प्रथमो ऽध्यायः
विष्वक्सेनः—
अथातः सम्प्रवक्ष्यामि भूपरीक्षाविधिं परम् ।
कर्षयेच्छोधयेद्भूमिं प्रागुदक्प्रवणां शुभाम् ॥ १।१ ॥
अस्थिकेशादिरहितां कपालाङ्गरवर्जिताम् ।
सरीसृपाद्या व्याघ्राद्या ये चान्ये दुष्टजन्तवः ॥ १।२ ॥
यस्यां भूमौ प्रदृश्यन्ते तां भूमिं वर्जयेत् सदा ।
आरम्भे श्वशृगालैश्च सङ्कीर्णा बन्धुनाशिनी ॥ १।३ ॥
पुरीषभूमिःसर्वेषां कर्तुर्दुःखप्रदा सदा ।
तुषभस्मास्थिकेशैश्च काष्ठलोष्टकपालकैः ॥ १।४ ॥
क्रिमिकीटपतङ्गैश्च शर्करैश्च समन्विता ।
अशुभाश्रीकरी भूमिः तस्माद्यत्नात् परीक्षयेत् ॥ १।५ ॥
एवं दुर्लक्षणैश्चान्यैर्युक्तां यत्नेन वर्जयेत् ।
ब्राह्मणस्य सिता भूमिः रक्ता वै क्षत्रियस्य तु ॥ १।६ ॥
पीतवर्णा तु वैश्यस्य कृष्णा शूद्रस्य कीर्तिता ।
ब्राह्मणी घृतगन्धा स्यात् क्षत्रिया रक्तगन्धिनी ॥ १।७ ॥
मूत्रगन्धा तु या वेश्या शूद्रा विष्ठानुगन्धिनी ।
मधुरा ब्राह्मणी प्रोक्ता कषाया क्षत्रिया स्मृता ॥ १।८ ॥
रि(ति?)क्ता वैश्या तु कटुका शूद्रा चेति प्रकीर्तिता ।
एवं परीक्ष्य यत्नेन वर्णगन्धरसादिभिः ॥ १।९ ॥
खातयेद्रत्निमात्रं तु पांसुमुद्धृत्य पूरयेत् ।
पांसुरप्यधिको यत्र सा भूमिः सर्वकामदा ॥ १।१० ॥
उत्तमा यत्र वै पांसुः समो ह्यर्धफलप्रदा ।
मध्या पांसुर्यत्र नृन सारिष्टा फलदाधमा ॥ १।११ ॥
तृ(उ?)प्तानि सर्वबीजानि प्ररोहन्ति हि यत्र वै ।
त्रिरात्राभ्यन्तरेणैव सा भूमिश्चोत्तमा मता ॥ १।१२ ॥
मध्यमा पञ्चरात्रेण अधमा सप्तरात्रिका ।
यस्यां तु न प्ररोहन्ति तां प्रयत्नेन वर्जयेत् ॥ १।१३ ॥
सस्यानां फलकाले तु गवां तृप्तिं च कारयेत् ।
ततस्तु लोकपालांस्तु पूजयेत् साधकोत्तमः ॥ १।१४ ॥
अन्नैरपूपैर्लाजैस्तु मध्यरात्रे शचीपते ।
एवं बलिं प्रकुर्वीत पृथग्वा समयोगतः ॥ १।१५ ॥
तत्क्षेत्रं खातयेत्पश्चात् चतुरश्रं समन्ततः ।
पुरुषद्वयं खनित्वा तु तदर्धं वापि खातयेत् ॥ १।१६ ॥
पुरुषार्धप्रमाणं वा खड्गमानप्रमाणतः ।
एवं क्षितिं खनित्वा तु तन्मध्ये से च(पूर?)येज्जलम् ॥ १।१७ ॥
तन्मध्ये तु विधिं पूज्य ब्रह्मबीजेन मन्त्रवित् ।
गन्धपुष्पैरलङ्कृत्य घण्टाशब्दसमन्वितम् ॥ १।१८ ॥
शङ्खादिघोषसंयुक्तं वीणावेणुसमन्वितम् ।
एवं विधिं समभ्यर्च्य अधिवासनमारभेत् ॥ १।१९ ॥
तस्य दक्षिणपार्श्वे तु पश्चिमे चोत्तरे ऽपि वा ।
वस्वादीनां तु तन्मध्ये मण्डपं कल्प्य साधकः ॥ १।२० ॥
