूर्वस्यां दक्षिणस्यां तु पीतके ॥ २।९३ ॥
पश्चिमे ऽञ्जनसङ्काशे शुक्लवर्णे तथोत्तरे ।
कुमुदाद्यांश्च भूतेशान् ध्वजेषु परिकीर्तितान् ॥ २।९४ ॥
एवं सङ्क्षेपतः प्रोक्तं मण्डपादि च स्रुक्स्रुवम् ।
पताकान्तं शचीनाथ दारुसङ्ग्रहणं शृणु ॥ २।९५ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां मण्डपादिलक्षणविधिर्नाम द्वितीयो ऽध्यायः