पूर्णकुम्भं न्यसेन्मध्ये पक्वबिम्बफलाकृतिम् ।
द्रोणद्वयेन सम्पूर्णं त्रिसूत्रैःसमलङ्कृतम् ॥ १।२१ ॥
गन्धतोयेन सम्पूर्य गन्धपुष्पसमन्वितम् ।
द्रोणाष्टशालीनास्तीर्य पद्ममष्टदलं लिखत् ॥ १।२२ ॥
कर्णिकायां न्यसेत्कुम्भं वस्त्रयुग्मेन वेष्टितम् ।
नवरत्नसमायुक्तं सौवर्णायुधपञ्चयुक् (?) ॥ १।२३ ॥
वासुदेवस्य मन्त्रेण स्थापयेद्देशिकोत्तम्ः ।
सर्वायुधसमायुक्तं सर्वदेवावृतं ततः ॥ १।२४ ॥
हिरण्यं सर्वभूतज्ञं सर्वभूतहृदि स्थितम् ।
आत्मानमन्तरात्मानं परमात्मानमव्ययम् ॥ १।२५ ॥
नारायणमणीयांसं सृष्टिसंहारविक्रमम् (कारणम्?) ।
एवं हि पुरुषं विष्णुं ध्यायेत् कुम्भोदमध्यमे ॥ १।२६ ॥
एवं ध्यात्वा समभ्यर्च्य गन्धाद्यैः सुमनोरमैः ।
प्रत्येकं द्रोणशाल्यूर्ध्वे विद्येशान् परितो न्यसेत् ॥ १।२७ ॥
पूर्ववद्द्रव्यसंयुक्तान् घटेष्वभ्यर्च्य साधकः ।
स्वैः स्वैर्मन्त्रैश्च गन्धाद्यैरुपचारैर्मनोहरैः ॥ १।२८ ॥
एवं सम्पूज्य विद्येशान् होमसंस्कार(कर्म स?)मारभेत् ।
कुम्भस्य पूर्वदिग्देशे कुण्डं च चतुरश्रकम् ॥ १।२९ ॥
वृत्तं वा शिल्पिना कुर्यात् स्थण्डिले वा समाचरेत् ।
प्रासादारम्भकाले तु मध्यरात्रे शचीपते ॥ १।३० ॥
शङ्खतूर्यादिसंयुक्तं स्वस्तिसूक्तसमन्वितम् ।
सर्वविघ्नोपशमनं पालाशं गृह्य देशिकः ॥ १।३१ ॥
अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा ।
नारसिंहेन मन्त्रेण मध्यमे जुहुयात् सकृत् ॥ १।३२ ॥
ओदुम्बरसमिद्भिर्वा[प्यटष्टाविंशतिसङ्ख्यया ।
प्रत्येकं मूलमन्त्रेण तथैवाज्यं समाचरेत् ॥ १।३३ ॥
चरुं पुरुषसूक्तेन षोडशाहुतिमुत्तमाम् ।
जुहुयात् कुण्डमध्ये तु सर्वसम्पत्सुखावहम् ॥ १।३४ ॥
एवं कृत्वा विधानेन पूर्णाहुतिमथाचरेत् ।
स्रुचा मूलेन मन्त्रज्ञो द्वादशाक्षरसञ्ज्ञया ॥ १।३५ ॥
कुडुबं वा तदर्धं वा तस्यार्धं वा शचीपते ।
कपिलाज्यमथाज्यं वा सङ्गृह्य जुहुयात् क्रियाम्(क्रमात्?) ॥ १।३६ ॥
परिधिप्रभृतीन् दग्ध्वा दक्षिणामाददेत्ततः ।
दक्षिणान्ते शचीनाथ शङ्खाद्यैर्घोषयेत् क्रमात् ॥ १।३७ ॥
नृत्तगीतादिसंयुक्तं सुपुण्याहपुरःसरम् ।
वेदाध्ययनसंयुक्तमधिवासनमाचरेत् ॥ १।३८ ॥
एवं समाप्य होमान्तं पूर्वरात्रे ऽधिवासयेत् ।
प्रभातायां तु शर्वर्यां स्नात्वाचार्यः समाहितः ॥ १।३९ ॥
पूर्ववत् पूजयेत् कुम्भान् प्रोक्षयेत् क्षितिमध्यमे ।
स्वैः स्वैर्मन्त्रैस्तु मतिमान् सीमायां सर्वदिक्षु च ॥ १।४० ॥
भूतक्रूरबलिं दद्यात् अष्टदिक्षु समन्ततः ।
दिग्बन्धं कारयेत् पश्चात् अस्त्रमन्त्रेण मन्त्रवित् ॥ १।४१ ॥
कुम्भोदकादशेषं तु क्षितिमध्ये नयेत् क्रमात् ।
ततो ऽवटं क्रमात् पूर्य मृद्भिः सिकतसंयुतम् ॥ १।४२ ॥
कारयेनमुद्गरैःसम्यक् वैष्णवैर्वेदपारगैः ।
सूत्रशङ्कून् खनित्वा तु चैत्रे मासे शुभे दिने ॥ १।४३ ॥
सूत्रेण सूत्रयेत् पश्चाच्छिल्पिना कुशलेन वै ।
प्रासादं कारयेत् पश्चात् आचार्यः शिल्पिभिः सह ॥ १।४४ ॥
साधको मन्त्रयोग्यस्तु स्थपतिःकर्मयोग्यतः (कः?) ।
यदिदं भूमिशुद्ध्यर्थं प्रोक्षणं परमं शुभम् ॥ १।४५ ॥
एवं सङ्क्षेपतः प्रोक्तं प्रासादार्थं शचीपते ।
अनेनैव विधानेन यः कुर्यात् पुण्यकर्मभाक् ॥ १।४६ ॥
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ।
राष्ट्रवृद्धिकरं पुण्यमायुरारोग्यवर्धनम् ॥ १।४७ ॥
धनधान्यानि वर्धन्ते राजराष्ट्रादि वर्धते ।
आचार्यं पूजयेत् पश्चात् वस्त्रैराभरणैरपि ॥ १।४८ ॥
शिल्पिनं पूजयेत् तत्र वस्त्रैः कनककुण्डलैः ।
दैवज्ञं पूजयेत् पश्चात् नववस्त्राङ्गुलीयकैः ॥ १।४९ ॥
सदस्यान् पूजयेत् पश्चात् मुखवासनपूर्वकम् ।
एवङ्क्रमेण सम्पूज्य वस्त्राभरणसंयुतम् ॥ १।५० ॥
ततस्तु कारयेद्गेहं शिल्पिना कुशलेन तु ।
सुमुहूर्ते सुलग्ने तु बालस्थानमथारभेत् ॥ १।५१ ॥
बालस्थानं पुराकल्प्य पश्चान्मूलालयं क्रमात् ।
कारयेत्तु विशेषेण रत्नन्याससमन्वितम् ॥ १।५२ ॥
हस्तमात्रं खनित्वा तु ब्रह्मस्थाने शचीपते ।
सहस्रं शतनिष्कं वा तस्यार्धं वार्धमेव च ॥ १।५३ ॥
विन्यसेत् क्षितिमध्ये तु तप्तकाञ्चनमुत्तमम् ।
मरकतादीनि रत्नानि सङ्गृह्यास्त्रेण साधकः ॥ १।५४ ॥
ब्रह्मादीशावसानं तु विन्यसेत् स्वस्वमन्त्रतः ।
मध्यरात्रे सुगुप्तेन यजमानेन संयुतः ॥ १।५५ ॥
शङ्खादिघाषसंयुक्तं गर्भाधानं समाचरेत् ।
ताम्रेण फेलकां कृत्वावटमाच्छाद्य पूरयेत् ॥ १।५६ ॥
शिलाभिरिष्टकाभिर्वा तु प्रच्छाद्यावटं क्रमात् ।
गन्धपुष्पादिनाभ्यर्च्य घण्टाशब्दसमन्वितम् ॥ १।५७ ॥
ब्रह्मबीजेन तत्सर्वं साधयेत् साधकोत्तमः ।
पश्चाद्देवीं समभ्यर्च्य श्रियार्थं परमां शुभाम् ॥ १।५८ ॥
वासुदेवस्य (वं स्व?) मन्त्रेण पश्चात् सम्पूजयेत् क्रमात् ।
एवं सङ्क्षेपतः प्रोक्ता भूपरीक्षा ह्यनुत्तमा ॥ १।५९ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां भूपरीक्षाविधिर्नाम प्रथमो ऽध्यायः ॥